7---ArdhadhAtukaprakaraNam/19---lRut lakAraH: Difference between revisions
7---ArdhadhAtukaprakaraNam/19---lRut lakAraH (view source)
Revision as of 22:53, 2 July 2024
, 3 days agono edit summary
No edit summary |
No edit summary |
||
Line 188:
<big>'''न यदि''' (३.२.११३) = यद्-शब्दस्य योगे स्मृतिबोधकपदस्य सामीप्ये सत्यपि भूतानद्यतनार्थे लृट्-लकारो न भवति | उपपदसज्ञकस्मृत्यर्थकपदे सत्यपि यत् इति अव्ययपदं तस्मिन् वाक्ये उपयुज्यते चेत् लृट्-लकारः न विधीयते | '''अभिज्ञावचने लृट्''' (३.२.११२) इत्यस्य निषेधकसूत्रम् | एकवारं यदा '''अभिज्ञावचने लृट्''' (३.२.११२) इति सूत्रं निषिद्धं, तदा सामान्यसूत्रम् '''अनद्यतने लङ्''' (३.२.१११) इत्यनेन लङ्-लकारः विधीयते |</big> <big>यथा</big> <big>“अभिजानासि कृष्ण यद्वने अभुञ्जमहि” इति | स्मरसि कृष्ण यत् वने वयम् अखादाम | लृट्-लकारः भवति स्म, किन्तु यत् इति पदं यदा उपयुक्तं तदा लृटः निषेधे सति लङ्-लकारः विहितः, अत्र ’अभुञ्जमहि’ इति भुज्-धातोः लङ् इति | न अव्ययपदं, यदि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''अभिज्ञावचने लृट्''' (३.२.११२) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | '''अनद्यतने लङ्''' (३.२.१११) इत्यस्मात् '''अनद्यतने''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''धातोः '''(३.१.९१), '''भूते''' (३.२.८४) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभिज्ञावचने अनद्यतने भूते यदि धातोः लृट् प्रत्ययः न''' |</big>
<big>'''विभाषा साकाङ्क्षे''' (३.२.११४) = स्मृतिबोधक-उपपदे सति भूत-अनद्यतनकाले धातोः लृट्-लकारः विकल्पेन भवति यदि सत्यपि असत्यपि यदा
▲<big>'''विभाषा साकाङ्क्षे''' (३.२.११४) = स्मृतिबोधक-उपपदे सति भूत-अनद्यतनकाले धातोः लृट्-लकारः विकल्पेन भवति यदि सत्यपि असत्यपि यदा सम्बद्धक्रियाद्वयमस्ति अपि च एकस्याः आवश्यकता भवति अपरस्याः अर्थपूरणार्थम् | उक्तविषयो लृड्वा स्यात् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः इति सिद्धान्तकौमुद्याम् | अभिज्ञावचन उपपदे यच्छब्दसहिते केवले च विभाषा लृट् प्रत्ययो भवति साकाङ्क्षश्चेत् प्रयोक्ता इति काशिकायाम् | अभिजानासि देवदत्तः कश्मीरान् गमिष्यामः, तत्र सक्तून् पास्यामः अथवा अभिजानासि देवदत्तः कश्मीरान् गच्छामः, तत्र सक्तून् अपिबामः | अभिजानासि देवदत्तः यत् कश्मीरान् गमिष्यामः (अथवा यत् कश्मीरान् गच्छाम,) यत् तत्रौदनं भोक्ष्यामहे (अथवा यत् तत्रौदनमभुञ्ज्महि) | विभाषा प्रथमान्तं, साकाङ्क्षे सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''अभिज्ञावचने लृट्''' (३.२.११२) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | '''अनद्यतने लङ्''' (३.२.१११) इत्यस्मात् '''अनद्यतने''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''धातोः '''(३.१.९१), '''भूते''' (३.२.८४) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभिज्ञावचने अनद्यतने भूते साकाङ्क्षे धातोः लृट् प्रत्ययः विभाषा''' |</big>
|