9---anye-vyAkaraNa-sambaddha-viShayAH/09---prakaraNasya-saundaryam---rutvaprakaraNam: Difference between revisions
9---anye-vyAkaraNa-sambaddha-viShayAH/09---prakaraNasya-saundaryam---rutvaprakaraNam (view source)
Revision as of 13:12, 21 May 2021
, 3 years agotransferred the pages 09 - The table has been removed. The paragraph setting is now ok
Rajagopalan (talk | contribs) (transferred the pages 09 - prakaranasya sowndharyam --- also the links have been copied) |
Rajagopalan (talk | contribs) (transferred the pages 09 - The table has been removed. The paragraph setting is now ok) |
||
Line 2:
=== 09 - प्रकरणस्य सौन्दर्यम् - रुत्वप्रकरणम् ===
रुत्वम् एकं प्रकरणम् | प्रकरणं नाम एकः सूत्र-समूहः यस्मिन् वारं वारम् एकप्रकारकं कार्यं सिध्यति | अस्मिन् पाठे, रुत्वप्रकरणस्य माध्यमेन प्रकरण-नाम्नः वस्तुनः को लाभ इति ज्ञास्यामः |
रुत्व-प्रकरणे १२ सूत्राणि सन्ति | अस्मिन् प्रकरणे, विभिन्नसूत्रैः वारं वारं कस्यचित् वर्णस्य स्थाने "रु" इति आदेशः भवति | तदा कार्यद्वयं सञ्जायते—
१) रु → स्थाने विसर्गः → स्थाने सकारः | रु → ः → स् |
२) रु इत्यस्मात् पूर्वस्थितवर्णस्य विकल्पेन अनुनासिकादेशः / अपरस्मिन् पक्षे अनुस्वारः आगमः | ँ / ं |
रुत्वप्रकरणे "प्रकरणम्" इति नाम प्रयुक्तं यतः अयं सूत्र-समूहः उपर्युक्तस्य कार्यद्वयस्य कृते समर्पितः | अतः विशिष्टे कार्यद्वते इदं प्रकरणम् अतीव समर्थम् | समर्थम् इत्युक्तौ इदं कार्यद्वयं वारं वारं भवति परन्तु स्वचालितरीत्या एव; पुनः पुनः वदनस्य काऽपि आवश्यकता नास्ति | आरम्भे एकवारम् एव कार्यं विधीयते; तदा एवमेव पुनः पुनः सञ्जायते | तर्हि सूत्रसङ्ख्यायाः अत्यन्तं महत्वम् | यानि सूत्राणि अस्मिन् समूहे आयान्ति, तेषु एव '''रु''' इत्यदिकम् अनुवृत्तं भवति | सूत्रम् अपरस्मिन् प्रकरणे स्थितं चेत्, '''रु''' नायाति |
रुत्वप्रकरणस्य द्वितीयसूत्रात् आरभ्य यत्र यत्र रु आदिष्टो भवति तत्र तत्र तस्य रेफात् प्राक् यः स्वरः अस्ति, तस्य स्थाने विकल्पेन अनुनासिकादेशो भवति | यस्मिन् पक्षे अनुनासिकादेशो न भवति, तत्र अनुस्वारागमो भवति | तदा रु-स्थाने विसर्गः; अपि च विसर्गस्य स्थाने सकारः |
यथा—
सम् + स्कृति → '''समः सुटि''' इत्यनेन मकारस्य रुत्वम् → सरु + स् + कृति → अनुबन्धलोपे → सर् + स्कृति → विकल्पेन अँ-आदेशः / तदभावे अनुस्वारागमः → सँर् स्कृति / संर् स्कृति → पदान्तरेफस्य स्थाने विसर्गः → सँः स्कृति / संः स्कृति → विसर्गस्य स्थाने सकारः → सँस्स्कृति / संस्स्कृति |
<u>
Line 50 ⟶ 63:
Line 59 ⟶ 74:
सूत्रार्थः = अस्मिन् रु-प्रकरणे, रु-इत्यस्मात् पूर्वावर्ति-स्वरस्य स्थाने अनुनासिकादेशो विकल्पेन भवति | अत्र अव्ययपदं, अनुनासिकः प्रथमान्तं, पूर्वस्य षष्ठ्यन्तं, तु अव्ययपदं, वा अव्ययपदम्, अनेकपदमिदं सूत्रम् | अनुवृत्ति-सहितं सूत्रमेवम्— '''अत्रानुनासिकः पूर्वस्य तु वा संहितायाम्''' इति |
Line 68 ⟶ 80:
<u>प्रकरणरीत्या कार्यम्</u>
रुत्वम् एकं प्रकरणम् इति तु सत्यम् | अत्र प्रकरणं सत् तस्य वैशिष्ट्यं किम् इति द्रष्टुम् इच्छामः | तर्हि शीघ्रमेव एकस्यानन्तरम् अग्रिमं सूत्रं पश्याम येन प्रकरणेन कीदृशं सौकर्यं भवति इति स्पष्टं स्यात् | अत्र सर्वाणि सूत्राणि अस्माकं कृते मुख्यानि न सन्ति, यथा ८.३.८, ८.३.९, ८.३.११ वेदे एव भवन्ति | परन्तु अस्माकम् अवधानम् यत् कथं '''रु''' इत्यस्य अनुवृतिः अपि च '''अत्रानुनासिकः पूर्वस्य तु वा''' इत्यस्य अधिकारः सर्वेषु विधिसूत्रेशु भवतः | अनेन वयम् अवगच्छामः किमर्थं सूत्रं तावत् लघु भवति अपि च कथं प्रक्रणे यदा क्रमेण पश्यामः सौकर्येण प्रत्येकं सूत्रस्य पूर्तिं कृत्वा वाक्यं साधितुं शक्नुमः |
'''१. मतुवसो रु सम्बुद्धौ छन्दसि''' (८.३.१) = रुत्व-विधायकं सूत्रम् | अत्र वेदे एव रु आदिष्टं भवति | परन्तु अस्मिन् सूत्रे "रु विहितम्" इति अस्माकं कृते मुख्यम् | अस्मिन् प्रकरणे रु वारं वारम् आधिष्टं, किञ्चि पुनः न उच्यते साक्षत् | अस्मिन् सूत्रे एव उक्तम्; अग्रिमेषु सूत्रेषु रु अनुवृत्तम् |
'''२. अत्रानुनासिकः पूर्वस्य तु वा''' (८.३.२) = अस्मिन् रुत्वप्रकरणे रु यत्र यत्र विहितं, तत्र तत्र रु इत्यस्मात् पूर्वं यः स्वरः, सः विकल्पेन अनुनासिकः भवति | येषु सूत्रेषु रु विहितं, तेषु इदं सूत्रं साक्षात् आगत्य अर्थं पूरयति | अस्य सूत्रस्य पूर्णतया अनुवृत्तिः भवति सर्वेषु विधिसूत्रेषु अस्मिन् प्रकरणे |
'''३. आतोऽटि नित्यम्''' (८.३.३) = दीर्घ-आकारः रु इत्यस्मात् पूर्वं चेत् अस्य सूत्रस्य प्रसक्तिः | आतः अटि अनुनासिकः विकल्पेन न अपि तु नित्यम् | यथा ८.३.९ इति सूत्रे अनेन अनुनासिकः नित्यम् भवति |
Line 86 ⟶ 103:
'''५. समः सुटि''' (८.३.५) = सम् + स्कृति | सुटि सम्-स्थाने रु-आदेशो भवति | यत् कार्यं वक्ष्यते अत्र, तदेव कर्यम् अनुसरति अस्य प्रकरणस्य अग्रे स्थितेषु सूत्रेषु अपि | अतः अत्र एकवारम् उच्यते, तदा तदेव अग्रिमेषु अपि इति बोध्यम् | "'''मतुवसो"''' इत्यस्मात् सूत्रात् '''रु''' इत्यस्य अनुवृत्तिः | सम् उपसर्गः सन् स्वयं पदम् अस्ति इति स्मर्तव्यम् | अतः मकारः "पदान्ते" अस्ति | तर्हि '''पदस्य''', '''अलोऽन्त्यस्य''' इत्याभ्यां म्-स्थाने रु विहितम् | '''अत्रानुनासिकः पूर्वस्य तु वा''' अपि अस्मिन् सूत्रे प्रविश्य वदति यत् रु इत्यस्मात् पूर्वं यः स्वरः, सः विकल्पेम अनुनासिको भवति | सम् + स्कृति → सँर् + स्कृति / सर् + स्कृति (अस्मिन् पक्षे अनुस्वारः आयाति संर् +▼
▲'''५. समः सुटि''' (८.३.५) = सम् + स्कृति | सुटि सम्-स्थाने रु-आदेशो भवति | यत् कार्यं वक्ष्यते अत्र, तदेव कर्यम् अनुसरति अस्य प्रकरणस्य अग्रे स्थितेषु सूत्रेषु अपि | अतः अत्र एकवारम् उच्यते, तदा तदेव अग्रिमेषु अपि इति बोध्यम् | "'''मतुवसो"''' इत्यस्मात् सूत्रात् '''रु''' इत्यस्य अनुवृत्तिः | सम् उपसर्गः सन् स्वयं पदम् अस्ति इति स्मर्तव्यम् | अतः मकारः "पदान्ते" अस्ति | तर्हि '''पदस्य''', '''अलोऽन्त्यस्य''' इत्याभ्यां म्-स्थाने रु विहितम् | '''अत्रानुनासिकः पूर्वस्य तु वा''' अपि अस्मिन् सूत्रे प्रविश्य वदति यत् रु इत्यस्मात् पूर्वं यः स्वरः, सः विकल्पेम अनुनासिको भवति | सम् + स्कृति → सँर् + स्कृति / सर् + स्कृति (अस्मिन् पक्षे अनुस्वारः आयाति संर् + स्कृति) |
'''६. पुमः खय्यम्परे''' (८.३.६) = यत् कार्यं कृतं '''समः सुटि''' इत्यनेन, तदेव कार्यं पुनः क्रियते अत्र | पदानि भिन्नानि; कार्यं समानम् | (१) रु → ः → स्; (२) ँ / ं |▼
▲'''६. पुमः खय्यम्परे''' (८.३.६) = यत् कार्यं कृतं '''समः सुटि''' इत्यनेन, तदेव कार्यं पुनः क्रियते अत्र | पदानि भिन्नानि; कार्यं समानम् | (१) रु → ः → स्; (२) ँ / ं |
पुम् + खय् [खय् प्रत्याहारे स्थितः वर्णः; खय् परे अम् स्यात् (अम् प्रत्याहारे स्थितः वर्णः)]
कार्यम् = म् → रु [पुमः स्थाने रु, तदा '''पदस्य''' + '''अलोऽन्त्यस्य''' इत्याभ्याम् पदान्तस्य म् स्थाने रु]
पुर् + खय् [कार्यम् = र् इत्यस्मात् पूर्वस्थितवर्णस्य विकल्पेन अनुनासिकादेशः / अपरस्मिन् पक्षे अनुस्वारः आगमः | ँ / ं]
पुँर् / पुंर् + खय् [कार्यम् = रु → ः → स्]
पुँस् / पुंस् + धय्
उदा—
पुम् + कामा → पुँस्कामा / पुंस्कामा |
पुम् + पुत्र → पुँस्पुत्र / पुंस्पुत्र
पुम् + फलम् → पुँस्फलम् / पुंस्फलम्
Line 125 ⟶ 136:
नकारान्तपदम् + छव् [छव् प्रत्याहारे स्थितः वर्णः; छव् परे अम् स्यात् (अम् प्रत्याहारे स्थितः वर्णः)]
कार्यम् = न् → रु ['''नः रु''']
र् + छव् [कार्यम् = र् इत्यस्मात् पूर्वस्थितवर्णस्य ँ / ं]
[कार्यम् = रु → ः → स्]
Line 138 ⟶ 146:
उदा—
कस्मिन् + चित् → कस्मिँश्चित् / कस्मिंश्चित्
कान् + चित् → काँश्चित् / कांश्चित् |
भवान् + चिन्तयतु → भवाँश्चिन्तयतु / भवांश्चिन्तयतु▼
▲भवान् + चिन्तयतु → भवाँश्चिन्तयतु / भवांश्चिन्तयतु
'''८. उभयथर्क्षु''' (८.३.८) = "'''उभयथ'''" नाम यत् कार्यं विहितं '''नश्छव्यप्रशान्''' (८.३.७) इत्यनेन सूत्रेण, तदेव कार्यं वैकल्पिकम् अस्ति ऋग्वेदे ('''ऋक्षु''') | नकारान्तपदस्य नकारः एकवारं तिष्ठति, एकवारं तस्य स्थाने रुत्वं भवति | (रुत्वं भवति चेत, सामान्यकार्यं भवति एव (१) रु → ः → स्; (२) ँ / ं |
'''९. दीर्घादटि समानपादे''' (८.३.९) = ऋग्वेदे, अटि परे नकारान्तपदस्य नकारस्य रुत्वं विकल्पेन भवति, नकारात् पूर्वं दीर्घस्वरः अस्ति चेत् | पूर्वतनसूत्रात् "'''उभयथा'''" इत्यस्य अनुवृत्तिः विकल्पार्थे | '''समानपादे''' नाम ऋग्वेदस्य एकस्मिन् पादे (stanza) | रुत्वं भवति चेत् अपि च रु इत्यस्मात् प्राक् दीर्घः आकारः अस्ति चेत्, तर्हि '''आतोऽटि नित्यम्''' (८.३.३) इति सूत्रेण अनुनासिकादेशो भवति नित्यं न तु विकल्पेन |
'''१०. नॄन्पे''' (८.३.१०) = नॄन् + प् → पदान्तनकारस्य स्थाने रुत्वम् विकल्पेन ("'''उभयथा'''" इत्यस्य अनुवृत्तिः विकल्पार्थे |) | तदा (१) रु → ः ; (२) ँ / ं | उदा— नॄँः पाहि / नॄंः पाहि | नॄँः प्रीणीहि / नॄंः प्रीणीहि | (अत्र पकारः परे अस्ति अतः विसर्गस्य स्थाने सकारो न भवति |)
'''११. स्वतवान्पायौ''' (८.३.११) = वेदे स्वतवान् इति पदस्य अनन्तरं "पायु" अस्ति चेत्, पदान्तस्य नकारस्य स्थाने रुत्वम् | तदा (१) रु → ः ; (२) ँ / ं | स्वतवान् + पायु → ऋग्वेदे → भुव॒स्तस्य॒ स्वत॑वाँः पायुरग्ने (ऋग्वेद ४.२.६) | (अत्र पकारः परे अस्ति अतः विसर्गस्य स्थाने सकारो न भवति |)
'''१२. कानाम्रेडिते''' (८.३.१२) = कान् + कान् → द्वितीय-कान् आम्रेडिते चेत्, प्रथमस्य कान् इत्यस्य नः रु, तदा (१) रु → ः → स्; (२) ँ / ं | कान् + कान् → काँस्कान् / कांस्कान् |
Line 167 ⟶ 178:
Ċ
[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjM5YWQ0YTI3NTk2Y2Y3YmI
▲[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjM5YWQ0YTI3NTk2Y2Y3YmI <small>रुत्वप्रकरणम्.pdf (44k)</small>] <small>Swarup Bhai,Jun 24, 2014, 1:03 AM [https://sites.google.com/site/samskritavyakaranam/system/app/pages/admin/revisions?wuid=wuid:gx:39ad4a27596cf7bb v.1] ď</small>
|