9---anye-vyAkaraNa-sambaddha-viShayAH/05---halsandhiH-sUtrasahitaRruShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 63:
 
<big>प्रश्‌ + नः → प्रश्नः |</big>
 
 
<big><nowiki>*</nowiki>धेयं यत्‌ यत्र सन्धिचिन्तनं भवति, सदा ज्ञातव्यं यत्‌ प्रवर्तमानं सन्धिकार्यं पदान्ते अस्ति न वा | अत्र 'भवत्‌ + चक्षु' इति समासस्य प्रसङ्गः; अनयोः पूर्वोत्तरपदयोः सन्धिः करणीयः | तर्हि प्रमुखप्रश्नः भवति यत्‌ 'भवत्‌' इति पूर्वपदस्य पदसंज्ञा अस्ति न वा | समासस्य लौकिकविग्रहवाक्यं भवति, यथा 'भवच्चक्षुः' इत्यस्य कृते 'भवतः चक्षुः' इति लौकिकविग्रहवाक्यम्‌ | अलौकिकविग्रहः (शास्त्रीयविग्रहवाक्यम्‌) अपि भवति, यस्य द्वारा समासनिर्माणं सिध्यति | यथा 'भवच्चक्षुः' इत्यस्य 'भवत्‌ ङस्‌ + चक्षु सु' इति भवति | अत्र प्रथमतया समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण | तदा सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | 'भवत्‌ ङस्‌ + चक्षु सु' इत्यस्मिन्‌ ङस्‌, सु इत्यनयोः लुक्‌ → भवत्‌ + चक्षु | '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'भवत्‌' इत्यस्य अन्ते सुप्‌ नास्ति; तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | इत्थञ्च पर्यवसितं यत्‌— सन्धिचिन्तनावसरे समासे पूर्वपदस्य पदसंज्ञा भवति | (लुकि सति लुप्तपदम्‌ अधिकृत्य अङ्गकार्यं न भवति, किन्तु पदसंज्ञा इति नामकरणं न तु अङ्गकार्यम्‌ अतः पूर्वपदस्य पदसंज्ञां निमित्तीकृत्य सन्धिकार्यम्‌ इत्यादिकं प्रवर्तनीयम्‌ |) एतदाधारेण—</big>
page_and_link_managers, Administrators
5,097

edits