7---ArdhadhAtukaprakaraNam/17---luT-lakAraH-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 814:
 
 
<big>'''तीषसहलुभरुषरिषः''' (७.२.४८) = इष्, सह्, लुभ्, रुष्, रिष् इत्येतेभ्यः पञ्चभ्यः धातुभ्यः तकारादेः आर्धधातुकप्रत्ययस्य इडागमो विकल्पेन भवति | इच्छत्यादेः परस्य तादेरार्धधातुकस्येड्वा स्यात् | एते पञ्च धातवः नियमेन सेटः; अनेन सूत्रेण तकारादि-आर्धधातुकप्रत्यये परे वेटः | इष्‌ एष्टा, एषिता | सह सोढा, सहिता | लुभ लोब्धा, लोभिता | रुष रोष्टा, रोषिता | रिष रेष्टा, रेषिता | तीति किम् ? एषिष्यति | इष्‌ इत्यनेन तुदादिगणीयः च क्र्यादिगणीयः च न तु दिवादिगणीयः | '''इषेस्तकारे श्यन्प्रत्ययात् प्रतिषेधः''' इति वार्तिकेन प्रकृतसूत्रस्य कार्यं दिवादिगणीय-इष्‌-धातोः न भवति | इषश्च सहश्च लुभश्च रुषश्च रिषश्च तेषां समाहारद्वन्द्वः इषसहलुभरुषरिष्‌, तस्मात्‌ इषसहलुभरुषरिषः | ति सप्तम्यन्तम्‌, इषसहलुभरुषरिषः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | विभक्ति-परिणाम इति सिद्धान्तेन प्रसङ्गवशात्‌ ति इत्यस्य षष्ठ्यन्तत्वं जायते, तः इति | '''आर्धधातुकस्येड् वलादेः''' (७.२.३५) इत्यस्मात्‌ '''आर्धधातुकस्य''', '''इट्''' इत्यनयोः अनुवृतिः | '''स्वरतिसूतिसूयतिधूञूदितो वा''' (७.२.४४) इत्यस्मात्‌ '''वा''' इत्यस्य अनुवृतिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—'''इषसहलुभरुषरिषः अङ्गस्यअङ्गात्‌ तः आर्धधातुकस्य वा इट्''' इति |</big>
 
<big><br /></big>