page_and_link_managers, Administrators
5,159
edits
No edit summary |
No edit summary |
||
Line 90:
<big>भवान् + षष्ठः → भवान् षष्ठः [नकारस्य णकारादेशो न भवति]</big>
Line 117 ⟶ 118:
<big><br />पदान्ते जश्त्वम्—</big>
<big>'''झलां जशोऽन्ते''' (८.२.३९) = पदान्ते झलः स्थाने जशादेशो भवति | पदात् परे कोऽपि वर्णः स्यात् वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात् परे अच् स्यात् हल् स्यात् वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम् अस्ति चेत् अन्या वार्ता | झल् प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्, ष्, स्, ह् | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश् प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्, ब्, ग्, ड्, द् इति | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | तर्हि पदस्य अन्ते झल्-प्रत्याहारे कश्चन वर्णः अस्ति चेत्, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदस्य अन्ते झलां जशः''' |</big>
Line 213 ⟶ 215:
<big>५. <u>अनुनासिकसन्धिः</u></big>
<big><br />'''यरोऽनुनासिकेऽनुनासिको''' '''वा''' (८.४.४५) = पदान्तस्य यरः अनुनासिको वा स्यात् अनुनासिके परे | '''स्थानेऽन्तरतमः''' इत्यनेन निर्धारणं क्रियते | कार्यं वैकल्पिकं; प्रत्यये परे तु नित्यम् | यर्-प्रत्याहारे हकारं वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | यरः षष्ठ्यन्तं, अनुनासिके सप्तम्यन्तम्, अनुनासिकः प्रथमान्तं, वा अव्ययपदम्, अनेकपदमिदं सूत्रम् | '''न पदान्ताट्टोरनाम्''' (८.४.४२) इत्यस्मात् '''पदान्तात्''' इत्यस्य अधिकारः, तस्य च विभक्तिपरिमाणः इति कृत्वा षष्ठीविभक्तौ भवति | '''तयोर्य्वावचि''' '''संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''पदान्तस्य यरः अनुनासिकः वा अनुनासिके संहितायाम्''' |</big>
|