9---anye-vyAkaraNa-sambaddha-viShayAH/08---anunAsikaH-anusvAraH-cetyanayorbhedaH-2: Difference between revisions
Rajagopalan (talk | contribs) (deleted the C (representing pdf icon) in the old site. Did not understand regarding carriage return mark referred by sharmila baghini. regret my inability to understand. need a live demo) |
No edit summary |

(12 intermediate revisions by 5 users not shown) | |||
Line 1:
{{DISPLAYTITLE: 08 - अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः - २}}
ध्वनिमुद्रणानि -▼
{| class="wikitable mw-collapsible mw-collapsed"

|३) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/04_sUtrAbhyAsaH__anunAsikaH_anusvAraH_cetyanayorbhedaH_IV_2014-06-18.mp3 sUtrAbhyAsaH_+_anunAsikaH_anusvAraH_cetyanayorbhedaH_IV_2014-06-18]

Line 20 ⟶ 22:

अद्यतनपाठः— अनुनासिकः अनुस्वारश्च कुत्र लभ्येते
अग्रे अस्माभिः ज्ञातव्यं कुत्र कुत्र अनुनासिकः अनुस्वारश्च प्रयुक्तौ भवतः | सर्वाणि स्थलानि न उच्यन्ते अत्र, किन्तु अस्माकं चिन्तनेन एकस्सन्दर्भः उत्पन्नो भविष्यति मनसि यत् कीदृशेषु स्थलेषु द्वयोरवसरार्हः |
Line 27 ⟶ 30:

सूत्रं कथं पठनीयम् इति न जानाति चेत्, सरलरीत्या '''[https://

Line 34 ⟶ 37:

गते पाठे दृष्टं यत् संस्कृति-शब्दस्य पक्षद्वयात्मकं रूपं विद्यते | सँस्कृति-शब्दे अनुनासिकादेशो भवति | संस्कृति-शब्दे अनुस्वारागमो भवति | उभयं रूपं शुद्धम् | संशय-शब्दे तथा न; केवलम् अनुस्वारो भवति | प्रश्न उदेति किमर्थम् एतादृशभेदो विद्यते |
अस्य बोधार्थं, पृष्ठभूमौ किञ्चित् ज्ञानम् अपेक्षितम् | तत् किमिति सर्वप्रथमं पश्येम |

'''A.''' अनुस्वारः
अनुस्वारः आदेशो वा आगमो भवति | कुत्र आदेशो भवति इति सन्धिविषये दृश्यते—
अनुस्वारसन्धिः
'''मोऽनुस्वारः''' (८.३.२३, लघु० ७७) = हलि परे पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति | मः षष्ठ्यन्त्म्, अनुस्वारः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''हलि सर्वेषाम्''' इत्यस्मात् '''हलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' इत्यस्य अधिकारः | '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रमेवम्— '''पदस्य मः अनुस्वारः हलि संहितायाम्''' इति |
यानम् गच्छति → यानं गच्छति
'''नश्चापदान्तस्य झलि''' (८.३.२४, लघु० ७८) = झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | '''मोऽनुस्वारः''' इत्यस्मात् '''मः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्— '''झलि अपदान्तस्य मः नः च अनुस्वारः''' इति | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः |
वासान् + सि → वासांसि
Line 61 ⟶ 72:

'''B.''' अनुनासिकः
नित्यानुनासिकाः = ङ्, ञ्, ण्, न्, म्
अनित्यानुनासिकाः = सर्वे स्वराः, य्, व्, ल्

परसवर्णसन्धिः
'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८, लघु० ७८) = ययि अनुस्वारस्य स्थाने परसवर्णादेशो भवति | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रमेवम्— '''अनुस्वारस्य ययि परसवर्णः संहितायाम्''' इति |
Line 89 ⟶ 103:
किम् + लिखितम् → अनुस्वारसन्धिः ('''मोऽनुस्वारः''') → किं + लिखितम् → परसवर्णसन्धिः ('''अनुस्वारस्य ययि परसवर्णः''') → किल्ँलिखितम् | अत्र लकारस्य दन्त्यस्थानम् अपि युज्यते, नासिका अपि युज्यते |
सं + यमः → सँय्यमः/संयमः
Line 97 ⟶ 110:
सं + लोपः → सँल्लोपः/संलोपः
अधुना अनुस्वारात् रेफः अस्ति चेत् का गतिः ? रेफः यय्-प्रत्याहारे अन्तर्भूतः अतः तस्य '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इति सूत्रेण परसवर्णादेशः स्यात् | किन्तु वस्तुस्थितिः भिन्ना | रेफस्य कोऽपि सवर्णः नास्ति, "रेफोष्मणां सवर्णा न सन्ति" इति भाष्यम् | अतः अनुस्वारात् परे रेफोऽस्ति चेत्, किमपि कार्यं नास्ति; यथावत् तिष्ठति |
'''तोर्लि''' (८.४.६०, लघु० ६९) = तवर्गस्य लकारे परे परसवर्णः | तोः षष्ठ्यन्तं, लि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहितं सूत्रमेवम्— '''तोः परसवर्णः लि संहितायाम्''' इति | अनेन पदान्ते नकारः अस्ति चेत् अपि च अग्रिमपदस्य प्रथमवर्णः लकारः चेत्, तर्हि संहितायां नकारस्य स्थाने लँ-आदेशो भवति | श्रद्धवान् + लभते → श्रद्धवाँल्लभते |
Line 121 ⟶ 132:

'''१.''' रुत्वप्रकरणम्
रुत्वम् एकं प्रकरणम् | प्रकरणं नाम यत्र एकस्मिन् स्थले वारं वारं एकप्रकारकं कार्यं सिध्यति | रुत्व-प्रकरणे १२ सूत्राणि सन्ति | अस्मिन् प्रकरणे वारं वारं "रु" विहितं भवति | रु इति कश्चन आदेशः | अस्य प्रकरणस्य द्वितीयसूत्रात् आरभ्य यत्र यत्र रु आदिष्टो भवति तत्र तत्र तस्य रेफात् प्राक् यः स्वरः अस्ति, तस्य स्थाने विकल्पेन अनुनासिकादेशो भवति | तदा रु-स्थाने विसर्गः; अपि च विसर्गस्य स्थाने सकारः |
यथा—
सम् + स्कृति → '''समः सुटि''' इत्यनेन मकारस्य रुत्वम् → सरु + स् + कृति → अनुबन्धलोपे →
रुत्वप्रकरण-सूत्राणि
'''मतुवसो रु सम्बुद्धौ छन्दसि''' (८.३.१)
Line 162 ⟶ 176:

राम + सु → '''उपदेशेऽजनुनासिक इत्''' , '''तस्य लोपः''' → राम + स् → '''ससजुषोरुः''' इत्यनेन पदान्तसकारस्य स्थाने रु आदेशः → राम + रु → '''उपदेशेऽजनुनासिक इत्''' , '''तस्य लोपः''' →

Line 192 ⟶ 206:

'''खरवसानयोर्विसर्जनीयः''' (८.३.१५, लघु० ९३) = पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम् |

'''विसर्जनीयस्य सः''' (८.३.३४, लघु० ९६) = खरि परे विसर्जनीयस्य स्थाने सकारादेशो भवति | विसर्जनीयस्य

Line 210 ⟶ 224:

कृ + क्तिन् → कृति → सम् + कृति → '''सम्परिभ्यां करोतौ भूषणे''' इत्यनेन सुट्-आगमः → सम् + सुट् + कृति → अनुबन्धलोपे → सम् + स् + कृति → '''समः सुटि''' इत्यनेन मकारस्य रुत्वम् → सरु + स् + कृति → '''उपदेशेऽजनुनासिका इत्''' इत्यनेन उकारस्य इत्-संज्ञा, '''तस्य लोपः''' इत्यनेन लोपश्च →

Line 227 ⟶ 241:

'''३.''' सत्वसन्धिः - काँश्चित्/कांश्चित्
सत्वसन्धि-विधायकं सूत्रमपि रुत्वप्रकरणे स्थितम् अतः प्रक्रिया तथा भवति यथा कृ-धातु-प्रसङ्गे आसीत् |
Line 234 ⟶ 249:

'''नश्छव्यप्रशान्''' इत्यनेन न् → रु; '''उपदेशेऽजनुनासिक इत्''' इत्यनेन रु →

कान् + चित् → कारु + चित् →
तर्हि कान् + चित् → काँश्चित् अपि भवति, कांश्चित् अपि भवति |
Line 252 ⟶ 268:

अधुना संशय-शब्दं परिशीलयाम | संशय़ = सम् + शी + अच् | अत्र कृ-धातुः नास्ति, अतः सुट्-आगमः न भवति | सुट्-आगमस्य अभावे '''समः सुटि''' कार्यं कर्तुं नार्हति | अतः अत्र '''मोऽनुस्वारः''' एव कार्यं करोति |
सम् + शी + अच् → सम् + शयः → अनुस्वारसन्धिः ('''मोऽनुस्वारः''') → सं + शयः
Line 262 ⟶ 279:
[https://

Latest revision as of 16:07, 12 April 2024
गते पाठे अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः कः इति परिशीलितम् अस्माभिः | लेखनशैली का उच्चारणभेदः कः चेति ज्ञातम् | मुख्यसिद्धान्तत्रयं विद्यते—
१) अनुनासिकत्वं कस्यचित् वर्णस्य लक्षणम्; व्यतिरेके अनुस्वारः स्वयं पृथक् वर्णः | एवं सति, "सं" इत्यस्य उच्चारणे स्, तदा अननुनासिकः अकारः, तदा नासिकया अनुस्वारः इति त्रीणि सोपानानि सन्ति | परञ्च "सँ" इत्यस्य उच्चारणे स्, तदा अनुनासिकः अकारः इति द्वे सोपाने स्तः |
२) अनुस्वारस्य स्थानं नासिका एव; अनुनासिकस्य स्थानं मुखे नासिकायां च | मुखे वर्णम् अनुसृत्य तत्तद् स्थानं भवति |
३) अनुस्वारः स्वरस्य एव उपरि उपविशति (अतः "अनुस्वारः" इति नाम); अनुनासिकत्वं भवति नित्यं ङ्, ञ्, ण्, न्, म् इत्येषु; अनित्यं सर्वेषु स्वरेषु, य्, व्, ल् इत्येषु च | अनुनासिकचिह्नम् आयाति अनित्यं स्थलेषु हि |
अद्यतनपाठः— अनुनासिकः अनुस्वारश्च कुत्र लभ्येते
अग्रे अस्माभिः ज्ञातव्यं कुत्र कुत्र अनुनासिकः अनुस्वारश्च प्रयुक्तौ भवतः | सर्वाणि स्थलानि न उच्यन्ते अत्र, किन्तु अस्माकं चिन्तनेन एकस्सन्दर्भः उत्पन्नो भविष्यति मनसि यत् कीदृशेषु स्थलेषु द्वयोरवसरार्हः |
पाणिनेः सूत्राणां पद्धतिः
सूत्रं कथं पठनीयम् इति न जानाति चेत्, सरलरीत्या अत्र उच्यते |
जिज्ञासा— "सँस्कृतिः/संस्कृतिः" परन्तु "संशयः" एव
गते पाठे दृष्टं यत् संस्कृति-शब्दस्य पक्षद्वयात्मकं रूपं विद्यते | सँस्कृति-शब्दे अनुनासिकादेशो भवति | संस्कृति-शब्दे अनुस्वारागमो भवति | उभयं रूपं शुद्धम् | संशय-शब्दे तथा न; केवलम् अनुस्वारो भवति | प्रश्न उदेति किमर्थम् एतादृशभेदो विद्यते |
अस्य बोधार्थं, पृष्ठभूमौ किञ्चित् ज्ञानम् अपेक्षितम् | तत् किमिति सर्वप्रथमं पश्येम |
A. अनुस्वारः
अनुस्वारः आदेशो वा आगमो भवति | कुत्र आदेशो भवति इति सन्धिविषये दृश्यते—
अनुस्वारसन्धिः
मोऽनुस्वारः (८.३.२३, लघु० ७७) = हलि परे पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति | मः षष्ठ्यन्त्म्, अनुस्वारः प्रथमान्तं, द्विपदमिदं सूत्रम् | हलि सर्वेषाम् इत्यस्मात् हलि इत्यस्य अनुवृत्तिः | पदस्य इत्यस्य अधिकारः | संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रमेवम्— पदस्य मः अनुस्वारः हलि संहितायाम् इति |
यानम् गच्छति → यानं गच्छति
नश्चापदान्तस्य झलि (८.३.२४, लघु० ७८) = झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः इत्यस्मात् मः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्— झलि अपदान्तस्य मः नः च अनुस्वारः इति | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः |
वासान् + सि → वासांसि
रम् + स्यते → रंस्यते
कुत्र अनुस्वारः आगमो भवति इति अग्रे पश्यामः, रुत्वप्रकरणे |
B. अनुनासिकः
नित्यानुनासिकाः = ङ्, ञ्, ण्, न्, म्
अनित्यानुनासिकाः = सर्वे स्वराः, य्, व्, ल्
परसवर्णसन्धिः
अनुस्वारस्य ययि परसवर्णः (८.४.५८, लघु० ७८) = ययि अनुस्वारस्य स्थाने परसवर्णादेशो भवति | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रमेवम्— अनुस्वारस्य ययि परसवर्णः संहितायाम् इति |
अनेन सूत्रेण अनुस्वारात् वर्गीयव्यञ्चनम् अस्ति चेत्, संहितायाम् अस्नुस्वारस्य स्थाने तत्तद् वर्गस्य पञ्चमसदस्यादेशो भवति | अपदान्ते नित्यम्; पदान्ते विकल्पेन |
अपदान्ते— अं + कितः → अङ्कितः; मुं + चति → मुञ्चति; भुं + जते → भुञ्जते; लुं + ठति → लुण्ठति |
पदान्ते— यानं गच्छति → यानङ्गच्छति; यानं चलति → यानञ्चलति; यानं तिष्ठति → यानन्तिष्ठति; चिन्तनं प्रवर्तते → चिन्तनम्प्रवर्तते
अत्र अनुस्वारस्य स्थाने नित्यानुनासिकाः आदिष्टाः | वा पदान्तस्य (८.४.५९, लघु० ८०) = पदान्ते उपरितन परसवर्णादेशो विकल्पेन भवति |
अनुस्वारात् य्, व्, ल् चेत्, संहितायाम् अस्नुस्वारस्य स्थाने क्रमेण य्ँ, व्ँ, ल्ँ अदिष्टा | पदान्ते विकल्पेन, अपदान्तेऽपि विकल्पेन |
किम् + लिखितम् → अनुस्वारसन्धिः (मोऽनुस्वारः) → किं + लिखितम् → परसवर्णसन्धिः (अनुस्वारस्य ययि परसवर्णः) → किल्ँलिखितम् | अत्र लकारस्य दन्त्यस्थानम् अपि युज्यते, नासिका अपि युज्यते |
सं + यमः → सँय्यमः/संयमः
सं + वादनम् → सँव्वादनम्/संवादनम्
सं + लोपः → सँल्लोपः/संलोपः
अधुना अनुस्वारात् रेफः अस्ति चेत् का गतिः ? रेफः यय्-प्रत्याहारे अन्तर्भूतः अतः तस्य अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्रेण परसवर्णादेशः स्यात् | किन्तु वस्तुस्थितिः भिन्ना | रेफस्य कोऽपि सवर्णः नास्ति, "रेफोष्मणां सवर्णा न सन्ति" इति भाष्यम् | अतः अनुस्वारात् परे रेफोऽस्ति चेत्, किमपि कार्यं नास्ति; यथावत् तिष्ठति |
तोर्लि (८.४.६०, लघु० ६९) = तवर्गस्य लकारे परे परसवर्णः | तोः षष्ठ्यन्तं, लि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहितं सूत्रमेवम्— तोः परसवर्णः लि संहितायाम् इति | अनेन पदान्ते नकारः अस्ति चेत् अपि च अग्रिमपदस्य प्रथमवर्णः लकारः चेत्, तर्हि संहितायां नकारस्य स्थाने लँ-आदेशो भवति | श्रद्धवान् + लभते → श्रद्धवाँल्लभते |
C. जिज्ञासा— "सँस्कृतिः/संस्कृतिः" परन्तु "संशयः" एव
अत्र कश्चन प्रमुखविषयो वर्तते—कुत्र विकल्पेन अनुनासिकः अनुस्वरश्च विहितौ भवतः, व्यतिरेके कुत्र केवलम् अनुस्वारः विहितः|
उभयम्— रुत्वप्रकरणम् | १. संस्कारः/सँस्कारः, संस्कृतिः/सँस्कृतिः, संस्कृतम्/सँस्कृतम्, संस्कर्ता/सँस्कर्ता, संस्कर्तुम्/सँस्कर्तुम्, संस्कर्तव्यम्/सँस्कर्तव्यम्
२. सत्वसन्धिः - कांश्चित्, काँश्चित्
अनुस्वार एव— अनुस्वारसन्धिः यत्र परे परसवर्णसन्धिः न प्रसक्तः | संशयः |
१. रुत्वप्रकरणम्
रुत्वम् एकं प्रकरणम् | प्रकरणं नाम यत्र एकस्मिन् स्थले वारं वारं एकप्रकारकं कार्यं सिध्यति | रुत्व-प्रकरणे १२ सूत्राणि सन्ति | अस्मिन् प्रकरणे वारं वारं "रु" विहितं भवति | रु इति कश्चन आदेशः | अस्य प्रकरणस्य द्वितीयसूत्रात् आरभ्य यत्र यत्र रु आदिष्टो भवति तत्र तत्र तस्य रेफात् प्राक् यः स्वरः अस्ति, तस्य स्थाने विकल्पेन अनुनासिकादेशो भवति | तदा रु-स्थाने विसर्गः; अपि च विसर्गस्य स्थाने सकारः |
यथा—
सम् + स्कृति → समः सुटि इत्यनेन मकारस्य रुत्वम् → सरु + स् + कृति → अनुबन्धलोपे → सर् + स्कृति → विकल्पेन अँ-आदेशः / तदभावे अनुस्वारागमः → सँर् स्कृति / संर् स्कृति → पदान्तरेफस्य स्थाने विसर्गः → सँः स्कृति / संः स्कृति → विसर्गस्य स्थाने सकारः → सँस्स्कृति / संस्स्कृति |
रुत्वप्रकरण-सूत्राणि
मतुवसो रु सम्बुद्धौ छन्दसि (८.३.१)
अत्रानुनासिकः पूर्वस्य तु वा (८.३.२)
आतोऽटि नित्यम् (८.३.३)
अनुनासिकात् परोऽनुस्वारः (८.३.४)
समः सुटि (८.३.५)
पुमः खय्यम्परे (८.३.६)
नश्छव्यप्रशान् (८.३.७)
उभयथर्क्षु (८.३.८)
दीघादटि समानपादे (८.३.९)
नॄन्पे (८.३.१०)
स्वतवान्पायौ (८.३.११)
कानाम्रेडिते (८.३.१२)
धेयं यत् रुत्व-प्रकरणद्वयं वर्तते | ८.२.६६ - ८.२.७१ इमानि सूत्राणि इत्येकं रुत्व-प्रकरणम् | ८.३.१ - ८.३.१२ इति अन्यत् रुत्व-प्रकरणम् | उभयत्र रुत्वस्य फलं विसर्गः | तर्हि किमर्थं पाणिनिना रुत्वप्रकरणद्वयं विरचितम् ? यतोहि द्वितीये रुत्वप्रकरणे अनुनासिकत्वं विहितं सर्वत्र (विकल्पेन); प्रथमे रुत्वप्रकरणे अनुनासिकात्वं कुत्रापि न भवति |
प्रथमे रुत्वप्रकरणे (८.२.६६ - ८.२.७१) षट् सूत्राणि सन्ति | तत्र प्रसिद्धतमं सूत्रं ससजुषोरुः (८.२.६६) | अनेन अकारान्तशब्दानां प्रथमाविभक्त्यन्तं रूपं निष्पद्यते |
राम + सु → उपदेशेऽजनुनासिक इत् , तस्य लोपः → राम + स् → ससजुषोरुः इत्यनेन पदान्तसकारस्य स्थाने रु आदेशः → राम + रु → उपदेशेऽजनुनासिक इत् , तस्य लोपः → रामर् → खरवसानयोर्विसर्जनीयः इत्यनेन रेफस्य स्थाने विसर्गः → रामः
अस्मिन् रुत्वप्रकरणे अत्रानुनासिकः पूर्वस्य तु वा इत्यस्य प्रसक्तिर्नास्ति | यथा ससजुषो रुः इत्यनेन अत्र दृष्टं यत् रुत्वं विहितं, परन्तु अनुनासिकत्वं नायाति |
२. सँस्कृतिः/संस्कृतिः
इमानि सूत्राणि अपेक्षितानि | सर्वप्रथमम् आभ्यां द्वाभ्यां सूत्राभ्यां कृ-धातौ सूट्-आगमो विहितः—
सम्परिभ्यां करोतौ भूषणे (६.१.१३५, लघु० ६८२) = भूषणार्थे सम् परि चोपसार्गाभ्यां कृ-धातौ सूट्-आगमो भवति | सम् च परिश्च सम्परी, ताभ्यां सम्परिभ्याम् | सम्परिभ्यां पञ्चम्यन्तं, करोतौ सप्तम्यन्तं, भूषणे सप्तम्यन्तम्, त्रिपदमिदं सूत्रम् | सुट् कात्पूर्वः इत्यस्य अधिकारः | कात् इत्युक्तौ कृ-धातोः ककारस्य पञ्चम्यन्तं रूपम् अतः ककारात् पूर्वम् इत्यर्थः | सुट्-आगमे ट् उ इत्यनयोरित् संज्ञा लोपश्च; सकारैवावशिष्यते | आद्यन्तौ टकितौ (१.१.४६) इत्यनेन कृ-धातुतः प्राक् सुट् आयाति | अनुवृत्ति-सहितं सूत्रमेवम्— सम्परिभ्यां करोतौ भूषणे सुट् कात्पूर्वः संहितायाम् इति |
समवाये च (६.१.१३८, लघु० ६८३) = समूहार्थे सम् परि चोपसार्गाभ्यां कृ-धातौ सूट्-आगमो भवति | समवाये सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | सुट् कात्पूर्वः इत्यस्य अधिकारः | सम्परिभ्यां करोतौ भूषणे इत्यस्मात् सम्परिभ्यां करोतौ इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्— सम्परिभ्यां करोतौ समवाये च सुट् कात्पूर्वः संहितायाम् इति |
समः सुटि (८.३.५, लघु० ९०) = सुटि सम्-उपसर्गस्य मकारस्य स्थाने रु-आदेशो भवति | समः षष्ठ्यन्तं, सुटि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | मतुवसो रु सम्बुद्धौ छन्दसि इत्यस्मात् रुः इत्यस्य अनुवृत्तिः | अलोऽन्त्यस्य इत्यनेन केवलं मकारस्य स्थाने रुत्वं, न तु समः स्थाने | अत्रानुनासिकः पूर्वस्य तु वा इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रमेवम्— समः सुटि रु संहितायाम्, अत्रानुनासिकः पूर्वस्य तु वा इति |
अत्रानुनासिकः पूर्वस्य तु वा (८.३.२, लघु० ९१) = अस्मिन् रु-प्रकरणे, रु-इत्यस्मात् पूर्वावर्ति-स्वरस्य स्थाने अनुनासिकादेशो विकल्पेन भवति | अत्र अव्ययपदं, अनुनासिकः प्रथमान्तं, पूर्वस्य षष्ठ्यन्तं, तु अव्ययपदं, वा अव्ययपदम्, अनेकपदमिदं सूत्रम् | अनुवृत्ति-सहितं सूत्रमेवम्— अत्रानुनासिकः पूर्वस्य तु वा संहितायाम् इति |
इदं सूत्रम् अधिकारसूत्रम्, इत्युक्तौ ८.३.२ इत्यस्मात् आरभ्य ८.३.१२ पर्यन्तं यत्र यत्र रुत्वं विहितं, तत्र तत्र रु इतस्मात् प्राक् यः वर्णोऽस्ति, तस्य विकल्पेन अनुनासिकादेशो भवति | अस्मिन् रुत्व-प्रकरणे यानि सूत्राणि सन्ति रुत्वविधायकानि, तेषु सूत्रेषु अयम् अर्थः सर्वत्र अन्वेति |
अनुनासिकात् परोऽनुस्वारः (८.३.४, लघु० ९२) = यस्मिन् पक्षे अनुनासिकादेशो न भवति, तत्र रु-इत्यस्मात् प्राक् यः वर्णः, तस्य नित्यं अनुस्वार-आगमो भवति | अनुनासिकात् पञ्चम्यन्तं, परः प्रथमान्तम्, अनुस्वारः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अत्र अनुनासिकात् इत्युक्ते अनुनासिकं त्यक्त्वा; नाम यस्मिन् पक्षे अनुनासिको न भवति | मतुवसो रु सम्बुद्धौ छन्दसि इत्यस्मात् रुः इत्यस्य पञ्चमीविभक्ति-विपरिणामं कृत्वा रोः इति अनुवृत्तिः; अत्रानुनासिकः पूर्वस्य तु वा इत्यस्मात् पूर्वस्य इत्यस्य पञ्चमीविभक्ति-विपरिणामं कृत्वा पूर्वस्मात् इति अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्—अनुनासिकात् रोः पूर्वस्मात् अनुस्वारः संहितायाम् इति | फलितार्थः अयं यत् अनुनासिकः न भवति चेत्, रोः पूर्वं यः वर्णः, तस्य अनन्तरम् अनुस्वारागमो भवति |
खरवसानयोर्विसर्जनीयः (८.३.१५, लघु० ९३) = पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम् | खर् च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम् | रो रि इत्यस्मात् रोः इत्यस्य अनुवृत्तिः | पदस्य इत्यस्य अधिकारः | अलोऽन्त्यस्य इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितं सूत्रमेवम्— खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम् इति |
विसर्जनीयस्य सः (८.३.३४, लघु० ९६) = खरि परे विसर्जनीयस्य स्थाने सकारादेशो भवति | विसर्जनीयस्य षष्ठ्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम् | खरवसानयोर्विसर्जनीयः इत्यस्मात् खरि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्— खरि विसर्जनीयस्य सः संहितायाम् इति |
संस्कृति-शब्दः— प्रक्रिया
अत्र वयां चिन्तयितुं शक्नुमः यत् कार्यम् एवं भवति स्म—
कृ + क्तिन् → कृति → सम् + कृति → सम्परिभ्यां करोतौ भूषणे इत्यनेन सुट्-आगमः → सम् + सुट् + कृति → अनुबन्धलोपे → सम् + स् + कृति → मोऽनुस्वारः इत्यनेन म्-स्थाने अनुस्वारादेशः → सं + स् + कृति → वर्णमेलने → संस्कृति
परन्तु मोऽनुस्वारः (८.३.२३), समः सुटि (८.३.५) च त्रिपादि-सूत्रे स्तः | अतः पूर्वत्रासिद्धिम् इत्यनेन पूर्वसूत्रं प्रथमं कार्यं करोति; परसूत्रम् असिद्धम् | समः सुटि तृतीये पादे पञ्चमं सूत्रं, पूर्वसूत्रं च अतः कार्यं करोति; मोऽनुस्वारः असिद्धं भवति |
कृ + क्तिन् → कृति → सम् + कृति → सम्परिभ्यां करोतौ भूषणे इत्यनेन सुट्-आगमः → सम् + सुट् + कृति → अनुबन्धलोपे → सम् + स् + कृति → समः सुटि इत्यनेन मकारस्य रुत्वम् → सरु + स् + कृति → उपदेशेऽजनुनासिका इत् इत्यनेन उकारस्य इत्-संज्ञा, तस्य लोपः इत्यनेन लोपश्च → सर् स्कृति → अत्रानुनासिकः पूर्वस्य तु वा इत्यनेन विकल्पेन अँ-आदेशः → विपक्षे अनुनासिकात् परोऽनुस्वारः इत्यनेन अनुस्वारागमः → सँर् स्कृति / संर् स्कृति → खरवसानयोर्विसर्जनीयः इत्यनेन पदान्तरेफस्य स्थाने विसर्गः → सँः स्कृति / संः स्कृति → विसर्जनीयस्य सः इत्यनेन विसर्गस्य स्थाने सकारः → सँस्स्कृति / संस्स्कृति |
वस्तुतः अत्र किञ्चित् इतोऽपि कार्यम् आसीत्—
सँः स्कृति / संः स्कृति → विसर्जनीयस्य सः → एकस्मिन् पक्षे वा शरि सकारादेशं प्रबाध्य विसर्ग एव तिष्ठति → सँः स्कृति / संः स्कृति → संपुङ्कानां सो वक्तव्यः इति वार्तिकेन विसर्गस्थाने सकारादेशः → सँस्स्कृति / संस्स्कृति |
अधुना प्रश्न उदेति कथम् एकसकारकः संस्कृति-शब्दः व्युत्पन्नः | तदेवरूम् अस्माकं परिचितं किल |
समो वा लोपमेक इच्छन्ति [महाभाष्यम् ८.३.१२] इत्यनेन भाष्येण समः मकारस्य सुटि परे लोपः | मकारस्य लोपे सति रुत्वं नैव प्राप्यते; तथापि यतोहि महाभाष्यस्य रुत्वप्रकरणे प्रतिपादितम् अतः अनुनासिकादेशस्य च अनुस्वारागमस्य च मान्यता | अनेन एकसकारके रूपे निष्पन्ने संस्कृति/सँस्कृति |
अत्र संस्कृति-शब्दस्य उदाहरणं दत्तम् | संस्कारः/सँस्कारः, संस्कृतम्/सँस्कृतम्, संस्कर्ता/सँस्कर्ता, संस्कर्तुम्/सँस्कर्तुम्, संस्कर्तव्यम्/सँस्कर्तव्यम् इमानि रूपाणि अपि तथैव निष्पन्नानि |
३. सत्वसन्धिः - काँश्चित्/कांश्चित्
सत्वसन्धि-विधायकं सूत्रमपि रुत्वप्रकरणे स्थितम् अतः प्रक्रिया तथा भवति यथा कृ-धातु-प्रसङ्गे आसीत् |
नश्छव्यप्रशान् (८.३.७, लघु० ९५) = अम्-परे छवि नकारान्तस्य पदस्य रुः स्यात्, न तु प्रशान्-शब्दस्य | नः षष्ठ्यन्तं, छवि सप्तम्यन्तम्, अप्रशान् षष्ठ्यर्थकं प्रथमान्तं, त्रिपदमिदं सूत्रम् | मतुवसो रु सम्बुद्धौ छन्दसि इत्यस्मात् रु इत्यस्य अनुवृत्तिः; पुमः खय्यम्परे इत्यस्मात् अम्परे इत्यस्य अनुवृत्तिः | पदस्य, संहितायाम् इत्यनयोः अधिकारः | अत्रानुनासिकः पूर्वस्य तु वा इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रमेवम्— अम्-परे छवि, नः पदस्य रु संहितायाम् अप्रशान्, अत्रानुनासिकः पूर्वस्य तु वा इति | छव्-प्रत्याहारे छ्, ठ्, थ्, च्, ट्, त् अन्तर्भूताः | अम्-प्रत्याहारे सर्वे स्वराः, यरलवमनाश्च अन्तर्भूताः | अम्-परे छवि इत्युक्ते कीदृशी छव् ? यस्मात् अम्-प्रत्याहारे कश्चन वर्तते | अत्र नकारस्य स्थाने रु, तदा रु-स्थाने सकारः इति फलितार्थः |
नश्छव्यप्रशान् इत्यनेन न् → रु; उपदेशेऽजनुनासिक इत् इत्यनेन रु → र्; अत्रानुनासिकः पूर्वस्य तु वा इत्यनेन विकल्पेन अनुनासिक ( ँ)-आदेशः; अनुनासिकात् परोऽनुस्वारः इत्यनेन अनुनासिकस्य विपक्षे ं-आगमः; खरवसानयोर्विसर्जनीयः इत्यनेन र् → विसर्गः (ः); विसर्जनीयस्य सः इत्यनेन विसर्गः → स् |
कान् + चित् → कारु + चित् → कार् + चित् → काँर् + चित् / कांर् + चित् → काँः + चित् / कांः + चित् → काँस् + चित् / कांस् + चित् → श्चुत्वसन्धिः → काँश्चित् / कांश्चित्
तर्हि कान् + चित् → काँश्चित् अपि भवति, कांश्चित् अपि भवति |
उच्चारणभेदो ज्ञायते | अपि च द्वयोर्मध्ये यः कोऽपि भवतु, परञ्च उभयत्र का-न्-श्चित् इति उच्चारणं तु दोषपूर्णमेव | तथैव संस्कृतम् इत्यस्य स-म्-स्कृतम् इत्यपि दोषपूर्णम् | नासिकया, अथवा मुखसहितनासिकया चेत् धेयं यत् वायुः नासिकया गच्छति |
४. संशयः एव
सम् उपसर्गे परे कृ-धातुः अस्ति चेत्, सुट्-आगमः भवति (सम्परिभ्यां करोतौ भूषणे), तदा म् स्थाने रु-आदेशः भवति (समः सुटि) | रु अस्ति अतः विकल्पेन ँ च ं च भवतः | पूर्वम् अस्माभिः दृष्टं यत् मोऽनुस्वारः (८.३.२३), समः सुटि (८.३.५) च त्रिपादि-सूत्रे स्तः | अतः पूर्वत्रासिद्धिम् इत्यनेन पूर्वसूत्रं प्रथमं कार्यं करोति; परसूत्रम् असिद्धम् | समः सुटि तृतीये पादे पञ्चमं सूत्रं, पूर्वसूत्रं च अतः कार्यं करोति; मोऽनुस्वारः असिद्धं भवति|
अधुना संशय-शब्दं परिशीलयाम | संशय़ = सम् + शी + अच् | अत्र कृ-धातुः नास्ति, अतः सुट्-आगमः न भवति | सुट्-आगमस्य अभावे समः सुटि कार्यं कर्तुं नार्हति | अतः अत्र मोऽनुस्वारः एव कार्यं करोति |
सम् + शी + अच् → सम् + शयः → अनुस्वारसन्धिः (मोऽनुस्वारः) → सं + शयः
अस्यां दशायां परसवर्णसन्धिः भवति न वा इति चिन्तनीयम् | अनुस्वारस्य ययि परसवर्णः इत्यनेन परसवर्णसन्धिः भवति, ययि परे | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | शकारः ययि नास्ति, अतः परसवर्णसन्धिः न भवति; अनुस्वारः एव तिष्ठति | सं + शयः → संशयः |
अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः - २.pdf (75k)
Swarup – June 2014