9---anye-vyAkaraNa-sambaddha-viShayAH/16---kta-pratyayaH: Difference between revisions
9---anye-vyAkaraNa-sambaddha-viShayAH/16---kta-pratyayaH (view source)
Revision as of 21:32, 26 January 2024
, 3 months agono edit summary
Subrahmanya (talk | contribs) No edit summary |
Subrahmanya (talk | contribs) No edit summary |
||
(2 intermediate revisions by the same user not shown) | |||
Line 4:
'''क्तक्तवतू निष्ठा''' (१.१.२६) = क्त-प्रत्ययः, क्तवतु-प्रत्ययश्च निष्ठा-संज्ञकौ भवतः | क्तश्च क्तवतुश्च तयोरितरेतरयोगद्वन्द्वः क्तक्तवतू | क्तक्तवतू प्रथमान्तं, निष्ठा प्रथमान्तं, द्विपदमिदं सूत्रम् , सूत्रं स्वयं सम्पूर्णम् | अनुवृत्ति-सहित-सूत्रम्— '''क्तक्तवतू निष्ठा''' (१.१.२६) |
'''<big>२. अयं कृत् संज्ञकः |</big>'''
'''कृदतिङ्''' (३.१.९३) = धातोः परः विहितः तिङ् भिन्नः प्रत्ययः कृत् संज्ञकः स्यात् | क्त प्रत्ययः तिङ्-भिन्न-प्रत्ययः , अपि च धातोः परः विहितः | अतः अयं कृत् संज्ञकः | तिङ् न, अतिङ् नञ्तत्पुरुषः | अतिङ् प्रथमान्तं , कृत् प्रथमान्तं, द्विपदमिदं सूत्रम् | अस्मिन् सूत्रे '''प्रत्ययः''' (३.१.१), '''धातोः''' (३.१.९१), '''परश्च''' (३.१.२) इत्येषाम् अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''धातोः परः अतिङ् प्रत्ययः कृत्''' |
'''<big>३. क्त प्रत्ययः धातोः परः भूतकालार्थे विहितः स्यात् |</big>'''
Line 25 ⟶ 24:
३. रामेण पाठशाला ''गता'' |
'''<big>४. क्त प्रत्ययः भावे कर्मणि च प्रयुक्तः भवति |</big>'''▼
'''तयोरेव कृत्यक्तखलर्थाः''' (३.४.७०) = कृत्य-प्रत्ययाः, '''क्त प्रत्ययः''', खल्-प्रत्ययः भावे कर्मणि च प्रयुक्ताः भवन्ति | खलः अर्थः खलर्थः, षष्ठीतत्पुरुषः | कृत्याश्च क्ताश्च खलर्थाश्च तेषामितरेतरद्वन्द्वः '''कृत्यक्तखलर्थाः''' | '''तयोः''' सप्तम्यन्तम् , '''एव''' अव्ययपदं , '''कृत्यक्तखलर्थाः''' प्रथमान्तं , त्रिपदमिदं सूत्रम् | '''प्रत्ययः''' (३.१.१), '''धातोः''' (३.१.९१), '''परश्च''' (३.१.२) इत्येषाम् अधिकारः | अस्मिन् सूत्रे '''तयोः''' इत्यनेन '''लः कर्मणि च भावे चाकर्मकेभ्यः''' (३.४.६९) इत्यस्मात् सूत्रात् '''कर्मणि, भावे अकर्मकेभ्यः''' इत्यनयोः ग्रहणम् | अनुवृत्ति-सहित-सूत्रम्— '''धातोः परः कृत्यक्तखलर्थाः प्रत्ययाः कर्मणि , (अकर्मकेभ्यः धातुभ्यः) भावे''' |▼
'''यथा''' - ▼
१. <u>कर्मणि प्रयोगे</u> - मात्रा बालकाय भोजनं ''दत्तम्'' | ▼
२. <u>भावे प्रयोगे</u> - शिशुना ''रुदितम्'' |▼
<big>'''
'''कृत्तद्धितसमासाश्च''' (१.२.४६) = कृदन्ताः, तद्धितान्ताः, समासाः च अपि प्रातिपदिकसंज्ञकाः | कृच्च, तद्धितश्च, समासश्च, कृत्तद्धितसमासाः इतरेतरद्वन्द्वः | कृत्तद्धितसमासाः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्''' (१.२.४५) इत्यस्मात् '''अर्थवत्''', '''प्रातिपदिकम्''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्— '''अर्थवन्तः''' '''कृत्तद्धितसमासाः च प्रातिपदिकानि''' |
Line 105 ⟶ 96:
|पठितेषु
|}
▲'''तयोरेव कृत्यक्तखलर्थाः''' (३.४.७०) = कृत्य-प्रत्ययाः, '''क्त प्रत्ययः''', खल्-प्रत्ययः भावे कर्मणि च प्रयुक्ताः भवन्ति | खलः अर्थः खलर्थः, षष्ठीतत्पुरुषः | कृत्याश्च क्ताश्च खलर्थाश्च तेषामितरेतरद्वन्द्वः '''कृत्यक्तखलर्थाः''' | '''तयोः''' सप्तम्यन्तम् , '''एव''' अव्ययपदं , '''कृत्यक्तखलर्थाः''' प्रथमान्तं , त्रिपदमिदं सूत्रम् | '''प्रत्ययः''' (३.१.१), '''धातोः''' (३.१.९१), '''परश्च''' (३.१.२) इत्येषाम् अधिकारः | अस्मिन् सूत्रे '''तयोः''' इत्यनेन '''लः कर्मणि च भावे चाकर्मकेभ्यः''' (३.४.६९) इत्यस्मात् सूत्रात् '''कर्मणि, भावे अकर्मकेभ्यः''' इत्यनयोः ग्रहणम् | अनुवृत्ति-सहित-सूत्रम्— '''धातोः परः कृत्यक्तखलर्थाः प्रत्ययाः कर्मणि , (अकर्मकेभ्यः धातुभ्यः) भावे''' |
▲'''यथा''' -
▲१. <u>कर्मणि प्रयोगे</u> - मात्रा बालकाय भोजनं ''दत्तम्'' |
▲२. <u>भावे प्रयोगे</u> - शिशुना ''रुदितम्'' |
'''६.अ. आदिकर्मणि विहितः क्त-प्रत्ययः कर्तरि अपि स्यात् |'''
Line 119 ⟶ 124:
'''अन्यदुदाहरणम्''' - ''ज्वलिते अग्नौ जुहोति |'' - ज्वल् धातोः क्त-प्रत्ययान्तरूपम् - ''ज्वलित'' | पुंसि , सप्तम्येकवचने - ज्वलिते | अग्नेः ज्वलनम् आरब्धम् , इदानीमपि ज्वलति , अग्रे अपि ज्वलिष्यति | तस्मिन् अग्नौ एव केनापि यज्ञः क्रियते , न तु भस्मीभूते अग्नौ | अतः अस्मिन् वाक्ये क्तान्तरूपम् आदिकर्मणि न तु भूते |
'''६.आ. केभ्यश्चन धातुभ्यः परः विहितः क्त-प्रत्ययः कर्तरि अपि स्यात् |'''
'''६.आ. केभ्यश्चन धातुभ्यः परः विहितः क्त-प्रत्ययः कर्तरि अपि स्यात् |'''
Line 169 ⟶ 175:
|हरिः ''वैकुण्ठम्''<nowiki> अध्यास्ते |</nowiki>
|}
'''७.''' '''नपुंसके भावे कालसामान्ये क्त प्रत्ययः |'''
'''नपुंसके भावे क्तः''' (३.३.११४) = क्लीबत्वविशिष्टे भावे कालसामान्ये क्तः प्रत्ययः स्यात् | अस्य वर्तमानाद्यधिकारानन्तर्भावादिति (वर्तमानादि-अधिकार-अन्-अन्तर्भावाद्-इति) भावः | कर्मणः अनुपस्थितौ सर्वेभ्यः धातुभ्यः कालसामान्ये क्रियायाः भावस्य निर्देशार्थं क्तः प्रत्ययः विहितः स्यात् | नपुंसके सप्तम्यन्तम् , भावे सप्तम्यन्तम् , क्तः प्रथमान्तम् , त्रिपदम् इदं सूत्रम् | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२), '''धातोः''' (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''धातोः परः नपुंसके भावे क्तः प्रत्ययः |'''
'''यथा''' -
१. '''जल्पँ''' (भ्वादिः, व्यक्तायां वाचि) - महिलायाः ''जल्पितम्'' | महिलायाः ''जल्पनम्'' |
२. '''हृञ्''' (भ्वादिः, हरणे) - राज्ञः ''व्याहृतम्'' | राज्ञः ''व्याहरणम्'' |
'''८. क्त प्रत्ययः आर्धधातुकप्रत्ययः |'''
'''आर्धधातुकं शेषः''' (३.४.११४) = धातोः विहितः तिङ्-शित्-भिन्नः प्रत्ययः आर्धधातुकसंज्ञको भवति | आर्धधातुकं प्रथमान्तं, शेषः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२), '''धातो''': (३.१.९१) इत्येषाम् अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) इत्यस्मात् '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''धातोः परश्च शेषः प्रत्ययः आर्धधातुकम्''' |
'''आर्धधातुकं शेषः''' (३.४.११४) = इति सूत्रे '''धातोः''' इत्यस्य अधिकारः द्वयोः सूत्रयोः, अनेन च द्विवारं सूत्रे आयाति | फलम् एवम् अस्ति— यः प्रत्ययः धातोः विधीयते अपि च विधायकसूत्रे साक्षात् ''''धातोः'''<nowiki/>' इति उच्यते, स एव आर्धधातुकसंज्ञकः | अनेन '''गुप्तिज्किद्भ्यः सन्''' (३.१.५) इत्यस्मिन् यद्यपि सन्-प्रत्ययः धातोः विधीयते, तथापि सूत्रे साक्षात् '''धातोः''' इति पदं न आयाति इत्यस्मात् सन्-प्रत्ययः आर्धधातुकः नास्ति | तदर्थम् '''आर्धधातुकस्येड् वलादेः''' (७.२.३५) इत्यस्य प्रसक्तिर्नास्ति, यस्मात् सन्-प्रत्ययः यद्यपि वलादिः तथापि तस्य इडागमो न भवति |
'''९. क्त प्रत्ययः इडनुकूलः अतः सेट् |'''
धातुभ्यः वलादि-आर्धधातुकप्रत्ययः विधीयते चेत्, तस्य प्रत्ययस्य इडागमः भवति | ककारस्य लोपानन्तरम् अवशिष्टः त प्रत्ययः वलादिः अतः इडनुकूलः ( सेट् ) | क्त प्रत्ययः कृत् संज्ञकः | निरनुबन्धप्रत्ययः वशादिः न अतः इडागमः न निषिध्यते | तदर्थम् इमे द्वे सूत्रे -
'''आर्धधातुकस्येड्वलादेः''' (७.२.३५) = पदविच्छेदः - '''आर्धधातुकस्य इट् वलादेः''' | आर्धधातुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति | वलादेः आर्धधातुकस्य इडागमः स्यात् | इट्-आगमः टित् अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल् आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्, इट् प्रथमान्तम्, वलादेः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गात् वलादेः आर्धधातुकस्य इट्''' | '''इदं इडागमस्य विधायकसूत्रम्''' |
'''नेड् वशि कृति''' (७.२.८) = कृत्-प्रत्ययस्य आदौ वश्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो न भवति | '''यस्मिन् विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम् २९) इत्यनेन '''वशि कृति''' इत्युक्तौ वशादौ कृति (तादृशप्रत्ययः यस्य आदौ वश् स्यात्) | वश्-प्रत्याहारे वर्गीयव्यञ्जनानां तृतीयः, चतुर्थः, पञ्चमश्च सदस्याः, वकाररेफलकाराः च | नाम कृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः, द्वितीयः अथवा श्, ष्, स्, ह् चेत्, इडनुकूलः | न अव्ययपदम्, इट् प्रथमान्तं, वशि सप्तम्यन्तं, कृति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गात् न इट् वशि कृति''' |
|