9---anye-vyAkaraNa-sambaddha-viShayAH/05---halsandhiH-sUtrasahitaRruShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 433:
 
 
<big>'''अत्रानुनासिकः पूर्वस्य तु वा''' (८.३.२) = अस्मिन्‌ रु-प्रकरणे, रु-इत्यस्मात्‌ पूर्ववर्ति-स्वरस्य स्थाने अनुनासिकादेशो विकल्पेन भवति | अधिकारसूत्रम्‌—८.३.२ इत्यस्मात्‌ आरभ्य ८.३.१२ पर्यन्तं यत्र यत्र रुत्वं विहितं, तत्र तत्र रु इत्यस्मात्‌ प्राक्‌ यः वर्णोऽस्ति, तस्य विकल्पेन अनुनासिकादेशो भवति | अस्मिन्‌ रुत्व-प्रकरणे यानि सूत्राणि सन्ति रुत्वविधायकानि, तेषु सूत्रेषु अयम्‌ अर्थः सर्वत्र अन्वेति | अस्मिन्‌ रुत्व-प्रकरणे च रुत्वं विधीयते अपदान्तेसंहितायाम् एव; पदान्ते रुत्वम्‌ अपरस्मिन्‌ प्रकरणे भवति अतः तत्र प्रकृतसूत्रस्य प्रवर्तनं नास्ति | अत्र अव्ययपदं, अनुनासिकः प्रथमान्तं, पूर्वस्य षष्ठ्यन्तं, तु अव्ययपदं, वा अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अत्रानुनासिकः पूर्वस्य तु वा संहितायाम्'''‌ |</big>
 
 
page_and_link_managers, Administrators
5,097

edits