9---anye-vyAkaraNa-sambaddha-viShayAH/05---halsandhiH-sUtrasahitaRruShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(5 intermediate revisions by 2 users not shown)
Line 149:
 
 
 
<big>एतावता पदान्ते जश्त्वस्य उदाहरणानि दत्तानि आसन्‌ |</big>
 
 
 
Line 386 ⟶ 388:
 
<big>धेयं यत्‌ '''शश्छोऽटि''' त्रिपादी सूत्रम्‌ अतः प्रथमं जश्त्वं,श्चुत्वं, चर्त्वम्‌ इत्यादिकं करणीयम्‌ | सामान्यतया चर्त्वम्‌ अन्तिमं फलम्‌ अतः यद्यपि झयः उक्तः, परन्तु व्यवहारे शः प्राक्‌ चर् इति सामान्यम्‌ |</big>
 
<big>तत्‌ + शिवः → '''झलां''' '''जशोऽन्ते''' (८.२.३९) इत्यनेन पदान्ते झलः स्थाने जशादेशः → तद्‌ + शिवः → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन शकारस्य प्रभावेण दकारस्य श्चुत्वम्‌ → तज्‌ + शिवः → '''खरि च''' (८.४.५५) इत्यनेन झलः स्थाने चरादेशः खरि परे → तच्‌ + शिवः → '''शश्छोऽटि''' (८.४.६३) इत्यनेन पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशः अन्यतरस्याम्‌ → तच्छिवः / तच्शिवः</big>
 
 
Line 397 ⟶ 399:
 
<big>११. <u>सत्वसन्धिः</u></big>
 
 
<big>अस्मिन्‌ सन्धौ अनेकसूत्राणि क्रमेण कार्यं कुर्वन्ति | सङ्क्षेपे पदान्त-नकारस्य स्थाने रु, तस्मात्‌ रु इत्यस्मात्‌ पूर्वं च विद्यमानस्वरः विकल्पेन अनुनासिकः; अननुनासिके पक्षे अनुस्वारागमः | तदा रु-स्थाने सकारः |</big>
Line 430 ⟶ 433:
 
 
<big>'''अत्रानुनासिकः पूर्वस्य तु वा''' (८.३.२) = अस्मिन्‌ रु-प्रकरणे, रु-इत्यस्मात्‌ पूर्ववर्ति-स्वरस्य स्थाने अनुनासिकादेशो विकल्पेन भवति | अधिकारसूत्रम्‌—८.३.२ इत्यस्मात्‌ आरभ्य ८.३.१२ पर्यन्तं यत्र यत्र रुत्वं विहितं, तत्र तत्र रु इत्यस्मात्‌ प्राक्‌ यः वर्णोऽस्ति, तस्य विकल्पेन अनुनासिकादेशो भवति | अस्मिन्‌ रुत्व-प्रकरणे यानि सूत्राणि सन्ति रुत्वविधायकानि, तेषु सूत्रेषु अयम्‌ अर्थः सर्वत्र अन्वेति | अस्मिन्‌ रुत्व-प्रकरणे च रुत्वं विधीयते अपदान्तेसंहितायाम् एव; पदान्ते रुत्वम्‌ अपरस्मिन्‌ प्रकरणे भवति अतः तत्र प्रकृतसूत्रस्य प्रवर्तनं नास्ति | अत्र अव्ययपदं, अनुनासिकः प्रथमान्तं, पूर्वस्य षष्ठ्यन्तं, तु अव्ययपदं, वा अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अत्रानुनासिकः पूर्वस्य तु वा संहितायाम्'''‌ |</big>
 
 
Line 439 ⟶ 442:
 
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अवसानावस्थायाञ्च | खर् च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात् '''रोः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं— '''पदस्य रः विसर्जनीयः खरवसानयोः संहितायाम्‌''' |</big>
<big><br /></big><big>'''विसर्जनीयस्य''' '''सः''' (८.३.३४) = विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे | विसर्जनीयस्य षष्ट्यन्तंषष्ठ्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्मात्‌ '''खरि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''विसर्जनीयस्य सः खरि संहितायाम्‌''' |</big>
 
 
 
<big>'''विसर्जनीयस्य''' '''सः''' (८.३.३४) = विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे | विसर्जनीयस्य षष्ट्यन्तंषष्ठ्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्मात्‌ '''खरि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''विसर्जनीयस्य सः खरि संहितायाम्‌''' |</big>
 
 
Line 666 ⟶ 669:
 
<big>'''झरो झरि सवर्णे''' (८.४.६५) = हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''हलो यमां यमि लोपः''' (८.४.६४) इत्यस्मात्‌ '''हलः, लोपः''' चेत्यनयोः अनुवृत्तिः | '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) इत्यस्मात्‌ '''अन्यतरस्याम्‌''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम्''' |</big>
 
 
 
Line 672 ⟶ 676:
 
[[File:पश्यन् + शृण्वन् रूपाणि original-midsize.jpg|alt=|center|686x686px]]
 
 
 
<big>अस्माकं शीतल-भगिनी सुन्दररीत्या वर्णानां स्थानानि प्रयत्नान्‌ च कोष्ठकरूपेण निरूपितवती—</big>
 
 
[[File:स्थानानि_प्रयत्_नाश्च_1.jpg|alt=|border|777x777px]]
 
 
 
[[File:स्थानानि_प्रयत्_नाश्च.jpg|alt=|border|917x917px]]
 
 
<big>Swarup – March 2014 (additions October 2017)</big>
page_and_link_managers, Administrators
5,097

edits