7---ArdhadhAtukaprakaraNam/19---lRut lakAraH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 176:
 
 
<big>कैश्चित्‌ विशिष्टविधिसूत्रैः अपि अर्थविशेषे लृट्‌-लकारः विधीयते ।</big>
 
<big>'''अभिज्ञावचने लृट्''' (३.२.११२) = स्मृतिबोधक-उपपदे सति भूत-अनद्यतनकाले धातोः लृट्‌-लकारः भवति  | स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लृट् स्यात् इति सिद्धान्तकौमुद्याम्‌ | अभिजानासि देवदत्त कश्मीरेषु वत्स्यामः | अभिज्ञा स्मृतिः, सा उच्यतेऽनेनेति अभिज्ञावचनं तस्मिन्‌ | अभिज्ञावचने सप्तम्यन्तं, लृट् प्रथमान्तं, द्विपदमिदं सूत्रम्‌ । '''अनद्यतने लङ्''' (३.२.१११) इत्यस्मात्‌ '''अनद्यतने''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), </big>
 
<big>'''परश्च''' (३.१.२),  '''धातोः  '''(३.१.९१), '''भूते''' (३.२.८४) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभिज्ञावचने अनद्यतने भूते धातोः लृट्  प्रत्ययः परश्च''' |</big>