|
|
<big>'भुक्त्वा गच्छति' इत्यादिषु स्थितिषु सामान्यतया अव्यवहिततया आनन्तर्यं विवक्षितम् | सूत्रे नोक्तं, किन्तु '''समानकर्तृकयोः पूर्वकाले''' (३.४.२१) इत्यनेन समानः कर्ता ययोः तौ समानकर्तृत्कौ | अनेन समानकर्तृकव्यापारद्वयम् इति यदा उच्यते, तदानीं तौ च समानकर्तृत्कौ व्यापारौ '''प्रत्यासत्तिन्यायेन''' यदि चिन्त्यते, अव्यवहितौ इति लभ्यते | '''प्रत्यासत्तिन्यायः''' '''नाम प्रत्यासन्ने बुद्धिरन्तरङ्गा भवति''' | इत्युक्ते समीपवर्तिनि पदार्थे बुद्धिः झटिति प्रवर्तते | धातुव्यापाराश्रयः कर्ता इयनेनइत्यनेन यदा कोऽपि पचति, पच्-धात्वर्थव्यापाराश्रयः, यदा पाकं कुर्वन् अस्ति तदानीं तस्मिन् कर्तरि गम्-धात्वर्थव्यापाराश्रयत्वं नास्ति खलु | तर्हि सः कर्ता कीदृशः भवति ? प्रकृतधात्वर्थव्यापाराश्रयत्वं कर्तृत्वम् इति उच्यते | अत्र वक्तव्यं यत् '''प्रत्यासत्तिन्यायः''' इत्युक्ते '''प्रत्यासन्ने बुद्धिरन्तरङ्गा भवति''' | समीपवर्तिनि पदार्थे बुद्धिः शीघ्रं प्रवर्तते | एवं च समानकर्तृकौ तौ व्यापारौ इत्युक्ते प्रत्यासन्नौ एव तौ व्यापारौ ग्राह्यौ | प्रत्यासन्नौ इत्युक्ते अव्यवहितौ | उदाहरणार्थम् 'अद्य विरामः' इत्युक्तम् | तर्हि श्रुत्वा छात्रः पुस्तकं स्यूते संस्थाप्य उत्थाय गन्तुम् उद्युक्तः जातः | तदानीं तस्य बुद्धिः कथं कार्यं करोति इति चेत्, ‘अद्य विरामः' इत्युक्ते अत्रत्यः संस्थायाः एव विरामः | यतः इदानीम् अस्माकं सन्निहिततया इयमेव संस्था अस्ति अतः अत्रैव विरामः इति आशयेन अनेन उक्तम् | इति अवगत्य सः पुस्तकं स्यूते संस्थाप्य गन्तुम् उद्युक्तः |</big>
|