7---ArdhadhAtukaprakaraNam/19---lRut lakAraH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 61:
 
 
<big>'''तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्''' (३.३.१०) = एकस्याः क्रियायाः साधनार्थम्‌ अपरस्यां क्रियायाम्‌ उपपदे सति भविष्यदर्थे प्रथमायाः (क्रियायाः) धातुतः तुमुन्‌ च ण्वुल्‌ च प्रत्ययौ भवतः | क्रियार्थायां क्रियायामुपपदे धातोर्भविष्यति काले तुमुन्ण्वुलौ प्रत्ययौ भवतः इति काशिका | अत्र इमौ द्वौ प्रत्ययौ तुमुन्‌ ण्वुल् भविष्यत्यर्थे; तुमुन्‌ भावार्थे, ण्वुल् च कर्त्रर्थे | '''तत्रोपपदं सप्तमीस्थम्''' (३.१.९२) इत्यनेन ’क्रियायां क्रियार्थायाम्’ उपपदसप्तमीविभक्तौ स्तः | ’पठितुं गच्छति’ इत्यस्मिन्‌ पठनक्रियायाः साधनार्थं गमनक्रिया वर्तते | पठनम्‌ अस्ति प्रयोजनं, नाम लक्ष्यं; गमनम्‌ अस्ति साधनम्‌ | पठनम्‌ इति क्रियायाः कृते गमनम्‌ इति क्रिया वर्तते इति कृत्वा गमन-क्रिया अस्ति “क्रियार्था क्रिया” | एतदर्थं गमनक्रियायाः ’उपपद’संज्ञा’उपपद’ संज्ञा भवति | तुमुन्‌ च ण्वुल्‌ च तयोरितरेतरद्वन्दः तुमुन्ण्वुलौ | क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था''',''' तस्यां क्रियार्थायां''',''' बहुव्रीहिः | तुमुन्ण्वुलौ प्रथमान्तं''',''' क्रियायां सप्तम्यन्तं''',''' क्रियार्थायां सप्तम्यन्तं''',''' त्रिपदमिदं सूत्रम्‌ | '''भविष्यति''' '''गम्यादयः''' (३.३.३) इत्यस्मात्‌ '''भविष्यति''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२), '''धातोः  '''(३.१.९१) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''धातोः तुमुन्ण्वुलौ प्रययौ परश्च भविष्यति क्रियार्थायां क्रियायाम्‌''' |</big>