7---ArdhadhAtukaprakaraNam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 17:
 
 
<big>सार्वधातुकलकारेषु तिङन्तरूपाणि भिद्यन्ते गणम्‌ अनुसृत्य | कस्यचित्‌ धातोः लटि, लोटि, लङि, विधिलिङि च तिङन्तरूपं जिज्ञासामहे चेत्‌, तर्हि सः धातुः कस्मिन्‌ गणे अस्ति इति अस्माभिः ज्ञेयम्‌ एव | आर्धधातुकलकाराः न तथा | लिट्‌, लुट्‌, लृट्‌, आशीर्लिङ्‌, लुङ्‌, लृङ्‌—एषां लकाराणां तिङन्तरूपाणां गणेन सह न कोऽपि सम्बन्धः |</big>
<please replace this with content from corresponding Google Sites page>
 
 
<big>यथा लटि भ्वादिगणे पा-धातोः पिबति, अदादिगणे मा-धातोः माति, जुहोत्यादिगणे दा-धातोः ददाति, क्र्यादिगणे ज्ञा-धातोः जानाति | पा, मा, दा, ज्ञा इत्येते सर्वे आकारान्तधातवः, अनेन चतुर्णाम्‌ अपि धातूनां साम्यम्‌ | किन्तु पि'''ब'''ति, '''मा'''ति, '''ददा'''ति, जा'''ना'''ति— प्रत्येकं धातोः तिङन्तरूपं नितरां भिन्नं; ततः परं दा-धातोः द्वित्वम्‌ अपि अस्ति | यद्यपि धातूनां साम्यं किन्तु धातुगणम्‌ अनुसृत्य तिङन्तभेदाः निष्पद्यन्ते |</big>
 
 
<big>अधुना लृटि स्यति इति प्रत्ययः भवति | भ्वादौ पा-धातोः पास्यति, अदादौ मा-धातोः मास्यति, जुहोत्यादौ दा-धातोः दास्यति, क्र्यादिगणे ज्ञा-धातोः ज्ञास्यति | सर्वत्र साम्यम्‌ | अस्य कारणं किम्‌ ? धातुगणेषु विकरणप्रत्ययभेदेन तिङन्तरूपाणि भिद्यन्ते; यत्र विकरणप्रत्ययः नायाति, तत्र गणीयभेदः नास्त्येव | अतः आर्धधातुकलकारेषु गणीया चर्चा निरर्थिका | आर्धधातुकप्रकरणे गणचर्चायाः स्थानं न देयम्‌ |</big>
 
 
<big>सार्वधातुकलकारेषु, कर्त्रर्थके तिङ्प्रत्यये परे विकरणप्रत्ययः विधीयते | अत्र धातोः साक्षात्‌ परं सार्वधातुक-संज्ञकः तिङ्प्रत्ययः, अतः '''कर्तरि शप्‌''' इत्यनेन विकरणप्रत्ययः विहितः | आर्धधातुकलकारेषु सार्वधातुक-संज्ञकः तिङ्प्रत्ययः अस्ति चेत्‌ धातोः साक्षात्‌ परं न, अतः विकरणप्रत्ययः न विधीयते |</big>
 
 
<big>वृत्तान्ते, लिट्‌-लकारे, सर्वेषां द्विसहस्रस्य धातूनां तिङन्तरूपाणि एकत्र प्रदर्शनीयानि; तत्र कोऽपि धातुगणभेदो नास्ति | तथैव लुटि, लृटि, आशीर्लिङि, लुङि‌, लृङि च | आयोजनं कीदृशम्‌ इति चेत्‌, धातोः अन्तिमवर्णम्‌ अनुसृत्य चतुर्दश वर्गाः निष्पादनीयाः | एतादृशं वर्गीकरणम्‌ अपेक्षितं, यतः पाणिनेः सूत्राणि तथैव कार्यं विदधति; अनेन महत्‌ सौकर्यम्‌ | चतुर्दश वर्गाः एते—</big>
 
 
<big>१) अकारान्ताः— यथा कथ, गण, रच इत्यादयः |</big>
 
<big>२) आकारान्ताः— यथा पा, ला, वा, दा धा इत्यादयः |</big>
 
<big>३) इकारान्ताः— यथा जि, श्वि, चि कि, रि इत्यादयः |</big>
 
<big>४) ईकारान्ताः— यथा नी, शी, डी, क्री, वी इत्यादयः |</big>
 
<big>५) उकारान्ताः— यथा द्रु, नु, कु, गु, क्षु इत्यादयः |</big>
 
<big>६) ऊकारान्ताः— यथा भू, लू, पू, नू, मू इत्यादयः |</big>
 
<big>७) ऋकारान्ताः— यथा हृ, भृ, धृ, मृ, कृ, स्वृ, स्मृ इत्यादयः |</big>
 
<big>८) ॠकारान्ताः— यथा जॄ, झॄ, शॄ, गॄ, वॄ इत्यादयः |</big>
 
<big>९) एजन्ताः— यथा ग्लै, म्लै, धे, ध्यै, पै, शो, छो इत्यादयः |</big>
 
<big>१०) अदुपधाः— यथा पठ्‌, चल्‌, वद्‌, स्खल्‌, कक्‌, पच्‌, चट्‌ इत्यादयः |</big>
 
<big>११) इदुपधाः— यथा चित्‌, मिद्‌, छिद्‌, भिद्‌, निद्‌, मिल्‌ इत्यादयः |</big>
 
<big>१२) उदुपधाः— यथा बुध्‌, शुध्‌, मुद्‌, कुक्‌, उख्‌ इत्यादयः |</big>
 
<big>१३) ऋदुपधाः— यथा कृष्‌, वृष्‌, नृत्‌, छृद्‌, वृत्‌, वृध्‌ इत्यादयः |</big>
 
<big>१४) अवशिष्टाः— ये न सन्ति एषु वर्गेषु यथा मील्‌, शीक्‌, बुक्क्‌, अञ्च्‌ इत्यादयः |</big>
 
 
<big>इत्येते आर्धधातुकलकारेषु कृदन्तेषु च धातूनां मातृदत्ताः वर्गाः | अस्मिन्‌ वर्गीकरणे दश धातुगणाः न आयान्ति एव |</big>
 
 
<big>आर्धधातुकप्रक्रियायाम्‌ एकः प्रमुखः विषयः चिन्तनीयः— इडागमः | कुत्रचित्‌ तिङन्तेषु कृदन्तेषु च इकारः रूपस्य मध्ये उपविशति; तस्य च इकारस्य नाम इडागमः | धातुः अपि सेट्‌ (स + इट्‌ = सेट्‌), प्रत्ययः अपि इडनुकूलः चेदेव इडागमः भवति इति सामान्यनियमः | रूपाणि यथा लृटि, भ्वादिगणे भू-धातोः भविष्यति, अदादिगणे शी-धातोः शयिष्यते, जुहोत्यादिगणे भृ-धातोः भरिष्यति, दिवादिगणे नृत्‌-धातोः नर्तिष्यति, स्वादिगणे वृ-धातोः वरिष्यति, तनादिगणे कृ-धातोः करिष्यति | अत्र विभिन्नेषु धातुगणेषु इडागमो दृश्यते इत्यनेन सुलभतया अवगम्यते यत्‌ 'इडागमः भवति न वा', इत्यस्मिन्‌ निर्णयावसरे धातुगणस्य न कोऽपि सम्बन्धः |</big>
 
 
<big>तर्हि आहत्य सार्वधातुप्रक्रियायां गणीया चर्चा करणीया; आर्धधातुप्रक्रियायाम्‌ इडागम-विषयः परिशीलनीयः |</big>
 
 
<big>अस्मिन्‌ पाठे आर्धधातुकलकारान्‌ अवलोकयिष्यामः | अपि च अन्येषां प्रत्ययानां तिङन्तरूपाणि ये आर्धधातुकप्रक्रियायाम्‌ अन्तर्भवन्ति— यथा णिजन्ताः, सनन्ताः, यङन्ताः च |</big>
 
 
<big>आर्धधातुकप्रक्रियायाः अन्तर्गते केचन प्रत्ययाः सन्ति ये वलादिः न सन्ति; तेषां च इडागमः न भवति एव | ते प्रत्ययाः एते— णिच्‌, यक्‌, यङ्‌, यङ्लुक्‌, यासुट्‌ | एतेषां चिन्तनं प्रथमतया कुर्मः; अनन्तरमेव इडागम-व्यवसथा; तदा ते प्रत्ययाः येषाम्‌ इडागमो भवति |</big>
 
 
<big>Swarup – November 2013 [Updated November 2015, March 2017]</big>
teachers
752

edits