9---anye-vyAkaraNa-sambaddha-viShayAH/05---halsandhiH-sUtrasahitaRruShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 58:
 
<big><br /></big>
 
 
 
<big>'''शात्‌''' (८.४.४४) = शकारात्‌ परस्य तवर्गस्य चुत्वं न स्यात्‌ | '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यस्य निषेधकसूत्रम्‌ | शात्‌ पञ्चम्यन्तम्‌ एकपदमिदं सूत्रम्‌ | '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यस्मात्‌ '''श्चुः''' इत्यस्य अनुवृत्तिः | '''तोः षि''' (८.४.४३) इत्यस्मात्‌ तोः इत्यस्य अनुवृत्तिः | '''न पदान्ताट्टोरनाम्'''‌ (८.४.४२) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''शात्‌ तोः श्चुः न संहितायाम्''' |</big>
Line 92 ⟶ 94:
 
 
<big><br />'''न पदान्ताट्टोरनाम्‌''' (८.४.४२) = पदान्तात्‌ टवर्गात्‌ स्तोः ष्टुः न स्यात्‌ नामः नकारं वर्जयित्वा | '''ष्टुना''' '''ष्टुः''' (८.४.४१) इत्यस्य निषेधकसूत्रम्‌ | न अव्ययपदं, पदान्तात्‌ पञ्चम्यन्तं, टोः पञ्चम्यन्तम्‌, अनाम्‌ लुप्तषष्ठीकं पदम्‌, अनेकपदमिदं सूत्रम्‌ | '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यस्मात्‌ '''स्तोः''' इत्यस्य अनुवृत्तिः | '''ष्टुना''' '''ष्टुः''' (८.४.४१) इत्यस्मात्‌ '''ष्टुः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्'''‌ (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदान्तात्‌ टोः स्तोः ष्टुः न, अनाम्‌ संहितायाम्'''‌ |</big>
 
 
page_and_link_managers, Administrators
5,097

edits