7---ArdhadhAtukaprakaraNam/16---luT-lakAraH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 130:
 
 
<big>लृट्‌ भवति कुत्र ? काशिकायाम्‌ ‘अनद्यतने' इति बहुव्रीहिः इति यदा उक्तं तदानीं व्यामिश्रे लुट्‌ न भवति | विग्रहवाक्यम्‌ अस्ति 'अविद्यमानः अद्यतनः यस्मिन्‌ सः'| अद्यतन-अनद्यतनभविष्यतोः संयोगः यत्र भवति तत्र व्यामिश्रः | तत्पुरुषः उच्यते चेत्‌, विग्रहवाक्यम्‌ अस्ति ‘न अद्यतनः' इत्युक्ते अद्यतनमात्रं न, किन्तु अन्यः अपि भवितुमर्हति |  अद्यतनभेदः अद्यतन-अनद्यतनव्यामिश्रे अपि अस्ति | अतः तत्पुरुषः अस्ति चेत्‌, व्यामिश्रे अपि भवति | इत्युक्ते अद्यतनकालः अस्ति चेत्‌, एवम्‌ अनद्यतनकालः अस्ति चेत्‌, नाम अद्यतन-अनद्यतनव्यामिश्रः अस्ति चेत्‌, तदानीं सः केवलम्‌ अद्यतनः न, अनद्यतनः अपि अस्ति | अतः अद्यतनभेदः अस्ति | अद्यतनभिन्नत्वे सति तत्रापि (व्यामिश्रे) लृट्‌लुट्‌-लकारः स्यात्‌ | तस्य निवारणार्थं बहुव्रीहिसमासः—'अविद्यमानः अद्यतनः यस्मिन्‌ सः' इत्यनेन अद्यतनस्य निषेधः एव उच्यते | अनेन व्यामिश्रः न सम्भवति |</big>