9---anye-vyAkaraNa-sambaddha-viShayAH/14---prashnAH-uttarANi-ca: Difference between revisions

m
Protected "14 - प्रश्नाः उत्तराणि च" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
m (Protected "14 - प्रश्नाः उत्तराणि च" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(6 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:14 - प्रश्नाः उत्तराणि च}}
'''<big>कर्तृ-पितृ-शब्दयो: भेदः</big>'''
 
 
 
<big>भ्राता भ्रातरौ भ्रातरः</big>
 
<big>पिता पितरौ पितरः</big>
 
<big>माता मातरौ मातरः</big>
 
 
<big>परन्तु—</big>
 
 
<big>कर्ता कर्तारौ कर्तारः</big>
 
<big>नेता नेतारौ नेतारः</big>
 
<big>द्रष्टा द्रष्टारौ द्रष्टारः</big>
 
 
<big>किमर्थं कतृ-शब्दादिषु स्वरः दीर्घः ?</big>
 
 
<big>एते सर्वे कृदन्तशब्दाः, विशेषतश्च तृच्‌-प्रत्ययान्ताः |</big>
 
 
 
<big>भ्रातृ, पितृ, मातृ, कर्तृ, नेतृ, द्रष्टृ इत्येतानि सर्वाणि तृजन्तप्रातिपदिकानि | भ्रातृ, पितृ, मातृ इति अपि तथा, कर्तृ, नेतृ, द्रष्टृ अपि तथा | समूहद्वयेऽपि सर्वे सदस्याः तृजन्ताः | सर्वे ऋकारान्तशब्दाः, निर्मिताश्च तृच्‌-प्रत्ययेन सह |</big>
 
 
 
<big>द्वयोः समूहयोः मध्ये भेदः कः इति चेत्‌, '''अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तृ̄णाम्''' (६.४.११) इति सूत्रेण एकस्मिन्‌ समूहे सदस्यीभूतशब्दानाम्‌ उपधा-स्वरः दीर्घो भवति विशिष्ट-सुप्‌-प्रत्ययेषु परेषु | ते च सुप्‌-प्रत्ययाः के इति चेत्‌, प्रथमाविभक्तिसम्बद्धाः सर्वे, पुनः द्वितीयाविभक्तिसम्बद्धाः द्विवचनपर्यन्तम्‌ | आहत्य सु, औ, जस्‌, अम्‌, औट्‌ इति पञ्च्‌ सुप्‌-प्रत्ययाः; एषां च सङ्गृह्य नामकरणञ्च कृतम्‌ अस्ति 'सर्वनामस्थानम्‌' | एते सर्वे पञ्च सुप्‌-प्रत्ययाः सर्वनामस्थानसंज्ञकाः; इत्युक्तौ एषां सर्वनामस्थानसंज्ञा अस्ति |</big>
 
 
 
<big>भ्रातृ, पितृ, मातृ इति शब्दाः उणादिपाठे निर्मिताः; ते च अस्मिन्‌ सूत्रे नान्तर्भूताः अतः एषाम्‌ उपाधादीर्घो न भवति | केचन परिगणिताः उणादिपाठे निर्मिताः शब्दाः उपधादीर्घादेशं गृण्हन्ति, ते च अस्मिन्नेव सूत्रे उक्ताः | यथा स्वसृ-शब्दः— स्वसा स्वसारौ स्वसारः | स्वसृ-शब्दारभ्य ये शब्दाः उक्ताः अस्मिन्‌ सूत्रे, तेषां दीर्घादेशो भवति | भ्रातृ, पितृ, मातृ इति शब्दाः अस्मिन्‌ सूत्रे न पठिताः अतः तेषां दैर्घ्यं न भवति |</big>
 
 
 
<big>Swarup – May 2018</big>
page_and_link_managers, Administrators
5,097

edits