9---anye-vyAkaraNa-sambaddha-viShayAH/05---halsandhiH-sUtrasahitaRruShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 76:
 
<big>२. <u>ष्टुत्वसन्धिः</u></big>
 
 
<big>'''ष्टुना ष्टुः''' (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | '''यथासंख्यमनुदेशः समानाम्'''‌ (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | ष्‌ च टुश्च ष्टुः, तेन ष्टुना, समाहारद्वन्द्वः | ष्‌ च टुश्च ष्टुः, समाहारद्वन्द्वः | ष्टुना तृतीयान्तं, ष्टुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यस्मात्‌ स्तोः इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्'''‌ (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''स्तोः ष्टुना ष्टुः संहितायाम्‌ |'''</big>
Line 151 ⟶ 152:
 
<big>अत्र अपदान्ते जश्त्वम्—</big>
 
 
<big>'''झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''झलां जश्‌ झशि संहितायाम्''' |</big>
Line 185 ⟶ 187:
 
<big>वाक्यस्य अन्ते परन्तु स्थितिः भिन्ना; तत्र च भिन्नसूत्रेण चर्त्वं विधीयते—</big>
 
 
<big>'''वाऽवसाने''' (८.४.५६) = अवसाने झलः विकल्पेन चर्-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्‌, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः | '''अभ्यासे''' '''चर्च''' (८.४.५४) इत्यस्मात्‌ '''चर्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अवसाने''' '''झलां चरो वा''' |</big>
page_and_link_managers, Administrators
5,097

edits