7---ArdhadhAtukaprakaraNam/19---lRut lakAraH: Difference between revisions
7---ArdhadhAtukaprakaraNam/19---lRut lakAraH
Content deleted Content added
No edit summary |
No edit summary |
||
Line 180:
<big>कैश्चित् विशिष्टविधिसूत्रैः अपि अर्थविशेषे लृट्-लकारः विधीयते ।</big>
Line 187:
<big>'''न यदि''' (३.२.११३) = यद्-शब्दस्य योगे स्मृतिबोधकपदस्य सामीप्ये सत्यपि भूतानद्यतनार्थे लृट्-लकारो न भवति | उपपदसज्ञकस्मृत्यर्थकपदे सत्यपि यत् इति अव्ययपदं तस्मिन् वाक्ये उपयुज्यते चेत् लृट्-लकारः न विधीयते | '''अभिज्ञावचने लृट्''' (३.२.११२) इत्यस्य निषेधकसूत्रम् | एकवारं यदा '''अभिज्ञावचने लृट्''' (३.२.११२) इति सूत्रं निषिद्धं, तदा सामान्यसूत्रम् '''अनद्यतने लङ्''' (३.२.१११) इत्यनेन लङ्-लकारः विधीयते |</big> <big>यथा</big> <big>“अभिजानासि कृष्ण यद्वने अभुञ्जमहि” इति | स्मरसि कृष्ण यत् वने वयम् अखादाम | लृट्-लकारः भवति स्म, किन्तु यत् इति पदं यदा उपयुक्तं तदा लृटः निषेधे सति लङ्-लकारः विहितः, अत्र ’अभुञ्जमहि’ इति भुज्-धातोः लङ् इति | न अव्ययपदं, यदि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''अभिज्ञावचने लृट्''' (३.२.११२) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | '''अनद्यतने लङ्''' (३.२.१११) इत्यस्मात् '''अनद्यतने''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''धातोः '''(३.१.९१), '''भूते''' (३.२.८४) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभिज्ञावचने अनद्यतने भूते यदि धातोः लृट् प्रत्ययः न''' |</big>
<big>'''विभाषा साकाङ्क्षे''' (३.२.११४) = स्मृतिबोधक-उपपदे सति भूत-अनद्यतनकाले धातोः लृट्-लकारः विकल्पेन भवति यदि सत्यपि असत्यपि यदा सम्बद्धक्र्याद्वयमस्ति अपि च एकस्याः आवश्यकता भवति अपरस्य अर्थपूरनार्थम् | उक्तविषयो लृड्वा स्यात् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः इति सिद्धान्तकौमुद्याम् | अभिज्ञावचन उपपदे यच्छब्दसहिते केवले च विभाषा लृट् प्रत्ययो भवति साकाङ्क्षश्चेत् प्रयोक्ता इति काशिकायाम् | साकाङ्क्ष-शब्दस्य अर्थः एवम् अस्ति क्रियाद्वयं वर्तते, तत्र एका क्रिया भवति माध्यमं (लक्षणं), अन्या क्रिया भवति लक्ष्याम् | एकया क्रियया अपरस्याः अर्थपूर्तिः | यथा “अभिजानासि देवदत्तः कश्मीरान् गमिष्यामः, तत्र सक्तून् पास्यामः” अथवा, विकल्पेन, “अभिजानासि देवदत्तः कश्मीरान् आगच्छाम, तत्र सक्तून् अपिबाम” | अत्र गमनं लक्षणं, पानं लक्ष्यम् | पुनः, ’यत्’ शब्दस्य व्यवहारे सति, “अभिजानासि देवदत्तः यत् कश्मीरान् गमिष्यामः (अथवा यत् कश्मीरान् अगच्छाम,) यत् तत्रौदनं भोक्ष्यामहे (अथवा यत् तत्रौदनमभुञ्ज्महि)” | विभाषा प्रथमान्तं, साकाङ्क्षे सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''अभिज्ञावचने लृट्''' (३.२.११२) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | '''अनद्यतने लङ्''' (३.२.१११) इत्यस्मात् '''अनद्यतने''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''धातोः '''(३.१.९१), '''भूते''' (३.२.८४) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभिज्ञावचने अनद्यतने भूते साकाङ्क्षे धातोः लृट् प्रत्ययः विभाषा''' |</big>
<big>'''आशंसायां भूतवच्च''' (३.३.१३२) = भविषत्कालार्थे भूतकालस्य वर्तमानस्य च प्रत्ययः भवाति विकल्पेन, आशायाः विवक्षायाम् | भविष्यति काले भूतवद्वर्तमानवच्च प्रत्यया वा स्युराशंसायाम् इति सिद्धान्तकौमुद्याम् | अप्राप्तस्य प्रियार्थस्य प्राप्तुमिच्छा | अप्राप्तपदार्थस्य प्राप्तेः इच्छाम् ’आशांसा’ इत्युच्यते | आशांसा भविष्यति एव भवति | तथापि आशांसायाः विवक्षायाम् अनेन सूत्रेण धातोः भूतलार्थकश्च वर्तमानार्थकश्च प्रत्ययः विकल्पेन विधीयते | भूतवत् इत्यस्य कथनेन सामान्यभूतकालः इत्यस्य इङ्गितम् अतः सामान्यभूते लुङ् इत्यस्य एव व्यवहारः अत्र न तु लङ् वा लिट् वा | निदर्शने “उपाध्यायश्चेदगमत् वा आगतः वा आगच्छति वा आगमिष्यति वा एते व्याकरणमध्यगीष्महि वा अधीतवन्तः वा अधीमहे वा अध्येष्यामहे” इति | अद्यापकः यदि अगच्छति तर्हि व्याकरणं पठेम | आशंसायां सप्तम्यन्तं, भूतवत् अव्ययं, च अव्ययं, त्रिपदमिदं सूत्रम् | '''वर्तमानसामीप्ये वर्तमानवद्वा''' (३.३.१३१) इत्यस्मात् '''वर्तमानवत्''', '''वा''' इत्यनयोः अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''धातोः '''(३.१.९१), '''परश्च''' (३.१.२) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''आशंसायां धातोः भूतवत् वर्तमानवत् च प्रत्ययः वा परश्च''' |</big>
<big>'''क्षिप्रवचने लृट्''' (३.३.१३३) = क्षिप्रशब्दस्य च तदर्थकस्य उपपदे सति आशायाः विवक्षायां धातोः लृट्-लकारः भवति | क्षिप्रवचन उपपद आशंसायां गम्यमानायां धातोर्लृट् प्रत्ययो भवति इति काशिकायाम् | ’वचन’ इति शब्दस्य कथनेन क्षिप्र-शब्दस्य समानार्थकाः शब्दाः अपि अन्तर्भवन्ति, यथा शीघ्रम्, आशु, त्वरितम् इत्यादीनि पदानि | निदर्शने “उपाध्यायश्चेत्क्षिप्रमागमिष्यति क्षिप्रं व्याकरणमध्येष्यामहे | अध्यापकः शीघ्रम् आगच्छति चेत्, शीघ्रमेव व्याकरणं पठिष्यामः | क्षिप्रवचने सप्तम्यन्तं, लृट् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''आशंसायां भूतवच्च''' (३.३.१३२) इत्यस्मात् '''आशंसायां''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''धातोः '''(३.१.९१), '''परश्च''' (३.१.२) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''आशंसायां क्षिप्रवचने धातोः लृट् प्रत्ययः परश्च''' |</big>
▲<big>'''क्षिप्रवचने लृट्''' (३.३.१३३) = क्षिप्रशब्दस्य च तदर्थकस्य उपपदे सति आशायाः विवक्षायां धातोः लृट्-लकारः भवति | क्षिप्रवचन उपपद आशंसायां गम्यमानायां धातोर्लृट् प्रत्ययो भवति इति काशिकायाम् | ’वचन’ इति शब्दस्य कथनेन क्षिप्र-शब्दस्य समानार्थकाः शब्दाः अपि अन्तर्भवन्ति, यथा शीघ्रम्, आशु, त्वरितम् इत्यादीनि पदानि | निदर्शने “उपाध्यायश्चेत्क्षिप्रमागमिष्यति क्षिप्रं व्याकरणमध्येष्यामहे | अध्यापकः शीघ्रम् आगच्छति चेत्, शीघ्रमेव व्याकरणं पठिष्यामः | क्षिप्रवचने सप्तम्यन्तं, लृट् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''आशंसायां भूतवच्च''' (३.३.१३२) इत्यस्मात् '''आशंसायां''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''धातोः '''(३.१.९१), '''परश्च''' (३.१.२) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''आशंसायां क्षिप्रवचने धातोः लृट् प्रत्ययः परश्च''' |</big>
<big>प्रकृतसूत्रम् '''आशंसायां भूतवच्च''' (३.३.१३२) इत्यस्य अपवादः यतोहि '''आशंसायां भूतवच्च''' (३.३.१३२) इति सूत्रेण क्षिप्रावस्थायामपि भूतकालिकप्रत्ययः च वर्तमानकालिकः च प्रत्ययः विधीयते स्म; '''क्षिप्रवचने लृट्''' (३.३.१३३) इत्यनेन केवलं लृट्-लकारः भवति | प्रश्नः उदेति यत् प्रकृतसूत्रे ’लृट्’ इति वदनस्य आवश्यकता नास्ति | आशायाः प्रसङ्गे भविष्यत्कालः स्वाभाविकः अतः लाघवार्थं ’न क्षिप्रवचने’ इति पर्याप्तम् आसीत् | उत्तारत्वेन उच्यते यत् ’लृट्’ इति वदनस्य आवश्याकता अस्त्येव स्पष्टीकरणार्थं यत् लुट् इत्यस्य व्यवहारः न भविष्यति तस्य प्रसङ्गः अस्ति चेदपि, यथा “श्वः क्षिप्रमध्येष्यामहे”—श्वः क्षिप्रं पठिष्यामः |</big>
|