page_and_link_managers, Administrators
5,097
edits
No edit summary |
No edit summary |
||
(16 intermediate revisions by 2 users not shown) | |||
Line 51:
<big>१. <u>श्चुत्वसन्धिः</u></big>
<big>'''स्तोः श्चुना श्चुः''' (८.४.४०) = सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | '''यथासंख्यमनुदेशः समानाम्''' (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम् अनुदेशिनां च यथाक्रमम् उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | स् च तुश्च स्तुः तस्य स्तोः, समाहारद्वन्द्वः | श् च चुश्च श्चुः, तेन श्चुना, समाहारद्वन्द्वः | श् च चुश्च श्चुः, समाहारद्वन्द्वः | स्तोः षष्ठ्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''स्तोः श्चुना श्चुः संहितायाम् |'''</big>
<big><br />भवत् + चक्षुः → भवच्चक्षुः*</big>
Line 57 ⟶ 58:
<big>यज् + नः → यज् + ञ् + अः → यज्ञः</big>
<big>'''शात्''' (८.४.४४) = शकारात् परस्य तवर्गस्य चुत्वं न स्यात् | '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यस्य निषेधकसूत्रम् | शात् पञ्चम्यन्तम् एकपदमिदं सूत्रम् | '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यस्मात् '''श्चुः''' इत्यस्य अनुवृत्तिः | '''तोः षि''' (८.४.४३) इत्यस्मात् तोः इत्यस्य अनुवृत्तिः | '''न पदान्ताट्टोरनाम्''' (८.४.४२) इत्यस्मात् '''न''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''शात् तोः श्चुः न संहितायाम्''' |</big>
Line 66 ⟶ 67:
<big><nowiki>*</nowiki>धेयं यत् यत्र सन्धिचिन्तनं भवति, सदा ज्ञातव्यं यत् प्रवर्तमानं सन्धिकार्यं पदान्ते अस्ति न वा | अत्र 'भवत् + चक्षु' इति समासस्य प्रसङ्गः; अनयोः पूर्वोत्तरपदयोः सन्धिः करणीयः | तर्हि प्रमुखप्रश्नः भवति यत् 'भवत्' इति पूर्वपदस्य पदसंज्ञा अस्ति न वा | समासस्य लौकिकविग्रहवाक्यं भवति, यथा 'भवच्चक्षुः' इत्यस्य कृते 'भवतः चक्षुः' इति लौकिकविग्रहवाक्यम् | अलौकिकविग्रहः (शास्त्रीयविग्रहवाक्यम्) अपि भवति, यस्य द्वारा समासनिर्माणं सिध्यति | यथा 'भवच्चक्षुः' इत्यस्य 'भवत् ङस् + चक्षु सु' इति भवति | अत्र प्रथमतया समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण | तदा सुप्-प्रत्ययस्य लुक् (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | 'भवत् ङस् + चक्षु सु' इत्यस्मिन् ङस्, सु इत्यनयोः लुक् → भवत् + चक्षु | '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'भवत्' इत्यस्य अन्ते सुप् नास्ति; तर्हि प्रश्नः उदेति यत् तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | इत्थञ्च पर्यवसितं यत्— सन्धिचिन्तनावसरे समासे पूर्वपदस्य पदसंज्ञा भवति | (लुकि सति लुप्तपदम् अधिकृत्य अङ्गकार्यं न भवति, किन्तु पदसंज्ञा इति नामकरणं न तु अङ्गकार्यम् अतः पूर्वपदस्य पदसंज्ञां निमित्तीकृत्य सन्धिकार्यम् इत्यादिकं प्रवर्तनीयम् |) एतदाधारेण—</big>
<big>भवत् + चक्षु → '''झलां जशोऽन्ते''' (८.२.३९) → भवद् चक्षु → '''स्तोः श्चुना श्चुः''' (८.४.४०) → भवज् चक्षु → '''खरि च''' (८.४.५५) → भवच् + चक्षु → वर्णमेलने → भवच्चक्षु → प्रथमाविभक्तौ एकवचने भवच्चक्षुः |</big>
Line 75 ⟶ 77:
<big>२. <u>ष्टुत्वसन्धिः</u></big>
<big>'''ष्टुना ष्टुः''' (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | '''यथासंख्यमनुदेशः समानाम्''' (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम् अनुदेशिनां च यथाक्रमम् उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | ष् च टुश्च ष्टुः, तेन ष्टुना, समाहारद्वन्द्वः | ष् च टुश्च ष्टुः, समाहारद्वन्द्वः | ष्टुना तृतीयान्तं, ष्टुः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यस्मात् स्तोः इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''स्तोः ष्टुना ष्टुः संहितायाम् |'''</big>
<big><br />बालस् + षष्ठः → बालष्षष्ष्ठः</big>
Line 116 ⟶ 119:
<big>३. <u>जश्त्वसन्धिः</u></big>
<big>पदान्ते जश्त्वम्—</big>
<big>'''झलां जशोऽन्ते''' (८.२.३९) = पदान्ते झलः स्थाने जशादेशो भवति | पदात् परे कोऽपि वर्णः स्यात् वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात् परे अच् स्यात् हल् स्यात् वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम् अस्ति चेत् अन्या वार्ता | झल् प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्, ष्, स्, ह् | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश् प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्, ब्, ग्, ड्, द् इति | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | तर्हि पदस्य अन्ते झल्-प्रत्याहारे कश्चन वर्णः अस्ति चेत्, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदस्य अन्ते झलां जशः''' |</big>
Line 143 ⟶ 148:
<big><nowiki>*</nowiki>षष् इत्यस्य जसः लुक् जातं चेदपि '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इति सूत्रेण प्रत्ययलक्षणं भवति | अतः 'जस्' इति सुप्-प्रत्ययः अधुना न दृश्यते चेदपि षष् सुबन्तम् इति मन्तव्यम् | 'जसः लुक्' इति कारणतः '''न लुमताऽङ्गस्य''' (१.१.६३) इत्यनेन 'प्रत्ययलक्षणं न' इति चिन्त्यते चेत्, दोषो भवति | '''न लुमताऽङ्गस्य''' (१.१.६३) इत्यनेन यस्मिन् शब्दे 'लु' अस्ति, तेन शब्देन प्रत्ययादर्शनं विहितं चेत् सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात् | परन्तु अत्र अङ्गकार्यस्य विषयो नास्ति; अत्र 'पद' इति संज्ञा-विधानं न तु अङ्गकार्यम् |</big>
<big>एतावता पदान्ते जश्त्वस्य उदाहरणानि दत्तानि आसन् |</big>
<big>अत्र अपदान्ते जश्त्वम्—</big>
<big>'''झलां जश् झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''तयोर्य्वावचि''' '''संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''झलां जश् झशि संहितायाम्''' |</big>
Line 157 ⟶ 166:
<big>४. <u>चर्त्वसन्धिः</u></big>
<big>'''खरि च''' (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''झलां जश् झशि''' (८.४.५३) इत्यस्मात् '''झलां''' इत्यस्य अनुवृत्तिः; '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात् चर् इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''झलां चर् खरि च संहितायाम्''' |</big>
Line 181 ⟶ 191:
<big>वाक्यस्य अन्ते परन्तु स्थितिः भिन्ना; तत्र च भिन्नसूत्रेण चर्त्वं विधीयते—</big>
<big>'''वाऽवसाने''' (८.४.५६) = अवसाने झलः विकल्पेन चर्-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''झलां जश् झशि''' (८.४.५३) इत्यस्मात् '''झलां''' इत्यस्य अनुवृत्तिः | '''अभ्यासे''' '''चर्च''' (८.४.५४) इत्यस्मात् '''चर्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अवसाने''' '''झलां चरो वा''' |</big>
Line 204 ⟶ 215:
<big>विद्युत् → तकारः पदान्ते, '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन नित्यं जश्त्वादेशः→ विद्युद् → दकारः अवसाने, '''वाऽवसाने''' (८.४.५६) इत्येनन विकल्पेन चर्त्वादेशः → विद्युत् / विद्युद्</big>
<big>५. <u>अनुनासिकसन्धिः</u></big>
<big>'''यरोऽनुनासिकेऽनुनासिको''' '''वा''' (८.४.४५) = पदान्तस्य यरः अनुनासिको वा स्यात् अनुनासिके परे | '''स्थानेऽन्तरतमः''' इत्यनेन निर्धारणं क्रियते | कार्यं वैकल्पिकं; प्रत्यये परे तु नित्यम् | यर्-प्रत्याहारे हकारं वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | यरः षष्ठ्यन्तं, अनुनासिके सप्तम्यन्तम्, अनुनासिकः प्रथमान्तं, वा अव्ययपदम्, अनेकपदमिदं सूत्रम् | '''न पदान्ताट्टोरनाम्''' (८.४.४२) इत्यस्मात् '''पदान्तात्''' इत्यस्य अधिकारः, तस्य च विभक्तिपरिमाणः इति कृत्वा षष्ठीविभक्तौ भवति | '''तयोर्य्वावचि''' '''संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''पदान्तस्य यरः अनुनासिकः वा अनुनासिके संहितायाम्''' |</big>
Line 235 ⟶ 246:
<big>६. <u>अनुस्वारसन्धिः</u></big>
<big>'''मोऽनुस्वारः''' (८.३.२३) = पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति हलि परे | मः षष्ठ्यन्त्म्, अनुस्वारः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''हलि सर्वेषाम्''' (८.३.२२) इत्यस्मात् '''हलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि''' '''संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदस्य मः अनुस्वारः हलि संहितायाम्''' |</big>
Line 242 ⟶ 254:
Line 249 ⟶ 261:
<big
Line 273 ⟶ 286:
<big>सम् + लापः → सं + लापः → सल्ँलापः / संलापः</big>
<big>धेयं यत् 'सम्' इति उपसर्गः अस्ति, अतः इदं सर्वं कार्यं पदान्ते— '''मोऽनुस्वारः''' (८.३.२३), '''वा पदान्तस्य ('''८.४.५९) इत्याभ्यां सूत्राभ्याम् |</big>
Line 283 ⟶ 295:
<big>त्, थ्, द्, ध्, एभ्यः परो लकारः अव्यवहितः चेत् जश्त्वं कृत्वा दकारः, तदा '''तोर्लि''' (८.४.६०) इत्यनेन लकारादेशः |</big>
Line 295 ⟶ 307:
<big>८. <u>ङमुडागमसन्धिः</u></big>
<big>'''ङमो ह्रस्वादचि ङमुण् नित्यम्''' (८.३.३२) = ह्रस्वात् स्वरात् परः यः ङम्, तदन्तात् पदात् उत्तरस्य अचः ङमुट्-आगमो भवति नित्यम् | ङम्-प्रत्याहारे ङ्, ण्, न् इति वर्णाः अन्तर्भूताः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इति सूत्रेण '''ङमन्तात्''' '''पदात्''' इति फलितार्थो भवति | ङमुट् इत्यस्मिन् टकारः इत्-संज्ञकः, उकारः उच्चारणार्थः, ङम् च प्रत्याहारः; अनेन त्रयः आगमाः ङुट्, णुट्, नुट् च | '''यथासंख्यमनुदेशः''' '''समानाम्''' (१.३.१०) इत्यनेन पदान्ते क्रमेण ङकारः चेत् ङुडागमः, णकारः चेत् णुडागमः, नकारश्च चेत् नुडागमः | ङमः पञ्चम्यन्तं, ह्रस्वात् पञ्चम्यन्तम्, अचि सप्तम्यन्तं, ङमुट् प्रथमान्तं, नित्यं क्रियाविशेषणं द्वितीयान्तम्, अनेकपदमिदं सूत्रम् | '''तयोर्य्वावचि''' '''संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः, विभक्तिपरिणामेन '''पदात्''' | अनुवृत्ति-सहितसूत्रं— '''ह्रस्वात् ङमः पदात् ङमुट् अचि नित्यं संहितायाम्''' |</big>
Line 304 ⟶ 317:
<big>९. <u>पूर्वसवर्णसन्धिः</u></big>
<big>'''झयो होऽन्यतरस्याम्''' (८.४.६२) = झयः उत्तरस्य हकारस्य विकल्पेन पूर्वसवर्णादेशो भवति | झयः पञ्चम्यन्तं, हः षष्ठ्यन्तम्, अन्यतरस्यां सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''उदः स्थास्तम्भोः पूर्वस्य''' (८.४.६१) इत्यस्मात् '''पूर्वस्य''' इत्यस्य अनुवृत्तिः; '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्मात् '''सवर्णः''' इत्यस्य अनुवृत्तिः | अन्यतरस्याम् इत्युक्ते विकल्पेन | अनुवृत्ति-सहितसूत्रं— '''झयः हः पूर्वस्य सवर्णः अन्यतरस्याम्''' |</big>
<big>यद्यपि झय् इत्युक्ते सर्वाणि अननुनासिक-वर्गीयव्यञ्जनानि, तथापि अत्र सर्वत्र '''झलां''' '''जशोऽन्ते''' (८.२.३९) इत्यनेन जश्त्वं कृत्वा तृतीयसदस्यादेशो भवति |</big>
<big>धर्म्यात् + हि → '''झलां''' '''जशोऽन्ते''' (८.२.३९) → धर्म्याद् + हि</big>
<big>वणिक् + हसति → '''झलां''' '''जशोऽन्ते''' (८.२.३९) → वणिग् + हसति</big>
Line 320 ⟶ 334:
Line 326 ⟶ 340:
Line 339 ⟶ 353:
<big><u>पूर्वसवर्णविशेषः— 'उत्थानम्'</u></big>
<big>'''उदः स्थास्तम्भोः पूर्वस्य''' (८.४.६१) = उत्-उपसर्गोत्तरयोः स्था-स्तम्भ-धात्वोः पूर्वसवर्णादेशो भवति | स्था च स्तम्भ् च तयोरितरेतरद्वन्द्वः स्थास्तम्भौ, तयोः स्थास्थम्भोः | उदः पञ्चम्यन्तं, स्थास्तम्भोः षष्ठ्यन्तं, पूर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्मात् '''सवर्णः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''उदः स्थास्तम्भोः पूर्वस्य सवर्णः संहितायाम्''' |</big>
Line 353 ⟶ 368:
Line 362 ⟶ 377:
<big>१०. <u>छत्वसन्धिः</u></big>
<big>'''शश्छोऽटि''' (८.४.६३) = पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशो भवति अन्यतरस्याम् | शः षष्ठ्यन्तं, छः प्रथमान्तम्, अटि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''झयो होऽन्यतरस्याम्''' (८.४.६२) इत्यस्मात् '''झयः''' च '''अन्यतरस्त्याम्''' चेत्यनयोः अनुवृत्तिः | '''वा पदान्तस्य''' (८.४.५९) इत्यस्मात् '''पदान्तस्य''' इत्यस्य अनुवृत्तिः; विभक्तिपरिणामेन ''''पदान्तात्'''<nowiki/>' | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अट् प्रत्याहारे सर्वे स्वराः, ह्, य्, व्, र् चान्तर्भूताः | अनुवृत्ति-सहितसूत्रं— '''पदान्तात् झयः शः छः अटि संहितायम् अन्यतरस्याम्''' |</big><big><nowiki/></big>
<big>धेयं यत् '''शश्छोऽटि''' त्रिपादी सूत्रम् अतः प्रथमं जश्त्वं,श्चुत्वं, चर्त्वम् इत्यादिकं करणीयम् | सामान्यतया चर्त्वम् अन्तिमं फलम् अतः यद्यपि झयः उक्तः, परन्तु व्यवहारे शः प्राक् चर् इति सामान्यम् |</big>
Line 378 ⟶ 394:
<big>११. <u>सत्वसन्धिः</u></big>
<big>अस्मिन् सन्धौ अनेकसूत्राणि क्रमेण कार्यं कुर्वन्ति | सङ्क्षेपे पदान्त-नकारस्य स्थाने रु, तस्मात् रु इत्यस्मात् पूर्वं च विद्यमानस्वरः विकल्पेन अनुनासिकः; अननुनासिके पक्षे अनुस्वारागमः | तदा रु-स्थाने सकारः |</big>
Line 393 ⟶ 410:
<big>यथा—</big>
Line 404 ⟶ 421:
<big>कस्मिन् + चित् → कस्मि + रु + चित् → कस्मिर् + चित् → कस्मिँ /कस्मिं + रेफः + चित् → कस्मिँ /कस्मिं + ः + चित् → कस्मिँ /कस्मिं + स् + चित् → कस्मिँ /कस्मिं + श्चित् → कस्मिँश्चित् / कस्मिंश्चित्*</big>
<big>कान् + चित् → काँश्चित् / कांश्चित्</big>
Line 410 ⟶ 427:
<big><br /><nowiki>*</nowiki>बोध्यं यत् अत्र समासस्य विषयो नास्ति | 'कस्मिन्' इति पृथक् पदम् अस्ति, चित्/चन अपि पृथक् पदं; तदर्थं 'कस्मिन्' इति पदस्य विभक्तिः इदानीमपि दृश्यते | चित्/चन इति द्वयमपि पदम्, अव्ययञ्च | '''नश्छव्यप्रशान्''' (८.३.७) इत्यनेन नकारान्त<u>पदस्य</u> एव नकार-स्थाने सकारः | तर्हि अत्र सन्धिः इत्येव विषयः न तु समासः | यथा संहितायां विषये कयोरपि द्वयोः पदयोः सन्धिः भवति, तथैव अत्र |</big>
<big>तर्हि अत्र सन्धिचिन्तनप्रसङ्गे 'कस्मिन्' तु पदमस्ति इति कारणतः 'कस्मिन् + चित्' इति स्थितौ '''नश्चापदान्तस्य''' '''झलि''' (८.३.२४) इत्यस्य प्रसक्तिर्नास्ति | एवमेव सर्वत्र चित्/चन प्रसङ्गे चिन्तनीयं भवति | यथा कम् + चित् इति स्थितौ कम् इत्यस्य पदसंज्ञा इति कारणतः '''मोऽनुस्वारः''' (८.३.२३) , तदा '''वा पदान्तस्य ('''८.४.५९) इति भवति न तु '''नश्चापदान्तस्य''' '''झलि''' (८.३.२४) '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इति | अतः कम् + चित् → कंचित्/कञ्चित् इति रूपद्वयमपि साधु |</big>
<big>'''अत्रानुनासिकः पूर्वस्य तु वा''' (८.३.२) = अस्मिन् रु-प्रकरणे, रु-इत्यस्मात् पूर्ववर्ति-स्वरस्य स्थाने अनुनासिकादेशो विकल्पेन भवति | अधिकारसूत्रम्—८.३.२ इत्यस्मात् आरभ्य ८.३.१२ पर्यन्तं यत्र यत्र रुत्वं विहितं, तत्र तत्र रु इत्यस्मात् प्राक् यः वर्णोऽस्ति, तस्य विकल्पेन अनुनासिकादेशो भवति | अस्मिन् रुत्व-प्रकरणे यानि सूत्राणि सन्ति रुत्वविधायकानि, तेषु सूत्रेषु अयम् अर्थः सर्वत्र अन्वेति | अस्मिन् रुत्व-प्रकरणे च रुत्वं विधीयते संहितायाम् एव; पदान्ते रुत्वम् अपरस्मिन् प्रकरणे भवति अतः तत्र प्रकृतसूत्रस्य प्रवर्तनं नास्ति | अत्र अव्ययपदं, अनुनासिकः प्रथमान्तं, पूर्वस्य षष्ठ्यन्तं, तु अव्ययपदं, वा अव्ययपदम्, अनेकपदमिदं सूत्रम् | '''तयोर्य्वावचि''' '''संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अत्रानुनासिकः पूर्वस्य तु वा संहितायाम्''' |</big>
<big>'''अनुनासिकात्''' '''परोऽनुस्वारः''' (८.३.४) = यस्मिन् पक्षे अनुनासिकादेशो न भवति, तत्र रु-इत्यस्मात् प्राक् यः वर्णः, तस्य नित्यम् अनुस्वार-आगमो भवति | फलितार्थः अयं यत् अनुनासिकः न भवति चेत्, रोः पूर्वं यः वर्णः, तस्य अनन्तरम् अनुस्वारागमो भवति | '''अनुनासिकात्''' इत्युक्ते अनुनासिकं त्यक्त्वा; नाम यस्मिन् पक्षे अनुनासिको न भवति | अनुनासिकात् पञ्चम्यन्तं, परः प्रथमान्तम्, अनुस्वारः प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''मतुवसो रु सम्बुद्धौ छन्दसि''' (८.३.१) इत्यस्मात् '''रुः''' इत्यस्य पञ्चमीविभक्ति-विपरिणामं कृत्वा '''रोः''' इत्यस्य अनुवृत्तिः | '''अत्रानुनासिकः पूर्वस्य तु वा''' (८.३.२) इत्यस्मात् पूर्वस्य इत्यस्य पञ्चमीविभक्ति-विपरिणामं कृत्वा '''पूर्वस्मात्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अनुनासिकात् रोः पूर्वस्मात् परः अनुस्वारः संहितायाम्''' |</big>
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अवसानावस्थायाञ्च | खर् च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''रो रि''' (८.३.१४) इत्यस्मात् '''रोः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं— '''पदस्य रः विसर्जनीयः खरवसानयोः संहितायाम्''' |</big>
<big><br /></big><big>'''विसर्जनीयस्य''' '''सः''' (८.३.३४) = विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे | विसर्जनीयस्य षष्ठ्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्मात् '''खरि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''विसर्जनीयस्य सः खरि संहितायाम्''' |</big>
<big>'''विसर्जनीयस्य''' '''सः''' (८.३.३४) = विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे | विसर्जनीयस्य षष्ठ्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्मात् '''खरि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''विसर्जनीयस्य सः खरि संहितायाम्''' |</big>
<big>अत्र प्रश्नः उदेति, किमर्थम् अस्यां प्रक्रियायां सकारः पदान्ते भवति चेत् '''ससजुषो रुः''' (८.२.६६) इत्यनेन पुनः रूत्वं न भवति ? यथा—</big>
Line 440 ⟶ 457:
<big>१२. <u>यवलोपसन्धिः</u></big>
<big>''''लोपः शाकल्यस्य''' (८.३.१९) = अपूर्वयोः पदान्तयोः वकारयकारयोः लोपो भवति अशि परे शाकल्यस्य मतेन | अपूर्वयोः इत्यनेन तादृशवकारयकारौ याभ्यां पूर्वम् अ-वर्णः स्यात् | '''शाकल्यस्य''' इत्युक्ते शाकल्यस्य मतेन, नाम इदं विकल्पेन भवति | लोपः प्रथमान्तं, शाकल्यस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''व्योलघुप्रयत्नतरः''' '''शाकटयनस्य''' (८.३.१८) इत्यस्मात् '''व्योः''' इत्यस्य अनुवृत्तिः | '''भोभगोअघोअपूर्वस्य योऽशि''' (८.३.१७) इत्यस्मात् '''अपूर्वस्य''' च '''अशि''' चेत्यनयोः अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः; वचनविपरिणामं कृत्वा तदन्तविधिं कृत्वा पदान्तयोः | अनुवृत्ति-सहितसूत्रम्— '''अपूर्वयोः पदान्तयोः व्योः लोपः अशि संहितायां शाकल्यस्य''' |</big>
Line 452 ⟶ 470:
<big>'''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति '''अशि परे''' | एतावता च अस्माभिः दृष्टं किं भवति अचि परे | किन्तु हश्-वर्णाः अपि सन्ति; तेषु परेषु किं भवति ? एतादृशी परिस्थितिः वस्तुतः विरलतया लभ्यते | तथापि अस्य बोधनार्थम् एकम् उदाहरणं पश्येम |</big>
Line 471 ⟶ 489:
<big>'''न विभक्तौ तुस्माः''' (१.३.४) = धातूनां तिङ्-प्रत्ययाः, सुबन्तानाम् (इत्युक्ते नामपदानां) सुप्-प्रत्ययाः—एते सर्वे विभक्तयः इत्युच्यन्ते ('''विभक्तिश्च''' इति सूत्रेण) | एषां विभक्तीनां अन्ते यदि तवर्गीयः वर्णः (त्, थ्, द्, ध्, न्), सकारः, अथवा मकारः अस्ति, तर्हि इदं सूत्रं '''हलन्त्यम्''' इत्यस्य कार्यं बाधते | '''हलन्त्यम्''' इत्यनेन एषां वर्णानाम् इत्-संज्ञा भवति स्म, किन्तु '''न विभक्तौ तुस्माः''' इत्यनेन इत्-संज्ञा बाधिता भवति; अनेन इत्-संज्ञा न भवति | यथा सुप्-प्रत्ययाः जस्, भ्याम्, भिस्, अपि च तिङ्-प्रत्ययाः तस्, वस्, मस्—अत्र भ्याम् इत्यस्य मकारः, तस् इत्यस्य सकारः, एषां वर्णानाम् इत्-संज्ञा भवति स्म, किन्तु न भवति |</big>
Line 486 ⟶ 504:
<big>१३. <u>तुगागमसन्धिः</u></big>
<big>'''छे च''' (६.१.७२) = छकारे परे ह्रस्वस्वरस्य तुक्-आगमो भवति | तुक् कित् अस्ति अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''ह्रस्वस्य पिति कृति तुक्''' (६.१.७०) इत्यस्मात् '''ह्रस्वस्य, तुक्''' इत्यनयोः अनुवृत्तिः | '''संहितायाम्''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''ह्रस्वस्य तुक् छे च संहितायाम्''' |</big>
Line 509 ⟶ 528:
<big>मात्रा + छन्दः → '''पदान्ताद्वा''' (६.१.७५) → मात्राछन्दः (अथवा) → मात्रा + तुक् + छन्दः → '''स्तोः श्चुना श्चुः''' (८.४.४०) → मात्रा + च् + छन्दः → मात्राच्छन्दः / मात्राछन्दः</big>
<big>१४. <u>द्वित्वम्</u></big>
<big>'''अनचि च''' (८.४.४७) = अचः परस्य यरो द्वे वा स्तः न त्वचि | न अच्, अनच् नञ्तत्पुरुषः, तस्मिन् अनचि | अनचि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इत्यस्मात् '''यरः, वा''' इत्यनयोः अनुवृत्तिः | '''अचो रहाभ्यां द्वे''' (८.४.४६) इत्यस्मात् '''अचः, द्वे''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अचः यरः द्वे वा अनचि च संहितायाम्''' |</big>
<big>सुधी + उपास्यः → '''इको यणचि''' (६.१.७६) → सुध्य् + उपास्यः → '''अनचि च''' (८.४.४७) इत्यनेन यरः वा द्वित्वम् → सुध्ध्य् + उपास्यः → '''झलां जश् झशि''' (८.४.५३) इत्यनेन जश्त्वम् → सुद्ध्य् + उपास्यः → सुद्ध्युपास्यः / सुध्युपास्यः</big>
<u><big>हल्-सन्धीनां क्रमः कथं ज्ञायते?</big></u>
Line 531 ⟶ 551:
<big>हल्-सन्धि-सूत्राणि सर्वाणि त्रिपाद्याम् | अतः एकत्र हल्-सन्धि-विधायकसूत्रद्वयम् आयाति चेत्, परसूत्रस्य असिद्धत्वात् पूर्वसूत्रम् आगत्य कार्यं करोति | यत् + जायते → '''झलां''' '''जशोऽन्ते''' (८.२.३९), '''स्तोः श्चुना श्चुः''' (८.४.४०) एकत्र आयातः → '''स्तोः श्चुना श्चुः''' इत्यस्य असिद्धत्वात् '''झलां जशोऽन्ते''' पूर्वं भवति → यद् + जायते → '''स्तोः श्चुना श्चुः''' इत्यनेन श्चुत्वम् → यज् + जायते → यज्जायते | एवमेव सर्वाणि हल्-सन्धि-सूत्राणि |</big>
<u><big>हल्-सन्धिः - सूत्रक्रमः</big></u>
Line 634 ⟶ 654:
Line 645 ⟶ 664:
<big
<big>अस्माकं सुब्रह्मण्य-महोदयः अत्र इदं सन्धिप्रक्रियाचिन्तनं चित्रेण निरूपितवान्—</big>
[[File:पश्यन् + शृण्वन् रूपाणि original-midsize.jpg|alt=|center|686x686px]]
<big>अस्माकं शीतल-भगिनी सुन्दररीत्या वर्णानां स्थानानि प्रयत्नान् च कोष्ठकरूपेण निरूपितवती—</big>
[[File:स्थानानि_प्रयत्_नाश्च_1.jpg|alt=|border|777x777px]]
[[File:स्थानानि_प्रयत्_नाश्च.jpg|alt=|border|917x917px]]
<big>Swarup – March 2014 (additions October 2017)</big>
|