7---ArdhadhAtukaprakaraNam/19---lRut lakAraH: Difference between revisions

no edit summary
No edit summary
No edit summary
(24 intermediate revisions by 2 users not shown)
Line 1:
<big>{{DISPLAYTITLE:19 - लृट्-लकारः}}</big>
 
 
 
Line 7 ⟶ 8:
|'''<big>2024 वर्गः</big>'''
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/404_lRuT-lakAraH---mAtuH-prakriyA-cintanam_%2B_lRuT-paricayaH_%2B_kriyarthA-kriyA_2024-05-07.mp3 lRuT-lakAraH---mAtuH-prakriyA-cintanam_+_lRuT-paricayaH_+_kriyarthA-kriyA_2024-05-07]</big>
|-
|<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/405_lRuT-lakAraH---kriyArthA-kriyA_%2B_upapada-sangyA_2024-05-14.mp3 lRuT-lakAraH---kriyArthA-kriyA_+_upapada-sangyA_2024-05-14]</big>
|-
|<big>३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/406_lRuT-lakAraH---kriyArthA-kriyA_%2B_upapada-sangyA_%2B_SheSHe_2024-05-21.mp3 lRuT-lakAraH---kriyArthA-kriyA_+_upapada-sangyA_+_SheSHe_2024-05-21]</big>
|-
|<big>४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/407_lRuT-lakAraH---lRuT-SheSHe_%2B_apavAdabhUta-luT-lakAraH_2024-05-28.mp3 lRuT-lakAraH---lRuT-SheSHe_+_apavAdabhUta-luT-lakAraH_2024-05-28]</big>
|-
|<big>५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/408_lRuT-lakAraH---luT-katham-apavAdaH_%2B_vyAmishre-lRuT_2024-06-04.mp3 lRuT-lakAraH---luT-katham-apavAdaH_+_vyAmishre-lRuT_2024-06-04]</big>
|-
|<big>६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/409_lRuT-lakAraH---nyAye-apavAdasya-arthaH_%2B_vyAmishre-lRuT---bahuvriihi-tatpuruShayoh-bhedaH_2024-06-11.mp3 lRuT-lakAraH---nyAye-apavAdasya-arthaH_+_vyAmishre-lRuT---bahuvriihi-tatpuruShayoh-bhedaH_2024-06-11]</big>
|-
|<big>७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/410_lRuT-lakAraH---lRuTah-luTaH-ca-vyavahAraH-kutra_2024-06-18.mp3 lRuT-lakAraH---lRuTah-luTaH-ca-vyavahAraH-kutra_2024-06-18]</big>
|-
|<big>८) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/411_lRuT-lakAraH---lang-lung-liT-luT-lRuT%20ityeShAM-vyavahAra-punassmaraNam_%2B_lRuT-visheShah-smRTi-bodhake-sati_2024-06-25.mp3 lRuT-lakAraH---lang-lung-liT-luT-lRuT ityeShAM-vyavahAra-punassmaraNam_+_lRuT-visheShah-smRti-bodhake-sati_2024-06-25]</big>
|}
 
Line 61 ⟶ 74:
 
 
<big>'''तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्''' (३.३.१०) = एकस्याः क्रियायाः साधनार्थम्‌ अपरस्यां क्रियायाम्‌ उपपदे सति भविष्यदर्थे प्रथमायाः (क्रियायाः) धातुतः तुमुन्‌ च ण्वुल्‌ च प्रत्ययौ भवतः | क्रियार्थायां क्रियायामुपपदे धातोर्भविष्यति काले तुमुन्ण्वुलौ प्रत्ययौ भवतः इति काशिका | अत्र इमौ द्वौ प्रत्ययौ तुमुन्‌ ण्वुल् भविष्यत्यर्थे; तुमुन्‌ भावार्थे, ण्वुल् च कर्त्रर्थे | '''तत्रोपपदं सप्तमीस्थम्''' (३.१.९२) इत्यनेन ’क्रियायां क्रियार्थायाम्’ उपपदसप्तमीविभक्तौ स्तः | ’पठितुं गच्छति’ इत्यस्मिन्‌ पठनक्रियायाः साधनार्थं गमनक्रिया वर्तते | पठनम्‌ अस्ति प्रयोजनं, नाम लक्ष्यं; गमनम्‌ अस्ति साधनम्‌ | पठनम्‌ इति क्रियायाः कृते गमनम्‌ इति क्रिया वर्तते इति कृत्वा गमन-क्रिया अस्ति “क्रियार्था क्रिया” | एतदर्थं गमनक्रियायाः ’उपपद’संज्ञा’उपपद’ संज्ञा भवति | तुमुन्‌ च ण्वुल्‌ च तयोरितरेतरद्वन्दः तुमुन्ण्वुलौ | क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था''',''' तस्यां क्रियार्थायां''',''' बहुव्रीहिः | तुमुन्ण्वुलौ प्रथमान्तं''',''' क्रियायां सप्तम्यन्तं''',''' क्रियार्थायां सप्तम्यन्तं''',''' त्रिपदमिदं सूत्रम्‌ | '''भविष्यति''' '''गम्यादयः''' (३.३.३) इत्यस्मात्‌ '''भविष्यति''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२), '''धातोः  '''(३.१.९१) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''धातोः तुमुन्ण्वुलौ प्रययौ परश्च भविष्यति क्रियार्थायां क्रियायाम्‌''' |</big>
 
 
Line 111 ⟶ 124:
 
 
<big>प्रहराणां पुनस्स्मरणम्‌—एकस्मिन्‌ तिथौ अष्टौ प्रहराः वर्तन्ते | एषु चत्वारः प्रहराः दिनस्य, चत्वारः च रात्रेः | प्रथमप्रहरः आरभ्यते सूर्योदयसमये | तर्हि षड्‌वादने प्रथमप्रहरस्य आरम्भः इति चेत्‌, प्रातःकालस्य षड्‌वादनात्‌ सयङ्कालपर्यन्तम्‌ दिनस्य प्रहराः | उक्तं यत्‌ गतरात्रेः अन्तिमप्रहरात्‌ आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम्‌ अद्यतनकालः  | गतरात्रेः अन्तिमप्रहरः रात्रौ त्रिवादनात्‌ षड्‌वादनपर्यन्तम्‌ | आगम्यमानरात्रेः प्रथमप्रहरः इत्युक्ते सयङ्कालस्यसायङ्कालस्य षड्‌वादनात्‌ नववादनपर्यन्तम्‌ | अतः अद्यतनकालः इत्यस्मिन्‌ आहत्य षड्‌प्रहराः सन्ति | रात्रिवेलायां त्रिवादनात्‌ आरभ्य आगम्यमानरात्रेः नववादनपर्यनम्‌नववादनपर्यन्तम्‌ |</big>
 
 
Line 132 ⟶ 145:
 
 
<big>'''लृटोऽपवादः''' इत्यनेन लुट्‌-लकारः लृटः अपवादः एव | नाम भविष्यत्सामान्ये विहितः लृट्‌; अनद्यतनभविष्यद्विशेषे अर्थात्‌ श्वोभाविरूपभविष्यद्विशेषे अयं लुट्‌-लकारः विधीयते इति हेतोः '''येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति'''  इति न्यायेन एकः अपरस्य अपवादः  | यत्कर्तृकः अवश्यप्राप्तौ सत्यां, नाम यः विधिः अवश्यं प्राप्नोति, एवम्‌ अस्मिन्‌ विधौ प्राप्ते सति पुनः अन्यः विधिः आरभ्यते चेत्‌, स च पुनः आरभ्यमाणः विधिः अवश्यप्राप्तविधिं बाधते | प्रकृतौ भविष्यत्सामान्ये विहितः लृट्‌ इति कृत्वा लृटः अवश्यप्राप्तिरस्ति | श्वोभविष्यत्यपि भविष्यदेव, एवं तद्भिन्नं भविष्यत्सामान्यमपि भविष्यदेव | अतः भविष्यत्वनिमित्तकतया लृट्‌-लकारः प्राप्नोति | येन नाप्राप्ते यत्कर्तृक-अवश्यप्राप्तौ सत्यां, लृट्कर्तृक -अवश्यप्राप्तौ सत्यां यो विधिरारभ्यते, लुट्‌-विधिरारभ्यते, अयं लुड्विधिः तस्य, नाम लृटः, लृट्‌-विधेः बाधकः भवति | अतः "श्वः गमिष्यामि" इति तु न भवतीत्येव |</big>
 
 
Line 169 ⟶ 182:
 
 
<big>कैश्चित्‌ विशिष्टविधिसूत्रैः अपि अर्थविशेषे लृट्‌-लकारः विधीयते ।</big>
                                                                                                                                                       
 
 
<big>'''अभिज्ञावचने लृट्''' (३.२.११२) = स्मृतिबोधक-उपपदे सति भूत-अनद्यतनकाले धातोः लृट्‌-लकारः भवति  | स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लृट् स्यात् इति सिद्धान्तकौमुद्याम्‌ | स्मरणार्थे उपपदसज्ञकशब्दे सति अनद्यन्तभूतकालार्थे लृट्‌-लकारः भवति | लङः अपवादः | अभिज्ञा स्मृतिः, सा उच्यतेऽनेनेति अभिज्ञावचनं तस्मिन्‌ | सूत्रे ’वचन’ शब्दस्य अर्थः एवं यत्‌ अभिज्ञा इति पदमेव भवेत्‌ इति न; स्मृत्यर्थे यत्‌ किमपि पदं भवितुम्‌ अर्हति—स्मरसि,  बुध्यसे,  चेतयसे इत्यादीनि पदानि सम्भवन्ति | निदर्शने “अभिजानासि देवदत्त कश्मीरेषु वत्स्यामः” | “देवदत्त, भवतः मनसि स्यात्‌ यत्‌ वयं कश्मीरे वसामः स्म” इत्यर्थः | अभिज्ञावचने सप्तम्यन्तं, लृट् प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अनद्यतने लङ्''' (३.२.१११) इत्यस्मात्‌ '''अनद्यतने''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१),  '''परश्च''' (३.१.२),  '''धातोः  '''(३.१.९१), '''भूते''' (३.२.८४) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभिज्ञावचने अनद्यतने भूते धातोः लृट्  प्रत्ययः परश्च''' |</big>
 
 
<big>'''न यदि''' (३.२.११३) = यद्‌-शब्दस्य योगे स्मृतिबोधकपदस्य सामीप्ये सत्यपि भूतानद्यतनार्थे लृट्‌-लकारो न भवति | उपपदसज्ञकस्मृत्यर्थकपदे सत्यपि यत्‌ इति अव्ययपदं तस्मिन्‌ वाक्ये उपयुज्यते चेत्‌ लृट्‌-लकारः न विधीयते | '''अभिज्ञावचने लृट्''' (३.२.११२) इत्यस्य निषेधकसूत्रम्‌ | एकवारं यदा '''अभिज्ञावचने लृट्''' (३.२.११२) इति सूत्रं निषिद्धं, तदा सामान्यसूत्रम्‌ '''अनद्यतने लङ्''' (३.२.१११) इत्यनेन लङ्‌-लकारः विधीयते |</big> <big>यथा</big> <big>“अभिजानासि कृष्ण यद्वने अभुञ्ज्महि” इति | स्मरसि कृष्ण यत्‌ वने वयम्‌ अखादाम | लृट्‌-लकारः भवति स्म, किन्तु यत्‌ इति पदं यदा उपयुक्तं तदा लृटः निषेधे सति लङ्‌-लकारः विहितः, अत्र ’अभुञ्ज्महि’ इति भुज्‌-धातोः लङ्‌ इति | न अव्ययपदं, यदि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ |  '''अभिज्ञावचने लृट्''' (३.२.११२) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | '''अनद्यतने लङ्''' (३.२.१११) इत्यस्मात्‌ '''अनद्यतने''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''धातोः  '''(३.१.९१), '''भूते''' (३.२.८४) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभिज्ञावचने अनद्यतने भूते यदि धातोः लृट् प्रत्ययः न''' |</big>
 
 
<big>'''विभाषा साकाङ्क्षे''' (३.२.११४) = स्मृतिबोधक-उपपदे सति भूत-अनद्यतनकाले धातोः लृट्‌-लकारः विकल्पेन भवति यदि सत्यपि असत्यपि यदा सम्बद्धक्रियाद्वयमस्ति अपि च एकस्याः आवश्यकता भवति अपरस्याः अर्थपूरणार्थम्‌ | उक्तविषयो लृड्वा स्यात् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः इति सिद्धान्तकौमुद्याम्‌ | अभिज्ञावचन उपपदे यच्छब्दसहिते केवले च विभाषा लृट् प्रत्ययो भवति साकाङ्क्षश्चेत् प्रयोक्ता इति काशिकायाम्‌ | साकाङ्क्ष-शब्दस्य अर्थः एवम्‌ अस्ति क्रियाद्वयं वर्तते, तत्र एका क्रिया भवति माध्यमं (लक्षणं), अन्या क्रिया भवति लक्ष्यम्‌ | एकया क्रियया अपरस्याः अर्थपूर्तिः | यथा “अभिजानासि देवदत्त कश्मीरान् गमिष्यामः, तत्र सक्तून् पास्यामः” अथवा, विकल्पेन, “अभिजानासि देवदत्त कश्मीरान् अगच्छाम, तत्र सक्तून् अपिबाम” | अत्र गमनं लक्षणं, पानं लक्ष्यम्‌ |  पुनः, ’यत्‌’ शब्दस्य व्यवहारे सति, “अभिजानासि देवदत्त यत् कश्मीरान् गमिष्यामः (अथवा यत् कश्मीरान् अगच्छाम,) यत् तत्रौदनं भोक्ष्यामहे (अथवा यत् तत्रौदनमभुञ्ज्महि)” | विभाषा प्रथमान्तं, साकाङ्क्षे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अभिज्ञावचने लृट्''' (३.२.११२) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | '''अनद्यतने लङ्''' (३.२.१११) इत्यस्मात्‌ '''अनद्यतने''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''धातोः  '''(३.१.९१), '''भूते''' (३.२.८४) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभिज्ञावचने अनद्यतने भूते साकाङ्क्षे धातोः लृट् प्रत्ययः विभाषा''' |</big>    
 
 
<big>'''आशंसायां भूतवच्च''' (३.३.१३२) = भविषत्कालार्थे भूतकालस्य वर्तमानस्य च प्रत्ययः भवति विकल्पेन, आशायाः विवक्षायाम्‌ | भविष्यति काले भूतवद्वर्तमानवच्च प्रत्यया वा स्युराशंसायाम् इति सिद्धान्तकौमुद्याम्‌ | अप्राप्तस्य प्रियार्थस्य प्राप्तुमिच्छा | अप्राप्तपदार्थस्य प्राप्तेः इच्छाम्‌ ’आशंसा’ इत्युच्यते | आशंसा भविष्यति एव भवति | तथापि आशंसायाः विवक्षायाम्‌ अनेन सूत्रेण धातोः भूतलार्थकश्च वर्तमानार्थकश्च प्रत्ययः विकल्पेन विधीयते | भूतवत्‌ इत्यस्य कथनेन सामान्यभूतकालः इत्यस्य इङ्गितम्‌ अतः सामान्यभूते लुङ्‌ इत्यस्य एव व्यवहारः अत्र न तु लङ्‌ वा लिट्‍ वा | निदर्शने “उपाध्यायश्चेदगमत् वा आगतः वा आगच्छति वा आगमिष्यति वा एते व्याकरणमध्यगीष्महि वा अधीतवन्तः वा अधीमहे वा अध्येष्यामहे” इति | अद्यापकः यदि अगच्छति तर्हि व्याकरणं पठेम | आशंसायां सप्तम्यन्तं, भूतवत् अव्ययं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | '''वर्तमानसामीप्ये वर्तमानवद्वा''' (३.३.१३१) इत्यस्मात्‌ '''वर्तमानवत्''', '''वा''' इत्यनयोः अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''धातोः  '''(३.१.९१), '''परश्च''' (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''आशंसायां धातोः भूतवत्‌ वर्तमानवत् च प्रत्ययः वा परश्च''' |</big>
 
 
<big>'''क्षिप्रवचने लृट्''' (३.३.१३३) = क्षिप्रशब्दस्य च तदर्थकस्य उपपदे सति आशायाः विवक्षायां धातोः लृट्‌-लकारः भवति | क्षिप्रवचन उपपद आशंसायां गम्यमानायां धातोर्लृट् प्रत्ययो भवति इति काशिकायाम्‌ | ’वचन’ इति शब्दस्य कथनेन क्षिप्र-शब्दस्य समानार्थकाः शब्दाः अपि अन्तर्भवन्ति, यथा शीघ्रम्‌, आशु, त्वरितम् इत्यादीनि पदानि | निदर्शने “उपाध्यायश्चेत्क्षिप्रमागमिष्यति क्षिप्रं व्याकरणमध्येष्यामहे | अध्यापकः शीघ्रम्‌ आगच्छति चेत्‌, शीघ्रमेव व्याकरणं पठिष्यामः | क्षिप्रवचने सप्तम्यन्तं, लृट् प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''आशंसायां भूतवच्च''' (३.३.१३२) इत्यस्मात्‌ '''आशंसायां''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''धातोः  '''(३.१.९१), '''परश्च''' (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''आशंसायां क्षिप्रवचने धातोः लृट् प्रत्ययः परश्च''' |</big>
 
 
<big>प्रकृतसूत्रम्‌ '''आशंसायां भूतवच्च''' (३.३.१३२) इत्यस्य अपवादः यतोहि '''आशंसायां भूतवच्च''' (३.३.१३२) इति सूत्रेण क्षिप्रावस्थायामपि भूतकालिकप्रत्ययः च वर्तमानकालिकः च प्रत्ययः विधीयते स्म; '''क्षिप्रवचने लृट्''' (३.३.१३३) इत्यनेन केवलं लृट्‌-लकारः भवति | प्रश्नः उदेति यत्‌ प्रकृतसूत्रे ’लृट्‌’ इति वदनस्य आवश्यकता नास्ति | आशायाः प्रसङ्गे भविष्यत्कालः स्वाभाविकः अतः लाघवार्थं ’न क्षिप्रवचने’ इति पर्याप्तम्‌ आसीत्‌ | उत्तारत्वेन उच्यते यत्‌ ’लृट्‌’ इति वदनस्य आवश्याकता अस्त्येव स्पष्टीकरणार्थं यत्‌ लुट् इत्यस्य व्यवहारः न भविष्यति तस्य प्रसङ्गः अस्ति चेदपि, यथा “श्वः क्षिप्रमध्येष्यामहे”—श्वः क्षिप्रं पठिष्यामः |</big>                                                                                                                                              
page_and_link_managers, Administrators
5,281

edits