7---ArdhadhAtukaprakaraNam/19---lRut lakAraH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 180:
<big>कैश्चित्‌ विशिष्टविधिसूत्रैः अपि अर्थविशेषे लृट्‌-लकारः विधीयते ।</big>
 
 
<big>'''अभिज्ञावचने लृट्''' (३.२.११२) = स्मृतिबोधक-उपपदे सति भूत-अनद्यतनकाले धातोः लृट्‌-लकारः भवति  | स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लृट् स्यात् इति सिद्धान्तकौमुद्याम्‌ | अभिजानासिस्मरणार्थे देवदत्तउपपदसज्ञकशब्दे कश्मीरेषुसति अनद्यन्तभूतकालार्थे लृट्‌-लकारः भवति | लङः वत्स्यामःअपवादः | अभिज्ञा स्मृतिः, सा उच्यतेऽनेनेति अभिज्ञावचनं तस्मिन्‌ | सूत्रे ’वचन’ शब्दस्य अर्थः एवं यत्‌ अभिज्ञा इति पदमेव भवेत्‌ इति न; स्मृत्यर्थे यत्‌ किमपि पदं भवितुम्‌ अर्हति—स्मरसि,  बुध्यसे,  चेतयसे इत्यादीनि पदानि सम्भवन्ति स| निदर्शने “अभिजानासि देवदत्त कश्मीरेषु वत्स्यामः” | “देवदत्त, भवतः मनसि स्यात्‌ यत्‌ वयं कश्मीरे वसामः स्म” इत्यर्थः | अभिज्ञावचने सप्तम्यन्तं, लृट् प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अनद्यतने लङ्''' (३.२.१११) इत्यस्मात्‌ '''अनद्यतने''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), </big><big> '''परश्च''' (३.१.२),  '''धातोः  '''(३.१.९१), '''भूते''' (३.२.८४) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभिज्ञावचने अनद्यतने भूते धातोः लृट्   प्रत्ययः परश्च''' |</big>
                                                                                                                                                       
 
<big>'''न यदि''' (३.२.११३) = यद्‌-शब्दस्य योगे स्मृतिबोधकपदस्य सामीप्ये सत्यपि भूतानद्यतनार्थे लृट्‌-लकारो न भवति | उपपदसज्ञकस्मृत्यर्थकपदे सत्यपि यत्‌ इति अव्यवपदं तस्मिन्‌ वाक्ये उपयुज्यते चेत्‌ लृट्‌-लकारः न विधीयते | '''अभिज्ञावचने लृट्''' (३.२.११२) इत्यस्य निषेधकसूत्रम्‌ | एकवारं यदा '''अभिज्ञावचने लृट्''' (३.२.११२) इति सूत्रं निषिद्ध, तदा सामान्यसूत्रम्‌ '''अनद्यतने लङ्''' (३.२.१११) इत्यनेन लङ्‌-लकारः विधीयते | यथा</big>
 
<big>“अभिजानासि कृष्ण यद्वने अभुञ्जमहि” इति | स्मरसि कृष्ण यत्‌ वने वयम्‌ अखादाम | लृट्‌-लकारः भवति स्म, किन्तु यत्‌ इति पदं यदा उपयुक्तं तदा लृटः निषेधे सति लङ्‌-लकारः विहितः, अत्र ’अभुञ्जमहि’ इति भुज्‌-धातोः लङ्‌ इति | न अव्ययपदं, यदि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ |  '''अभिज्ञावचने लृट्''' (३.२.११२) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | '''अनद्यतने लङ्''' (३.२.१११) इत्यस्मात्‌ '''अनद्यतने''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''धातोः  '''(३.१.९१), '''भूते''' (३.२.८४) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभिज्ञावचने अनद्यतने भूते यदि धातोः लृट् प्रत्ययः न''' |</big>
 
<big>'''विभाषा साकाङ्क्षे''' (३.२.११४) = स्मृतिबोधक-उपपदे सति भूत-अनद्यतनकाले धातोः लृट्‌-लकारः विकल्पेन भवति यदि स्त्यपि असत्यपि यदा सम्बद्धक्र्याद्वयमस्ति अपि च एकस्याः आवश्यकता भवति अपरस्य अर्थपूरनार्थम्‌ | उक्तविषयो लृड्वा स्यात् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः इति सिद्धान्तकौमुद्याम्‌ | अभिज्ञावचन उपपदे यच्छब्दसहिते केवले च विभाषा लृट् प्रत्ययो भवति साकाङ्क्षश्चेत् प्रयोक्ता इति काशिकायाम्‌ | अभिजानासि देवदत्तः कश्मीरान् गमिष्यामः, तत्र सक्तून् पास्यामः अथवा अभिजानासि देवदत्तः कश्मीरान् गच्छामः, तत्र सक्तून् अपिबामः | अभिजानासि देवदत्तः यत् कश्मीरान् गमिष्यामः (अथवा यत् कश्मीरान् गच्छाम,) यत् तत्रौदनं भोक्ष्यामहे (अथवा यत् तत्रौदनमभुञ्ज्महि) | विभाषा प्रथमान्तं, साकाङ्क्षे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अभिज्ञावचने लृट्''' (३.२.११२) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | '''अनद्यतने लङ्''' (३.२.१११) इत्यस्मात्‌ '''अनद्यतने''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''धातोः  '''(३.१.९१), '''भूते''' (३.२.८४) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभिज्ञावचने अनद्यतने भूते साकाङ्क्षे धातोः लृट् प्रत्ययः विभाषा''' |</big>