9---anye-vyAkaraNa-sambaddha-viShayAH/05---halsandhiH-sUtrasahitaRruShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 85:

'''तोः षि''' (८.४.४३) = तवर्गस्य ष्टुत्वं न स्यात्‌ षकारे परे | '''ष्टुना ष्टुः''' (८.४.४१) इत्यस्य निषेधकसूत्रम्‌ | तोः षष्ठ्यन्तं, षि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ष्टुना''' '''ष्टुः''' (८.४.४१) इत्यसमत्‌ '''ष्टुः''' इत्यस्य अनुवृत्तिः | '''न''' '''पदान्ताट्टोरनाम्‌''' (८.४.४२) इत्यस्मात्‌ न इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''तोः''' '''षि''' '''न ष्टुः''' '''संहितायाम्‌''' |

Line 91 ⟶ 92:

'''न पदान्ताट्टोरनाम्‌''' (८.४.४२) = पदान्तात्‌ टवर्गात्‌ स्तोः ष्टुः न स्यात्‌ नामः नकारं वर्जयित्वा | '''ष्टुना''' '''ष्टुः''' (८.४.४१) इत्यस्य निषेधकसूत्रम्‌ | न अव्ययपदं, पदान्तात्‌ पञ्चम्यन्तं, टोः पञ्चम्यन्तम्‌, अनाम्‌ लुप्तषष्ठीकं पदम्‌, अनेकपदमिदं सूत्रम्‌ | '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यस्मात्‌ '''स्तोः''' इत्यस्य अनुवृत्तिः | '''ष्टुना''' '''ष्टुः''' (८.४.४१) इत्यस्मात्‌ '''ष्टुः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्'''‌ (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदान्तात्‌ टोः स्तोः ष्टुः न, अनाम्‌ संहितायाम्'''‌ |

Line 112 ⟶ 114:

पदान्ते जश्त्वम्—

'''झलां जशोऽन्ते''' (८.२.३९) = पदान्ते झलः स्थाने जशादेशो भवति | पदात्‌ परे कोऽपि वर्णः स्यात्‌ वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात्‌ परे अच्‌ स्यात्‌ हल्‌ स्यात्‌ वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम्‌ अस्ति चेत्‌ अन्या वार्ता | झल्‌ प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्‌, ष्‌, स्‌, ह्‌ | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश्‌ प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्‌, ब्‌, ग्‌, ड्‌, द्‌ इति | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | तर्हि पदस्य अन्ते झल्‌-प्रत्याहारे कश्चन वर्णः अस्ति चेत्‌, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदस्य अन्ते झलां जशः''' |

Line 173 ⟶ 177:

वाक्यस्य अन्ते परन्तु स्थितिः भिन्ना; तत्र च भिन्नसूत्रेण चर्त्वं विधीयते—

'''वाऽवसाने''' (८.४.५६) = अवसाने झलः विकल्पेन चर्-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्‌, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः | '''अभ्यासे''' '''चर्च''' (८.४.५४) इत्यस्मात्‌ '''चर्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अवसाने''' '''झलां चरो वा''' |

Line 181 ⟶ 187:

'''विरामोऽवसानम्‌''' (१.४.११०) = वर्णानाम्‌ अभावः अवसानसंज्ञकः | विरामः प्रथमान्तम्‌, अवसानं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— '''विरामः अवसानम्'''‌ |

Line 190 ⟶ 197:

अस्मिन्‌ वाक्ये विद्युत्‌ इति पदम्‌ अस्ति; पदान्ते तकारो विद्यते अतः '''झलां''' '''जशोऽन्ते''' (८.२.३९) इत्यनेन नित्यं दकारादेशो भवति—
विद्युत्‌ → '''झलां''' '''जशोऽन्ते''' (८.२.३९) → विद्युद्‌

विद्युत्‌ → '''झलां''' '''जशोऽन्ते''' (८.२.३९) → विद्युद्‌
Line 226 ⟶ 234:

गृहम्‌ + च → गृहं च

'''नश्चापदान्तस्य''' '''झलि''' (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | '''मो‍ऽनुस्वारः''' (८.३.२३) इत्यस्मात्‌ '''मः''', '''अनुस्वारः''' इत्यनयोः अनुवृत्तिः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम्''' |

रम्‌ + स्यते → रंस्यते

७. परसवर्णसन्धिः

७. परसवर्णसन्धिः
Line 241 ⟶ 252:

'''वा पदान्तस्य''' (८.४.५९) = पदान्तस्य अनुस्वारस्य परसवर्णादेशो वा भवति ययि परे | '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्य बाधकसूत्रम्‌; अनेन पदान्ते परसवर्णादेशः वैकल्पिकः न तु नित्यः | वा अव्ययपदं, पदान्तस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्य पूर्णतया अनुवृत्तिः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदान्तस्य अनुस्वारस्य वा परसवर्णः ययि संहितायाम्‌''' |

Line 259 ⟶ 271:

'''तोर्लि''' (८.४.६०) = तवर्गस्य लकारे परे परसवर्णः | तोः षष्ठ्यन्तं, लि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्मात्‌ '''परसवर्णः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''तोः परसवर्णः लि संहितायाम्‌''' |

Line 307 ⟶ 320:

२) लोके अपदान्ते सूत्रस्य न कुत्रापि अवसरः इति कृत्वा सूत्रे 'पदान्ते' इति कथनस्य आवश्यकता नास्त्येव | अनेन लाघवम्‌— अपदान्ते न प्राप्यते, अतः पदान्ते नोक्तम्‌ |

'''हुझल्भ्यो हेर्धिः''' (६.४.१०१) = हु-धातुतः झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशो भवति | '''येनविधिस्तदन्तस्य''' (१.१.७२) इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम्‌ अन्ते झल्‌ | हुश्च झलश्च तेषामितरेतरद्वद्वो हुझलः, तेभ्यो हुझल्भ्यः | हुझल्भ्यः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, धिः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.११) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''हुझल्भ्यः अङ्गेभ्यः हेः धिः''' |

Line 321 ⟶ 335:

'''झरो झरि सवर्णे''' (८.४.६५) = हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''हलो यमां यमि लोपः''' (८.४.६४) इत्यस्मात्‌ '''हलः''', '''लोपः''' चेत्यनयोः अनुवृत्तिः | '''झयो होऽन्यतरस्याम्'''‌ (८.४.६२) इत्यस्मात्‌ '''अन्यतरस्याम्‌''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम्''' |

उत्‌ + स्थानम्‌ → '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन पदान्ते झलः स्थाने जशादेशः → उद्‌ + स्थानम्‌ →'''खरि च''' (८.४.५५) → उत् + स्थानम्‌ → '''आदेः परस्य''' (१.१.५४) इत्यस्य साहाय्येन '''उदः स्थास्तम्भोः पूर्वस्य''' (८.४.६१) इत्यनेन पञ्चम्यन्तस्य 'उदः' इत्यस्य अग्रिमशब्दस्य प्रथमवर्णस्य स्थाने पूर्वसवर्णादेशः → 'स्थानम्‌' इत्यस्य सकारस्य पूर्वसवर्णादेशः, नाम दकारस्य दन्त्यवर्गे (तवर्गे) सकारेण तुल्यः वर्णः → '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन सकारस्य स्थाने थकारादेशः* → उत् + थ्थानम्‌ → '''झरो झरि सवर्णे''' (८.४.६५) इत्यनेन हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे अतः विकल्पेन थकारलोपः → उत्‌ + थानम्‌ / थ्थानम्‌ → वर्णमेलने → उत्थानम्‌ / उत्थ्थानम्‌

Line 336 ⟶ 352:

धेयं यत्‌ '''शश्छोऽटि''' त्रिपादी सूत्रम्‌ अतः प्रथमं जश्त्वं,श्चुत्वं, चर्त्वम्‌ इत्यादिकं करणीयम्‌ | सामान्यतया चर्त्वम्‌ अन्तिमं फलम्‌ अतः यद्यपि झयः उक्तः, परन्तु व्यवहारे शः प्राक्‌ चर् इति सामान्यम्‌ |
तत्‌ + शिवः → '''झलां''' '''जशोऽन्ते''' (८.२.३९) इत्यनेन पदान्ते झलः स्थाने जशादेशः → तद्‌ + शिवः → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन शकारस्य प्रभावेण दकारस्य श्चुत्वम्‌ → तज्‌ + शिवः → '''खरि च''' (८.४.५५) इत्यनेन झलः स्थाने चरादेशः खरि परे → तच्‌ + शिवः → '''शश्छोऽटि''' (८.४.६३) इत्यनेन पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशः अन्यतरस्याम्‌ → तच्छिवः / तच्शिवः

Line 377 ⟶ 394:

'''अत्रानुनासिकः पूर्वस्य तु वा''' (८.३.२) = अस्मिन्‌ रु-प्रकरणे, रु-इत्यस्मात्‌ पूर्ववर्ति-स्वरस्य स्थाने अनुनासिकादेशो विकल्पेन भवति | अधिकारसूत्रम्‌—८.३.२ इत्यस्मात्‌ आरभ्य ८.३.१२ पर्यन्तं यत्र यत्र रुत्वं विहितं, तत्र तत्र रु इत्यस्मात्‌ प्राक्‌ यः वर्णोऽस्ति, तस्य विकल्पेन अनुनासिकादेशो भवति | अस्मिन्‌ रुत्व-प्रकरणे यानि सूत्राणि सन्ति रुत्वविधायकानि, तेषु सूत्रेषु अयम्‌ अर्थः सर्वत्र अन्वेति | अस्मिन्‌ रुत्व-प्रकरणे च रुत्वं विधीयते अपदान्ते एव; पदान्ते रुत्वम्‌ अपरस्मिन्‌ प्रकरणे भवति अतः तत्र प्रकृतसूत्रस्य प्रवर्तनं नास्ति | अत्र अव्ययपदं, अनुनासिकः प्रथमान्तं, पूर्वस्य षष्ठ्यन्तं, तु अव्ययपदं, वा अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अत्रानुनासिकः पूर्वस्य तु वा संहितायाम्'''‌ |

'''अनुनासिकात्‌''' '''परोऽनुस्वारः''' (८.३.४) = यस्मिन्‌ पक्षे अनुनासिकादेशो न भवति, तत्र रु-इत्यस्मात्‌ प्राक्‌ यः वर्णः, तस्य नित्यम्‌ अनुस्वार-आगमो भवति | फलितार्थः अयं यत्‌ अनुनासिकः न भवति चेत्‌, रोः पूर्वं यः वर्णः, तस्य अनन्तरम्‌ अनुस्वारागमो भवति | '''अनुनासिकात्‌''' इत्युक्ते अनुनासिकं त्यक्त्वा; नाम यस्मिन्‌ पक्षे अनुनासिको न भवति | अनुनासिकात्‌‍ पञ्चम्यन्तं, परः प्रथमान्तम्, अनुस्वारः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''मतुवसो रु सम्बुद्धौ छन्दसि''' (८.३.१) इत्यस्मात्‌ '''रुः''' इत्यस्य पञ्चमीविभक्ति-विपरिणामं कृत्वा '''रोः''' इत्यस्य अनुवृत्तिः | '''अत्रानुनासिकः पूर्वस्य तु वा''' (८.३.२) इत्यस्मात्‌ पूर्वस्य इत्यस्य पञ्चमीविभक्ति-विपरिणामं कृत्वा '''पूर्वस्मात्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अनुनासिकात्‌ रोः पूर्वस्मात्‌ परः अनुस्वारः संहितायाम्‌''' |

'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अवसानावस्थायाञ्च | खर् च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात् '''रोः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं— '''पदस्य रः विसर्जनीयः खरवसानयोः संहितायाम्‌''' |

'''विसर्जनीयस्य''' '''सः''' (८.३.३४) = विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे | विसर्जनीयस्य षष्ट्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्मात्‌ '''खरि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''विसर्जनीयस्य सः खरि संहितायाम्‌''' |

Line 388 ⟶ 407:

गच्छन्‌ + तावता → गच्छ + रु + तावता → गच्छँ / गच्छं + रेफः + तावता → गच्छँ / गच्छं + स्‌ + तावता → अत्र '''ससजुषो रुः''' (८.२.६६) इत्येनन रु-आदेशः स्यात्‌ | किमर्थं न भवति ?

'''ससजुषो रुः''' (८.२.६६) = पदान्ते सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''ससजुषोः पदस्य रुः''' |

Line 410 ⟶ 430:
'''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति '''अशि परे''' | एतावता च अस्माभिः दृष्टं किं भवति अचि परे | किन्तु हश्‌-वर्णाः अपि सन्ति; तेषु परेषु किं भवति ? एतादृशी परिस्थितिः वस्तुतः विरलतया लभ्यते | तथापि अस्य बोधनार्थम्‌ एकम्‌ उदाहरणं पश्येम |

'पुरुषाः गच्छन्ति' इति स्थितौ वस्तुतः मूले 'पुरुषास्‌ गच्छन्ति' इति स्थितिः आसीत्‌ | तर्हि अस्मात्‌ आरभ्य एकवारं किं भवति इति अवलोकयाम—

(बहुवचने पुरुष + जस्‌ → पुरुष + अस्‌ →) पुरुषास्‌ गच्छन्ति → '''न विभक्तौ तुस्माः''' (१.३.४) इत्यनेन सकार-लोपः निषिध्यते → '''ससजुषो रुः''' (८.२.६६) इत्यनेन स्‌-स्थाने 'रु' → पुरुषा + रु + गच्छन्ति → रु इत्यस्य उकारस्य इत्‌-संज्ञालोपश्च → '''भोभगोअघोअपूर्वस्य''' '''योशि''' (८.३.१७) इत्यनेन आकारोत्तरस्य 'रु'-शब्दस्य रेफस्य यकारादेशः अशि परे → पुरुषाय्‌ + गच्छन्ति → '''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति '''अशि परे''' → परन्तु '''हलि सर्वेषाम्‌''' (८.३.२२) इत्यनेन '''हलि परे''' अयं यकारलोपः नित्यः → 'पुरुषा गच्छन्ति' इति एकमेव रूपम्‌ |
Line 445 ⟶ 463:

'''पदान्ताद्वा''' (६.१.७५) = दीर्घात्पदान्तात्‌ छे परे तुग्वा स्यात्‌ | पदान्तात्‌ पञ्चम्यन्तं, वा अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''छे च''' (६.१.७२) इत्यस्मात्‌ '''छे''' इत्यस्य अनुवृत्तिः | '''दीर्घात्''' (६.१.७४) इत्यस्य पूर्णतया अनुवृत्तिः | '''ह्रस्वस्य पिति कृति तुक्'''‌ (६.१.७०) इत्यस्मात्‌ '''तुक्‌''' इत्यस्य अनुवृत्तिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''दीर्घात् पदान्तात्‌ तुक्‌ छे वा संहितायाम्'''‌ |

Line 467 ⟶ 486:
'''पूर्वत्रासिद्धम्‌''' (८.२.१) = अनेन सूत्रेण अष्टाध्यायी इति ग्रन्थः भागद्वये विभजितः | प्रथमाध्यायस्य आरम्भतः अष्टमाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं प्रथमभागः; अष्टमाध्यायस्य द्वितीयः, तृतीयः, चतुर्थश्च पादाः मिलित्वा द्वितीयभागः | प्रथमभागस्य नाम सपादसप्ताध्यायी; द्वितीयभागस्य नाम त्रिपादी | अनेन सूत्रेण यानि सूत्राणि सपादसप्ताध्याय्यां सन्ति, तानि प्रति त्रिपाद्यां स्थितानि सूत्राणि असिद्धानि | अपि च त्रिपाद्यां यानि सूत्राणि पूर्वं सन्ति, तानि प्रति परं स्थितानि सूत्राणि असिद्धानि | सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम् | त्रयाणां पादानां समाहारः त्रिपादी (द्विगुसमासः) | सप्तानाम्‌ अध्यायानां समाहारः सप्ताधायी; पादेन सहिता, सपादसप्ताध्यायी | पूर्वस्मिन्‌ इति पूर्वत्र | न सिद्धम्‌, असिद्धम्‌ | पूर्वत्र अव्ययम्‌, असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इदं सूत्रम्‌ अधिकारसूत्रम्‌; अष्टाध्याय्याः अन्तपर्यन्तं प्रवर्तते |

('''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यस्य कार्यं द्विविधं— '''शास्त्रासिद्धं''', '''कार्यासिद्धं''' च | द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत्‌, परत्रिपादिसूत्रं स्वयम्‌ असिद्धम्‌ इति कारणात्‌ शास्त्रासिद्धम्‌ इत्युच्यते | पूर्वमेव त्रिपादिसूत्रस्य कार्यं कारितं चेत्, तर्हि तत्पश्चात्‌ सपादसप्ताध्यायिसूत्रं वा पूर्वत्रिपादिसूत्रं वा आयाति चेत्‌, तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव यतः तेन परत्रिपादिसूत्रेण यत्‌ किमपि क्रियते तत्‌ '''पूर्वत्रासिद्धम्‌''' इत्यनेन असिद्धम्‌; इदं कार्यासिद्धम्‌ इत्युच्यते |)
Line 577 ⟶ 595:

सन्‌ + शम्भुः → '''शि तुक्‌''' (८.३.३१) इत्यनेन तुक्‌-आगमः विकल्पेन → सन्‌ + त्‌ + शम्भुः → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन तकारस्य चुत्वादेशः → सन्‌ + च्‌ + शम्भुः → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन नकारस्य चुत्वादेशः → सञ्‌ + च्‌ + शम्भुः → '''शश्छोऽटि''' (८.४.६३) इत्यनेन झयः उत्तरस्य शकारस्य अटि परे छकारादेशः विकल्पेन → सञ्‌ + च्‌ + छम्भुः → '''झरो झरि सवर्णे''' (८.४.६५) इत्यनेन हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे → सञ्‌ + छम्भुः → सञ्छम्भुः इति प्रथमं रूपम्‌ |

'''झरो झरि सवर्णे''' (८.४.६५) इत्यनेन विकल्पेन चकारस्य लोपो न भवति चेत्‌ सञ्च्छम्भुः इति द्वितीयरूपं; '''शश्छोऽटि''' (८.४.६३) इत्यनेन विकल्पेन छकारादेशो न भवति चेत्‌ सञ्च्शम्भुः इति तृतीयं रूपं; '''शि तुक्‌''' (८.३.३१) इत्यनेन विकल्पेन तुक्‌-आगमो न भवति चेत्‌ सञ्शम्भुः इति चतुर्थरूपम्‌ |

एवमेव यत्र यत्र पदान्ते नकारः ततः अग्रे शकारः, तत्र सर्वत्र वैकल्पिकरूपचतुष्टयम्‌ | पश्यन्‌ + शृण्वन्‌ | गच्छन्‌ + शिक्षकः |

'''शि तुक्‌''' (८.३.३१) = पदान्तस्य नकारस्य विकल्पेन तुक्‌-आगमो भवति शकारे परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः 'नः पदस्य' | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन तुक्‌ आगमः पदान्तनकारस्य अनन्तरम्‌ | शि सप्तम्यन्तं, तुक्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''नश्च''' (८.३.३०) इत्यस्मात्‌ '''नः''' इत्यस्य अनुवृत्तिः | '''हे मपरे वा''' (८.३.२६) इत्यस्मात्‌ '''वा''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''नः पदस्य तुक्‌ शि वा संहितायाम्''' |

Line 595 ⟶ 615:

अस्माकं शीतल-भगिनी सुन्दररीत्या वर्णानां स्थानानि प्रयत्नान्‌ च कोष्ठकरूपेण निरूपितवती—

[[File:स्थानानि_प्रयत्_नाश्च_1.jpg|alt=|border|777x777px]]

Line 608 ⟶ 622:
[[File:स्थानानि_प्रयत्_नाश्च.jpg|alt=|border|917x917px]]

Swarup – March 2014 (additions October 2017)

page_and_link_managers, Administrators
5,097

edits