7---ArdhadhAtukaprakaraNam/19---lRut lakAraH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
Line 191:
 
 
<big>'''विभाषा साकाङ्क्षे''' (३.२.११४) = स्मृतिबोधक-उपपदे सति भूत-अनद्यतनकाले धातोः लृट्‌-लकारः विकल्पेन भवति यदि सत्यपि असत्यपि यदा सम्बद्धक्र्याद्वयमस्तिसम्बद्धक्रियाद्वयमस्ति अपि च एकस्याः आवश्यकता भवति अपरस्यअपरस्याः अर्थपूरनार्थम्‌अर्थपूरणार्थम्‌ | उक्तविषयो लृड्वा स्यात् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः इति सिद्धान्तकौमुद्याम्‌ | अभिज्ञावचन उपपदे यच्छब्दसहिते केवले च विभाषा लृट् प्रत्ययो भवति साकाङ्क्षश्चेत् प्रयोक्ता इति काशिकायाम्‌ | साकाङ्क्ष-शब्दस्य अर्थः एवम्‌ अस्ति क्रियाद्वयं वर्तते, तत्र एका क्रिया भवति माध्यमं (लक्षणं), अन्या क्रिया भवति लक्ष्यम्‌ | एकया क्रियया अपरस्याः अर्थपूर्तिः | यथा “अभिजानासि देवदत्त कश्मीरान् गमिष्यामः, तत्र सक्तून् पास्यामः” अथवा, विकल्पेन, “अभिजानासि देवदत्त कश्मीरान् अगच्छाम, तत्र सक्तून् अपिबाम” | अत्र गमनं लक्षणं, पानं लक्ष्यम्‌ |  पुनः, ’यत्‌’ शब्दस्य व्यवहारे सति, “अभिजानासि देवदत्त यत् कश्मीरान् गमिष्यामः (अथवा यत् कश्मीरान् अगच्छाम,) यत् तत्रौदनं भोक्ष्यामहे (अथवा यत् तत्रौदनमभुञ्ज्महि)” | विभाषा प्रथमान्तं, साकाङ्क्षे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अभिज्ञावचने लृट्''' (३.२.११२) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | '''अनद्यतने लङ्''' (३.२.१११) इत्यस्मात्‌ '''अनद्यतने''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''धातोः  '''(३.१.९१), '''भूते''' (३.२.८४) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभिज्ञावचने अनद्यतने भूते साकाङ्क्षे धातोः लृट् प्रत्ययः विभाषा''' |</big>    
 
 
<big>'''आशंसायां भूतवच्च''' (३.३.१३२) = भविषत्कालार्थे भूतकालस्य वर्तमानस्य च प्रत्ययः भवातिभवति विकल्पेन, आशायाः विवक्षायाम्‌ | भविष्यति काले भूतवद्वर्तमानवच्च प्रत्यया वा स्युराशंसायाम् इति सिद्धान्तकौमुद्याम्‌ | अप्राप्तस्य प्रियार्थस्य प्राप्तुमिच्छा | अप्राप्तपदार्थस्य प्राप्तेः इच्छाम्‌ ’आशांसा’’आशंसा’ इत्युच्यते | आशांसाआशंसा भविष्यति एव भवति | तथापि आशांसायाःआशंसायाः विवक्षायाम्‌ अनेन सूत्रेण धातोः भूतलार्थकश्च वर्तमानार्थकश्च प्रत्ययः विकल्पेन विधीयते | भूतवत्‌ इत्यस्य कथनेन सामान्यभूतकालः इत्यस्य इङ्गितम्‌ अतः सामान्यभूते लुङ्‌ इत्यस्य एव व्यवहारः अत्र न तु लङ्‌ वा लिट्‍ वा | निदर्शने “उपाध्यायश्चेदगमत् वा आगतः वा आगच्छति वा आगमिष्यति वा एते व्याकरणमध्यगीष्महि वा अधीतवन्तः वा अधीमहे वा अध्येष्यामहे” इति | अद्यापकः यदि अगच्छति तर्हि व्याकरणं पठेम | आशंसायां सप्तम्यन्तं, भूतवत् अव्ययं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | '''वर्तमानसामीप्ये वर्तमानवद्वा''' (३.३.१३१) इत्यस्मात्‌ '''वर्तमानवत्''', '''वा''' इत्यनयोः अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''धातोः  '''(३.१.९१), '''परश्च''' (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''आशंसायां धातोः भूतवत्‌ वर्तमानवत् च प्रत्ययः वा परश्च''' |</big>
 
 
page_and_link_managers, Administrators
5,273

edits