9---anye-vyAkaraNa-sambaddha-viShayAH/05---halsandhiH-sUtrasahitaRruShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 76:

२. ष्टुत्वसन्धिः

'''ष्टुना ष्टुः''' (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | '''यथासंख्यमनुदेशः समानाम्'''‌ (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | ष्‌ च टुश्च ष्टुः, तेन ष्टुना, समाहारद्वन्द्वः | ष्‌ च टुश्च ष्टुः, समाहारद्वन्द्वः | ष्टुना तृतीयान्तं, ष्टुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यस्मात्‌ स्तोः इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्'''‌ (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''स्तोः ष्टुना ष्टुः संहितायाम्‌ |'''
Line 124 ⟶ 123:

पदान्ते जश्त्वम्—

'''झलां जशोऽन्ते''' (८.२.३९) = पदान्ते झलः स्थाने जशादेशो भवति | पदात्‌ परे कोऽपि वर्णः स्यात्‌ वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात्‌ परे अच्‌ स्यात्‌ हल्‌ स्यात्‌ वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम्‌ अस्ति चेत्‌ अन्या वार्ता | झल्‌ प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्‌, ष्‌, स्‌, ह्‌ | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश्‌ प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्‌, ब्‌, ग्‌, ड्‌, द्‌ इति | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | तर्हि पदस्य अन्ते झल्‌-प्रत्याहारे कश्चन वर्णः अस्ति चेत्‌, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदस्य अन्ते झलां जशः''' |
Line 157 ⟶ 155:

अत्र अपदान्ते जश्त्वम्—

'''झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''झलां जश्‌ झशि संहितायाम्''' |
Line 167 ⟶ 164:

४. चर्त्वसन्धिः

'''खरि च''' (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः; '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात्‌ चर् इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्'''‌ (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''झलां चर् खरि च संहितायाम्''' ‌|
Line 192 ⟶ 188:

वाक्यस्य अन्ते परन्तु स्थितिः भिन्ना; तत्र च भिन्नसूत्रेण चर्त्वं विधीयते—

'''वाऽवसाने''' (८.४.५६) = अवसाने झलः विकल्पेन चर्-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्‌, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः | '''अभ्यासे''' '''चर्च''' (८.४.५४) इत्यस्मात्‌ '''चर्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अवसाने''' '''झलां चरो वा''' |
Line 225 ⟶ 220:

५. अनुनासिकसन्धिः

'''यरोऽनुनासिकेऽनुनासिको''' '''वा''' (८.४.४५) = पदान्तस्य यरः अनुनासिको वा स्यात्‌ अनुनासिके परे | '''स्थानेऽन्तरतमः''' इत्यनेन निर्धारणं क्रियते | कार्यं वैकल्पिकं; प्रत्यये परे तु नित्यम्‌ | यर्-प्रत्याहारे हकारं वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | यरः षष्ठ्यन्तं, अनुनासिके सप्तम्यन्तम्‌, अनुनासिकः प्रथमान्तं, वा अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''न पदान्ताट्टोरनाम्‌''' (८.४.४२) इत्यस्मात् '''पदान्तात्''' इत्यस्य अधिकारः, तस्य च विभक्तिपरिमाणः इति कृत्वा षष्ठीविभक्तौ भवति | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''पदान्तस्य यरः अनुनासिकः वा अनुनासिके संहितायाम्''' |
Line 247 ⟶ 241:

६. अनुस्वारसन्धिः

'''मोऽनुस्वारः''' (८.३.२३) = पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति हलि परे | मः षष्ठ्यन्त्म्‌, अनुस्वारः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''हलि सर्वेषाम्‌''' (८.३.२२) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदस्य मः अनुस्वारः हलि संहितायाम्''' |
Line 260 ⟶ 253:

रम्‌ + स्यते → रंस्यते

७. परसवर्णसन्धिः

'''अनुस्वारस्य''' '''ययि''' '''परसवर्णः''' (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनुस्वारस्य परसवर्णः ययि संहितायाम्''' |
Line 278 ⟶ 269:

गृहम्‌ + च → गृहञ्च / गृहं च

यकारः, वकारः, लकारः परः चेत्‌, अनुस्वारस्य स्थाने क्रमेण य्‌ँ-कारः, व्‌ँ-कारः, ल्‌ँ-कारः च भवति |

Line 312 ⟶ 301:

८. ङमुडागमसन्धिः

'''ङमो ह्रस्वादचि ङमुण्‌ नित्यम्‌''' (८.३.३२) = ह्रस्वात्‌ स्वरात्‌ परः यः ङम्‌, तदन्तात्‌ पदात्‌ उत्तरस्य अचः ङमुट्‌-आगमो भवति नित्यम्‌ | ङम्-प्रत्याहारे ङ्‌, ण्‌, न्‌ इति वर्णाः अन्तर्भूताः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इति सूत्रेण '''ङमन्तात्‌''' '''पदात्‌''' इति फलितार्थो भवति | ङमुट्‌ इत्यस्मिन्‌ टकारः इत्‌-संज्ञकः, उकारः उच्चारणार्थः, ङम्‌ च प्रत्याहारः; अनेन त्रयः आगमाः ङुट्‌, णुट्‌, नुट्‌ च | '''यथासंख्यमनुदेशः''' '''समानाम्‌''' (१.३.१०) इत्यनेन पदान्ते क्रमेण ङकारः चेत्‌ ङुडागमः, णकारः चेत्‌ णुडागमः, नकारश्च चेत्‌ नुडागमः | ङमः पञ्चम्यन्तं, ह्रस्वात्‌ पञ्चम्यन्तम्‌, अचि सप्तम्यन्तं, ङमुट्‌ प्रथमान्तं, नित्यं क्रियाविशेषणं द्वितीयान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः, विभक्तिपरिणामेन '''पदात्‌''' | अनुवृत्ति-सहितसूत्रं— '''ह्रस्वात्‌ ङमः पदात्‌ ङमुट्‌ अचि नित्यं संहितायाम्‌''' |
Line 322 ⟶ 310:

९. पूर्वसवर्णसन्धिः

'''झयो होऽन्यतरस्याम्‌''' (८.४.६२) = झयः उत्तरस्य हकारस्य विकल्पेन पूर्वसवर्णादेशो भवति | झयः पञ्चम्यन्तं, हः षष्ठ्यन्तम्‌, अन्यतरस्यां सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''उदः स्थास्तम्भोः पूर्वस्य''' (८.४.६१) इत्यस्मात्‌ '''पूर्वस्य''' इत्यस्य अनुवृत्तिः; '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्मात्‌ '''सवर्णः''' इत्यस्य अनुवृत्तिः | अन्यतरस्याम्‌ इत्युक्ते विकल्पेन | अनुवृत्ति-सहितसूत्रं— '''झयः हः पूर्वस्य सवर्णः अन्यतरस्याम्‌''' |
Line 364 ⟶ 351:

पूर्वसवर्णविशेषः— 'उत्थानम्‌'

'''उदः स्थास्तम्भोः पूर्वस्य''' (८.४.६१) = उत्‌-उपसर्गोत्तरयोः स्था-स्तम्भ-धात्वोः पूर्वसवर्णादेशो भवति | स्था च स्तम्भ्‌ च तयोरितरेतरद्वन्द्वः स्थास्तम्भौ, तयोः स्थास्थम्भोः | उदः पञ्चम्यन्तं, स्थास्तम्भोः षष्ठ्यन्तं, पूर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्मात्‌ '''सवर्णः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्'''‌ (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''उदः स्थास्तम्भोः पूर्वस्य सवर्णः संहितायाम्''' |
Line 388 ⟶ 374:

१०. छत्वसन्धिः

'''शश्छोऽटि''' (८.४.६३) = पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशो भवति अन्यतरस्याम्‌ | शः षष्ठ्यन्तं, छः प्रथमान्तम्‌, अटि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) इत्यस्मात्‌ '''झयः''' च '''अन्यतरस्त्याम्‌''' चेत्यनयोः अनुवृत्तिः | '''वा पदान्तस्य''' (८.४.५९) इत्यस्मात्‌ '''पदान्तस्य''' इत्यस्य अनुवृत्तिः; विभक्तिपरिणामेन ''''पदान्तात्‌'''<nowiki/>' | '''तयोर्य्वावचि संहितायाम्'''‌ (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अट्‌ प्रत्याहारे सर्वे स्वराः, ह्‌, य्‌, व्‌, र् चान्तर्भूताः | अनुवृत्ति-सहितसूत्रं— '''पदान्तात्‌ झयः शः छः अटि संहितायम्‌ अन्यतरस्याम्'''‌ |<nowiki/>
Line 405 ⟶ 390:

११. सत्वसन्धिः

अस्मिन्‌ सन्धौ अनेकसूत्राणि क्रमेण कार्यं कुर्वन्ति | सङ्क्षेपे पदान्त-नकारस्य स्थाने रु, तस्मात्‌ रु इत्यस्मात्‌ पूर्वं च विद्यमानस्वरः विकल्पेन अनुनासिकः; अननुनासिके पक्षे अनुस्वारागमः | तदा रु-स्थाने सकारः |
Line 468 ⟶ 452:

१२. यवलोपसन्धिः

'''लोपः शाकल्यस्य''' (८.३.१९) = अपूर्वयोः पदान्तयोः वकारयकारयोः लोपो भवति अशि परे शाकल्यस्य मतेन | अपूर्वयोः इत्यनेन तादृशवकारयकारौ याभ्यां पूर्वम्‌ अ-वर्णः स्यात्‌ | '''शाकल्यस्य''' इत्युक्ते शाकल्यस्य मतेन, नाम इदं विकल्पेन भवति | लोपः प्रथमान्तं, शाकल्यस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''व्योलघुप्रयत्नतरः''' '''शाकटयनस्य''' (८.३.१८) इत्यस्मात्‌ '''व्योः''' इत्यस्य अनुवृत्तिः | '''भोभगोअघोअपूर्वस्य योऽशि''' (८.३.१७) इत्यस्मात्‌ '''अपूर्वस्य''' च '''अशि''' चेत्यनयोः अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः; वचनविपरिणामं कृत्वा तदन्तविधिं कृत्वा पदान्तयोः | अनुवृत्ति-सहितसूत्रम्‌— '''अपूर्वयोः पदान्तयोः व्योः लोपः अशि संहितायां शाकल्यस्य''' |
Line 515 ⟶ 498:

१३. तुगागमसन्धिः

'''छे च''' (६.१.७२) = छकारे परे ह्रस्वस्वरस्य तुक्‌-आगमो भवति | तुक्‌ कित्‌ अस्ति अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७०) इत्यस्मात्‌ '''ह्रस्वस्य, तुक्'''‌ इत्यनयोः अनुवृत्तिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''ह्रस्वस्य तुक्‌ छे च संहितायाम्‌''' |
Line 537 ⟶ 519:

१४. द्वित्वम्‌

'''अनचि च''' (८.४.४७) = अचः परस्य यरो द्वे वा स्तः न त्वचि | न अच्‌, अनच्‌ नञ्तत्पुरुषः, तस्मिन्‌ अनचि | अनचि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इत्यस्मात्‌ '''यरः, वा''' इत्यनयोः अनुवृत्तिः | '''अचो रहाभ्यां द्वे''' (८.४.४६) इत्यस्मात्‌ '''अचः, द्वे''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अचः यरः द्वे वा अनचि च संहितायाम्'''‌ |
page_and_link_managers, Administrators
5,097

edits