page_and_link_managers, Administrators
5,097
edits
No edit summary |
No edit summary |

(17 intermediate revisions by 5 users not shown) | |||
Line 1:
{{DISPLAYTITLE: 11 - प्रेरणार्थे णिच् - परिचयः}}
{| class="wikitable mw-collapsible mw-collapsed"
!ध्वनिमुद्रणानि

|१) [https://archive.org/download/Samskritam_2013/193_Natva-niShedhaka-sUtrANi__Nijanta-paricayaH_2018--09-15.mp3 Natva-niShedhaka-sUtrANi_+_Nijanta-paricayaH_2018-09-15]

|२) [https://archive.org/download/Samskritam_2013/194_Nijanta-rUpANAM-trayaH-pramukha-prakArAH_2018-09-22.mp3 Nijanta-rUpANAM-trayaH-pramukha-prakArAH_2018-09-22]

|३) [https://archive.org/download/Samskritam_2013/195_AkArAnta-dhAtUnAM-Nijanta-rUpANi__sAmagrika-abhyAsaH_2018-09-29.mp3 AkArAnta-dhAtUnAM-Nijanta-rUpANi_+_sAmagrika-abhyAsaH_2018-09-29]

|४) [https://archive.org/download/Samskritam_2013/196_sAmagrika-rUpAbhyAsaH---ajantAnAM-halantAnAM-ca_2018-10-06.mp3 sAmagrika-rUpAbhyAsaH---ajantAnAM-halantAnAM-ca_2018-10-06]

|५) [https://archive.org/download/Samskritam_2013/197_NijantAnAM-prayogaH---kutra-prayojyakartuH-dvitiiyA-kutra-tRutiiyA_2018-10-13.mp3 NijantAnAM-prayogaH---kutra-prayojyakartuH-dvitiiyA-kutra-tRutiiyA_2018-10-13]

|६) [https://archive.org/download/Samskritam_2013/198_nijantanam-ktavatvante-neh-lopah__prayojyakartuh-dvitiiyantabhyashah_2018-10-20.mp3 NijantAnAM-ktavatvante-NeH -lopaH_+_prayojyakartuH-dvitiiyAntAbhyAshaH_2018-10-20]

|७) [https://archive.org/download/Samskritam_2013/199_prayojyakartuH-dvitiiyAntAbhyAsaH-tRutiiyAntAbhyAsashca_2018-10-27.mp3 prayojyakartuH-dvitiiyAntAbhyAsaH-tRutiiyAntAbhyAsashca_2018-10-27]

|८) [https://archive.org/download/Samskritam_2013/200_kartuH-karmaNaH-ca-uktAnuktatvAt-vibhaktikatvaM__nIjantasya-karmaNiprayogaH_2018-11-03.mp3 kartuH-karmaNaH-ca-uktAnuktatvAt-vibhaktikatvaM_+_nIjantasya-karmaNiprayogaH_2018-11-03]

|९) [https://archive.org/download/Samskritam_2013/201_aNijante-Nijante-ca-kartariprayoge-karmaNiprayoge-ca-kartuH-karmaNaH-vibhaktyabhyAsaH_2018-11-10.mp3 aNijante-Nijante-ca-kartariprayoge-karmaNiprayoge-ca-kartuH-karmaNaH-vibhaktyabhyAsaH_2018-11-10]

|१०) [https://archive.org/download/Samskritam_2013/202_NijantAbhyAsaH--dhAtunirmANasya__tingantasya__kRudantasya-ca_2018-11-17.mp3 NijantAbhyAsaH--dhAtunirmANasya_+_tingantasya_+_kRudantasya-ca_2018-11-17]

|११) [https://archive.org/download/Samskritam_2013/203_NijantAnAM-kRudanta-cintanam---tumun__ktvA__lyap__ktavatu_2018-11-24.mp3 NijantAnAM-kRudanta-cintanam---tumun_+_ktvA_+_lyap_+_ktavatu_2018-11-24]

|१२) [https://archive.org/download/Samskritam_2013/204_NijantAnAM-prayogAbhyAsaH---prayojyakartuH-kiM-vibhaktikatvam_2018-12-01.mp3 NijantAnAM-prayogAbhyAsaH---prayojyakartuH-kiM-vibhaktikatvam_2018-12-01]

|१३) [https://archive.org/download/Samskritam_2013/205_NijantAnAM-prayogAbhyAsaH---gati-buddhi-pratyavasANArtha-shabdakarma-akarmakANAm_2018-12-08.mp3 NijantAnAM-prayogAbhyAsaH---gati-buddhi-pratyavasANArtha-shabdakarma-akarmakANAm_2018-12-08]

णिच्-प्रत्ययः मुख्यतः अर्थद्वये भवति— स्वार्थे प्रेरणार्थे च | चुरादिगणे णिच्-प्रत्ययः भवति, यथा चोरयति, क्षालयति, प्रेषयति, कथयति इत्यादीनि रूपाणि | तत्र णिच्-प्रत्ययः स्वार्थे अस्ति, इत्युक्ते धातोः एव अर्थपोषणं करोति; णिच्-प्रत्ययस्य पृथक्तया कोऽपि अर्थः नास्ति | णिच्-प्रत्ययः प्रेरणार्थे अपि भवति; प्रायः सर्वेभ्यः धातुभ्यः णिच् अस्मिन् अर्थे भवति | यथा पठति → पाठयति; अत्र पठनार्थं प्रेरयति | एतादृशेषु प्रयोगेषु प्रेरणार्थः णिच्-प्रत्ययात् आगतः |

णिचः एकं वैशिष्ट्यं यत् अयं प्रत्ययः यदा विहितः तदा गणीया चर्चा नितरां नापेक्षिता | धातुः कस्मिन् अपि गणे भवतु नाम, तस्य ण्यन्तरूपस्य गणेन सह न कोऽपि सम्बन्धः | पठति भ्वादिगणे, लिखति तुदादिगणे, क्षालयति चुरादिगणे, प्राप्नोति स्वादिगणे—परन्तु पाठयति, लेखयति, क्षालयति, प्रापयति इत्येषां कृते तिङन्तस्य रूपसाधनार्थं गणस्य आवश्यकता नास्ति एव | एषां गणः अपि नास्ति एव | “कस्मिन् गणे" इति प्रश्नस्तु नैव उदेति | उदेति चेत्, तस्य उत्तरं नास्ति हि |

सम्प्रति णिजन्तरूपाणि कथं निर्मीयन्ते दृश्यन्ते च इति अवलोकनीयम् |

प्रेरणार्थकणिचः व्यवस्था

'''औपदेशिकधातवः'''—पाणिनीयधातुपाठे १९४३ धातवः उपदिष्टाः सन्ति | उपदिष्टाः धातवः, अतः एते औपदेशिकधातवः | एषां धातूनां धातु-संज्ञा भवति '''भूवादयो धातवः''' (१.३.१) इति सूत्रेण |

'''आतिदेशिकधातवः'''—उपरितनान् पाणिनीयधातुपाठे पठितान् धातून् वर्जयित्वा इतोऽपि, असङ्ख्याः धातवः सन्ति | एते धातवः धातुपाठे न सन्ति, अपि तु अस्माभिः निर्मिताः | यथा पठ् + णिच् → पाठि + शप् + ति → पाठयति | अत्र "पाठि" इति नूतनधातुः निर्मितः | णिच्-प्रत्ययस्य योजनेन चोरि इव यावन्तः धातवः सृष्टाः, ते सर्वे '''सनाद्यन्ता धातवः''' (३.१.३२) इति सूत्रेण धातुसंज्ञकाः |

'''हेतुमति च''' (३.१.२६) = प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच् स्यात् | णिच् विधायकं सूत्रम् | क्रियार्थं यः प्रयोज्यं प्रेरयति, सः प्रयोजकः क्रियायाः हेतुः | आधारतया अस्यासीति हेतुमान्, मतुप्प्रत्ययः— प्रयोजकनिष्ठः प्रेषणादिव्यापारः हेतुमान्, तस्मिन् हेतुमति | व्यापारः इति प्रेषणादिक्रिया, स च व्यापारः हेतुमान् | 'स्वनिष्ठाधारतानिरूपिताधेयतासम्बन्धेन हेतुः यत्रास्ति स हेतुमान् व्यापारः, तस्मिन् वाच्ये णिज् इत्याहुः' इति तत्त्वबोधिनी | अस्यां स्थितौ—यत्र हेतुमाति व्यापारे प्रयोजकः हेतुः अस्ति—तत्र धातोः णिच्-प्रत्ययः विधीयते | हेतुमति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इत्यस्मात् '''णिच्''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१) '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) इत्यस्मात् '''धातोः''' इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ '''धातुभ्यः''' | अनुवृत्ति-सहितसूत्रं— '''हेतुमति च धातोः णिच् प्रत्ययः परश्च''' |

तिङन्तरूपस्य साधनार्थं सोपानत्रयम्—

१. धातुः + णिच्-प्रत्ययः → (णिच्-निमित्तिकम् अङ्गकार्यम्) → द्वयोः संयोजनेन → णिजन्तधातुः | लिख् + णिच् → लेखि |
२. णिजन्तधातुः + शप्-विकरणप्रत्यः → (शप्-निमित्तिकम् अङ्गकार्यम्) → द्वयोः संयोजनेन → नूतनम् अङ्गम् | लेखि + शप् → लेखय |
३. अङ्गम् + तिङ्-प्रत्ययः → तिङन्तरूपम् | लेखय + ति → लेखयति |

णिच्-प्रत्ययस्य कारणेन प्रमुखम् अङ्गकार्यत्रयं सम्भवति—
१. '''अचो ञ्णिति''' (७.२.११५) = अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '''अचः अङ्गस्य''' नाम न केवलम् अच् इत्यङ्गस्य, अपि तु अजन्तस्य अङ्गस्य | '''अलोऽन्तस्य''' इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः | ञ् च ण् च ञ्णौ, ञ्णौ इतौ यस्य तत् ञ्णित्, तस्मिन् ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''मृजेर्वृद्धिः''' (७.२.११४) इत्यस्मात् '''वृद्धिः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अचः अङ्गस्य वृद्धिः ञ्णिति''' |

प्रेरणार्थकणिचि यथा नी + णिच् → नै + इ → नायि → नाययति |

२. '''अत उपधायाः''' (७.२.११६) = उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे | अतः षष्ठ्यन्तम्, उपधायाः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''मृजेर्वृद्धिः''' (७.२.११४) इत्यस्मात् '''वृद्धिः''' इत्यस्य अनुवृत्तिः; '''अचो ञ्णिति''' (७.२.११५) इत्यस्मात् '''ञ्णिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति''' |

प्रेरणार्थकणिचि यथा पठ् + णिच् → पाठि → पाठयति

३. '''पुगन्तलघूपधस्य च''' (७.३.८६) = सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति | पुक् अन्ते यस्य तत् पुगन्तम्, लघ्वी उपधा यस्य तत् लघूपधम् | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य '''|''' पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात् '''गुणः''' इत्यस्य अनुवृत्तिः; '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इत्यस्मात् परिभाषा-सूत्रात् '''इकः''' आयाति यत्र स्थानी नोक्तम् | अनुवृत्ति-सहितसूत्रम्— '''पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |

प्रेरणार्थकणिचि यथा लिख् + णिच् → लेखि → लेखयति

अतः यदा वयं णिजन्तरूपं निर्मातुम् इच्छामः, तदा अस्माकं प्रथमः प्रश्नः अस्ति— धातुः कः ? पठति इत्यस्य धातुः पठ्, लिखति इत्यस्य लिख्, भवति इत्यस्य भू | यावत् धातुः न ज्ञातः, तावत् अङ्गकार्यं किम् इति ज्ञातुं न शक्नुमः |

यथा प्रेरणार्थस्य विवक्षायां प्रक्रिया एवम्—
लिख् ''' भूवादयो धातवः''' (१.३.१) इत्यनेन लिख् इत्यस्य धातु-संज्ञा | '''हेतुमति च''' (३.१.२६) इत्यनेन णिचः विधानम् |
लिख् + णिच् ''' चुटू''', '''हलन्त्यम्''', '''तस्य लोपः''' (अनुबन्धलोपः)
लिख् + इ ''' पुगन्तलघूपधस्य च''' (७.३.८६) = उपधायां लघु-इकः गुणः आर्धधातुकप्रत्यये परे
लेखि ''' सनाद्यन्ता धातवः''' इति सूत्रेण लेखि इत्यस्य धातु-संज्ञा | लट् विवक्षायाम्, प्रथमपुरुषस्य एकवचने "ति" प्रत्ययः
लेखि + ति ''' कर्तरि शप्''' (कर्त्रर्थे तिङ्-प्रत्यये वा शित्-कृत्-प्रत्यये वा शप् विहितः भवति)
लेखि + शप् + ति अनुबन्धलोपे ('''लशक्वतद्धिते''', '''हलन्त्यम्, तस्य लोपः''')
लेखि + अ + ति '''सार्वधातुकार्धधातुकयोः''' (शप् शित् अस्ति, पित् अपि अस्ति अतः धातोः अन्त्यस्य इकः गुणः)
लेखे + अ + ति ''' एचोऽयवायावः''' इत्यनेन अचि परे ए-स्थाने अय् आदेशः
लेख् + अय् + अ + ति वर्णमेलने लेखयति इति तिङन्तरूपं निष्पन्नम् |

धेयं यत् लेखि इकारान्तधातुः अस्ति | णिजन्तधातवः सर्वे इकारान्ताः सन्ति—पाठि, लेखि, गमि, निन्दि, क्षालि—अतः सर्वत्र अयमेव क्रमः | अग्रे गत्वा बोध्यं यत् सर्वत्र धातोः व्युत्पत्त्यनन्तरं '''सार्वधातुकार्धधातुकयोः''', '''एचोऽयवायावः''' इत्याभ्याम् अङ्गं, तदा तिङः योजनेन तिङन्तपदं निष्पन्नम् |

अत्र धातवः त्रिविधा— प्रथमतया अजन्तधातवः हलन्तधातवः च, तदा हलन्तधातुषु येषाम् उपधा अकारः, अपि च येषां उपधा लघुः इक्-वर्णः (इक्-प्रत्याहारे इ, उ, ऋ इति वर्णाः सन्ति) | धातोः अन्तिमवर्णात् पूर्वं यः वर्णः, तस्य नाम "उपधा" |

१. हलन्तधातवः (उपधा अकारः)— यथा पठ्, वद्, नट् |
२. हलन्तधातवः (उपधा लघुः इक्)— यथा लिख्, बुध्, वृध् |
३. अजन्तधातवः— इगन्ताः यथा भू, नी, शी, कृ |

धातवः

क्रमेण हलन्तधातवः (उपधा अकारः), हलन्तधातवः (उपधा लघुः इक्), अजन्तधातवः इत्यवलोकयाम |

१. हलन्तधातवः - उपधा अकारः

'''अत उपधायाः''' इत्यनेन उपधायाम् अतः वृद्धिः |

पठ् + णिच् → पाठि → पाठयति
वद् + णिच् → वादि → वादयति
पत् + णिच् → पाति → पातयति

२. हलन्तधातवः - उपधा लघुः इक्

'''पुगन्तलघूपधस्य च''' इत्यनेन उपधायां लघु-इकः गुणः |

लिख् + णिच् → लेख् + इ → लेखि → लेखयति
छिद् + णिच् → छेद् + इ → छेदि → छेदयति
बुध् + णिच् → बोध् + इ → बोधि → बोधयति
मुद् + णिच् → मोद् + इ → मोदि → मोदयति
कृष् + णिच् → कर्ष् + इ → कर्षि → कर्षयति
वृष् + णिच् → वर्ष् + इ → वर्षि → वर्षयति

३. अजन्तधातवः— यथा भू, नी, शी, कृ

a) इकारान्ताः ईकारान्ताः च

'''अचो ञ्णिति''' (७.२.११५) इत्यनेन एषां धातूनाम् अन्त्यस्य इकारस्य ईकारस्य वा वृद्धिः | तदा '''एचोऽयवायावः''' इत्यनेन अय्, आय् वा आदेशः | यथा—

नी + णिच् → नै + इ → नाय् + इ → नायि → '''सनाद्यन्ता धातवः''' → नायि + शप् + ति → नाययति

b) उकारान्ताः ऊकारान्ताः च

'''अचो ञ्णिति''' (७.२.११५) इत्यनेन एषां धातूनाम् अन्त्यस्य उकारस्य ऊकारस्य वा वृद्धिः | तदा '''एचोऽयवायावः''' इत्यनेन अव्, आव् वा आदेशः | यथा—

भू + णिच् → भौ + इ → भाव् + इ → भावि → '''सनाद्यन्ता धातवः''' (३.१.३२) → भावि + शप् + ति → भावयति
लू + णिच् → लौ + इ → लाव् + इ → लावि → '''सनाद्यन्ता धातवः''' (३.१.३२) → लावि + शप् + ति → लावयति
पू + णिच् → पौ + इ → पाव् + इ → पावि → '''सनाद्यन्ता धातवः''' (३.१.३२) → पावि + शप् + ति → पावयति
द्रु + णिच् → द्रौ + इ → द्राव् + इ → द्रावि → '''सनाद्यन्ता धातवः''' (३.१.३२) → द्रावि + शप् + ति → द्रावयति
c) ऋकारान्ताः ॠकारान्ताः च
'''अचो ञ्णिति''' (७.२.११५) इत्यनेन एषां धातूनाम् अन्त्यस्य ऋकारस्य ॠकारस्य वा वृद्धिः | यथा—
कृ + णिच् → कार् + इ → कारि → '''सनाद्यन्ता धातवः''' (३.१.३२) → कारि + शप् + ति → कारयति

हृ + णिच् → हार् + इ → हारि → '''सनाद्यन्ता धातवः''' (३.१.३२) → हारि + शप् + ति → हारयति

तॄ + णिच् → तार् + इ → तारि → '''सनाद्यन्ता धातवः''' (३.१.३२) → तारि + शप् + ति → तारयति

d) आकारान्ताः

अ) पुगागम-सहिताः ण्यन्तधातवः

'''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) = ऋ, ह्री, व्ली, री, क्नूयी, क्ष्मायी, एभ्यः धातुभ्यः अपि च आकारान्तधातुभ्यः पुक्-आगमः भवति, णिच्-प्रत्यये परे | एषां धातूनां पुक्-आगमः णौ (णि इत्यस्य सप्तम्यन्तम्), णि इत्युक्ते णिच् इत्यतः णिच्-प्रत्यये परे इत्यर्थः | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन धातोः परम् आयाति अयं पुगागमः | पुक् इत्यस्मिन क्, उ इत्यनयोः इत्-संज्ञा लोपश्च; प् अवशिष्यते | अर्तिश्च ह्रीश्च व्लीश्च रीश्च क्नूयीश्च क्ष्मायीश्च आच्च तेषामितरेतर्द्वन्द्वः, अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातः तेषाम् | अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां षष्ठ्यन्तं, पुक् प्रथमान्तं, णौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्याताम् अङ्गानां पुक् णौ''' |

प्रेरणार्थकणिचि आकारान्ताः यथा दा, धा इति | णिच् इत्यस्मिन् ण्, च् इत्यनयोः इत्-संज्ञा, पुक् इत्यस्मिन् उ, क् इत्यनयोः इत्-संज्ञा, लोपश्च |

दा + णिच् → दा + पुक् + इ → दा + प् + इ → दापि + '''सनाद्यन्ता धातवः''' (३.१.३२) → दापि + शप् + ति → दापयति
धा + णिच् → धा + पुक् + इ → धा + प् + इ → धापि + '''सनाद्यन्ता धातवः''' (३.१.३२) → धापि + शप् + ति → धापयति

आ) एजन्तधातवः—सर्वे आकारान्तधातवः भवन्ति

'''आदेच उपदेशेऽशिति''' (६.१.४५) = उपदेशे एजन्तस्य धातोरात्वं न तु शिति | उपदेशे इत्युक्ते औपदेशिकधातूनामेव प्रसक्तिः, न तु आतिदेशिकधातूनाम् | णिच् शित् नास्ति, अतः णिच्-प्रकरणे एजन्तधातवः आकारान्ताः एव इति अवगम्यताम् | आकारान्ताः इति कारणतः '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' इत्यनेन पुगागमः भवति एव |

यथा—
ग्लै → ग्ला
म्लै → म्ला
ध्यै → ध्या
शो → शा
सो → सा
वे → वा
छो → छा

अतः णिच्-प्रकरणे एजन्तधातवः आकारान्ताः एव इति अवगम्यताम् | आकारान्ताः इति कारणतः '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' इत्यनेन पुगागमः भवति इति सामान्यनियमः |

यथा—

ग्लै + णिच् → ग्ला + इ → ग्ला + पुक् + इ → ग्ला + प् + इ → ग्लापि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → ग्लापि + शप् + ति → ग्लापयति

तथैव म्लै → म्लापयति, ध्यै → ध्यापयति, गै → गापयति, रै → रापयति, खै → खापयति

परन्तु केषाञ्चित् एजन्तानां च आकारान्तानां च युक् भवति न तु पुक्—

इ) युक्-आगमः (पुक्-आगम-अपवादः)

'''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन एषाम् एजन्तधातूनाम् आत्वम् | शो, छो, सो, ह्वे, व्ये, वे, पै |

'''शाच्छासाह्वाव्यावेपां युक्''' (७.३.३७) = शो, छो, सो, ह्वे, व्ये, वे, पै इत्येषां धातूनां युक् आगमो भवति णिचि परे | पुगागमस्य अपवादः | शाश्च, छाश्च, साश्च, ह्वाश्च, व्याश्च, वेश्च, पाश्च, तेषामितरेतरयोगद्वन्द्वः, शाच्छासाह्वाव्यावेपाः तेषां, शाच्छासाह्वाव्यावेपाम् | शाच्छासाह्वाव्यावेपां षष्ठ्यन्तं, युक् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यस्मात् '''णौ''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''शाच्छासाह्वाव्यावेपां अङ्गानां युक् णौ''' |

शो तनूकरणे (कृशं करोति, श्यति) → शा + युक् + णिच् → शायि → शाययति
छो छेदने (छ्यति) → छा + युक् + णिच् → छायि → छाययति
षो अन्तकर्मणि (समापनं करोति, स्यति) → सा + युक् + णिच् → सायि → साययति
ह्वेञ् स्पर्धायां शब्दे च (आह्वयति) → ह्वा + युक् + णिच् → ह्वायि → ह्वाययति
व्येञ् संवरणे (आच्छादयति, व्ययति) → व्या + युक् + णिच् → व्यायि → व्याययति
वेञ् तन्तुसन्ताने (कुविन्दस्य कार्यम्, वयति) → वा + युक् + णिच् → वायि → वाययति
पै शोषणे (शुष्कं करोति, पायति) → पा + युक् + णिच् → पायि → पाययति
पा पाने → पा + युक् + णिच् → पायि → पाययति

अधुना ततः अग्रे अदादिगणे एकः पा-धातुः रक्षणार्थे अपि भवति (लटि 'पाति') | रक्षणार्थे एकं वार्तिकं कार्यं करोति '''लुगागमस्तु तस्य वक्तव्यः''' इति | अनेन वार्तिकेन युकः स्थाने लुक् आयाति |

पा रक्षणे → '''लुगागमस्तु तस्य वक्तव्यः''' इति वार्तिकेन रक्षनार्थे लुक्-आगमः → पा + लुक् + णिच् → पालि → पालयति

'''शाच्छासाह्वाव्यावेपां युक्''' (७.३.३७) इति सूत्रेण पा रक्षणे वर्जयित्वा सर्वेषां पा-धातूनां ग्रहणम्— नाम पै शोषणे, पा पाने च |

५. शेषधातवः

कार्यं नास्ति यतोहि उपधायाम् अत् अपि नास्ति, लघु इक् अपि नास्ति |

बुक्क् + णिच् → बुक्क् + इ → बुक्कि → बुक्कयति
एध् + णिच् → एध् + इ → एधि → एधयति

इति सामान्यधातूनां ण्यन्तव्यवस्था

चुरादिगणे प्रेरणार्थे वैशिष्ट्यम्

चुरादिगणे णिच्-प्रत्ययः स्वार्थे विधीयते एव चुर् + णिच् → चोरि; तदा प्रेरणार्थे विवक्षा भवति चेत्, द्वितीयः णिच्-प्रत्ययः विधीयते चोरि + णिच् | अस्यां दशायां किं भवति इत्यस्य निर्णयार्थं सूत्रम् इदम्—

'''णेरनिटि''' (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात् णिङ्, णिच् द्वयोः ग्रहणम्; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तं, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''अतो लोपः''' (६.४.४८) इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः | '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''णेः लोपः अनिटि आर्धधातुके''' |

णिच्-प्रत्ययः वलादिः नास्ति इति कारणतः तस्य इडागमो न कदापि भवति | अनेन चुरादिगणे कश्चन णिजन्तधातुः अस्ति चेत्, प्रेरणार्थे यदा द्वितीयः णिच्-प्रत्ययः विधीयते, तदा प्रथमणिचः (स्वार्थिकणिचः) लोपो भवति | अतः एकस्मिन् धातौ णिच् केवलं एकैव वारं सम्भवति | द्वितीयवारं णिचः विधानं भवति किन्तु '''णेरनिटि''' (६.४.५१) इत्यनेन प्रथमस्य लोपो भवति | अतः चुरादिगणे स्वार्थिकणिचः प्रेरणार्थकणिचः तिङन्तरूपं समानम् |

चुर् → '''पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन चुरादिगणे णिच्-प्रत्ययः विधीयते स्वार्थे → चुर् + णिच् → चोरि स्वार्थे → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रेरणार्थे णिच् → चोरि + णिच् → चोरि + इ → '''णेरनिटि''' (६.४.५१) इत्यनेन प्रथम-णिचः लोपः → चोर् + इ → चोरि प्रेरणार्थे

क्त-प्रत्यये परे, क्तवतु-प्रत्यये परे च

'''निष्ठायां सेटि''' (६.४.५२) = निष्ठायां सेटि परे णेर्लोपो भवति | निष्ठा इति संज्ञया क्त, क्तवतु इति द्वौ प्रत्ययौ | यदा अनयोः द्वयोः प्रत्यययोः इडागमो भवति, तदा पूर्वं स्थितस्य णिच्-प्रत्ययस्य लोपः भवति | धातुतः णिच्-प्रत्ययस्य संयोजनेन धातुः सदा अनेकाच् भवति; इत्युक्ते णिजन्तधातोः सर्वदा एकस्मात् अधिकाः अच्-वर्णाः भवन्ति— तदर्थम् उच्यते यत् णिजन्ताः सदा अनेकाच्-धातवः | यथा पाठि इति धातौ आकारः अपि इकारः अपि इति कृत्वा पाठि इति धातुः अनेकाच् | सर्वे अनेकाच्-धातवः सेटः सन्ति , नाम ते सर्वे इडागमानुकूलाः | धातुः इडागमानुकूलः च प्रत्ययः इडागमानुकूलः च इति यदा एतादृशी परिस्थितिः जायते, तदा प्रत्ययस्य इडागमो भवति | णिजन्तधातुः अनेकाच् इत्यस्मात् इडागमानुकूलः; निष्ठा-प्रत्ययः इडागमानुकूलः तु अस्त्येव, अतः पाठि + क्तवतु → अनुबन्धलोपे → पाठि + तवत् → इडानुकूलता अस्ति अतः इडागमः → पाठि + इ + तवत् → '''निष्ठायां सेटि''' (६.४.५२) इत्यनेन निष्ठायां सेटि परे णेर्लोपः → पाठ् + इ + तवत् → पाठितवत् इति प्रातिपदिकम् | पुंलिङ्गे पाठितवान् | तथा णिजन्ते सर्वत्र भवति क्त, क्तवतु इति प्रत्यययोः परयोः |

तुमुन्-प्रत्यये परे

णिजन्तप्रसङ्गे गुणकार्यं सर्वत्र | णिजन्तधातवः सर्वे अनेकाचः इति कारणतः सर्वे सेटः | तुमुन् वलादिः अतः सेट् |

नाशि + इडागमः + तुमुन् → नाशि + इतुम् → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) → नाशे + इतुम् → '''एचोऽयवायावः''' (६.१.७७) इत्यनेन अय्-आदेशः → नाशयितुम्

एवमेव—
स्मारि → स्मारयितुम्
दर्शि → दर्शयितुम्
कारि → कारयितुम्

क्त्वा-प्रत्यये परे

क्त्वा-प्रत्ययः कित् यस्मात् '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः | परन्तु '''न क्त्वा सेट्''' (१.२.१८) इति अतिदेशसूत्रेण इडागमे सति क्त्वा-प्रत्ययस्य अकित्त्वम् अध्यारोप्यते |

'''न क्त्वा सेट्''' (१.२.१८) = इडागमेन युक्तक्त्वा-प्रत्ययस्य कित्त्वं न स्यात् | इटा सह वर्तते इति सेट् | न अव्ययपदं, क्त्वा लुप्तप्रथमाकं, सेट् प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''असंयोगाल्लिट् कित्''' (१.२.५) इत्यस्मात् '''कित्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''सेट् क्त्वा न कित्''' |

नाशि + इडामः + क्त्वा → नाशि + इत्वा → '''न क्त्वा सेट्''' (१.२.१८) इत्यनेन अकित्त्वातिदेशः → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) → नाशे + इत्वा → '''एचोऽयवायावः''' (६.१.७७) इत्यनेन अय्-आदेशः → नाशयित्वा

किमर्थं सूत्रे सेट् उक्तम् ? कृत्वा | धातुः सेट् नास्ति चेत्, क्त्वा-प्रत्ययस्य कित्त्वम् आवश्यकम् | नो चेत्, अत्रापि गुणो भविष्यति, येन 'कर्त्वा' इति अनिष्टं रूपं स्यात् |

ल्यप्-प्रत्यये परे

ल्यप्-प्रत्यये लकारपकारयोः अनुबन्धलोपः अतः 'य' इति अवशिष्यते | अयं प्रत्ययः यकारादिः न तु वलादिः इति कृत्वा अनिट् | अनिट् इति कारणातः णिजन्तधातोः परः भवति चेत्, '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः |

सम् + रक्षि + ल्यप् → संरक्षि + य → '''णेरनिटि''' (६.४.५१) इत्यनेन अनिट्-आर्धधातुकप्रत्यये परे पूर्वस्थितस्य णि-प्रत्ययस्य लोपः → संरक्ष् + य → संरक्ष्य

एवमेव—
वि + नाशि + ल्यप् → विनाशि + य → विनाश् + य → विनाश्य
स्वी + कारि + ल्यप् → स्वीकारि + य → स्वीकार् + य → स्वीकार्य
परि + भावि + ल्यप् → परिभावि + य → परिभाव् + य → परिभाव्य

किन्तु उपरितनधातुषु सर्वत्र दीर्घस्वरः वर्तते | नाशि, कारि, भावि— णिजन्तधातौ लघुस्वरः अस्ति चेत् '''ल्यपि लघुपूर्वात्''' (६.४.५६) इत्यनेन णिचः स्थाने अय्-आदेशः न तु णिचः लोपः—

'''ल्यपि लघुपूर्वात्''' (६.४.५६) = लघुपूर्वात् परस्य णिच्-प्रत्ययस्य अय्-आदेशो भवति ल्यपि परे | '''णेरनिटि''' (६.४.५१) इत्यस्य अपवादः | लघुः पूर्वो यस्मात् स लघुपूर्वः बहुव्रीहिः, तस्मात् लघुपूर्वात् | ल्यपि सप्तम्यन्तं, लघुपूर्वात् पञ्चम्यन्तम् | '''णेरनिटि''' (६.४.५१) इत्यस्मात् '''णेः''' इत्यस्य अनुवृत्तिः | '''अयामन्ताल्वय्येल्विष्णुषु''' (६.४.५५) इत्यस्मात् '''अय्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''लघुपूर्वात् णेः अय् ल्यपि''' |

'''रच् (रचयति) :''' वि + रचि + ल्यप् → वि + रच् + अय् + य → विरचय्य
'''कथ् (कथयति) :''' प्र + कथि + ल्यप् → प्रकथय्य
'''गण् (गणयति) :''' प्र + गणि + ल्यप् → प्रगणय्य

लघुपूर्वात् किम् ? संप्रधार्य | अत्र आकारस्य गुरुगंज्ञा न तु लघुसंज्ञा अतः णेः स्थाने अयादेशो न भवति | अपि तु संप्रधारि + ल्यप् → '''णेरनिटि''' (६.४.५१) इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपः → संप्रधार् + य → संप्रधार्य |

अत्र प्रश्नः उदेति यत् रक्षि-धातौ ह्रस्वः अकारः अस्ति खलु; तर्हि किमर्थं न '''ल्यपि लघुपूर्वात्''' (६.४.५६) इत्यनेन 'संरक्षय्य' स्यात्, 'संरक्ष्य' इत्यस्य स्थाने ? अस्य बोधनार्थं कस्य स्वरस्य का संज्ञा इति परिशीलनीयम् |

लघुसंज्ञा = '''ह्रस्वं लघु''' (१.४.१०) इत्यनेन 'अ', ‘इ', ‘उ', ‘ऋ', ‘ऌ' इति पञ्चानाम् एकमात्रिकाणां स्वराणां 'लघु' इति संज्ञा भवति |

गुरुसंज्ञा = '''संयोगे गुरु''' (१.४.११) इत्यनेन 'अ', ‘इ', ‘उ', ‘ऋ', ‘ऌ' इति पञ्चानाम् एकमात्रिकाणां स्वराणाम् अनन्तरं संयोगो भवति चेत्, एषां एव पञ्चानाम् 'गुरु' संज्ञा भवति | यथा 'मुद्गर'-शब्दे उकारः एकमात्रिकह्रस्वस्वरः अस्ति, किन्तु अनन्तरं दकारगकारयोः संयोगः अस्ति इति कारणतः अत्र उकारस्य गुरुसंज्ञा भवति न तु लघुसंज्ञा | 'कृष्ण’-शब्देऽपि ऋकारस्य अनेन कारणेन गुरुसंज्ञा |

'''दीर्घञ्च''' (१.४.१२) इत्यनेन 'आ', ‘ई', ‘ऊ', ‘ॠ', ‘ए', ‘ऐ', ‘ओ', ‘औ' इति अष्टानां द्विमात्रिकदीर्घस्वराणाम् अपि गुरुसंज्ञा भवति |

अतः यद्यपि रक्षि-धातौ अकारः ह्रस्वः, तथापि परः ककारषकारयोः संयोगो वर्तते इति कारणेन विद्यमानस्य अकारस्य गुरुसंज्ञा भवति न तु लघुसंज्ञा | ततः '''ल्यपि लघुपूर्वात्''' (६.४.५६) इत्यस्य प्रसक्तिर्नास्ति | ततः '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः येन संरक्ष्य भवति न तु 'संरक्षय्य' |

णिजन्तानां कर्मणिप्रयोगः

णिजन्तानां प्रयोगक्षेत्रे सामान्यव्यवस्था अस्ति प्रयोज्यकर्तुः तृतीयाविभक्त्यन्तं रूपम् | किन्तु विशिष्टधातूनां प्रयोज्यकर्तुः कर्मसंज्ञा भवति इति कारणतः तेषु स्थलेषु प्रयोज्यकर्तुः रूपं द्वितीयाविभक्त्यन्तम् | सूत्रमस्ति— '''गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकार्णाम् अणि कर्ता स णौ''' (१.४.५२) |

किन्तु प्रश्नः उदेति, कर्मणिप्रयोगे व्यवस्था कीदृशी ? एका कारिका अस्ति—

बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया |
प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः ||

(अग्रे सूचना संस्कृतभारत्याः कारकपुस्तकात् प्रदर्श्यते |)

कथनस्य अर्थः एवम्— अण्यन्तावस्थायां यः कर्ता स एव ण्यन्तावस्थायां प्रयोज्यकर्म | यथा, छात्रः श्लोकार्थं बोधति | गुरुः छात्रं श्लोकार्थं बोधयति | द्वितीयवाक्ये छात्रः प्रयोज्यकर्म | कर्मणिप्रयोगे बुद्ध्यर्थकस्य भक्षार्थकस्य शब्दकर्मकाणां च प्रयोज्ये कर्मणि प्रधानकर्मणि वा लकारः | एतान् त्रीन् विहाय अन्येषां प्रयोज्ये कर्मणि एव लकारः | उदाहरणानि अधः—
{| class="wikitable"
|कर्तरिप्रयोगः
|कर्मणिप्रयोगः

|<nowiki>गुरुः छात्रं
|<nowiki>गुरुणा छात्रः श्लोकार्थं बोध्यते / गुरुणा छात्रं श्लोकार्थः बोध्यते |</nowiki>

|<nowiki>माता शिशुं ओदनं भोजयति |</nowiki>
|<nowiki>मात्रा शिशुः

|<nowiki>अध्यापकः बालं वेदम् अध्यापयति |</nowiki>
Line 432 ⟶ 455:

|<nowiki>गुरुः विद्यार्थिनं पद्यार्थं जल्पयति |</nowiki>
|<nowiki>गुरुणा

|<nowiki>पिता शिशुं शुकं दर्शयति |</nowiki>
Line 445 ⟶ 468:

[https://static.miraheze.org/samskritavyakaranamwiki/8/88/P.8.pdf p.8.pdf] (1162k) Swarup Bhai, Jun 28, 2014, 6:34 PM
[https://static.miraheze.org/samskritavyakaranamwiki/4/4d/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A5%87%E0%A4%B0%E0%A4%A3%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A5%87_%E0%A4%A3%E0%A4%BF%E0%A4%9A%E0%A5%8D%E2%80%8C_-_%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A4%AF%E0%A4%83.pdf प्रेरणार्थे णिच् - परिचयः.pdf] (76k) Swarup Bhai, Mar 31, 2019, 4:02 PM
Swarup – June 2014 (Updated Sept 2018)