page_and_link_managers, Administrators
5,094
edits
No edit summary |
No edit summary |
||
Line 69:
<big>'''अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्''' (६.१.५९) = उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे | तृप्, दृप्, सृप्, मृश्, स्पृश्, कृष् (भ्वादि,तुदादि च) इति सप्त धातवः अनुदात्ताः च ऋदुपधाः | ऋत् उपधायां यस्य सः ऋदुपधः बहुव्रीहिः, तस्य ऋदुपधस्य | अनुदात्तस्य षष्ठ्यन्तं, च अव्ययपदम्, ऋदुपधस्य षष्ठ्यन्तम्, अन्यतरस्यां सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात् '''उपदेशे''' इत्यस्य अनुवृत्तिः | '''सृजिदृशोर्झल्यमकिति''' (६.१.५८) इअत्यस्मात् '''झलि''', '''अम्''', '''अकिति''' इत्येषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे अनुदात्तस्य ऋदुपधस्य अम् झलि अकिति अन्यतरस्याम्''' |</big>
==== <big> '''सृप्, स्पृश्, मृश्, कृष् इत्येते चत्वारः धातवः अनिटः'''</big> ====
<big>सृप्, स्पृश्, मृश्, कृष् इत्येते चत्वारः धातवः अनिटः; तृप्, दृप् इत्येतौ द्वौ धातू वेटौ |</big>
==== <big> '''तृप्, दृप् इत्येतौ द्वौ धातू वेटौ'''</big> ====
<big>तृप्, दृप् इत्येतौ द्वौ धातू तौ एव यौ अनिट्-हलन्तधातुपाठे उक्तौ— तृपँ प्रीणने दि प० (तृप्यति), दृपँ हर्षमोहनयोः दि प० (दृप्यति) | तर्हि कथम् अत्र वेट्-धातुषु अपि पठितौ ? वस्तुतस्तु एतौ द्वौ धातू मूलतः 'अनुदात्तौ' | अनुदात्तः नाम कः अपि च कथं जानीमः के के धातवः अनुदात्ताः ? अनुदात्तः धातोः एका संज्ञा; अत्र पाणिनिना प्रसङ्गवशात् द्वयोः सूत्रयोः अस्याः संज्ञायाः उपयोगः कृतः— '''एकाच उपदेशेऽनुदात्तात्''' (७.२.१०), '''अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्''' (६.१.५९) | तर्हि 'अनुदात्तः' इति संज्ञा उपयुज्यते अष्टाध्याय्यां, किन्तु अस्मिन् ग्रन्थे के के धातवः अनुदात्ताः इति नोक्तम | प्रायः पाणिनेः धातुपाठे दत्तं स्यात् परन्तु तादृशग्रन्थः आधुनिकयुगे लुप्तः | तर्हि सूत्रद्वयस्य दर्शनेन प्रकटमस्ति यत् अस्याः संज्ञायाः महत्त्वमस्ति | अधुना किं प्रमाणं कस्य कस्य धातोः अनुदात्तसंज्ञा ?</big>
Line 110 ⟶ 108:
<big><br /></big>
==== <u><big>'''सृप्-धातुः अनिट्'''</big></u> ====
<big><br />
सृप् + ता → '''अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्''' (६.१.५९) इत्यनेन अम्-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे → सृ + अम् + प् + ता → सृ + अ + प् + ता → '''इको यणचि''' (६.१.७६) → स्रप् + ता → '''खरि च''' (८.४.५५) → स्रप्ता</big>
|