16 - क्त-प्रत्ययः
१. क्त प्रत्ययः निष्ठा संज्ञकः |
क्तक्तवतू निष्ठा (१.१.२६) = क्त-प्रत्ययः, क्तवतु-प्रत्ययश्च निष्ठा-संज्ञकौ भवतः | क्तश्च क्तवतुश्च तयोरितरेतरयोगद्वन्द्वः क्तक्तवतू | क्तक्तवतू प्रथमान्तं, निष्ठा प्रथमान्तं, द्विपदमिदं सूत्रम् , सूत्रं स्वयं सम्पूर्णम् | अनुवृत्ति-सहित-सूत्रम्— क्तक्तवतू निष्ठा (१.१.२६) |
२. अयं कृत् संज्ञकः |
कृदतिङ् (३.१.९३) = धातोः परः विहितः तिङ् भिन्नः प्रत्ययः कृत् संज्ञकः स्यात् | क्त प्रत्ययः तिङ्-भिन्न-प्रत्ययः , अपि च धातोः परः विहितः | अतः अयं कृत् संज्ञकः | तिङ् न, अतिङ् नञ्तत्पुरुषः | अतिङ् प्रथमान्तं , कृत् प्रथमान्तं, द्विपदमिदं सूत्रम् | अस्मिन् सूत्रे प्रत्ययः (३.१.१), धातोः (३.१.९१), परश्च (३.१.२) इत्येषाम् अधिकारः | अनुवृत्ति-सहित-सूत्रम्— धातोः परः अतिङ् प्रत्ययः कृत् | ३. क्त प्रत्ययः धातोः परः भूतकालार्थे विहितः स्यात् |
३. क्त प्रत्ययः धातोः परः भूतकालार्थे विहितः स्यात् |
निष्ठा (३.२.१०२) = निष्ठा-संज्ञक-प्रत्ययः धातोः परः भूतकालार्थे विहितः स्यात् | अनेन सूत्रेण क्त क्तवतु च प्रत्यय-संज्ञकौ स्तः | प्रत्ययः (३.१.१), धातोः (३.१.९१), परश्च (३.१.२) इत्येषाम् अधिकारः | भूते (३.२.८४) इत्यस्यापि अधिकारः, अतः क्त क्तवतु प्रत्ययौ धातोः परः भूतकालार्थे भवतः | अनुवृत्ति-सहित-सूत्रम्— धातोः परः निष्ठा प्रत्ययः भूते |
यथा -
१. मात्रा बालकाय भोजनं दत्तम् |
२. बालकेन संस्कृतस्य गृहाभ्यासः कृतः |
३. रामेण पाठशाला गता |
४. क्त-प्रत्ययान्तरूपस्य प्रातिपदिकसंज्ञा स्यात् |
कृत्तद्धितसमासाश्च (१.२.४६) = कृदन्ताः, तद्धितान्ताः, समासाः च अपि प्रातिपदिकसंज्ञकाः | कृच्च, तद्धितश्च, समासश्च, कृत्तद्धितसमासाः इतरेतरद्वन्द्वः | कृत्तद्धितसमासाः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | अर्थवदधातुरप्रत्ययः प्रातिपदिकम् (१.२.४५) इत्यस्मात् अर्थवत्, प्रातिपदिकम् इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्— अर्थवन्तः कृत्तद्धितसमासाः च प्रातिपदिकानि |
आहत्य कृदन्त रूपाणि त्रिषु लिङे्गषु , त्रिषु वचनेषु , सप्तसु विभक्तिषु च भवन्ति |
यथा -
लिङ्गम् / वचनम् | एकवचनम् | द्विवचनम् | बहुवचनम् |
पुंलिङ्गे | पठितः | पठितौ | पठिताः |
स्त्रीलिङ्गे | पठिता | पठिते | पठिताः |
नपुंसकलिङ्गे | पठितम् | पठिते | पठितानि |
पुंलिङ्गे
विभक्तिः / वचनम् | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा | पठितः | पठितौ | पठिताः |
द्वतीया | पठितम् | पठितौ | पठितान् |
तृतीया | पठितेन | पठिताभ्याम् | पठितैः |
चतुर्थी | पठिताय | पठिताभ्याम् | पठितेभ्यः |
पञ्चमी | पठितात् | पठिताभ्याम् | पठितेभ्यः |
षष्ठी | पठितस्य | पठितयोः | पठितानाम् |
सप्तमी | पठिते | पठितयोः | पठितेषु |
५. क्त प्रत्ययः भावे कर्मणि च प्रयुक्तः भवति |
तयोरेव कृत्यक्तखलर्थाः (३.४.७०) = कृत्य-प्रत्ययाः, क्त प्रत्ययः, खल्-प्रत्ययः भावे कर्मणि च प्रयुक्ताः भवन्ति | खलः अर्थः खलर्थः, षष्ठीतत्पुरुषः | कृत्याश्च क्ताश्च खलर्थाश्च तेषामितरेतरद्वन्द्वः कृत्यक्तखलर्थाः | तयोः सप्तम्यन्तम् , एव अव्ययपदं , कृत्यक्तखलर्थाः प्रथमान्तं , त्रिपदमिदं सूत्रम् | प्रत्ययः (३.१.१), धातोः (३.१.९१), परश्च (३.१.२) इत्येषाम् अधिकारः | अस्मिन् सूत्रे तयोः इत्यनेन लः कर्मणि च भावे चाकर्मकेभ्यः (३.४.६९) इत्यस्मात् सूत्रात् कर्मणि, भावे अकर्मकेभ्यः इत्यनयोः ग्रहणम् | अनुवृत्ति-सहित-सूत्रम्— धातोः परः कृत्यक्तखलर्थाः प्रत्ययाः कर्मणि , (अकर्मकेभ्यः धातुभ्यः) भावे |
यथा -
१. कर्मणि प्रयोगे - मात्रा बालकाय भोजनं दत्तम् |
२. भावे प्रयोगे - शिशुना रुदितम् |
६. क्त प्रत्ययः कर्तरि अपि प्रयुक्तः स्यात् |
अ. आदिकर्मणि विहितः क्त-प्रत्ययः कर्तरि अपि प्रयुक्तः स्यात् |
आदिकर्मणि क्तः कर्तरि च (३.४.७१) = आदिकर्मणि अर्थे विद्यमानः धातोः परः विहितः क्त-प्रत्ययः कर्मणि, भावे, कर्तरि च भवति | आदिभूतः क्रियाक्षणः आदिकर्म, तस्मिन् आदिकर्मणि | अर्थात् क्रिया आरब्धा परन्तु न समाप्ता, अधुना अपि प्रवर्तमाना, अग्रे अपि प्रवर्तिष्यते | अतः क्रिया भूता न | आदि च अदः आदिकर्म, तस्मिन् आदिकर्मणि, कर्मधारयः | आदिकर्मणि सप्तम्यन्तं, क्तः प्रथमान्तं, कर्तरि सप्तम्यन्तं, च अव्ययम् | प्रत्ययः (३.१.१), धातोः (३.१.९१), परश्च (३.१.२) इत्येषाम् अधिकारः | अस्मिन् सूत्रे च इत्यनेन लः कर्मणि च भावे चाकर्मकेभ्यः (३.४.६९) इत्यस्मात् सूत्रात् कर्मणि, भावे इत्यनयोः ग्रहणम् | अनुवृत्ति-सहितसूत्रम्— धातोः परः क्त प्रत्ययः कर्तरि, कर्मणि, भावे च आदिकर्मणि |
यथा -
१. कर्तरि - रामः गृहाभ्यासं प्रकृतः | इत्युक्ते रामः गृहाभ्यासकार्यम् आरब्धवान् | इदानिं प्रवर्तते | अग्रे अपि प्रवर्तिष्यते |
२. कर्मणि - रामेण गृहाभ्यासः प्रकृतः | इत्युक्ते रामेण गृहाभ्यासकार्यम् आरब्धम् | इदानिं प्रवर्तते | अग्रे अपि प्रवर्तिष्यते |
३. भावे - रामेण प्रकृतम् | इत्युक्ते रामेण किञ्चन कार्यम् आरब्धम् | इदानिं प्रवर्तते | अग्रे अपि प्रवर्तिष्यते |
अन्यदुदाहरणम् - ज्वलिते अग्नौ जुहोति | - ज्वल् धातोः क्त-प्रत्ययान्तरूपम् - ज्वलित | पुंसि , सप्तम्येकवचने - ज्वलिते | अग्नेः ज्वलनम् आरब्धम् , इदानीमपि ज्वलति , अग्रे अपि ज्वलिष्यति | तस्मिन् अग्नौ एव केनापि यज्ञः क्रियते , न तु भस्मीभूते अग्नौ | अतः अस्मिन् वाक्ये क्तान्तरूपम् आदिकर्मणि न तु भूते |
आ. केभ्यश्चन धातुभ्यः परः विहितः क्त-प्रत्ययः कर्तरि अपि प्रयुक्तः स्यात् |
गत्यर्थ-अकर्मक-श्लिष-शीङ्-स्था-आस-वस-जन-रुह-जीर्यतिभ्यश्च (३.४.७२) = एभ्यः धातुभ्यः क्तः कर्तरि भावकर्मणोः च स्याद् | गतिरर्थः येषां ते गत्यर्थाः, बहुव्रीहिः | न विद्यते कर्म येषां ते अकर्मकाः, बहुव्रीहिः | गत्यर्थाश्च अकर्मकाश्च श्लिषश्च शीङ् च स्थाश्च आसश्च वसश्च जनश्च रुहश्च जीर्यतिश्च तेषाम् इतरेतरयोगद्वन्द्वः गत्यर्थाऽकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतयः तेभ्यः इतरेतरयोगद्वन्द्वः गत्यर्थाऽकर्मकश्लीषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यः पञ्चम्यन्तं, च अव्ययम् | प्रत्ययः (३.१.१), धातोः (३.१.९१), परश्च (३.१.२) इत्येषाम् अधिकारः | आदिकर्मणि क्तः कर्तरि च (३.४.७१) इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः | चकारात् लः कर्मणि च भावे चाकर्मकेभ्यः (३.४.६९) इत्यस्मात् कर्मणि, भावे इत्यनयोः ग्रहणम् | अनुवृत्ति-सहितसूत्रम्— गत्यर्थाऽकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यः धातुभ्यः परः क्त प्रत्ययः कर्तरि, कर्मणि, भावे च | उपसर्गपूर्वकाः श्लिष-शीङ्-स्था-आस-वस-जन-रुह-जीर्यतयः सकर्मकाः अतः ते सूत्रे उक्ताः |
यथा -
धातुः / प्रयोगः | गम्ऌँ (भ्वादिः, गतौ) | हसेँ (भ्वादिः, हसने) | शीङ् (अदादिः, स्वप्ने)* | रुहँ (भ्वादिः, बीजजन्मनि प्रादुर्भावे च) |
कर्तरि | गोविन्दः नगरं गतः | | बालः हसितः | | हरिः शेषम् अधिशयितः | | कृष्णः रथम् आरूढः | |
कर्मणि | गोविन्देन नगरं गतम् | | हरिणा शेषः अधिशयितः | | कृष्णेन रथम् आरूढ्म् | | |
भावे | गोविन्देन गतम् | | बालेन हसितम् | | हरिणा अधिशयितम् | | कृष्णेन आरूढ्म् | |
* अधिशीङ्स्थाऽऽसां कर्म (१.४.४६) = अधिपूर्वाणाम् शीङ्-स्था-आस इत्येषां धातूनाम् आधारः कर्मसंज्ञकः स्यात् | शीङ् च स्थाश्च आस च तेषाम् इतरेतरयोगद्वन्द्वः शीङ्स्थाऽऽसः | अधेः शीङ्स्थाऽऽसः अधिशीङ्स्थाऽऽसः , इतरेतरयोगद्वन्द्वगर्भ-पञ्चमीतत्पुरुषः | तेषाम् अधिशीङ्स्थाऽऽसां षष्ठीबहुनचनान्तं, कर्म प्रथमान्तम् | कारके (१.४.२३) इत्यस्य अधिकारः | आधारोऽधिकरणम् (१.४.४५) इत्यस्मात् आधारः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अधिशीङ्स्थाऽऽसां आधारे कारके कर्म |
यथा -
धातुः / प्रयोगः | शीङ् (अदादिः, स्वप्ने) | ष्ठा (भ्वादिः, गतिनिवृत्तौ) | आसँ (अदादिः, उपवेशने) |
अधिकरणसंज्ञा | हरिः वैकुण्ठे शेते | | हरिः वैकुण्ठे तिष्ठति | | हरिः वैकुण्ठे आस्ते | |
कर्मसंज्ञा | हरिः वैकुण्ठम् अधिशेते | | हरिः वैकुण्ठम् अधितिष्ठति | | हरिः वैकुण्ठम् अध्यास्ते | |
७. नपुंसके भावे कालसामान्ये क्त प्रत्ययः |
नपुंसके भावे क्तः (३.३.११४) = क्लीबत्वविशिष्टे भावे कालसामान्ये क्तः प्रत्ययः स्यात् | अस्य वर्तमानाद्यधिकारानन्तर्भावादिति (वर्तमानादि-अधिकार-अन्-अन्तर्भावाद्-इति) भावः | कर्मणः अनुपस्थितौ सर्वेभ्यः धातुभ्यः कालसामान्ये क्रियायाः भावस्य निर्देशार्थं क्तः प्रत्ययः विहितः स्यात् | नपुंसके सप्तम्यन्तम् , भावे सप्तम्यन्तम् , क्तः प्रथमान्तम् , त्रिपदम् इदं सूत्रम् | प्रत्ययः (३.१.१), परश्च (३.१.२), धातोः (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः परः नपुंसके भावे क्तः प्रत्ययः |
यथा -
१. जल्पँ (भ्वादिः, व्यक्तायां वाचि) - महिलायाः जल्पितम् | महिलायाः जल्पनम् |
२. हृञ् (भ्वादिः, हरणे) - राज्ञः व्याहृतम् | राज्ञः व्याहरणम् |
८. क्त प्रत्ययः आर्धधातुकप्रत्ययः |
आर्धधातुकं शेषः (३.४.११४) = धातोः विहितः तिङ्-शित्-भिन्नः प्रत्ययः आर्धधातुकसंज्ञको भवति | आर्धधातुकं प्रथमान्तं, शेषः प्रथमान्तं, द्विपदमिदं सूत्रम् | प्रत्ययः (३.१.१), परश्च (३.१.२), धातो: (३.१.९१) इत्येषाम् अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः परश्च शेषः प्रत्ययः आर्धधातुकम् |
आर्धधातुकं शेषः (३.४.११४) इति सूत्रे धातोः इत्यस्य अधिकारः द्वयोः सूत्रयोः, अनेन च द्विवारं सूत्रे आयाति | फलम् एवम् अस्ति— यः प्रत्ययः धातोः विधीयते अपि च विधायकसूत्रे साक्षात् 'धातोः' इति उच्यते, स एव आर्धधातुकसंज्ञकः | अनेन गुप्तिज्किद्भ्यः सन् (३.१.५) इत्यस्मिन् यद्यपि सन्-प्रत्ययः धातोः विधीयते, तथापि सूत्रे साक्षात् धातोः इति पदं न आयाति इत्यस्मात् सन्-प्रत्ययः आर्धधातुकः नास्ति | तदर्थम् आर्धधातुकस्येड् वलादेः (७.२.३५) इत्यस्य प्रसक्तिर्नास्ति, यस्मात् सन्-प्रत्ययः यद्यपि वलादिः तथापि तस्य इडागमो न भवति |
९. क्त प्रत्ययः इडनुकूलः अतः सेट् |
धातुभ्यः वलादि-आर्धधातुकप्रत्ययः विधीयते चेत्, तस्य प्रत्ययस्य इडागमः भवति | ककारस्य लोपानन्तरम् अवशिष्टः त प्रत्ययः वलादिः अतः इडनुकूलः ( सेट् ) | क्त प्रत्ययः कृत् संज्ञकः | निरनुबन्धप्रत्ययः वशादिः न अतः इडागमः न निषिध्यते | तदर्थम् इमे द्वे सूत्रे -
आर्धधातुकस्येड्वलादेः (७.२.३५) = पदविच्छेदः - आर्धधातुकस्य इट् वलादेः | आर्धधातुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति | वलादेः आर्धधातुकस्य इडागमः स्यात् | इट्-आगमः टित् अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल् आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्, इट् प्रथमान्तम्, वलादेः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गात् वलादेः आर्धधातुकस्य इट् | इदं इडागमस्य विधायकसूत्रम् |
नेड् वशि कृति (७.२.८) = कृत्-प्रत्ययस्य आदौ वश्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो न भवति | यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन वशि कृति इत्युक्तौ वशादौ कृति (तादृशप्रत्ययः यस्य आदौ वश् स्यात्) | वश्-प्रत्याहारे वर्गीयव्यञ्जनानां तृतीयः, चतुर्थः, पञ्चमश्च सदस्याः, वकाररेफलकाराः च | नाम कृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः, द्वितीयः अथवा श्, ष्, स्, ह् चेत्, इडनुकूलः | न अव्ययपदम्, इट् प्रथमान्तं, वशि सप्तम्यन्तं, कृति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गात् न इट् वशि कृति |
१०. धातुः अपि इडनुकूलः अस्ति चेदेव प्रत्ययस्य इडागमः |
अ. यस्मिन् धातौ अनुबन्धानां निष्कासनानन्तरं अवशिष्टः एकः स्वरः अनुदात्तः सः धातुः इडनुकूलः न - न इट् - अनिट् |
यथा - क्षि॒ (भ्वादिः , क्षये) |
आ. अन्ये सर्वे धातवः इडनुकूलाः - इटा सह - सेट् |
- यस्मिन् धातौ अनुबन्धानां निष्कासनानन्तरं अवशिष्टः स्वरः उदात्तः वा स्वरितः वा सः धातुः इडनुकूलः |
यथा - राजृँ। (भ्वादिः , दीप्तौ) | राज् - अस्मिन् अवशिष्टः स्वरः उदात्तः |
- यस्मिन् धातौ अनुबन्धानां निष्कासनानन्तरं एकस्माद् अधिकः स्वरः अवशिष्यते सः धातुः इडनुकूलः |
यथा - दरिद्रा (अदादिः , दुर्गतौ) | दरिद्रा - अयम् अनेकाच् |
एकाच उपदेशेऽनुदात्तात् (७.२.१०) = पदविच्छेदः - एकाचः उपदेशे अनुदात्तात् | यः औपदेशिकधातुः एकाच् अपि अनुदात्तः अपि अस्ति, तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति | यस्मिन् धातौ एकः एव स्वरः वर्तते, सः धातुः एकाच् | उपदेशे नाम पाणिनेः धातुपाठे अयं धातुः अन्तर्भूतः | औपदेशिकधातुः यथा पठँ, लिखँ, डुपचँष्, न तु आतिदेशिकधातुः यथा प्रेरणार्थकणिचि पाठि, लेखि, पाचि | एकः अच् यस्मिन् स एकाच् बहुव्रीहिः, तस्मात् एकाचः | एकाचः पञ्चम्यन्तम्, उपदेशे सप्तम्यन्तम्, अनुदात्तात् पञ्चम्यन्तं, त्रिपदमिदं सूत्रम् | ॠत इद् धातोः (७.१.१००) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः; नेड् वशि कृति (७.२.८) इत्यस्मात् न, इट् इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— उपदेशे एकाचः अनुदात्तात् धातोः अङ्गात् न इट् | इदं इडागमस्य निषेधकसूत्रम् |
सूचना - धातुः इडनुकूलः (सेट्) च प्रत्ययः इडनुकूलः (सेट्) च इति यदा एतादृशी परिस्थितिः जायते, तदा प्रत्ययस्य इडागमः भवति | हलन्तधातवः आधिक्येन इडनुकूलः, अतः सेटः | अजन्तधातवः आधिक्येन इडनुकूलः न, अतः अनिटः | णिजन्तधातवः सर्वे अनेकाचः, अतः सेटः |
यथा - १. क्षि॒ (भ्वादिः , क्षये) | क्षि - धातुः अनिट्, क्त-प्रत्ययः सेट् | इडागमः न स्यात् | रूपम् - क्षित | [ क्षि + क्त → क्षि + त ] |
२. राजृँ। (भ्वादिः , दीप्तौ) | राज् - धातुः सेट्, क्त-प्रत्ययः सेट् | इडागमः स्यात् | रूपम् - राजित | [ राजृँ + क्त → राज् + त → राज् + इ त ] |
३. दरिद्रा (अदादिः , दुर्गतौ) | धातुः सेट्, क्त-प्रत्ययः सेट् | इडागमः स्यात् | रूपम् - दरिद्रित | [ दरिद्रा + क्त → दरिद्रा + त → दरिद्र् + इ त ] — दरिद्रातेरार्धधातुके विवक्षिते आलोपो वाच्यः (वा) |
११. के धातवः वेटः ?
केचन धातवः विकल्पेन सेटः अतः ते वेटः ( वा इट् - वेट् )|
स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४) = स्वरति सूति सूयति धूञ्-इत्येतेभ्यः, ऊदिद्भ्यश्च उत्तरस्य वलादेः आर्धधातुकस्य इडागमः वा स्यात् | ऊत् इत् यस्य सः ऊदित्, बहुव्रीहिः | स्वरतिश्च सूतिश्च सूयतिश्च धूञ् च ऊदित् च तेषां इतरेतरद्वन्द्वः स्वरतिसूतिसूयतिधूञूदित्, तस्मात् स्वरतिसूतिसूयतिधूञूदितः | स्वरतिसूतिसूयतिधूञूदितः पञ्चम्यन्तं, वा अव्ययपदं, द्विपदमिदं सूत्रम् | स्वरति सूति सूयति - एते सूत्रे श्तिपा निर्दिष्टाः | आर्धधातुकस्य इट् वलादेः(७.२.३५) इत्यस्य सम्पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— स्वरतिसूतिसूयतिधूञूदितः अङ्गात् वलादेः आर्धधातुकस्य इट् वा |
यथा -
१. स्वृ (भ्वादिः, शब्दोपतापयोः) | [ स्वृ + श्तिप् → स्वृ + ति → स्वृ + शप् + ति → स्वृ + अ + ति → स्वर् + अ + ति → स्वरति ] |
२. षूङ् (अदादिः, प्राणिगर्भविमोचने) | [ षूङ् + श्तिप् → सू + ति → सूति ] |
३. षूङ् (दिवादिः, प्राणिप्रसवे) | [ षूङ् + श्तिप् → सू + श्यन् + ति → सू + य + ति → सूयति ] |
४. धूञ् (स्वादिः, कम्पने) |
५. धूञ् (क्र्यादिः, कम्पने) |
६. सर्वे ऊदितः धातवः | ऊत् इत् यस्य सः - ऊदित् | धातुपाठे उक्ताः २४ धातवः |
— क्लिदूँ (दिवादिः, आर्द्रीभावे) |
— क्लिशूँ (क्र्यादिः, विबाधने) | अयं धातुः वेट् - क्लिशः क्त्वानिष्ठयोः(७.२.५०) इत्यनेन | अस्मिन् विषये अग्रे चिन्तयाम |
सूचना -
१. षू (तुदादिः, प्रेरणे) - सुवति इत्यस्य ग्रहणं न स्यात्, यतः सूत्रे षू धातुद्वयस्य प्रसङ्गः विकरणप्रत्ययेन निर्दिष्टः - सूति , सूयति |
२. धू (तुदादिः, विधूनने) -धुवति इत्यस्य ग्रहणं न स्यात्, यतः सूत्रे अनुबन्धसहितस्य धू धातुद्वयस्य प्रसङ्गः कृतः न तु निरनुबन्धस्य |
रधादिभ्यश्च (७.२.४५)= रधादिभ्यः अष्टेभ्यः धातुभ्यः उत्तरस्य वलादेः आर्धधातुकस्य इडागमः वा स्यात् | रधादिः इति दिवादिगणे कश्चन अन्तर्गणः | रध् आदिः येषां ते रधादयः, बहुव्रीहिः, तेभ्यः रधादिभ्यः | रधादिभ्यः पञ्चम्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम् | आर्धधातुकस्य इट् वलादेः(७.२.३५) इत्यस्य सम्पूर्णानुवृत्तिः | स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४) इत्यस्मात् वा इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— रधादिभ्यः अङ्गेभ्यः च वलादेः आर्धधातुकस्य इट् वा |
यथा -
१. रधँ (दिवादिः, हिंसासंराद्धयोः)
२. णशँ (दिवादिः, अदर्शने)
३. तृपँ (दिवादिः, प्रीणने)
४. दृपँ (दिवादिः, हर्षमोहनयोः)
५. द्रुहँ (दिवादिः, जिघांसायाम्)
६. मुहँ (दिवादिः, वैचित्ये)
७. ष्णिहँ (दिवादिः, प्रीतौ)
८. ष्णुहँ (दिवादिः, उद्गिरणे)
यद्यपि उपर्युक्ताः धातवः वेटः तथापि तेभ्यः परः विहितः निष्ठा-प्रत्ययस्य इडागमः निषिद्धः | एतदर्थम् इदं सूत्रम् -
यस्य विभाषा (७.२.१५) = यस्य धातोः विभाषया क्वचिद् इड् उक्तः तस्मात् परः निष्ठा-प्रत्ययस्य इडागमः न स्यात् | यस्य षष्ठ्यन्तं, विभाषा प्रथमान्तं, द्विपदमिदं सूत्रम् | श्वीदितो निष्ठायाम् (७.२.१४) इत्यस्मात् निष्ठायाम् इत्यस्य अनुवृत्तिः, नेड् वशि कृति (७.२.८) इत्यस्मात् न, इट् इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— यस्य विभाषा, तस्मात् अङ्गात् निष्ठायां न इट् | इदं इडागमस्य निषेधकसूत्रम् |
आहत्य -
१. क्लिदूँ (दिवादिः, आर्द्रीभावे) | अयं धातुः ऊदित् | स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४) इत्यनेन अयं धातुः वेट् | यस्य विभाषा (७.२.१४) इत्यनेन निष्ठायाम् इडागमः निषिद्धः | अस्य क्तान्तरूपम् - क्लिन्न | क्लिदित न |
२. णशँ (दिवादिः, अदर्शने) | अयं धातुः रधादिषु अन्यतमः | रधादिभ्यश्च (७.२.४५) इत्यनेन अयं धातुः वेट् | यस्य विभाषा (७.२.१४) इत्यनेन निष्ठायाम् इडागमः निषिद्धः | अस्य क्तान्तरूपम् - नष्ट | नशित न |
१२. केभ्यश्चन धातुभ्यः परः विहितः निष्ठाप्रत्ययस्य इडागमस्य विचारः |
अ. धातुः उगन्तः
श्र्युकः किति (७.२.११) = श्रिञः, एकाचः उगन्तात् च परस्य कितः प्रत्ययस्य इडागमः न स्यात् | श्रिश्च उक्च तयोः समाहारद्वन्द्वः श्र्युक्, तस्मात् श्र्युकः | श्र्युकः पञ्चम्यन्तं, किति सप्तम्यन्तं द्विपदमिदं सूत्रम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन उकः इत्यनेन उगन्तस्य ग्रहणम् | एकाच उपदेशेऽनुदात्तात् (७.२.१०) इत्यस्मात् एकाचः इत्यस्य अनुवृत्तिः | नेड् वशि कृति (७.२.८) इत्यस्मात् न, इट् अनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— श्रिञः एकाचः उगन्तात् अङ्गात् न इट् किति | इदं इडागमस्य निषेधकसूत्रम् |
यथा - १. श्रिञ् (भ्वादिः, सेवायाम्) | धातौ अवशिष्टः स्वरः उदात्तः , अतः धातुः सेट् | परन्तु अस्य क्तान्तरूपम् - श्रित |
२. भू (भ्वादिः, सत्तायाम्) | धातौ अवशिष्टः स्वरः उदात्तः , अतः धातुः सेट् |
परन्तु अयम् एकाच्, उगन्तः च अतः अस्य क्तान्तरूपम् - भूत |
३. जागृ (अदादिः, निद्राक्षये) | अस्य क्तान्तरूपम् - जागरित |
अयं धातुः सेट् , उगन्तः च ; परन्तु अनेकाच् , अतः किति परे इड् निषिद्धः न स्यात् |
४. स्वृ (भ्वादिः, शब्दोपतापयोः) | अस्य क्तान्तरूपम् - स्वृत |
उगन्तानां वेटां च धातूनां प्रसङ्गे केन सूत्रेण इट् न स्यात् ?
यथा - स्वृ (भ्वादिः, शब्दोपतापयोः) | स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४) इत्यनेन अयं धातुः वेट् | यस्य विभाषा (७.२.१५) इत्यनेन अस्मात् परस्य क्त-प्रत्ययस्य (निष्ठायाः) इडागमः निषिद्धः स्म | स्वृ इति धातुः उगन्तः, अतः श्र्युकः किति (७.२.११) इत्यनेन अपि अस्मात् परस्य कितः इडागमः निषिद्धः स्म | आहत्य अत्र कश्चन प्रश्नः उदेति , द्वयोर्मध्ये केन सूत्रेण उगन्तेभ्यः परस्य कितः इडागमः निषिद्धः स्यात्? सूत्रद्वयमपि सपादसप्ताध्याय्याम् | द्वयोः अपि अन्यत्र लब्धावकाशः | अतः विप्रतिषेधे परं कार्यम् (१.४.२) इत्यनेन परसूत्रेण - (श्र्युकः किति (७.२.११), यस्य विभाषा (७.२.१५) इत्याभ्याम् ) क्त-प्रत्ययस्य (निष्ठायाः) इडागमः निषिद्धः भवति वा ?
अत्र चिन्तनं भिन्नम् - सामान्यतया अष्टाध्याय्यां विधिसूत्राणि पूर्वं , निषेधकसूत्राणि परम् उक्तानि भवन्ति | परन्तु इडागमप्रसङ्गे विधिसूत्रेभ्यः पूर्वमेव निषेधकसूत्राणि उक्तानि | सप्तमाध्यायस्य द्वितीयपादस्य आरम्भे एव इडागमनिषेधकसूत्रणि उक्तानि अपि च तानि इडागमविधिसूत्रेभ्यः च इडागमविकल्पसूत्रेभ्यः च पूर्वमेव उक्तानि | अतः अस्य किञ्चन प्राधान्यं भवेत् इति वैयाकरणानां मतम् | अत्र श्र्युकः किति (७.२.११) इत्यनेन एव क्त-प्रत्ययस्य (निष्ठायाः) इडागमः निषिद्धः स्यात् |
आ. धातुः ईदित्
श्वीदितो निष्ठायाम् (७.२.१४) = श्वयतेः (श्वि-धातोः) ईदितश्च निष्ठायाः इट् न स्यात् | ईत् इत् यस्य सः ईदित् , बहुव्रीहिः | श्विश्च ईदित् च तयोः समाहारद्वन्द्वः श्वीदित् , तस्मात् श्वीदितः पञ्चम्यन्तम् | निष्ठायां सप्तम्यन्तम् | द्विपदमिदं सूत्रम् | नेड् वशि कृति (८.२.८) इत्यस्मात् न, इट् इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— श्वीदितः अङ्गात् निष्ठायां न इट् | इडागमनिषेधकसूत्रम् |
यथा -
१. टुओँश्वि (भ्वादिः, गतिवृद्धयोः) | क्तान्तरूपम् - शून | मूले धातुः सेट् यतः अवशिष्टः स्वरः उदात्तः |
धातुः श्वि , अतः निष्ठायाः इड् निषिद्धः |
२. ओँविजीँ (रुधादिः, भयचालनयोः) | क्तान्तरूपम् - विग्न | मूले धातुः सेट् यतः अवशिष्टः स्वरः उदात्तः |
ईदित् , अतः निष्ठायाः इड् निषिद्धः |
अत्र ओदितश्च (८.२.४५) इत्यनेन ओदितः (ओकारः इत्-संज्ञकः यस्य सः ओदित् , तस्माद् ओदितः) धातोः उत्तरस्य निष्ठा तकरस्य नकारादेशः स्यात् |
इ. धातुः आदित्
आदितश्च (७.२.१६) = आदितः निष्ठायाः इट् न स्यात् | आत् इत् यस्य सः आदित्, बहुव्रीहिः, तस्मात् आदितः पञ्चम्यन्तम् | च अव्ययम् | द्विपदमिदं सूत्रम् | नेड् वशि कृति (७.२.८) इत्यस्मात् न, इट् इत्यनयोः अनुवृत्तिः | श्वीदितो निष्ठायाम् (७.२.१४) इत्यस्मात् निष्ठायाम् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— आदितः अङ्गात् च निष्ठायां न इट् | इडागमनिषेधकसूत्रम् |
यथा - १. ञिमिदाँ (भ्वादिः, स्नेहने) | क्तान्तरूपम् - मिन्न | मूले धातुः सेट् यतः अवशिष्टः स्वरः उदात्तः | आदितः , अतः इड् निषिद्धः |
अत्र रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यनेन रेफदकाराभ्याम् उत्तरस्य निष्ठातकारस्य नकारः आदेशः स्यात् |
निष्ठायाः अपेक्षया पूर्वस्य धातोः दकारस्य च नकारः आदेशः स्यात् |
विभाषा भावादिकर्मणोः (७.२.१७) = भावे आदिकर्मणि च आदितः निष्ठायाम् इडागमः (न) स्यात् विकल्पेन | आदि च अदः कर्म आदिकर्म, भावश्च आदिकर्म च भावादिकर्मणी, तयोः भावादिकर्मणोः , कर्मधारयगर्भेतरेतरयोगद्वन्द्वः | विभाषा प्रथमान्तम्, भावादिकर्मणोः सप्तम्यन्तम् , द्विपदमिदं सूत्रम् | आदितश्च (७.२.१६) इत्यस्मात् आदितः इत्यस्य अनुवृत्तिः, श्वीदितो निष्ठायाम् (७.२.१४) इत्यस्मात् निष्ठायाम् इत्यस्य अनुवृत्तिः, नेड् वशि कृति (७.२.८) इत्यस्मात् न, इट् इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— आदितः अङ्गात् भावादिकर्मणोः निष्ठायां इट् (न) विभाषा |
यथा - १. ञिमिदाँ (भ्वादिः, स्नेहने) | क्तान्तरूपम् - मेदित | मूले धातुः सेट् यतः अवशिष्टः स्वरः उदात्तः | आदितः , अतः इड् निषिद्धः |
भावे आदिकर्मणि च इड् विकल्पः | रामेण प्रमेदितम् | रामः प्रमेदितः | स्नेहकार्यम् आरब्धं, प्रवर्तमानं, न समापितम् |
अत्र निष्ठा शीङ्-स्विदि-मिदि-क्ष्विदि-धृषः(१.२.१९) इत्यनेन सेटः निष्ठायाः अकित्त्वम् आरोपितम् |
सौनागाः कर्मणि निष्ठायां शकेरिटमिच्छन्ति विकल्पेन (वा) = सुनागः कश्चन आचार्यः, तस्य शिष्याः सौनागाः | यद्यपि शक् धातुः अकर्मकः तथापि तुमुन्नन्त-प्रयोगे क्रियाविशेषणत्वेन अयं धातुः सकर्मकः |
यथा -
१. शकँ (दिवादिः, मर्षणे) | क्तान्तरूपद्वयम् - शक्त, शकित | मूले अयं धातुः अनिट् (केचन सेट् मन्यन्ते) | कर्मणि निष्ठायां इड्विकल्पः |
२. शकऌँ (स्वादिः, शक्तौ) | क्तान्तरूपद्वयम् - शक्त, शकित | मूले अयं धातुः अनिट् | कर्मणि निष्ठायां इड्विकल्पः |
कर्तरि - एषः गृहाभ्यासं कर्तुं शकितवान् / शक्तवान् |
कर्मणि - तेन गृहाभ्यासः कर्तुं शकितः / शक्तः |
ई. धातुः उदित्
उदितो वा (७.२.५६) = उदितः परस्य क्त्वा-प्रत्ययस्य इडागमः वा स्यात् | उत् इत् यस्य सः उदित्, बहुव्रीहिः, तस्मात् उदितः पञ्चम्यन्तं | वा अव्ययपदं | द्विपदमिदं सूत्रम् | जॄव्रश्चोः क्त्वि (७.२.५५) इत्यस्मात् क्त्वि इत्यस्य विभक्तिपरिणामात् क्त्वः इत्यस्य अनुवृत्तिः | वसतिक्षुधोरिट् (७.२.५२) इत्यस्मात् इट् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— उदितः अङ्गात् क्त्वः वा इट् |
यथा - १. वृतुँ (भ्वादिः, वर्तने) | क्त्वान्तरूपद्वयम् - वर्तित्वा , वृत्त्वा | मूले धातुः सेट् यतः अवशिष्टः स्वरः उदात्तः | धातुः उदित् अतः क्त्वा-प्रत्ययस्य इडागमः वैकल्पिकः | न क्त्वा सेट् (१.२.१८) इत्यनेन इडागमयुक्तः क्त्वा प्रत्ययः अकित् स्यात्, अतः गुणः |
किमर्थम् अस्य सूत्रस्य चिन्तनम् अस्मिन् पाठे ?
क्तान्तरूपम् - वृत्त | मूले धातुः सेट् यतः अवशिष्टः स्वरः उदात्तः |
उदितो वा (७.२.५६) इत्यनेन क्त्वा प्रत्ययस्य कृते अयं धातुः वेट् |
अतः यस्य विभाषा (७.२.१५) इत्यनेन उदितः धातोः परः निष्ठा-प्रत्ययस्य इडागमः न स्यात् |
उ. विशिष्टधातवः
धृषिशसी वैयात्ये (७.२.१९) = धृषिशसी एतौ धातू वैयात्ये (अविनये) अर्थे एव निष्ठायाम् अनिटौ स्याताम् | धृषिश्च शसिश्च तयोरितरेतरयोगद्वन्द्वः धृषिशसी, प्रथमाद्विवचनम् | वियातः अविनीतः, तस्य भावः वैयात्यम् (वियात + ष्यञ्), तस्मिन् वैयात्ये, सप्तम्यन्तम् | द्विपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | श्वीदितो निष्ठायाम् (७.२.१४) इत्यस्मात् निष्ठायाम् इत्यस्य अनुवृत्तिः, नेड् वशि कृति (८.२.८) इत्यस्मात् न, इट् इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— धृषिशसी अङ्गौ वैयात्ये निष्ठायाम् इट् न |
यथा -
१. ञिधृषाँ (स्वादिः, प्रागल्भ्ये) | क्तान्तरूपद्वयम् - धर्षित | अविनये तु धृष्ट- अयं बालकः धृष्टः |
२. शसुँ (भ्वादिः, हिंसायाम् ) | क्तान्तरूपद्वयम् - शसित | अविनये तु शस्त - अयं बालकः शस्तः |
३. परन्तु, विशसितः (dissected, cut) पशुः |
दृढः स्थूलबलयोः (७.२.२०) = दृहँ दृहिँ धात्वोः क्त-प्रत्यये परे दृढः इति निपात्यते स्थूले बलवति च अर्थे | निपातनेन क्त-प्रत्ययस्य इडभावः, इदितः दृहः नुम् इत्यस्य नकारस्य लोपः, दृहः ढत्वं (हस्य) च इमानि सर्वाणि कार्याणि अपि अनेन सूत्रेण एव न तु अन्यैः सूत्रैः | इत्युक्तौ अस्मिन् सूत्रे एव द्वयोः धात्वोः स्थूले बलवति च अर्थे क्त-प्रत्ययान्तस्य सिद्धरूपम् उक्तम् | वृद्धौ इत्यर्थे तु अनयोः धात्वोः क्तान्तरूपं यथा सामान्यम् - दृहँ इत्यस्य दृहित, दृहिँ इत्यस्य दृंहित | अस्मिन् प्रसङ्गे इदितः धातोः नुमागमः, धातू सेटौ अतः इडागमःक्त-प्रत्ययस्य इडागमः, वर्णमेलनं च |
यथा -
१. दृहँ (भ्वादिः, वृद्धौ) | क्तान्तरूपद्वयम् - दृहित (वृद्धौ), दृढ (स्थूले बलवति च) |
२. दृहिँ (भ्वादिः, वृद्धौ) | क्तान्तरूपद्वयम् - दृंहित (वृद्धौ), दृढ (स्थूले बलवति च) |
कृच्छ्रगहनयोः कषः (७.२.२२) = कृच्छ्रे अर्थे गहने अर्थे च कषः धातोः निष्ठायाम् इड् न स्यात् | हिंसायाम् अर्थे तु निष्ठायाम् इड् स्यात् | कृच्छ्रश्च गहनं च तयोरितरेतरयोगद्वन्द्वः कृच्छ्रगहने, तयोः कृच्छ्रगहनयोः इति सप्तम्यन्तं, कषः पञ्चम्यन्तं , द्विपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | श्वीदितो निष्ठायाम् (७.२.१४) इत्यस्मात् निष्ठायाम् इत्यस्य अनुवृत्तिः, नेड् वशि कृति (८.२.८) इत्यस्मात् न, इट् इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— कषः अङ्गात् कृच्छ्रगहनयोः निष्ठायाम् इट् न |
यथा - कषँ (भ्वादिः, हिंसायाम्) | क्तान्तरूपद्वयम् - कषित, कष्ट |
१. कृच्छ्रे अर्थे - कष्टं शास्त्रम् | दुरवगाहम् शास्त्रम् |
२. गहने अर्थे - कष्टानि वनानि | कष्टाः पर्वताः |
३. कषितः लोहः | कषितं सुवर्णम् |
तीषसहलुभरुषरिषः (७.२.४८) = इष् सह् लुभ् रुष् रिष् - एतेभ्यः परस्य तादेः आर्धधातुकस्य इट् वा स्यात् | इषश्च सहश्च लुभश्च रुषश्च रिष् च तेषां समाहारद्वन्द्वः इषसहलुभरुषरिष् तस्मात् इषसहलुभरुषरिषः | ति सप्तम्यन्तम्, इषसहलुभरुषरिषः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | एते धातवः सर्वे मूले सेटः, अनेन सूत्रेण तकाराद्यार्धधातुकस्य इड्विकल्पः | आर्धधातुकस्य इट् वलादेः(७.२.३५) इत्यस्मात् आर्धधातुकस्य, इट् इत्यनयोः अनुवृत्तिः | स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४) इत्यस्मात् वा इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— इषसहलुभरुषरिषः अङ्गेभ्यः ति आर्धधातुकस्य इट् वा |
यथा -
१. इषुँ (तुदादिः, इच्छायाम्) | क्तान्तरूपम् - इष्ट |
२. षहँ (भ्वादिः, मर्षणे) | क्तान्तरूपम् - सोढ |
३. लुभँ (दिवादिः, गार्ध्ये) | क्तान्तरूपम् - लुब्ध |
४. रुषँ (भ्वादिः, हिंसायाम्) | क्तान्तरूपम् - रुष्ट |
५. रुषँ (दिवादिः, हिंसायाम्) | क्तान्तरूपम् - रुष्ट |
६. रिषँ (भ्वादिः, हिंसायाम्) | क्तान्तरूपम् - रिष्ट |
७. रिषँ (दिवादिः, हिंसायाम्) | क्तान्तरूपम् - रिष्ट |
एते सर्वे मूले सेटः | आहत्य, यस्य विभाषा(७.२.१४) इत्यनेन एतेभ्यः धातुभ्यः परः निष्ठायाः इडागः निषिद्धः स्यात् | अस्मिन् सूत्रे केवलम् इषुँ (तुदादिः, इच्छायाम्) इत्यस्य ग्रहणं न तु इषँ (दिवादिः, गतौ), इषँ (क्र्यादिः, अभीक्ष्णये) इत्यनयोः ग्रहणम् | तादृशमेव षहँ (भ्वादिः, मर्षणे) इत्यस्य ग्रहणं न तु षहँ (दिवादिः, चक्यर्थे) इत्यस्य ग्रहणम् |
अतः,
८. इषँ (दिवादिः, गतौ) | क्तान्तरूपम् - इषित |
९. इषँ (क्र्यादिः, अभीक्ष्णये - to repeat) | क्तान्तरूपम् - इष्ट |
१०. षहँ (दिवादिः, चक्यर्थे) क्तान्तरूपम् - सहित |
क्लिशः क्त्वानिष्ठयोः (७.२.५०) = क्लिशः धातोः क्त्वा निष्ठा च इट् वा स्यात् | क्त्वाश्च निष्ठा च तयोरितरेतरयोगद्वन्द्वः क्त्वानिष्ठे, तयोः क्त्वानिष्ठयोः | क्लिशः पञ्चम्यन्तं, क्त्वानिष्ठयोः सप्तम्यन्तं, द्विपदमिदं सूत्रम् | आर्धधातुकस्य इट् वलादेः(७.२.३५) इत्यस्य सम्पूर्णानुवृत्तिः | स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४) इत्यस्मात् वा अत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— क्लिशः अङ्गात् च वलादेः आर्धधातुकस्य क्त्वानिष्ठयोः इट् वा |
यथा -
१. क्लिशूँ (क्र्यादिः, विबाधने) | क्तान्तरूपद्वयम् - क्लिशित , क्लिष्ट |
अयं धातुः ऊदित् | स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४) इत्यनेन अयं धातुः वेट् |
यस्य विभाषा(७.२.१४) इत्यनेन निष्ठायां निषिद्धः इडागमः अनेन सूत्रेण वैकल्पिकः स्यात् | क्त्वायां तु वैकल्पिकः |
२. क्लिशँ (दिवादिः, उपतापे) | क्तान्तरूपद्वयम् - क्लिशित , क्लिष्ट |
मूले अयं धातुः सेट् | अनेन सूत्रेण क्त्वानिष्ठायोः इडागमः वैकल्पिकः स्यात् |
पूङश्च (७.२.५१) = पूङः धातोः क्त्वा निष्ठा च इट् वा स्यात् | पूङः पञ्चम्यन्तं, च अव्ययम्, द्विपदमिदं सूत्रम् | श्र्युकः किति (७.२.११) इत्यनेन उगन्तात् परः निष्ठा-प्रत्ययस्य निषिद्धः इडागमः अनेन सूत्रेण वैकल्पिकः स्यात् | आर्धधातुकस्येड्वलादेः(७.२.३५) इत्यस्य सम्पूर्णानुवृत्तिः | स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४) इत्यस्मात् वा अत्यस्य अनुवृत्तिः | क्लिशः क्त्वानिष्ठयोः(७.२.५०) इत्यस्मात् क्त्वानिष्ठयोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— पूङः अङ्गात् च वलादेः आर्धधातुकस्य क्त्वानिष्ठयोः इट् वा |
यथा - १. पूङ (भ्वादिः, पवने) | क्तान्तरूपद्वयम् - पूत , पवित | मूले अयं धातुः सेट् | धातुः उगन्तः च |
श्र्युकः किति (७.२.११) इत्यनेन निष्ठा-प्रत्ययस्य (क्त्वा-प्रत्ययस्य) निषिद्धः इडागमः अनेन सूत्रेण वैकल्पिकः स्यात् |
वसतिक्षुधोरिट् (७.२.५२) = वसति क्षुध् इत्येताभ्यां क्त्वानिष्ठयोः नित्यम् इट् स्यात् | वसतिश्च क्षुध् च तयोरितरेतरद्वन्द्वः वसतिक्षुधौ, तयोः वसतिक्षुधोः, पञ्चम्यर्थे षष्ठीद्विवचनम् , इट् प्रथमान्तं द्विपदमिदं सूत्रम् | क्लिशः क्त्वानिष्ठयोः(७.२.५०) इत्यस्मात् क्त्वानिष्ठयोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— वसति-क्षुध्भ्याम् अङ्गाभ्याम् क्त्वानिष्ठयोः इट् | इडागमविधायकसूत्रम् |
यथा -
१. वसँ (भ्वादिः, निवासे) | क्तान्तरूपम् - उषित | मूले धातुः अनिट् यतः एकाचः, अवशिष्टः स्वरः अनुदात्तः च |
२. क्षुधँ (दिवादिः, बुभुक्षायाम्) | क्तान्तरूपम् - क्षुधित | मूले धातुः अनिट् यतः एकाचः, अवशिष्टः स्वरः अनुदात्तः च |
लुभो विमोहने (७.२.५४) = लुभः धातोः विमोहने अर्थे क्त्वानिष्ठयोः नित्यम् इट् स्यात् | गार्ध्ये अर्थे तु न | लुभः पञ्चम्यन्तं, विमोहने सप्तम्यन्तं, द्विपदमिदं सूत्रम् | क्लिशः क्त्वानिष्ठयोः(७.२.५०) इत्यस्मात् क्त्वानिष्ठयोः इत्यस्य अनुवृत्तिः, वसतिक्षुधोरिट् (७.२.५२) इत्यस्मात् इट् इत्यस्य अनुवृत्तिः च | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— लुभः अङ्गात् विमोहने क्त्वानिष्ठयोः इट् |
यथा -
१. लुभँ (तुदादिः, विमोहने) | क्तान्तरूपम् - लुभित | मूले धातुः सेट् यतः एकाचः, अवशिष्टः स्वरः अनुदात्तः च |
२. लुभँ (दिवादिः, गार्ध्ये) | क्तान्तरूपम् - लुब्ध | मूले धातुः सेट् तथापि अनेन सूत्रेण क्तः इडागमः न स्यात् |
सेऽसिचि कृतचृतच्छृदतुृदनृतः (७.२.५७) = कृत् चृत् छृत् तुद् नृत् - एभ्यः धातुभ्यः परस्य सिचः भिन्नस्य सकारादेः आर्धधातुकस्य इट् वा स्यात् | न सिच् असिच् नञ्तत्पुरुषः, तस्मिन् असिचि | कृतश्च चृतश्च छृतश्च तुदश्च नृत् च तेषां समाहारद्वन्द्वः कृतचृतच्छृदतुृदनृत्, तस्मात् कृतचृतच्छृदतुृदनृतः | से सप्तम्यन्तम्, असिचि सप्तम्यन्तं, कृतचृतच्छृदतुृदनृतः पञ्चम्यन्तं, त्रिपदमिदं सूत्रम् | आर्धधातुकस्य इट् वलादेः(७.२.३५) इत्यस्य सम्पूर्णानुवृत्तिः | उदितो वा (७.२.५६) इत्यस्मात् वा इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— कृतचृतच्छृदतुृदनृतः अङ्गेभ्यः असिचः सः आर्धधातुकस्य इट् वा |
यथा -
१. कृतीँ (तुदादिः, छेदने) | क्तान्तरूपम् - कृत्त | मूले सेट्, श्वीदितो निष्ठायाम् (७.२.१४) इटः निषेधः |
२. कृतीँ (रुधादिः, छेदने) | क्तान्तरूपम् - कृत्त | मूले सेट्, श्वीदितो निष्ठायाम् (७.२.१४) इटः निषेधः |
३. चृतीँ (तुदादिः,हिंसाग्न्थनयोः) | क्तान्तरूपम् - चृत्त | मूले सेट्, श्वीदितो निष्ठायाम् (७.२.१४) इटः निषेधः |
४. उँछृदिँ।र (रुधादिः, दीप्तिदेवनयोः) | क्तान्तरूपम् - छृण्ण |
मूले सेट्, उदितो वा (७.२.५६) इट् विकल्पः, यस्य विभाषा (७.२.१५) - निष्ठायाम् इटः निषेधः |
५. तुदँ। (तुदादिः, व्यथने) | क्तान्तरूपम् - तुन्न | मूले अनिट् |
६. नृतीँ (दिवादिः, गात्रविक्षेपे) | क्तान्तरूपम् - नृत्त | मूले सेट्, श्वीदितो निष्ठायाम् (७.२.१४) इटः निषेधः |
विभाषा गमहनविदविशाम् (७.२.६८) = गम् हन् विद् विश् - एभ्यः धातुभ्यः परस्य क्वसोः इट् वा स्यात् | नेड् वशि कृति (८.२.८) इत्यस्य अपवादः | अस्मिन् सूत्रे तुदादेः विदः ग्रहणं स्यात् (विशः साहचर्यवशात्) | गमश्च हनश्च विदश्च विश् च तेषाम् इतरेतरयोगद्वन्द्वः गमहनविदविशः तेषां गमहनविदविशाम् | विभाषा प्रथमान्तं, गमहनविदविशां षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | आर्धधातुकस्य इट् वलादेः(७.२.३५) इत्यस्य सम्पूर्णानुवृत्तिः | वस्वेकाजाद्घसाम् (७.२.६७) इत्यस्मात् वसु इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— गमहनविदविड्भ्यः अङ्गेभ्यः वसोः आर्धधातुकस्य इट् विभाषा |
यथा -
१. गम्ऌँ (भ्वादिः, गतौ) | क्तान्तरूपम् - गत | मूले अनिट् , अतः निष्ठायाम् इट् न स्यात् |
२. हनँ (अदादिः, हिंसागत्योः) | क्तान्तरूपम् - हत | मूले अनिट् , अतः निष्ठायाम् इट् न स्यात् |
३. विद्ऌँ। (तुदादिः, लाभे) | क्तान्तरूपम् - विन्न | मूले सेट् , अतः निष्ठायाम् इट् निषिद्धः स्यात् |
४. विशँ (तुदादिः, प्रवेशने) | क्तान्तरूपम् - विष्ट | मूले अनिट् , अतः निष्ठायाम् इट् न स्यात् |
५. विदँ (अदादिः, ज्ञाने) | क्तान्तरूपम् - विदित | मूले सेट् , अतः निष्ठायाम् इट् स्यात् |
६. विदँ (दिवादिः, सत्तायाम्) | क्तान्तरूपम् - विन्न | मूले अनिट् , अतः निष्ठायाम् इट् न स्यात् |
७. विदँ (रुधादिः, विचारणे) | क्तान्तरूपम् - विन्न , वित्त | मूले अनिट् , अतः निष्ठायाम् इट् न स्यात् |
दिवोऽविजिगीषायाम् (८.२.४९) = दिव्-धातोः निष्ठातस्य नः स्यात् अविजिगीषायाम् | द्यूनः | विजिगीषायाम् तु द्यूतम् | विजिगीषा - जेतुम् इच्छा | न विजिगीषा अविजिगीषा, तस्याम् अविजिगीषायाम् | दिवः पञ्चम्यन्तम्, अविजिगीषायां सप्तम्यन्तम् | रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यस्मात् निष्ठातः, नः इत्यनयोः अनुवत्तिः |
यथा - १. दिवुँ (दिवादिः, क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु) | क्तान्तरूपम् - द्यून |
२. दिवुँ (दिवादिः, क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु) | क्तान्तरूपम् - द्यूत |
वित्तो भोगप्रत्यययोः (८.२.५८) = विद्-धातोः निष्ठान्तस्य निपातः अयं भोगे प्रतीते च अर्थे | भोगश्च प्रत्ययश्च तयोः इतरेतरयोगद्वन्द्वः भोगप्रत्ययौ, तयोः भोगप्रत्यययोः सप्तम्यन्तम् , वित्तः प्रथमान्तम् | रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यस्मात् निष्ठातः, नः इत्यनयोः अनुवत्तिः | न ध्याख्यापॄमूर्च्छिमदाम् (८.२.५७) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— भोगप्रत्यययोः वित्तः , निष्ठातः नः न |
यथा - १. विद्ऌँ। (तुदादिः, लाभे) | क्तान्तरूपम् - वित्त | वित्तं धनम् - भोग्यम् | वित्तं क्षीणम् |
२. विदँ (अदादिः, ज्ञाने) | क्तान्तरूपम् - वित्त | वित्तः पुरुषः - विश्वसनीयः, प्रतीतः |
भित्तं शकलम् (८.२.५९) = भिद्-धातोः निष्ठान्तस्य निपातः अयं शकलम् इत्यर्थे | भित्तं प्रथमान्तं, शकलं प्रथमान्तम् | रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यस्मात् निष्ठातः, नः इत्यनयोः अनुवत्तिः | न ध्याख्यापॄमूर्च्छिमदाम् (८.२.५७) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— भित्तं शकलं , निष्ठातः नः न |
यथा - १. भिदिँ।र (रुधादिः, विदारणे) | क्तान्तरूपम् - भित्त | भित्तं प्रपतति - शकलम् |
ऋणमाधमर्ण्ये (८.२.६०) = गत्यर्थकस्य ऋ-धातोः क्त-प्रत्ययस्य त-कारस्य नत्वं निपात्यते आधमर्ण्ये व्यवहारे | अन्यत्र ऋतम् एव |
अधमं दुःखप्रदम् ऋणम् अस्य सः अधमर्णः , तस्य भावः आधमर्ण्यम् , तस्मिन् आधमर्ण्ये | ऋणं प्रथमान्तम् , आधमर्ण्ये सप्तम्यन्तं , द्विपदमिदं सूत्रम् |
यथा - ऋणम् | ऋतम् - सत्यम् |
१३. धातुतः क्त-प्रत्ययान्तरूपसाधनार्थम् अङ्गकार्याणि
अ. प्रत्ययः कित् अतः गुणनिषेधः |
क्त प्रत्ययः कृत्-संज्ञकः, आर्धधातुकं च | आर्धधातुकम् इत्यतः गुणस्य प्रसङ्गः - सार्वधातुकार्धधातुकयोः (७.३.८४), पुगन्तलघूपधस्य च (७.३.८६) सूत्राभ्याम् | परन्तु अयं कित् | अतः गुणनिषेधः क्क्ङिति च (१.२.४) इत्यनेन |
सार्वधातुकार्धधातुकयोः (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्, एकपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन 'इकः अङ्गस्य' इत्युक्ते न केवलम् इक् इति अङ्गं, किन्तु तादृशम् अङ्गं यस्य अन्ते इक्; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |
पुगन्तलघूपधस्य च (७.३.८६) = सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति | पुक् अन्ते यस्य तत् पुगन्तम्, लघ्वी उपधा यस्य तत् लघूपधम् | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्, च अव्ययपदं, द्विपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यस्मात् परिभाषा-सूत्रात् इकः आयाति यत्र स्थानी नोक्तम् | अनुवृत्ति-सहितसूत्रम्— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
यथा -
१. श्रिञ् (भ्वादिः, सेवायाम्) | धातुः इगन्तः, गुणनिषेधः क्क्ङिति च (१.१.५) इत्यनेन | क्तान्तरूपम् - श्रित |
२. भू (भ्वादिः, सत्तायाम्) | धातुः इगन्तः, गुणनिषेधः क्क्ङिति च (१.१.५) इत्यनेन | क्तान्तरूपम् - भूत |
३. स्वृ (भ्वादिः, शब्दोपतापयोः) | धातुः इगन्तः, गुणनिषेधः क्क्ङिति च (१.१.५) इत्यनेन | क्तान्तरूपम् - स्वृत |
आ. धातुः ॠ-कारान्तः चेत् |
क्त-प्रत्यये परे ॠ-कारान्तस्य धातोः ॠ-कारस्य स्थाने ह्रस्वः इ-कारः आदेशः स्यात् | यदि ॠ-कारान्तस्य धातोः ॠ-कारात् पूर्वं कश्चन ओष्ठ्यः वर्णः तर्हि ॠ-कारस्य स्थाने ह्रस्वः उ-कारः आदेशः स्यात् | तदनन्तरम् सः ह्रस्वः रपरः, अपि च ह्रस्वस्य स्थाने दीर्घः वर्णः आदेशः |
यथा -
१. कॄ (तुदादिः, विक्षेपे) | क्तान्तरूपम् - कीर्ण | क् ॠ त - क् इ त - क् इर् त - क् ईर् त - क् ईर् न - क ईर् ण |
२. भॄ (क्र्यादिः, भर्त्सने) | क्तान्तरूपम् - भूर्ण | भ् ॠ त - भ् उ त - भ् उर् त - भ् ऊर् त - भ् ऊर् न - भ् ऊर् ण |
ॠत इद्धातोः (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति | किति ङिति प्रत्यये परे एव इति बोध्यं; नो चेत् गुणः | कित्-ङित् भिन्नप्रत्ययः परश्चेत्, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन ॠतः इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम् | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः; प्रत्ययः न भवति चेत् इदं कार्यं न स्यादेव, नो चेत् अनेन धातोः अपि मूलरूपं परिवर्तेत | ऋतः षष्ठ्यन्तम्, इत् प्रथमान्तम्, धातोः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्- ॠतः धातोः अङ्गस्य इत् |
उदोष्ठ्यपूर्वस्य (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः तादृशम् अङ्गं यस्य अन्ते ॠकारः अस्ति, न तु ऋकारः इति अङ्गम्; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उदादेशः, न तु अङ्गस्य पूर्णस्य | ओष्ठ्याः नाम पवर्गीय-वर्णाः | ओष्ठयोः भावः ओष्ठ्यः | ओष्ठ्यः पूर्वो यस्मात्, सः ओष्ठ्यपूर्वः बहुव्रीहिः, तस्य ओष्ठ्यपूर्वस्य (ॠवर्णस्य) | उत् प्रथमान्तम्, ओष्ठ्यपूर्वस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | ॠत इद् धातोः (७.१.१००) इत्यस्मात् ॠतः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्- ओष्ठ्यपूर्वस्य ॠतः अङ्गस्य उत् |
उरण् रपरः (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति | ऋकारेण त्रिंशत्-प्रकारकः ऋकारः भवति इति बोध्यम् | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्, अण् प्रथमान्तम्, रपरः प्रथमान्तम्, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— उः स्थाने अण् रपरः |
हलि च (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति हलि परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः अतः र्वोः इत्यनेन येषाम् धातूनाम् अन्ते रेफः वकारश्च, तेषां ग्रहणम् | हलि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः; र्वोरुपधाया दीर्घ इकः (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— र्वोः धात्वोः उपधायाः इकः दीर्घः हलि |
इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन (वा) = इत्युक्ते, यत्र गुणः वृद्धिः इत्यनयोः तथा इत् उत् इत्यनयोः - उभयोः कार्ययोः समानस्थले प्रसक्तिः अस्ति तत्र गुणः वृद्धिः एव भवतः | आहत्य, ॠत इद्धातोः (७.१.१००) उदोष्ठ्यपूर्वस्य (७.१.१०२) सूत्रयोः कार्यं यत्र गुणवृद्धी निषिद्धौ तत्र एव |
रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) = रेफदकाराभ्याम् उत्तरस्य निष्ठातकारस्य नकारः स्यात्, निष्ठापेक्षया पूर्वस्य धातोः दकारस्य च | रश्च दश्च तयोरितरेतरद्वन्द्वः रदौ, तभ्यां रदाभ्याम् | त् निष्ठात् , तस्य निष्ठातः, षष्ठीतत्पुरुषः | रदाभ्यां पञ्चम्यन्तं, निष्ठातः षष्ठ्यन्तं, नः प्रथमान्तं, पूर्वस्य षष्ठ्यन्तं, च अव्ययपदं, दः षष्ठ्यन्तम् | सूत्रं स्वयं सम्पूर्णम् | अनुवृत्ति-सहितसूत्रम्— रदाभ्यां निष्ठातो नः पूर्वस्य च दः | छिद् त — छिन् न — छिन्न | पद् त — पन् न — पन्न |
इ. धातुः अनिदित् चेत् नकारलोपः |
यदि धातुः अनिदित् , अपि च हलन्तः तर्हि धातौ उपधायां स्थितस्य नकारस्य लोपः भवति अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन सूत्रेण |
अनिदितां हल उपधायाः क्ङिति (६.४.२४) = अनिदितां हलन्तानाम् अङ्गानाम् उपधायाः नकारस्य लोपो भवति किति ङिति प्रत्यये परे | इत् इत् अस्ति येषाम् ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम् अनिदिताम् | क् च ङ् च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन् क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | श्नान्नलोपः (६.४.२३) इत्यस्मात् न, लोपः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— अनिदितां हलः अङ्गस्य उपधाया न लोपः क्ङिति |
यथा -
१. बन्धँ (क्र्यादिः, बन्धने) | क्तान्तरूपम् - बद्ध | बन्ध् त - बध् त - बध् ध - बद् ध |
२. भ्रंशुँ (दिवादिः, अधःपतने) | क्तान्तरूपम् - भ्रष्ट | भ्रन्श् त - भ्रश् त - भ्रष् त - भ्रष् ट |
अनिदितां नलोपे लङ्गिकम्प्योरुपतापशरीरविकारयोरुपसङ्ख्यानं कर्तव्यम् (वा) = अनिदितां धातूनां किति ङिति परे विहितं नलोपकार्यं उपतापार्थे लगिँ धातोः कृते, शरीरविकारार्थे कपिँ धातोः कृते अपि करणीयम् |
यथा -
१. लगिँ (भ्वादिः, गतौ) | क्तान्तरूपम् - लङ्गित | उपतापार्थे (वेदना, क्लेशः) तु क्तान्तरूपम् - (वि) लगित |
२. कपिँ (भ्वादिः, चलने) | क्तान्तरूपम् - कम्पित | शरीरविकारार्थे (रोगवशात्) तु क्तान्तरूपम् - (वि) कपित | निःश्वः विलगितः नित्यं वातात् विकपिता तनुः |
ई. सम्प्रसारणी धातुः चेत् धातौ सम्प्रसारणकार्यम् |
क्त प्रत्ययः कित् अतः केषाञ्चन धातूनां कृते सम्प्रसारणकार्यम् भवति | सम्प्रसारणम् इत्युक्ते यण्-प्रत्याहारस्थ-वर्णस्य स्थाने कश्चन इक्-प्रत्याहारस्थ-वर्णः आदेशः भवति |
इग्यणः सम्प्रसारणम् (१.१.४५) = यणः स्थाने यः इक्-प्रत्याहारे स्थितः वर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक् प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम् प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— यणः इक् सम्प्रसारणम् | इदं संज्ञासूत्रम् |
के धातवः सम्प्रसारणानुकूल्याः ? तदर्थम् इमे द्वे सूत्रे -
वचिस्वपियजादीनां किति (६.१.१५) = वच्, स्वप्, यज्, वप्, वह्, वस्, वद्, वेञ्, ह्वेञ्, श्वि, व्येञ् इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे | यज् आदिर्येषां ते यजादयः | वचिश्च स्वपिश्च यजादयश्च तेषामितरेतरद्वन्द्वो वचिस्वपियजादयः, तेषां वचिस्वपियजादीनाम् | वचिस्वपियजादीनां षष्ठ्यन्तं, किति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | ष्यङः सम्प्रसारणम् पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— वचिस्वपियजादीनां सम्प्रसारणं किति |
यथा -
१. वचँ (अदादिः, परिभाषणे) | क्तान्तरूपम् - उक्त |
२. ञिष्वपँ (अदादिः, शये) | क्तान्तरूपम् - सुप्त |
३. यजँ (भ्वादिः, देवपूजासङ्गतिकरणदानेषु) | क्तान्तरूपम् - इष्ट |
४. डुवपँ। (भ्वादिः, बीजसन्ताने) | क्तान्तरूपम् - उप्त | वप् त — व् अ प् त — उ अ प् त — उ प् त |
५. वहँ। (भ्वादिः, प्रापणे) | क्तान्तरूपम् - ऊढ |
६. वसँ (भ्वादिः, निवासे) | क्तान्तरूपम् - उषित |
७. वदँ (भ्वादिः, व्यक्तायां वाचि) | क्तान्तरूपम् - उदित |
८. वेञ् (भ्वादिः, तन्तुसन्ताने) | क्तान्तरूपम् - उत | व् ए त — उ ए त — उ त |
९. ह्वेञ् (भ्वादिः, स्पर्धायाम्) | क्तान्तरूपम् - हूत | ह् व् ए त — ह् उ ए त — ह् उ त — ह् ऊ त |
१०. टुओँश्वि (भ्वादिः, गतिवृद्धयोः) | क्तान्तरूपम् - शून | श् व् इ त — श् उ इ त — श् उ त — श् ऊ त |
११. व्येञ् (भ्वादिः, संवरणे) | क्तान्तरूपम् - वीत | व् य् ए त — व् इ ए त — व् इ त — व् ई त |
सूचना - वसँ (अदादिः, आच्छादने) इत्यस्य ग्रहणं न स्यात् - सूत्रे यजादीनां इत्युक्तः अतः वसँ (भ्वादिः, निवासे) इत्यस्यैव प्रसङ्गः |
ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (६.१.१६) = ग्रह्, ज्या, वय्*, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तं, ङिति सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | वचिस्वपियजादीनां किति (६.१.१५) इत्यस्मात् किति इत्यस्य अनुवृत्तिः; ष्यङः सम्प्रसारणम् पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च सम्प्रसारणम् |
यथा -
१. ग्रहँ। (क्र्यादिः, उपादाने) | क्तान्तरूपम् - गृहीत |
२. ज्या (क्र्यादिः, वयोहानौ) | क्तान्तरूपम् - जीन | ज् य् आ त — ज् इ आ त — ज् इ त — ज् ई त |
३. व्यधँ (दिवादिः, ताडने) | क्तान्तरूपम् - विद्ध | व् य् अ ध् त — व् इ अ ध् त — व् इ ध् त |
४. वशँ (अदादिः, कान्तौ) | क्तान्तरूपम् - उशित |
५. व्यचँ (तुदादिः, व्याजीकरणे) | क्तान्तरूपम् - विचित |
६. ओँव्रस्चूँ (तुदादिः, छेदने) | क्तान्तरूपम् - वृक्णः |
७. प्रच्छँ (तुदादिः, ज्ञीप्यायाम्) | क्तान्तरूपम् - पृष्ट |
८. भ्रस्जँ। (तुदादिः, पाके) | क्तान्तरूपम् - भृष्ट |
*धेयं यत् अस्मिन् सूत्रे 'वयि' तु धातुः नास्ति अपि तु धात्वादेशः | मूलधातुः अस्ति वेञ् | वेञ्-धातोः स्थाने लिट्-लकारे एव 'वय्' इति धात्वादेशो भवति | तस्य च धात्वादेशस्य लिट्-लकारे किति प्रत्यये परे सम्प्रसारणं भवति; ग्रहि ज्या वयि इति सूत्रे 'वयि' इत्यस्य कार्यं केवलं लिट्-लकारे | लिट्-लकारं विहाय अस्य कार्यं अन्यत्र कुत्रापि न भवति |
सम्प्रसारणाच्च (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् परे अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात् पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७७) इत्यस्मात् अचि, अमि पूर्वः (६.१.१०७) इत्यस्मात् पूर्वः इत्यनयोः अनुवृत्तिः भवतः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्— सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम् |
न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति | न अव्ययपदं, सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— न सम्प्रसारणे सम्प्रसारणम् |
हलः (६.४.२) = अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घः स्यात् | यः हल्-वर्णः अङ्गस्य अवयवः, तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम् एकपदमिदं सूत्रम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; अचश्च (१.२.२८), अलोऽन्त्यस्य (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | सम्प्रसारणस्य (६.३.१३९) इत्यस्मात् सम्प्रसारणस्य इत्यस्य अनुवृत्तिः | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हलः सम्प्रसारणस्य अङ्गस्य दीर्घः |
उ. अनुनासिकान्तः धातुः चेत् क्त-प्रत्यये परे त्रीणि कार्याणि |
उ. अनुनासिकान्तः धातुः चेत् क्त-प्रत्यये परे त्रीणि कार्याणि |
१. उपधादीर्घः
अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) = अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशो भवति क्वि च झलादि-कित्ङित्-प्रत्यये परे | क्विश्च झल् तयोरितरेतरद्वन्द्वः क्विझलौ, तयोः क्विझलोः | क् च ङ् तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत् क्ङित्, तस्मिन् क्ङिति | अनुनासिकस्य षष्ठ्यन्तं, क्विझलोः सप्तम्यन्तं, क्ङिति च सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | नोपधायाः (६.४.७) इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति; यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन क्विझलोः क्ङिति इत्युक्तौ क्वि + झलादौ क्ङिति (तादृशः कित् ङित् वा प्रत्ययः यस्य आदौ झल् स्यात्) | अनुवृत्ति-सहितसूत्रम्— अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः क्विझलोः क्ङिति |
यथा -
१. शमुँ (दिवादिः, उपशमे) | क्तान्तरूपम् - शान्त | उदित्त्वात् इडागमः न |
२. क्रमुँ (भ्वादिः, पादविक्षेपे) | क्तान्तरूपम् - क्रान्त | उदित्त्वात् इडागमः न |
३. दमुँ (दिवादिः, उपशमे) | क्तान्तरूपम् - दान्त | उदित्त्वात् इडागमः न |
२. अनुनासिकस्य लोपः
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) = वन्-धातोः, अनुनासिकान्त-अनुदात्तोपदेश-धातोः, अनुनासिकान्त-तनादि-धातोः अनुनासिकस्य लोपः भवति झलादि-कित्ङित्-प्रत्यये परे | पञ्चदश धातवः | अनुदात्तः उपदेशे येषां ते, अनुदात्तोपदेशाः बहुव्रीहिः | तनोतिः आदिः येषां ते, तनोत्यादयः बहुव्रीहिः | अनुदात्तोपदेशाश्च वनतिश्च तनोत्यादयश्च तेषामितरेतरद्वन्द्वः अनुदात्तोपदेशवनतितनोत्यादयः, तेषाम् अनुदात्तोपदेशवनतितनोत्यादीनाम् | क् च ङ् तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत् क्ङित्, तस्मिन् क्ङिति | अनुदात्तोपदेशवनतितनोत्यादीनां षष्ठ्यन्तम्, अनुनासिक इति लुप्तषष्ठीकं पदं, लोपः प्रथमान्तं, झलि सप्तम्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः; यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन झलि क्ङिति इत्युक्तौ झलादौ क्ङिति (तादृशः प्रत्ययः यस्य आदौ झल् स्यात्) | अनुवृत्ति-सहितसूत्रम्— अनुनासिक-अनुदात्तोपदेशवनतितनोत्यादीनाम् अङ्गस्य लोपः झलि क्ङिति |
अनेन आहत्य पञ्चदश धातवः निर्दिष्टाः | वनँ (भ्वादिः, सम्भक्तौ) धातुः, अनुनासिकान्त-अनुदात्तोपदेश-धातवः (यम्, रम्, नम्, गम्, हन्, मन्), अनुनासिकान्त-तनादि-धातवः (तनु, क्षिणु, क्षणु, ऋणु, तृणु, घृणु, वनु, मनु) |
यथा -
१. अनुनासिकान्त-अनुदात्तोपदेश-धातुः - गम्ऌँ (भ्वादिः, गतौ) | क्तान्तरूपम् - गत |
२. अनुनासिकान्त-तनादि-धातुः - वनुँ (तनादिः, याचने) | क्तान्तरूपम् - वत | उदित्त्वात् इडागमः न |
३. वनँ (भ्वादिः, सम्भक्तौ) | क्तान्तरूपम् - वनित | यद्यपि प्रत्ययः कित्, इडागमात् झलादिः न |
३. वनँ (भ्वादिः, शब्दे) | क्तान्तरूपम् - वनित | यद्यपि प्रत्ययः कित्, इडागमात् झलादिः न |
३. वनुँ (भ्वादिः, हिंसायाम्) | क्तान्तरूपम् - वान्त | उदित्त्वात् इडागमः न | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यनेन उपधायाः दीर्घः |
३. आकारादेशः
जनसनखनां सञ्झलोः (६.४.४२) = जन्, सन्, खन् एषां धातूनां नकारस्य स्थाने आकारादेशः भवति झलादि-सन्-प्रत्यये परे झलादि-कित्ङित्-प्रत्यये परे च | त्रयः धातवः | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन आकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य नकारस्य | जनश्च सनश्च खन् च तेषामितरेतरद्वन्द्वः जनसनखनः, तेषां जनसनखनाम् | सन् च झल् च तयोरितरेतरद्वन्द्वः सञ्झलौ, तयोः सञ्झलोः | जनसनखनां षष्ठ्यन्तं, सञ्झलोः सप्तम्यन्तं, द्विपदमिदं सूत्रम् | विड्वनोरनुनासिकस्यात् (६.४.४१) इत्यस्मात् आत् इत्यस्य अनुवृत्तिः, अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् झलि, क्ङिति इत्यनयोः अनुवृत्तिः | झलि इति अनुवृत्तिः सन् इत्यस्य विशेषणम्; अनेन यत्र सनि इडागमो भवति, तत्र सन् झलादिः नास्ति अतः नकारस्य आत्वं न भवति | सूत्रे स्थितं 'झलि' तु क्ङिति इत्यस्य विशेषणम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— जनसनखनाम् अङ्गानाम् आत् झलि सञ्झलोः क्ङिति |
यथा - १. जनीँ (दिवादिः, प्रादुर्भावे) | क्तान्तरूपम् - जात | ईदित्त्वात् इडागमः न |
आहत्य अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यनेन उपधादीर्घः अवशिष्टधातूनां कृते एव |
१४. पञ्चोपाङ्गकार्याणि
धातोः परः यदा कश्चन प्रत्ययः विहितः भवति तदा कानिचन अङ्गकार्याणि विहितानि भवन्ति यथा पूर्वस्मिन् बिन्दौ दृष्टवन्तः | परन्तु, तेभ्यः पूर्वमेव आर्धधातुके प्रकरणे एतानि उपाङ्ग-कार्याणि अपि विहितानि भवन्ति -
अ. धात्वादेशः - प्रत्यये परतः धातोः सथाने विधीयमानः आदेशः धात्वादेशः इति उच्यते |
आ. प्रत्ययादेशः - धातुम् अनुसृत्य प्रत्ययस्य स्थाने विधीयमानः आदेशः प्रत्ययादेशः इति उच्यते |
इ. इडागमः - अस्य चिन्तनं सामान्यतया आर्धधातुके प्रकरणे यथा पूर्वोक्तम् |
ई. अतिदेशः - यः धर्मः यत्र न भवति सः धर्मः क्वचित् तत्र आरोप्यते इति अतिदेशः | केषाञ्चन प्रत्ययानां स्वभावे किञ्चन परिवर्तनम् | यथा क्त-प्रत्ययः कित् अतः गुणः निषिद्धः परन्तु कुत्रचित् क्त-प्रत्यये अकित्त्वम् आरोपितं येन गुणः सम्भवति |
उ. द्वित्वाभ्यासकार्यम् - अस्य चर्चा अस्मिन् पाठे न यतः क्त-प्रत्यये परे धातौ द्वित्वम् अभ्यासकार्यं च न भवतः |
क्त-प्रत्ययस्य प्रसङ्गे उपाङ्गकार्यचिन्तनम् इदम् -
अ. धात्वादेशः
अस्तेर्भूः (२.४.५२) = आर्धधातुकविवक्षायाम् अस्-धातोः स्थाने भू-आदेशः स्यात् | अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य | अस्तेः षष्ठ्यन्तं, भूः प्रथमान्तं, द्विपदमिदं सूत्रम् | अस्मिन् सूत्रे अस् धातुः श्तिपा निर्दिष्टः| सूत्रे अस्ति इत्युक्तः, अतः केवलम् अदादिगणीयः अस् धातोः ग्रहणम् न तु अन्येषाम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अस्तेः भूः आर्धधातुके |
यथा -
१. असँ (अदादिः, भुवि) | क्तान्तरूपम् - भूत | [ असँ + क्त → अस् + त → भू + त ] | भू धातुः सेट् | श्र्युकः किति (७.२.११) इत्यनेन निष्ठा-प्रत्ययस्य इडागमः न स्यात् |
२. असँ। (भ्वादिः, गतिदीप्त्यादनेषु) | क्तान्तरूपम् - असित | [ असँ + क्त → अस् + त → अस् + इ त ] | धातुः सेट् यतः अवशिष्टः स्वरः उदात्तः |
३. असुँ (दिवादिः, क्षेपणे) | क्तान्तरूपम् - अस्त | [ असुँ + क्त → अस् + त ] | मूले धातुः सेट् यतः अवशिष्टः स्वरः उदात्तः | उदितो वा (७.२.५६) इत्यनेन क्त्वा प्रत्ययस्य कृते अयं धातुः वेट् | अतः यस्य विभाषा (७.२.१५) इत्यनेन (उदितः) धातोः परः निष्ठा-प्रत्ययस्य इडागमः न स्यात् |
ब्रुवो वचिः (२.४.५३) = ब्रू-धातोः स्थाने वच्-आदेशो भवति आर्धधातुकविवक्षायाम् | वचिः इत्यस्मिन् इकारः उच्चारणार्थः | ब्रुवः षष्ठ्यन्तं, वचिः प्रथमान्तं, द्विपदमिदं सूत्रम् | अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ब्रुवो वचिः आर्धधातुके |
यथा -
१. ब्रूञ् (अदादिः, व्यक्तायां वाचि) | क्तान्तरूपम् - उक्त | [ ब्रूञ् + क्त → ब्रू + त → वच् + त → उच् + त → उक् + त ] |
२. वचँ (अदादिः, परिभाषणे) | क्तान्तरूपम् - उक्त | [ वचँ+ क्त → वच् + त → उच् + त → उक् + त ] | चक्षिङः ख्याञ् (२.४.५४) = चक्षिङः ख्याञादेशः स्यात् आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ् प्रथमान्तं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चक्षिङः ख्याञ् आर्धधातुके | अयं अनिट्, उभयपदी च |
चक्षिङः ख्याञ् (२.४.५४) = चक्षिङः ख्याञादेशः स्यात् आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ् प्रथमान्तं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चक्षिङः ख्याञ् आर्धधातुके | अयं अनिट्, उभयपदी च |
यथा - १. चक्षिँङ् (अदादिः, व्यक्तायां, वाचि) | क्तान्तरूपम् - ख्यात | [ चक्षिँङ् + क्त → ख्या + त ] |
आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोः आत्वं न तु शिति | उपदेशे इत्यनेन औपदेशिकधातूनामेव प्रसक्तिः, न तु आतिदेशिकधातूनाम् | उपदेशावस्थायाम्, अशिति प्रत्यये परे, एजन्तधातूनाम् अन्त्यस्य एचः स्थाने आत्वादेशः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य सः शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— एचः धातोः आत् उपदेशे अशिति |
यथा -
१. पै (भ्वादिः, शोषणे) | क्तान्तरूपम् - पीत | [ पै + क्त → पै + त → पा + त → पी + त ] |
२. रै (भ्वादिः, शब्दे) | क्तान्तरूपम् - रात | [ रै + क्त → रै + त → रा + त → रा + त ] |
३. त्रैङ् (भ्वादिः, पालने) | क्तान्तरूपद्वयम् - त्रात , त्राण | [ त्रैङ् + क्त → त्रै + त → त्रा + त (त्रात) → त्रा + न → त्रा + ण (त्राण) ] |
४. शो (दिवादिः, तनूकरणे) | क्तान्तरूपद्वयम् - शात , शित | [ शो + क्त → शो + त → शा + त (शात) , शि + त (शित) ] |
५. छो (दिवादिः, छेदने) | क्तान्तरूपद्वयम् - छात , छित | [ छो + क्त → छो + त → छा + त (छात) , छि + त (छित) ] | अतो लोपः (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपः स्यात् आर्धधातुके प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अतः अङ्गस्य नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम् - इत्युक्तौ धातोः यः प्रत्ययः विधीयते, तस्य प्रत्ययस्य उपदेशकाले अङ्गम् अदन्तं भवेत् | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे | अतो लोपः (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपः स्यात् आर्धधातुके प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अतः अङ्गस्य नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम् - इत्युक्तौ धातोः यः प्रत्ययः विधीयते, तस्य प्रत्ययस्य उपदेशकाले अङ्गम् अदन्तं भवेत् | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे |
अतो लोपः (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपः स्यात् आर्धधातुके प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अतः अङ्गस्य नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम् - इत्युक्तौ धातोः यः प्रत्ययः विधीयते, तस्य प्रत्ययस्य उपदेशकाले अङ्गम् अदन्तं भवेत् | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे |
यथा - १. क्त-प्रत्ययस्य प्रसङ्गे अस्य सुत्रस्य कार्यं प्रायः सनाद्यन्तेषु एव |
घुमास्थागापाजहातिसां हलि (६.४.६६) = घु, मा, स्था, गा, पा, हा (ओहाक्), सा (षो) एषां धातूनाम् आकारस्य स्थाने ईकारादेशः स्यात् हलादि-कित्ङित्-आर्धधातुकप्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | धात्वादेः षः सः (६.१.६३), आदेच उपदेशेऽशिति (६.१.४५) इत्याभ्यां षो → सा | दाधाघ्वदाप् (१.१.२०) इत्यस्मात् घु-संज्ञकधातवः षट् सन्ति - दो → दा, देङ् → दा, डुदाञ् → दा, दाण् → दा, धे → धा, डुधाञ् → धा च | घुश्च, माश्च, स्थाश्च, गाश्च, पाश्च, जहातिश्च, साश्च तेषामितरेतरद्वन्द्वः, घुमास्थागापाजहातिसाः, तेषां घुमास्थागापाजहातिसाम् | घुमास्थागापाजहातिसां षष्ठ्यन्तं, हलि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | दीङो युडचि क्ङिति (६.४.६३) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः | आतो लोप इटि च (६.४.६४) इत्यस्मात् आतः इत्यस्य अनुवृत्तिः | ईद्यति (६.४.६५) इत्यस्मात् ईत् इत्यस्य अनुवृत्तिः | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— घुमास्थागापाजहातिसाम् आतः अङ्गस्य ईत् हलि क्ङिति आर्धधातुके |
यथा -
१. धेट् (भ्वादिः, पाने) | क्तान्तरूपम् - धीत | [ धेट् + क्त → धे + त → धा + त → धी + त ] |
२. गै (भ्वादिः, शब्दे) | क्तान्तरूपम् - गीत | [ गै + क्त → गै + त → गा + त → गी + त ] |
३. पा (भ्वादिः, पाने) | क्तान्तरूपम् - पीत | [ पा + क्त → पा + त → पी + त ] |
४. पै (भ्वादिः, शोषणे) | क्तान्तरूपम् - पीत | [ पै + क्त → पै + त → पा + त → पी + त ] |
५. ओँहाक् (जुहोत्यादिः, त्यागे) | क्तान्तरूपम् - हीन | [ ओँहाक् + क्त → हा + त → ही + त → ही + न ] |
द्यतिस्यतिमास्थामित्ति किति (७.४.४०) = दो षो मा स्था इत्येषां धातूनाम् इकारादेशः स्यात् तकारादि-किति प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन ति किति इत्युक्तौ तकारादि-किति | द्यतिश्च स्यतिश्च माश्च स्थाश्च तेषाम् इतरेतरद्वन्द्वः द्यतिस्यतिमास्थाः तेषां द्यतिस्यतिमास्थाम् | द्यतिस्यतिमास्थां षष्ठ्यन्तम्, इत् प्रथमान्तं, ति सप्तम्यन्तं, किति सप्तम्यन्तम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— द्यतिस्यतिमास्थाम् अङ्गस्य इत् ति किति | घुमास्थागापाजहातिसां हलि (६.४.६६) इत्यनेन ईत् न - अस्य अपवादः तकारादि-किति प्रत्यये परे |
यथा -
१. दो (दिवादिः, अवखण्डने) | क्तान्तरूपम् - दित | [ दो + क्त → दा + त → दि + त ] |
२. षो (दिवादिः, अन्तकर्मणि - विध्वंसे, नष्टे) | क्तान्तरूपम् - सित | [ सो + क्त → सो + त → सा + त → सि + त ] |
३. मा (अदादिः, माने) | क्तान्तरूपम् - मित | [ मा + क्त → मा + त → मि + त ] |
४. माङ् (जुहोत्यादिः, माने शब्दे च) | क्तान्तरूपम् - मित | [ मा + क्त → मा + त → मि + त ] |
५. माङ् (दिवादिः, माने शब्दे च) | क्तान्तरूपम् - मित | [ मा + क्त → मा + त → मि + त ] |
६. मेङ (भ्वादिः, प्रणिदाने) | क्तान्तरूपम् - मित | [ मेङ् + क्त → मे + त → मा + त → मि + त ] |
७. ष्ठा (भ्वादिः, गतिनिवृत्तौ) | क्तान्तरूपम् - स्थित | [ स्था + क्त → स्था + त → स्थि + त ] |
शाच्छोरन्यतरस्याम् (७.४.४१) = शो छो इत्येतयोः धात्वोः इकारादेशः वौकल्पिकः स्यात् तकारादि-किति प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | शाश्च छाश्च तयोः इतरेतरयोगद्वन्द्वः शाच्छौ, तयोः शाच्छोः, षष्ठ्यन्तम्, अन्यतरस्याम् अव्ययम् , द्विपदम् इदं सूत्रम् | द्यतिस्यतिमास्थामित् ति किति (७.४.४०) इत्यस्मात् इत्, ति, किति इत्येषाम् अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— शाच्छोः अङ्गयोः इत् अन्यतरस्यां ति किति |
यथा -
१. शो (दिवादिः, तनूकरणे) | क्तान्तरूपद्वयम् - शात , शित | [ शो + क्त → शो + त → शा + त (शात) , शि + त (शित) ] |
२. छो (दिवादिः, छेदने) | क्तान्तरूपद्वयम् - छात , छित | [ छो + क्त → छो + त → छा + त (छात) , छि + त (छित) ] |
श्यतेरित्वं व्रते नित्यम् (वा) = यथा - संशितः व्रतः - सम्यक् संपादितः व्रतः इत्यर्थः | संशितः ब्राह्मणः - व्रतविषयकः यत्नवान् इत्यर्थः |
दधातेर्हिः (७.४.४२) = धा-धातोः (दधातेः) हि-आदेशः स्यात् तकारादि-किति प्रत्यये परे | दधाति इति श्तिपा निर्दिष्टः जुहोत्यदिगणीयः धा (डुाधाञ्) धातुः | आदेशः अनेकाल् अतः अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन आदेशः सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | दधातेः षष्ठ्यन्तं, हिः प्रथमान्तं, द्विपदमिदं सूत्रम् | द्यतिस्यतिमास्थामित् ति किति (७.४.४०) इत्यस्मात् ति, किति अनयोः अनुवृत्तिः | यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन ति किति इत्युक्तौ तकारादि-किति | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— दधातेः अङ्गस्य हिः ति किति | घुमास्थागापाजहातिसां हलि (६.४.६६) इत्यस्य अपवादः |
यथा - १. डुधाञ् (जुहोत्यदिः, धारणपोषणयोः) | क्तान्तरूपम् - हित | [ डुधाञ् + क्त → धा + त → हि + त ] |
दो दद् घोः (७.४.४६) = घुसंज्ञकस्य दा धातोः दथ् स्यात् तकारादि-किति प्रत्यये परे | घुसंज्ञकानां दा-धातूनाम् एव (दो → दा, देङ् → दा, डुदाञ् → दा, दाण् → दा) | दाप्, दैप् च न यद्यपि दा भवतः, यतः तौ घुसंज्ञकौ न | दाधाघ्वदाप् (१.१.२०) | दः षष्ठ्यन्तं, दथ् प्रथमान्तं, घोः षष्ठ्यन्तं, त्रपदमिदं सूत्रम् | आदेशः अनेकाल् अतः अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन आदेशः सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | द्यतिस्यतिमास्थामित् ति किति (७.४.४०) इत्यस्मात् ति, किति अनयोः अनुवृत्तिः | यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन ति किति इत्युक्तौ तकारादि-किति | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— घोः दः अङ्गस्य दथ् ति किति | घुमास्थागापाजहातिसां हलि (६.४.६६) इत्यस्य अपवादः |
यथा -
१. डुदाञ् (जुहोत्यदिः, धारणपोषणयोः) | क्तान्तरूपम् - दत्त | [ डुदाञ् + क्त → दा + त → दथ् + त → दत् + त ] |
२. दाण् (भ्वादिः, दाने) | क्तान्तरूपम् - दत्त | [ दाण् + क्त → दा + त → दथ् + त → दत् + त ] |
३. देङ् (भ्वादिः, रक्षणे) | क्तान्तरूपम् - दत्त | [ देङ् + क्त → दे + त → दा + त → दथ् + त → दत् + त ] |
४. दो (भ्वादिः, अवखण्डने) | क्तान्तरूपम् - दत्त | [ दो + क्त → दो + त → दा + त → दथ् + त → दत् + त ] |
परन्तु, अनयोः न -
१. दाप् (अदादिः, लवने - to cut) | क्तान्तरूपम् - दात | [ दाप् + क्त → दा + त ] |
२. दैप् (भ्वादिः, शोधने) | क्तान्तरूपम् - दात | [ दैप् + क्त → दै + त → दा + त ] |
आ. प्रत्ययादेशः
रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) = रेफदकाराभ्यां धातुभ्यां निष्ठा-प्रत्यये परे निष्ठाघटितस्य तकारस्य नः स्यात्, निष्ठापेक्षया पूर्वस्य धातोः दकारस्य अपि नः स्यात् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः, अतः धातुः रेफान्तः दकारान्तः वा स्यात् | रश्च दश्च तयोरितरेतरद्वन्द्वः रदौ, ताभ्यां रदाभ्याम् | त् निष्ठात् , तस्य निष्ठातः, षष्ठीतत्पुरुषः | रदाभ्यां पञ्चम्यन्तं, निष्ठातः षष्ठ्यन्तं, नः प्रथमान्तं, पूर्वस्य षष्ठ्यन्तं, च अव्ययपदं, दः षष्ठ्यन्तम् | सूत्रं स्वयं सम्पूर्णम् | अनुवृत्ति-सहितसूत्रम्— रदाभ्यां निष्ठातः नः पूर्वस्य च दः |
यथा -
१. छिदिँर् (रुधादिः, द्वैधीकरणे) | क्तान्तरूपम् - छिन्न | [ छिदिँर् + क्त → छिद् + त → छिन् + न ] |
२. भिदिँर् (रुधादिः, विदारणे) | क्तान्तरूपम् - भिन्न | [ भिदिँर् + क्त → भिद् + त → भिन् + न ] |
३. तॄ (भ्वादिः, प्लवनतरणयोः) | क्तान्तरूपम् - तीर्ण | [ तॄ + क्त → तॄ + त → ति + त → तिर् + त → तीर् + त → तीर् + न → तीर् + ण ] |
४. गॄ (तुदादिः, निगरणे) | क्तान्तरूपम् - गीर्ण | [ गॄ + क्त → गॄ + त → गि + त → गिर् + त → गीर् + त → गीर् + न → गीर् + ण ] |
* तॄ, गॄ एतौ धातू यद्यपि सेटौ, श्र्युकः किति (७.२.११) इत्यनेन इडागमः न स्यात् |
संयोगादेरातो धातोर्यण्वतः(८.२.४३) = संयोगादेः आकारान्तस्य यण्वतः धातोः निष्ठा-प्रत्यये परे निष्ठाघटितस्य तकारस्य नः स्यात् | संयोगः आदिः यस्य सः संयोगादिः , बहुव्रीहिः, तस्य संयोगादेः | यण् प्रत्याहारस्थः वर्णः अस्मिन् अस्ति इति यण्वान् , तस्य यण्वतः | सर्वाणि षष्ठ्यन्तानि | अनेकपदमिदं सूत्रम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः, अतः धातुः आकारान्तः स्यात् | रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यस्मात् निष्ठातः, नः इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— संयोगादेः आतः यण्वतः धातोः निष्ठातः नः | अस्य सूत्रस्य प्रवर्तनार्थं नियमत्रयम् आवश्यकम् - धातुः संयोगादिः भवेत् , धातौ यण् प्रत्याहारस्थः कश्चन वर्णः भवेत् , धातुः आकारान्तः भवेत् |
यथा -
१. ग्लै (भ्वादिः, हर्षक्षये) | क्तान्तरूपम् - ग्लान | [ ग्लै + क्त → ग्लै + त → ग्ला + त → ग्ला + न ] |
२. म्लै (भ्वादिः, हर्षक्षये) | क्तान्तरूपम् - म्लान | [ म्लै + क्त → म्लै + त → म्ला + त → म्ला + न ] |
३. द्रा (भ्वादिः, कुत्सायां गतौ) | क्तान्तरूपम् - द्राण | [ द्रा + क्त → द्रा + त → द्रा + न → द्रा + ण ] |
४. या (अदादिः, प्रापणे) | क्तान्तरूपम् - यात | [ या + क्त → या + त ] — धातुः संयोगादिः न |
५. प्लुङ् (भ्वादिः, गतौ) | क्तान्तरूपम् - प्लुत | [ प्लुङ् + क्त → प्लु + त ] — धातुः आकारान्तः न |
६. ज्ञा (क्र्यादिः, अवबोधने) | क्तान्तरूपम् - ज्ञात | [ ज्ञा + क्त → ज्ञा + त ] — धातुः यण्वान् न |
नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् (८.२.५६) = नुद, विद, उन्द, त्रै, घ्रा, ह्री एभ्यः धातुभ्यः निष्ठा-प्रत्यये परे निष्ठाघटितस्य तकारस्य नः अन्यतरस्याम् | उन्द्-धातोः साहचर्यवशात्, विद् विचारणे रौधादिक-धातोः एव ग्रहणं, न तु अन्येषां विद्-धातूनाम् | नुदश्च, विदश्च, उन्दश्च, त्राश्च, घ्राश्च, ह्रीश्च तेषामितरेतरयोगद्वन्द्वः नुदविदोन्दत्राघ्राह्र्यः, तेभ्यः नुदविदोन्दत्राघ्राह्रीभ्यः, पञ्चमीबहुवचनान्तरूपम्, अन्यतरस्याम् इति अव्ययम् | नुद, विद, उन्द - एते धातवः दकारान्ताः , अतः रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यनेन निष्ठाघटितस्य तकारस्य नः, धातोः द-कारस्य नः स्यात् | त्रै, घ्रा - एतौ धातू संयोगादी, यण्वन्तौ, आकारान्तौ च , अतः संयोगादेरातो धातोर्यण्वतः(८.२.४३) इत्यनेन निष्ठाघटितस्य तकारस्य नः | अयं नित्यः | एतेन सूत्रेण इदं कार्यं वैकल्पिकम् | रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यस्मात् निष्ठातः, नः इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— नुदविदोन्दत्राघ्राह्रीभ्यः निष्ठातः नः अन्यतरस्याम् |
यथा -
१. णुदँ (तुदादिः, प्रेरणे) | क्तान्तरूपद्वयम् - नुन्न , नुत्त | [ णुदँ + क्त →नुद् + त → नुन् + न , नुत् + त ]
२. विदँ (रुधादिः, विचारणे) | क्तान्तरूपद्वयम् - विन्न , वित्त | [ विदँ + क्त →विद् + त → विन् + न , वित् + त ]
३. उन्दीँ (रुधादिः, क्लेदने) | क्तान्तरूपद्वयम् - उन्न , उत्त | [ उन्दीँ + क्त →उन्द् + त → उद् + त → उन् + न , उत् + त ] | अयं धातुः सेट्, इडागमः निषिद्धः (ईदित्) - श्वीदितो निष्ठायाम् (७.२.१४) | अनिदितां हल उपधायाः क्ङिति (६.४.२४) |
४. त्रैङ् (भ्वादिः, पालने) | क्तान्तरूपद्वयम् - त्रात , त्राण | [ त्रैङ् + क्त → त्रै + त → त्रा + न → त्रा + ण (त्राण) , त्रा + त (त्रात) ] | आदेच उपदेशेऽशिति (६.१.४५) |
५. घ्रा (भ्वादिः, गन्धोपादाने) | क्तान्तरूपद्वयम् - घ्रात , घ्राण | [ घ्रा + क्त → घ्रा + न → घ्रा + ण (घ्राण) , घ्रा + त (घ्रात) ] |
६. ह्री (जुहोत्यादिः, लज्जायाम्) | क्तान्तरूपद्वयम् - ह्रीत , ह्रीण | [ ह्री + क्त → ह्री + न → ह्री + ण (ह्रीण) , ह्री + त (ह्रीत) ] |
न ध्याख्यापॄमूर्च्छिमदाम् (८.२.५७) = ध्यै, ख्या, पॄ, मुर्छ्, मद् एभ्यः धातुभ्यः निष्ठा-प्रत्यये परे निष्ठाघटितस्य तकारस्य नः न स्यात् | ध्याश्च, ख्याश्च, पॄ च, मूर्च्छिश्च, मद् च तेषामितरेतरयोगद्वन्द्वः ध्याख्यापॄमूर्च्छिमदः , तेषां ध्याख्यापॄमूर्च्छिमदाम्, षष्ठिबहुवचनम् | न इति अव्ययम् | ध्या, ख्या - एतौ धातू संयोगादी, यण्वन्तौ, आकारान्तौ च , अतः संयोगादेरातो धातोर्यण्वतः(८.२.४३) इत्यनेन निष्ठाघटितस्य तकारस्य नः स्म | पॄ, मुर्छ् - एतौ धातू रेफान्तौ, मद् धातुः दकारान्तः ; अतः रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यनेन निष्ठाघटितस्य तकारस्य नः, धातोः द-कारस्य नः स्म | परन्तु इदं सूत्रं तत्कार्यं निषेधयति | रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यस्मात् निष्ठातः, नः इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— ध्याख्यापॄमूर्च्छिमदाम् निष्ठातः नः न |
यथा -
१. ध्यै (भ्वादिः, चिन्तायाम्) | क्तान्तरूपम् - ध्यात | [ ध्यै + क्त → ध्यै + + त → ध्या + त ] | आदेच उपदेशेऽशिति (६.१.४५) |
२. ख्या (अदादिः, प्रकथने) | क्तान्तरूपम् - ख्यात | [ ख्या + क्त → ख्या + त ] |
३. चक्षिँङ् (अदादिः, व्यक्तायां, वाचि) | क्तान्तरूपम् - ख्यात | [ चक्षिँङ् + क्त → ख्या + त ] | चक्षिङः ख्याञ् (२.४.५४) |
४. पॄ (जुहोत्यादिः, पालनपूरणयोः) | क्तान्तरूपम् - पूर्त | [ पॄ + क्त → प् ॠ + त → प् उ + त → प् उर् + त → प् ऊर् + त → पूर् + त ] | धातुः सेट् तथापि इडागमः निषिद्धः - श्र्युकः किति (७.२.११) इत्यनेन | उदोष्ठ्यपूर्वस्य (७.१.१०२), उरण् रपरः (१.१.५१), हलि च (८.२.७७) |
५. पॄ (क्र्यादिः, पालनपूरणयोः) | क्तान्तरूपम् - पूर्त | धातुः सेट् तथापि इडागमः निषिद्धः - श्र्युकः किति (७.२.११) इत्यनेन | अयं ल्वाद्यन्तर्गणे अस्ति | ल्वादिभ्यः (८.२.४४) इत्यस्य कार्यं निषिद्धम् |
६. मुर्छाँ (भ्वादिः, मोहसमुच्छ्राययोः) | क्तान्तरूपम् - मूर्त | [ मुर्छाँ + क्त → मुर्छ् + त → मुर् + त → मूर् + त ] | धातुः सेट् तथापि इडागमः निषिद्धः(आदितः) - आदितश्च (७.२.१६) | राल्लोपः (६.४.२१) - रात् परस्य छकारस्य लोपः झलादि-प्रत्यये परे | हलि च (८.२.७७) - रेफान्त-धातोः उपधायाः इकः दीर्घः हलि परे |
७. मदीँ (दिवादिः, हर्षग्लेपनयोः) | क्तान्तरूपम् - मत्त | [ मदीँ + क्त → मद् + त → मत् + त ] | धातुः सेट् तथापि इडागमः निषिद्धः(ईदित्) - श्वीदितो निष्ठायाम् (७.२.१४) |
८. मदिँ (भ्वादिः, स्तुतिमोदमदस्वप्नकान्तिगतिषु) | क्तान्तरूपम् - मन्दित | [ मदिँ + क्त → मन्द् + त → मन्द् + इ त ] | धातुः सेट् | यद्यपि धातुः दकारान्तः, निष्ठा-प्रत्ययः साक्षात् परः नास्ति - रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) प्रसंङ्गः नास्ति |
ल्वादिभ्यः (८.२.४४) = ल्वादिगणः इत्यस्मिन् अन्तर्गणीयेभ्यः धातुभ्यः निष्ठा-प्रत्यये परे निष्ठाघटितस्य तकारस्य नः स्यात् | ल्वादिगणे एकविंशतिः क्र्यादिगणधातवः सन्ति | लू आदिः येषां ते ल्वादयः, बहुव्रीहिः, तेभ्यः ल्वादिभ्यः, पञ्चम्यन्तम् , एकपदमिदं सूत्रम् | रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यस्मात् निष्ठातः, नः इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— ल्वादिभ्यः निष्ठातः नः |
यथा -
१. लूञ् (क्र्यादिः, छेदने) | क्तान्तरूपम् - लून | [ लूञ् + क्त → लू + त → लू + न ] | धातुः सेट् तथापि इडागमः निषिद्धः - श्र्युकः किति (७.२.११) इत्यनेन |
२. ज्या (क्र्यादिः, वयोहानौ) | क्तान्तरूपम् - जीन | [ ज्या + क्त → ज्या + त → ज् य आ + त → ज् इ आ + त → ज् इ + त → ज् ई + त → जी + न ] | सम्प्रसारणी धातुः - ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (६.१.१६), सम्प्रसारणाच्च (६.१.१०८), हलः (६.४.२)
३. जॄ (क्र्यादिः, वयोहानौ) | क्तान्तरूपम् - जीर्ण | [ जॄ + क्त → जॄ + त → जि + त → जिर् + त → जीर् + त → जीर् + न → जीर् + ण ] | धातुः सेट् तथापि इडागमः निषिद्धः - श्र्युकः किति (७.२.११) इत्यनेन |
दुग्वोर्दीर्घश्चेति वक्तव्यम् (वा) = निरनुबन्धधातुद्वयस्य ग्रहणं - दु (भ्वादिः, गतौ) , गु (तुदादिः, पुरीषोत्सर्गे) च | निष्ठाघटितस्य तकारस्य नः , धात्वोः स्वरः दीर्घः च |
१. दु (भ्वादिः, गतौ) | क्तान्तरूपम् - दून | [ दु + क्त → दु + त → द् उ + त → द् ऊ + न ] |
२. गु (तुदादिः, पुरीषोत्सर्गे) | क्तान्तरूपम् - गून | [ गु + क्त → गु + त → ग् उ + त → ग् ऊ + न ] |
पूञो विनाशे (वा) = विनाशे अर्थे पूञ् धातोः ग्रहणं च | निष्ठाघटितस्य तकारस्य नः | पवित्रे अर्थे तु न स्यात् |
१. पूञ् (क्र्यादिः, विनाशे) | क्तान्तरूपम् - पून | [ पूञ् + क्त → पू + त → पू + न ] | यथा - पूनं धान्यम् | नष्टं धान्यम् |
२. पूञ् (क्र्यादिः, पवने) | क्तान्तरूपम् - पूत | [ पूञ् + क्त → पू + त ] | यथा - पूतं वस्त्रम् | शुद्धं वस्त्रम् |
धातुः एकः, अर्थः भिन्नः | धातुः सेट् तथापि इडागमः निषिद्धः - श्र्युकः किति (७.२.११) इत्यनेन |
ओदितश्च (८.२.४५) = ओदितः धातोः निष्ठा-प्रत्यये परे निष्ठाघटितस्य तकारस्य नः स्यात् | ओत् इत् यस्य सः ओदित्, बहुव्रीहिः, तस्मात् ओदितः , पञ्चम्यन्तम् | च अव्ययम् | द्विपदमिदं सूत्रम् | रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यस्मात् निष्ठातः, नः इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— ओदितः च निष्ठातः नः |
यथा -
१. टुओँश्वि (भ्वादिः, गतिवृद्धयोः) | क्तान्तरूपम् - शून |
[ टुओँश्वि + क्त → श्वि + त → श् व इ + त → श् उ इ + त → श् उ + त → श् ऊ + त → शू + न ] |
— इडागमः निषिद्धः (श्वि) - श्वीदितो निष्ठायाम् (७.२.१४) |
— सम्प्रसारणी धातुः (यजादिः) - वचिस्वपियजादीनां किति (६.१.१५) , सम्प्रसारणाच्च (६.१.१०८), हलः (६.४.२) |
२. ओँविजीँ (रुधादिः, भयचालनयोः) | क्तान्तरूपम् - विग्न | [ ओँविजीँ + क्त → विज् + त → विग् + त → विग् + न ] |
— इडागमः निषिद्धः (ईदित्) - श्वीदितो निष्ठायाम् (७.२.१४) |
— पूर्वत्रासिद्धम् (८.२.१) - चोः कुः (८.२.३०) [ स्तोः श्चुना श्चुः (८.४.४०) ] |
३. ओँव्रस्चूँ (तुदादिः, छेदने) | क्तान्तरूपम् - वृक्ण | [ ओँव्रस्चूँ + क्त → व्रस्च् + त → व् र् अ स्च् + त → व् ऋ स्च् + त
→ वृस्च् + त → वृच् + त → वृक् + न → वृक् + ण ] |
— ऊदित् इत्यतः वेट् - स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४) | इड् निषिद्धः - यस्य विभाषा (७.२.१५) |
— सम्प्रसारणी धातुः - ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (६.१.१६) , सम्प्रसारणाच्च (६.१.१०८) |
— पूर्वत्रासिद्धम् (८.२.१) - स्कोः संयोगाद्योरन्ते च (८.२.२९) [ स्तोः श्चुना श्चुः (८.४.४०) ],
चोः कुः (८.२.३०) , अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२)
४. ओँहाक् (जुहोत्यादिः, त्यागे) | क्तान्तरूपम् - हीन | [ ओँहाक् + क्त → हा + त → ही + त → ही + न ] |
— घुमास्थागापाजहातिसां हलि (६.४.६६)
स्वादयः ओदितः (वा) = सू आदिः येषां ते स्वादयः | अयं दिवादिगणे कश्चन अन्तर्गणः | अस्मिन् गणे ये नव धातवः सन्ति ते ओदितः इति वक्तव्यम् | आहत्य ओदितश्च(८.२.४५) इत्यनेन तेभ्यः निष्ठा-प्रत्यये परे निष्ठाघटितस्य तकारस्य नः स्यात् |
यथा -
१. षूङ् (दिवादिः, प्राणिस्रवे) | क्तान्तरूपम् - सून | [ षूङ् + क्त → सू + त → सू + न ] |
— अयं धातुः (सूयति) वेट् - स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४) | इडागमः निषिद्धः (उगन्तः) - श्र्युकः किति (७.२.११) |
२. लीङ् (दिवादिः, श्लेषणे) | क्तान्तरूपम् - लीन | [ लीङ् + क्त → ली + त → ली + न ] |
— अयं धातुः अनिट् |
३. डीङ् (दिवादिः, विहायसा गतौ) | क्तान्तरूपम् - डीन | [ डीङ् + क्त → डी + त → डी + न ] |
— अयं धातुः सेट् | इडागमः निषिद्धः (ओदित्) - ओदिन्मध्ये डीङः पाठसामर्थ्यान्नेट् | ओदित् मध्ये डीङः पाठसामर्थ्यात् न इट् |
परन्तु - ४. डीङ् (भ्वादिः, विहायसा गतौ) | क्तान्तरूपम् - डियित | [ डीङ् + क्त → डी + इ त → ड् ई + इत → ड् इय् + इत ] |
— अयं धातुः सेट् | अजादि प्रत्यये परे ईकारान्त-धातोः ईकारस्य इयङ् आदेशः - अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) |
शुषः कः (८.२.५१) = शुषः धातोः निष्ठा-प्रत्यये परे निष्ठाघटितस्य तकारस्य कः स्यात् | शुषः पञ्चम्यन्तं, कः प्रथमान्तं, द्विपदमिदं सूत्रम् | रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यस्मात् निष्ठातः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— शुषः निष्ठातः कः |
यथा -
१. शुषँ (दिवादिः, शोषणे) | क्तान्तरूपम् - शुष्क | [ शुषँ + क्त → शुष् + त → शुष् + क ]
— ष्टुना ष्टुः (८.४.४१) असिद्धम् - पूर्वत्रासिद्धम् (८.२.१) |
उदा - वृष्टेः कारणात् देशे कुत्रापि शुष्कं चन्दनकाष्ठं न प्राप्तम् | पचो वः (८.२.५२) = पचः धातोः निष्ठा-प्रत्यये परे निष्ठाघटितस्य तकारस्य वः स्यात् | पचः पञ्चम्यन्तं, वः प्रथमान्तं, द्विपदमिदं सूत्रम् | रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यस्मात् निष्ठातः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— पचः निष्ठातः वः | पचो वः (८.२.५२) = पचः धातोः निष्ठा-प्रत्यये परे निष्ठाघटितस्य तकारस्य वः स्यात् | पचः पञ्चम्यन्तं, वः प्रथमान्तं, द्विपदमिदं सूत्रम् | रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यस्मात् निष्ठातः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— पचः निष्ठातः वः |
पचो वः (८.२.५२) = पचः धातोः निष्ठा-प्रत्यये परे निष्ठाघटितस्य तकारस्य वः स्यात् | पचः पञ्चम्यन्तं, वः प्रथमान्तं, द्विपदमिदं सूत्रम् | रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यस्मात् निष्ठातः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— पचः निष्ठातः वः |
यथा - १. डुपचँष् (भवादिः, पाके) | क्तान्तरूपम् - पक्व | [ डुपचँष् + क्त → पच् + त → पक् + त → पक् + व ]
— चोः कुः (८.२.३०) पूर्वत्रिपादिसूत्रम् | क्षायो मः (८.२.५३) = क्षै धातोः निष्ठा-प्रत्यये परे निष्ठाघटितस्य तकारस्य मः स्यात् | क्षायः पञ्चम्यन्तं, मः प्रथमान्तं, द्विपदमिदं सूत्रम् | रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यस्मात् निष्ठातः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— क्षायः निष्ठातः मः | क्षायो मः (८.२.५३) = क्षै धातोः निष्ठा-प्रत्यये परे निष्ठाघटितस्य तकारस्य मः स्यात् | क्षायः पञ्चम्यन्तं, मः प्रथमान्तं, द्विपदमिदं सूत्रम् | रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यस्मात् निष्ठातः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— क्षायः निष्ठातः मः |
क्षायो मः (८.२.५३) = क्षै धातोः निष्ठा-प्रत्यये परे निष्ठाघटितस्य तकारस्य मः स्यात् | क्षायः पञ्चम्यन्तं, मः प्रथमान्तं, द्विपदमिदं सूत्रम् | रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यस्मात् निष्ठातः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— क्षायः निष्ठातः मः |
यथा - १. क्षै (भवादिः, क्षये) | क्तान्तरूपम् - क्षाम | [ क्षै + क्त → क्षै + त → क्षा + त → क्षा + म ]
— आदेच उपदेशेऽशिति (६.१.४५) |
उदा - वृष्टेः अभावात् देशे महान् क्षामः उद्भूतः |
इ. इडागमः
अस्य चिन्तनं पूर्वमेव कृतम् | अस्मिन् करपत्रे ८-१२ बिन्दवः दृश्यन्ताम् |
ई. अतिदेशः
निष्ठा-प्रत्यये परे अतिदेशचिन्तनम् इदम् -
निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः (१.२.१९) = शीङ्, स्विद्, मिद्, क्ष्विद् धृष् - एभ्यः इडागमः युक्तः निष्ठा प्रत्ययः कित् न स्यात् | अकित्त्वात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः न स्यात् | धातौ गुणस्य चिन्तनम् - सार्वधातुकार्धधातुकयोः (७.३.८४), पुगन्तलघूपधस्य च (७.३.८६) च सूत्राभ्याम् | शीङ् च स्विदिश्च मिदिश्च क्ष्विदिश्च धृष् च तेषां समाहारद्वन्द्वः शीङ्स्विदिमिदिक्ष्विदिधृट् (पदान्ते जश्त्वं, चर्त्वं च), तस्मात् शीङ्स्विदिमिदिक्ष्विदिधृषः पञ्चम्यन्तं, निष्ठा प्रथमान्तं, द्विपदमिदं सूत्रम् | असंयोगाल्लिट् कित् (१.२.५) इत्यस्मात् कित् इत्यस्य अनुवृत्तिः, न क्त्वा सेट् (१.२.१८) इत्यस्मात् न, सेट् अनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— शीङ्स्विदिमिदिक्ष्विदिधृषः निष्ठा सेट् न कित् | इदम् अतिदेशसूत्रम् |
यथा -
१. शीङ् (अदादिः, स्वप्ने) | क्तान्तरूपम् - शयित | [ शीङ् + क्त → शी + त → शी + इ त → शे + इ त → श् अय् + इ त ] |
२. ञिष्विदाँ (भ्वादिः, अव्यक्ते शब्दे) | क्तान्तरूपद्वयम् - स्वेदित, स्विन्न |
मूले धातुः सेट् यतः अवशिष्टः स्वरः उदात्तः | आदितश्च(७.२.१६) इत्यनेन धातुः अनिट् |
अ. [ ञिष्विदाँ + क्त → स्विद् + त → स्विन् + न् → स्विन्न ] | रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) |
विभाषा भावादिकर्मणोः (७.२.१७) इत्यनेन भावे आदिकर्मणि च आदितः धातोः इट् वैकल्पिकः | अतः रूपद्वयम् -
अ. [ ञिष्विदाँ + क्त → स्विद् + त → स्विद् + इ त → स्वेद् + इ त → स्वेदित ] | अस्यां प्रक्रियायां धातुः सेट् मत्त्वा धातौ गुणः |
आ. [ ञिष्विदाँ + क्त → स्विद् + त → स्विन् + न् → स्विन्न ] | रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) |
३. ञिष्विदाँ (भ्वादिः, स्नेहमोचनयोः) | क्तान्तरूपद्वयम् - स्वेदित, स्विन्न | ञिष्विदाँ (भ्वादिः, अव्यक्ते शब्दे) इति इव |
४. ष्विदाँ (दिवादिः, गात्रप्रक्षरणे) | क्तान्तरूपद्वयम् - स्वेदित, स्विन्न | मूले धातुः अनिट् यतः अवशिष्टः स्वरः अनुदात्तः |
अ. [ ष्विदाँ + क्त → स्विद् + त → स्विन् + न् → स्विन्न ] | रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) |
विभाषा भावादिकर्मणोः (७.२.१७) इत्यनेन भावे आदिकर्मणि च आदितः धातोः इट् वैकल्पिकः | अतः रूपद्वयम् -
अ. [ ष्विदाँ + क्त → स्विद् + त → स्विद् + इ त → स्वेद् + इ त → स्वेदित ] | अस्यां प्रक्रियायां धातुः सेट् मत्त्वा धातौ गुणः |
अस्मिन् विषये कश्चन मतभेदः दृश्यते - निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः (१.२.१९) इत्यस्मिन् स्विदि इत्यनेन अस्य ग्रहणं न स्यात् इति केषाञ्चन मतम् - स्विदित |
आ. [ ष्विदाँ + क्त → स्विद् + त → स्विन् + न् → स्विन्न ] | रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) |
५. ञिमिदाँ (भ्वादिः, स्नेहने) | क्तान्तरूपद्वयम् - मेदित, मिन्न |
मूले धातुः सेट् यतः अवशिष्टः स्वरः उदात्तः | आदितश्च(७.२.१६) इत्यनेन धातुः अनिट् |
अ. [ ञिमिदाँ + क्त → मिद् + त → मिन् + न् → मिन्न ] | रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) |
विभाषा भावादिकर्मणोः (७.२.१७) इत्यनेन भावे आदिकर्मणि च आदितः धातोः सेट् वैकल्पिकः | अतः रूपद्वयम् -
अ. [ ञिमिदाँ + क्त → मिद् + त → मिद् + इ त → मेद् + इ त → मेदित ] | अस्यां प्रक्रियायां धातुः सेट् मत्त्वा धातौ गुणः |
आ. [ ञिमिदाँ + क्त → मिद् + त → मिन् + न् → मिन्न ] | रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) |
६. ञिमिदाँ (दिवादिः, स्नेहने) | क्तान्तरूपद्वयम् - मेदित, मिन्न | ञिमिदाँ (भ्वादिः, स्नेहने) इति इव |
७. ञिक्ष्विदाँ (दिवादिः, स्नेहमोचनयोः) | क्तान्तरूपद्वयम् - क्ष्विदित, क्ष्विण्ण |
मूले धातुः सेट् यतः अवशिष्टः स्वरः उदात्तः | आदितश्च(७.२.१६) इत्यनेन धातुः अनिट् |
अ. [ ञिक्ष्विदाँ + क्त → क्ष्विद् + त → क्ष्विन् + न → क्ष्विण् + न → क्ष्विण् + ण → क्ष्विण्ण ] |
विभाषा भावादिकर्मणोः (७.२.१७) इत्यनेन भावे आदिकर्मणि च आदितः धातोः इट् वैकल्पिकः | अतः रूपद्वयम् -
अ. [ ञिक्ष्विदाँ + क्त → क्ष्विद् + त → क्ष्विद् + इ त → क्ष्वेद् + इ त → क्ष्वेदित ] | अस्यां प्रक्रियायां धातुः सेट् मत्त्वा धातौ गुणः |
आ. [ ञिक्ष्विदाँ + क्त → क्ष्विद् + त → क्ष्विन् + न → क्ष्विण् + न → क्ष्विण् + ण → क्ष्विण्ण ] |
८. ञिधृषाँ (स्वादिः, प्रागल्भ्ये) | क्तान्तरूपद्वयम् - धर्षित, धृष्ट |
मूले धातुः सेट् यतः अवशिष्टः स्वरः उदात्तः | आदितश्च(७.२.१६) इत्यनेन धातुः अनिट् |
अ. [ ञिधृषाँ + क्त → धुष् + त → धुष् + ट → धृष्ट ] |
विभाषा भावादिकर्मणोः (७.२.१७) इत्यनेन भावे आदिकर्मणि च आदितः धातोः इट् वैकल्पिकः | अतः रूपद्वयम् -
अ. [ ञिधृषाँ + क्त → धृष् + त → धृष् + इ त → धर ष् + इ त → धर्षित ] | अस्यां प्रक्रियायां धातुः सेट् मत्त्वा धातौ गुणः |
आ. [ ञिधृषाँ + क्त → धुष् + त → धुष् + ट → धृष्ट ] |
मृषस्तितिक्षायाम् (१.२.२०) = मृषः धातोः उत्तरस्य इडागमः युक्तः निष्ठा प्रत्ययः कित् न स्यात् | अस्मिन् सूत्रे मृषँ (दिवादिः, तितिक्षायाम्) इत्यस्य एव ग्रहणं , न तु मृषुँ (भ्वादिः, सेचने, सहने च) इत्यस्य | मृषः पञ्चम्यन्तमं, तितिक्षायां सप्तम्यन्तं, द्विपदमिदं सूत्रम् | असंयोगाल्लिट् कित् (१.२.५) इत्यस्मात् कित् इत्यस्य अनुवृत्तिः, न क्त्वा सेट् (१.२.१८) इत्यस्मात् न, सेट् अनयोः अनुवृत्तिः, निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः (१.२.१९) इत्यस्मात् निष्ठा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— मृषः तितिक्षायां निष्ठा सेट् न कित् | इदम् अतिदेशसूत्रम् |
यथा - १. मृषँ। (दिवादिः, तितिक्षायाम्) | क्तान्तरूपम् - मर्षित | [ मृषँ + क्त → मृष् + त → मृष् + इ त → मर् ष् + इ त ] |
२. मृषुँ (भ्वादिः, सेचने, सहने च) | क्तान्तरूपम् - मृष्ट | [ मृषुँ + क्त → मृष् + त → मृष् + ट ] |
अयं धातुः मूले सेट् | उदितो वा (७.२.५६) इत्यनेन क्त्वा-प्रत्ययस्य इट् वैकल्पिकं, यस्य विभाषा (७.२.१५) - निष्ठायाम् इटः निषेधः |
उदुपधाद्भावादिकर्मणोरन्यतरस्याम् (१.२.२१) = उदुपधात् परा भावादिकर्मणोः निष्ठा सेट् कित् न स्यात् विकल्पेन | उत् उपधा यस्य सः उदुपधः, बहुव्रीहिः, तस्मात् उदुपधात् | आदि च अदः कर्म आदिकर्म, भावश्च आदिकर्म च तयोरितरेतरयोगद्वन्द्वः भावादिकर्मणी, तयोर्भावादिकर्मणोः | उदुपधात् पञ्चम्यन्तं, भावादिकर्मणोः सप्तमीद्विवचनान्तम्, अन्यतरस्याम् इति विभक्तिप्रतिरूपकम् अव्ययम् , त्रिपदम् इदं सूत्रम् | असंयोगाल्लिट् कित् (१.२.५) इत्यस्मात् कित् इत्यस्य अनुवृत्तिः, न क्त्वा सेट् (१.२.१८) इत्यस्मात् न, सेट् अनयोः अनुवृत्तिः, निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः (१.२.१९) इत्यस्मात् निष्ठा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— उदुपधात् भावादिकर्मणोः निष्ठा सेट् न कित् अन्यतरस्याम् |
यथा - १. द्युतँ (भ्वादिः, दीप्तौ) | क्तान्तरूपद्वयम् - द्युतित, द्योतित | [ द्युतँ + क्त → द्युत् + त → द्युत् + इ त (द्युतित) → द्यो त् + इ त (द्योतित) ] |
२. मुदँ (भ्वादिः, हर्षे) | क्तान्तरूपद्वयम् - मोदित, मुदित | [ मुदँ + क्त → मुद् + त → मुद् + इ त (मुदित) → मो द् + इ त (मोदित) ] |
शब्विकरणेभ्य एवेष्यते (वा) = अनेन वार्तिकेन वैकल्पिकः अकिद्वद्भावः भ्वादिभ्यः धातुभ्यः एव येषां विकरणप्रत्ययः शप् स्यात् |
३. कुपँ (दिवादिः, क्रोधे) | क्तान्तरूपम् - कुपित | [ कुपँ + क्त → कुप् + त → कुप् + इ त (कुपित) ] |
पूङः क्त्वा च (१.२.२२) = पूङः धातोः क्त्वा निष्ठा च सेट् कित् न स्यात् | पूङः पञ्चम्यन्तं, क्त्वा लुप्तप्रथमाकं पदं, च अव्ययं, त्रिपदम् इदं सूत्रम् | असंयोगाल्लिट् कित् (१.२.५) इत्यस्मात् कित् इत्यस्य अनुवृत्तिः, न क्त्वा सेट् (१.२.१८) इत्यस्मात् न, सेट् अनयोः अनुवृत्तिः, निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः (१.२.१९) इत्यस्मात् निष्ठा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— पूङः क्त्वा निष्ठा च सेट् न कित् |
यथा - १. पूङ् (भ्वादिः, पवने) | क्तान्तरूपद्वयम् - पवित, पूत |
मूले अयं धातुः सेट् | धातुः उगन्तः च | श्र्युकः किति (७.२.११) इत्यनेन निष्ठा-प्रत्ययस्य इडागमः निषिद्धः स्यात् |
परन्तु, पूङश्च (७.२.५१) इत्यनेन सूत्रेण निष्ठा-प्रत्ययस्य इडागमः वैकल्पिकः |
अ. [ पूङ् + क्त → पू + इ त → पो + इ त → पव् + इ त (पवित) ] |
इडागमे सति पूङः क्त्वा च (१.२.२२) सूत्रेण क्त प्रत्ययः अकित् अतः गुणः |
आ. [ पूङ् + क्त → पू + त (पूत) ] |
उ. द्वित्वाभ्यासकार्यम्
अस्य चर्चा अस्मिन् पाठे न यतः क्त-प्रत्यये परे धातौ द्वित्वम् अभ्यासकार्यं च न भवतः |
सारांशः अयम्
एतावत् पर्यन्तं धातोः परः क्त प्रत्ययस्य योजनेन किदृशानि उपाङ्गकार्याणि संभवन्ति इति दृष्टानि |
आहत्य क्तान्तरूपसाधने अस्माकं चिन्तनक्रमः अयम् - १. इडागमः , २. धात्वादेशः , ३. प्रत्ययादेशः, ४. प्रत्ययस्य अकित्त्वम् ५. अङ्गकार्यम् ६. सन्धिकार्यम् ७. वर्णमेलनम् |
१५. रूपसाधनम्
अ. अजन्तधातवः - सर्वेषु गणेषु (चुरादिगणं विहाय)
१. आकारान्तधातवः, एजन्तधातवः च |
सर्वे एजन्ताः क्त-प्रत्यये परे आकारान्ताः भवन्ति आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन |
धातुः - डुदाञ् (जुहोत्यदिः, दाने) घुसंज्ञकः [ दाधा घ्वदाप् (१.१.२०) ], अनिट् [ एकाच उपदेशेऽनुदात्तात् (७.२.१०) ]
डुदाञ् + क्त → दा + त [ आदिर्ञिटुडवः (१.३.५), हलन्त्यम् (१.३.३), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ दथ् + त [ घुमास्थागापाजहातिसां हलि (६.४.६६) आ → ई, दो दद् घोः (७.४.४६) दा → दथ् ]
→ दत् + त [ खरि च (८.४.५५) थ् → त् ]
→ दत्त
अन्यौ धातू - दाण् (भ्वादिः, दाने), देङ् (भ्वादिः, रक्षणे)
धातुः - दो (दिवादिः, अवखण्डने) घुसंज्ञकः [ दाधा घ्वदाप् (१.१.२०) ], अनिट् [ एकाच उपदेशेऽनुदात्तात् (७.२.१०) ]
दो + क्त → दो + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ दा + त [ आदेच उपदेशेऽशिति (६.१.४५) ओ → आ ]
→ दि + त [ घुमास्थागापाजहातिसां हलि (६.४.६६) आ → ई, दो दद् घोः (७.४.४६) दा → दथ् ,
द्यतिस्यतिमास्थामित् ति किति (७.४.४०) आ → इ ]
→ दित
अन्ये धातवः - मा (अदादिः, माने), माङ् (जुहोत्यादिः, माने शब्दे च), माङ् (दिवादिः, माने शब्दे च), ष्ठा (भ्वादिः, गतिनिवृत्तौ) |
धातुः - षो (दिवादिः, अन्तकर्मणि - विध्वंसे, नष्टे) अनिट् [ एकाच उपदेशेऽनुदात्तात् (७.२.१०) ]
षो + क्त → षो + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ सो + त [ धात्वादे षः सः (६१.६३) ]
→ सा + त [ आदेच उपदेशेऽशिति (६.१.४५) ओ → आ ]
→ सि + त [ घुमास्थागापाजहातिसां हलि (६.४.६६) आ → ई, द्यतिस्यतिमास्थामित् ति किति (७.४.४०) आ → इ ]
→ सित
धातुः - धेट् (भ्वादिः, पाने) घुसंज्ञकः [ दाधा घ्वदाप् (१.१.२०) ], अनिट् [ एकाच उपदेशेऽनुदात्तात् (७.२.१०) ]
धेट् + क्त → धे + त [ हलन्त्यम् (१.३.३), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ धा + त [ आदेच उपदेशेऽशिति (६.१.४५) ए → आ ]
→ धी + त [ घुमास्थागापाजहातिसां हलि (६.४.६६) आ → ई ]
→ धीत
अन्ये धातवः - गै (भ्वादिः, शब्दे), पा (भ्वादिः, पाने), पै (भ्वादिः, शोषणे), गाङ् (भ्वादिः, गतौ)
पा (अदादिः, रक्षणे)x - अत्र घुमास्थागापाजहातिसां हलि (६.४.६६) इत्यस्य कार्यं न स्यात् | रूपम् - पात |
धातुः - डुधाञ् (जुहोत्यादिः, धारणपोषणयोः) घुसंज्ञकः [ दाधा घ्वदाप् (१.१.२०) ], अनिट् [ एकाच उपदेशेऽनुदात्तात् (७.२.१०) ]
डुधाञ् + क्त → धा + त [ आदिर्ञिटुडवः (१.३.५), हलन्त्यम् (१.३.३), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ हि + त [ घुमास्थागापाजहातिसां हलि (६.४.६६) आ → ई , दधातेर्हिः (७.४.४२) धा → हि ]
→ हित
धातुः - शो (दिवादिः, तनूकरणे) अनिट् [ एकाच उपदेशेऽनुदात्तात् (७.२.१०) ]
शो + क्त → शो + त [ हलन्त्यम् (१.३.३), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ शा + त [ आदेच उपदेशेऽशिति (६.१.४५) ओ → आ ]
→ शि + त [ शाच्छोरन्यतरस्याम् (७.४.४१) आ → इ ]
→ शित, शात
अन्यः धातुः - छो (दिवादिः, छेदने)
धातुः - ओँहाक् (जुहोत्यादिः, त्यागे) ओदित्, अनिट् [ एकाच उपदेशेऽनुदात्तात् (७.२.१०) ]
ओँहाक् + क्त → हा + त [ उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ ही + त [ घुमास्थागापाजहातिसां हलि (६.४.६६) आ → ई ]
→ ही + न [ ओदितश्च (८.२.४५) त् → न् ]
→ हीन
अन्यः धातुः - ओँवै(भ्वादिः, शोषणे), ओँहाङ् (जुहोत्यादिः, गतौ) - अत्र घुमास्थागापाजहातिसां हलि (६.४.६६) इत्यस्य कार्यं न स्यात् |
धातुः - ग्लै (भ्वादिः, हर्षक्षये) अनिट् [ एकाच उपदेशेऽनुदात्तात् (७.२.१०) ]
ग्लै + क्त → ग्लै + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ ग्ला + त [ आदेच उपदेशेऽशिति (६.१.४५) ऐ → आ ]
→ ग्ला + न [ संयोगादेरातो धातोर्यण्वतः (८.२.४३) त् → न् ]
→ ग्लान
अन्ये धातवः - म्लै (भ्वादिः, हर्षक्षये), द्रा (अदादिः, कुत्सायां गतौ), द्यै (भ्वादिः, न्यक्करणे), स्त्यै(भ्वादिः, शब्दसंघातयोः),
ष्ट्यै(भ्वादिः, शब्दसंघातयोः)x, श्यैङ् (भ्वादिः, गतौ)x, श्रै (भ्वादिः, पाके)x
धातुः - त्रैङ् (भ्वादिः, पालने) अनिट् [ एकाच उपदेशेऽनुदात्तात् (७.२.१०) ]
त्रै + क्त → त्रै + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ त्रा + त [ आदेच उपदेशेऽशिति (६.१.४५) ऐ → आ ]
→ त्रा + न / त [ संयोगादेरातो धातोर्यण्वतः (८.२.४३) त् → न् ,
नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् (८.२.५६) त् → न् , त् ]
→ त्रा + ण / त [ अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) न् → ण् ]
→ त्राण / त्रात
अन्यः धातुः - घ्रा (भ्वादिः, गन्धोपादाने)
धातुः - ज्या (क्र्यादिः, वयोहानौ) ल्वादिः , अनिट् [ एकाच उपदेशेऽनुदात्तात् (७.२.१०) ]
ज्या + क्त → ज् य् आ + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ ज् इ आ + त [ ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (६.१.१६) य् → इ ]
→ ज् इ + त [ सम्प्रसारणाच्च (६.१.१०८) इ आ → इ ]
→ ज् ई + त [ हलः (६.४.२) इ → ई ]
→ ज् ई + न [ ल्वादिभ्यः (८.२.४४) त् → न् ]
→ जीन
धातुः - व्येञ् (भ्वादिः, संवरणे) यजादिः, अनिट् [ एकाच उपदेशेऽनुदात्तात् (७.२.१०) ]
व्येञ् + क्त → व् य् ए + त [ हलन्त्यम् (१.३.३), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ व् इ ए + त [ वचिस्वपियजादीनां किति (६.१.१५), न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) य् → इ ]
→ व् इ + त [ सम्प्रसारणाच्च (६.१.१०८) इ ए → इ ]
→ व् ई + त [ हलः (६.४.२) इ → ई ]
→ वीत
अन्यौ यजादी धातू - वेञ् (भ्वादिः, तन्तुसन्ताने) , ह्वेञ् (भ्वादिः, स्पर्धायाम्) |
धातुः - क्षै (भ्वादिः, क्षये) अनिट् [ एकाच उपदेशेऽनुदात्तात् (७.२.१०) ]
क्षै + क्त → क्षै + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ क्षा + त [ आदेच उपदेशेऽशिति (६.१.४५) ऐ → आ ]
→ क्षा + म [ क्षायो मः (८.२.५३) त् → म् ]
→ क्षाम
धातुः - दरिद्रा (अदादिः , दुर्गतौ) | सेट् - अनेकाच् |
दरिद्रा + क्त → दरिद्रा + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ दरिद्र् आ + इ त [ आर्धधातुकस्येड्वलादेः (७.२.३५) त → इत ]
→ दरिद्र् + इ त [ दरिद्रातेरार्धधातुके विवक्षिते आलोपो वाच्यः (वा) ]
→ दरिद्रित
अवशिष्टाः आकारान्तधातवः (एजन्ताः च) अत्र केवलं वर्णमेलनम् |
२. इकारान्तधातवः |
धातुः - टुओँश्वि (भ्वादिः, गतिवृद्धयोः) यजादिः, सेट् - अवशिष्टः स्वरः उदात्तः |
टुओँश्वि + क्त → श्वि + त [ आदिर्ञिटुडवः (१.३.५), उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ श् व् इ + त [ आर्धधातुकस्येड्वलादेः (७.२.३५) त → इत,
श्वीदितो निष्ठायाम् (७.२.१४) - इड् निषिद्धः ]
→ श् उ इ + त [ वचिस्वपियजादीनां किति (६.१.१५) व् → उ ]
→ श् उ + त [ सम्प्रसारणाच्च (६.१.१०८) उ इ → उ ]
→ श् ऊ + त [ हलः (६.४.२) उ → ऊ ]
→ श् ऊ + न [ ओदितश्च (८.२.४५) त् → न् ]
→ शून
धातुः - श्रिञ् (भ्वादिः, सेवायाम्) सेट् - अवशिष्टः स्वरः उदात्तः |
श्रिञ् + क्त → श्रि + त [ हलन्त्यम् (१.३.३), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ श्रि + त [ आर्धधातुकस्येड्वलादेः (७.२.३५) त → इत, श्र्युकः किति (७.२.११) - इड् निषिद्धः ]
→ श्रित
धातुः - क्षि (भ्वादिः, क्षये) अनिट् - अवशिष्टः स्वरः अनुदात्तः |
क्षि + क्त → क्षि + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ क्षि + त
→ क्षित
→ क्ष् इ + त
→ क्ष् ई + त [ निष्ठायामण्यदर्थे (६.४.६०), वाऽऽक्रोशदैन्ययोः (६.४.६१) इ → ई ]
→ क्ष् ई + न [ क्षियो दीर्घात् (८.२.४६) त् → न् ]
→ क्ष् ई + ण [ अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) न् → ण् ]
→ क्षीण
निष्ठायामण्यदर्थे (६.४.६०) = अण्यदर्थे निष्ठायां क्षियः दीर्घः स्यात् | अचश्च (१.२.२८) इत्यनेन अचः दीर्घः - क्षि इत्यस्य इकारस्य दीर्घः स्यात् | ण्यत् इति कश्चन प्रत्ययः यस्य अर्थः भावः वा कर्म वा स्यात् | अण्यदर्थे इत्युक्ते यत्र अर्थः भावः वा कर्म वा न स्यात् - आहत्य कर्त्रर्थे , अधिकरणे च | ण्यतः अर्थः ण्यदर्थः, न ण्यदर्थः अण्यदर्थः नञ्तत्पुरुषः , तस्मिन् अण्यदर्थे | निष्ठायां सप्तम्यन्तम्, अण्यदर्थे सप्तम्यन्तं , द्विपदमिदं सूत्रम् | क्षियः (६.४.५९) इत्यस्य सम्पूर्णानुवृत्तिः | युप्लुवोर्दीर्धश्छन्दसि (६.४.५८) इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— निष्ठायाम् अण्यदर्थे क्षियः अचः दीर्घः |
वाऽऽक्रोशदैन्ययोः (६.४.६१) = क्षियः निष्ठायां दीर्घः वा स्यात् आक्रोशे दैन्ये च | अचश्च (१.२.२८) इत्यनेन अचः दीर्घः - क्षि इत्यस्य इकारस्य दीर्घः स्यात् | आक्रोशश्च दैन्यञ्च आक्रोशदैन्ये इतरेतरयोगद्वन्द्वः , तयोः आक्रोशदैन्ययोः | वा अव्ययम्, आक्रोशदैन्ययोः, सप्तम्यन्तं, द्विपदमिदं सूत्रम् | क्षियः (६.४.५९) इत्यस्य सम्पूर्णानुवृत्तिः | निष्ठायामण्यदर्थे (६.४.६०) इत्यस्य सम्पूर्णानुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— क्षियः निष्ठायाम् अण्यदर्थे अचः दीर्घः वा आक्रोशदैन्ययोः |
क्षियो दीर्घात् (८.२.४६) = क्षियः दीर्घात् निष्ठातस्य नः स्यात् | क्षियः पञ्चम्यन्तं, दीर्घात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यस्मात् निष्ठातः, नः इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— क्षियः दीर्घात् निष्ठातः नः |
यथा - १. आक्रोशे - क्षीणायुः भव | क्षितायुः भव |
२. दैन्ये - अयं तपस्वी क्षीणः | अयं तपस्वी क्षितः |
३. अण्यदर्थे (अधिकरणे) - कुरुक्षेत्रम् इति कौरवाणां प्रक्षीणं क्षेत्रम् | (कर्त्रर्थे) - वित्तं क्षीणम् |
४. कर्मणि - मया बुभुक्षा क्षिता | मया कामः क्षितः |
५. भावे - अक्षितं धनम् |
अन्ये धातवः - अत्र केवलं वर्णमेलनम् | जि (भ्वादिः, जये), जि (भ्वादिः, अभिभवे), ष्मिङ् (भ्वादिः, ईषद्धसने), इण् (अदादिः, गतौ), इङ् (अदादिः, अध्ययने)x, चिञ् (स्वादिः, चयने) |
३. ईकारान्तधातवः |
धातुः - शीङ् (अदादिः, स्वप्ने) x सेट् - अवशिष्टः स्वरः उदात्तः |
शीङ् + क्त → शी + त [ हलन्त्यम् (१.३.३), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ शी + इत [ आर्धधातुकस्येड्वलादेः (७.२.३५) त → इत ]
→ श् ई + इत
→ श् ए + इत [ निष्ठा शीङ्-स्विदि-मिदि-क्ष्विदि-धृषः (१.२.१९) - अकित्वम् ,
सार्वधातुकार्धधातुकयोः (७.३.८४) ई → ए ]
→ श् अय् + इत [ एचोऽयवायावः (६.१.७७) ए → अय् ]
→ शयित
धातुः - डीङ् (भ्वादिः, विहायसा गतौ) सेट् - अवशिष्टः स्वरः उदात्तः |
डीङ् + क्त → डी + त [ हलन्त्यम् (१.३.३), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ डी + इत [ आर्धधातुकस्येड्वलादेः (७.२.३५) त → इत ]
→ ड् ई + इत
→ ड् इयड् + इत [ अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) ई → इयङ् ]
→ ड् इय् + इत [ हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९) ]
→ डियित
धातुः - डीङ् (दिवादिः, विहायसा गतौ) स्वादिः , सेट् - अवशिष्टः स्वरः उदात्तः |
डीङ् + क्त → डी + त [ हलन्त्यम् (१.३.३), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ डी + त [ आर्धधातुकस्येड्वलादेः (७.२.३५) त → इत , ओदिन्मध्ये डीङः पाठसामर्थ्यान्नेट् ]
→ डी + न [ स्वादयः ओदितः (वा) , ओदितश्च (८.२.४५) त् → न् ]
→ डीन
ओदिन्मध्ये डीङः पाठसामर्थ्यान्नेट् = अयं धातुः मूले सेट्, तथापि निष्ठा-प्रत्यये परे अस्य धातोः इडागमः न स्यात् | स्वादयः ओदितः इत्यनेन गणसूत्रेण ओदित्त्वस्य अतिदेशात् ओदितश्च (८.२.४५) इति सूत्रेण निषाठानत्वम् | स्वादिः दिवादिगणे कश्चन अन्तर्गणः - अयं धातुः तेषु अन्यतमः | यदि अस्मिन् प्रसङ्गे इडागमः स्यात् तर्हि तेन व्यवधानात् निष्ठायां तकारस्य नत्वं न भवेत् , ततश्च स्वादिपाठः व्यर्थः |तन्नस्यात् |
अन्ये धातवः - इमे स्वादयः - दीङ्(दिवादिः, क्षये), धीङ्(दिवादिः, आधारे), मीङ्(दिवादिः, हिंसायाम्), रीङ्(दिवादिः, स्रवणे), लीङ्(दिवादिः, श्लेषणे), व्रीङ्(दिवादिः, वृणोत्यर्थे) |
धातुः - री (क्र्यादिः, गतिरेषयोः) ल्वादिः , अनिट् - अवशिष्टः स्वरः अनुदात्तः |
री + क्त → री + त लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ री + न [ ल्वादिभ्यः (८.२.४४) त् → न् ]
→ री + ण [ अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) न् → ण् ]
→ रीण
अन्ये धातवः - इमे ल्वादयः - ली(क्र्यादिः, श्लेषणे), व्ली(क्र्यादिः, वरणे), प्ली(क्र्यादिः, गतौ) |
धातुः - ह्री (जुहोत्यादिः, लज्जायाम्) अनिट् - अवशिष्टः स्वरः अनुदात्तः |
ह्री + क्त → ह्री + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ ह्री + न / त [ नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् (८.२.५६) त् → न् ]
→ ह्री + ण / त [ अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) न् → ण् ]
→ ह्रीण / ह्रीत
अन्ये धातवः - अत्र केवलं वर्णमेलनम् | णीञ् (भ्वादिः, प्रापणे), ञिभी (जुहोत्यादिः, अभिभवे), डुक्रीञ् (क्र्यादिः, द्रव्यविनिमये), क्षीष्(क्र्यादिः, हिंसायाम्), वी (अदादिः, गतिव्याप्तिप्रजनकान्त्यसनखादनेषु) |
४. उकारान्तधातवः |
धातुः - ष्णु (अदादिः, प्रस्रवणे) सेट् - अवशिष्टः स्वरः उदात्तः | ष्नु
ष्णु → स्नु [ धात्वादेः षः सः (६.१.६३) ]
स्नु + क्त → स्नु + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ स्नु + त [ आर्धधातुकस्येड्वलादेः (७.२.३५) त → इत, श्र्युकः किति (७.२.११) - इड् निषिद्धः]
→ स्नुत
अन्ये धातवः - रु (अदादिः, शब्दे), णु (अदादिः, स्तुतौ) , टुक्षु (अदादिः, शब्दे), यु (अदादिः, मिश्रणेऽमिश्रणे) |
धातुः - दु (भ्वादिः, गतौ) अनिट् - अवशिष्टः स्वरः अनुदात्तः |
दु + क्त → दु + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ द् उ + त
→ द् ऊ + न [ दुग्वोर्दीर्घश्चेति वक्तव्यम् (वा) उ → ऊ, त् → न् ]
→ दून
अन्यः धातुः - गु (तुदादिः, पुरीषोत्सर्गे) |
अन्ये धातवः - अत्र केवलं वर्णमेलनम् | गुङ् (भ्वादिः, अव्यक्ते शब्दे), युञ् (क्र्यादिः, बन्धने), रुङ् (भ्वादिः, गतिरेषणयोः), टुदु (स्वादिः, उपतापे), द्रु (भ्वादिः, गतौ) |
५. ऊकारान्तधातवः |
धातुः - ब्रूञ् (अदादिः, व्यक्तायां वाचि) सेट् - अवशिष्टः स्वरः उदात्तः |
ब्रूञ् + क्त → ब्रू + त [ हलन्त्यम् (१.३.३), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ वच् + त [ ब्रुवो वचि (२.४.५३) ब्रू → वच् ]
→ व् अ च् + त [ अयं धातः अनिट् ]
→ उ अ च् + त [ वचिस्वपियजादीनां किति (६.१.१५), इग्यणः सम्प्रसारणम् (१.१.४५) व् → उ ]
→ उच् + त [ सम्प्रसारणाच्च (६.१.१०८) उ अ → उ ]
→ उक् + त [ चोः कुः (८.२.३०) च् → क् , स्तोः श्चुना श्चुः (८.४.४०) इति शास्त्रासिद्धम् त् → च् ]
→ उक्त
धातुः - पूङ् (भ्वादिः, पवने) सेट् - अवशिष्टः स्वरः उदात्तः |
पूङ् + क्त → पू + त [ हलन्त्यम् (१.३.३), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ पू + इ त [ आर्धधातुकस्येड्वलादेः (७.२.३५) त → इत, श्र्युकः किति (७.२.११) - इड् निषिद्धः ,
पूङश्च (७.२.५१) - इड्विकल्पः ]
→ प् ओ + इ त [ पूङः क्त्वा च (१.२.२२) सेट् क्त अकित्, सार्वधातुकार्धधातुकयोः (७.३.८४) - ऊ → ओ ]
→ प् अव् + इ त [ एचोऽयवायावः (६.१.७७) - ओ → अव् ]
→ पवित
→ पू + त [ यस्मिन् पक्षे इडागमः न स्यात् , अनिट् क्त कित् अतः क्क्ङिति च (१.१.५) गुणनिषेधः]
→ पूत
धातुः - पूञ् (क्र्यादिः, पवने विनाशे च) सेट् - अवशिष्टः स्वरः उदात्तः |
पूञ् + क्त → पू + त [ हलन्त्यम् (१.३.३), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ पू + त [ आर्धधातुकस्येड्वलादेः (७.२.३५) त → इत, श्र्युकः किति (७.२.११) - इड् निषिद्धः ]
→ पू + न [ पूञो विनाशे (वा) - त् → न् ]
→ पून [ विनाशे अर्थे ]
→ पू + त [ पवित्रे अर्थे ]
→ पूत
धातुः - षूङ् (दिवादिः, प्राणिस्रवे) [ स्वादिः, वेट् - स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४) ]
षूङ् → सू [ हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९), धात्वादेः षः सः (६.१.६३) - ष् → स् ]
सू + क्त → सू + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ सू + त [ श्र्युकः किति (७.२.११) - इड् निषिद्धः ]
→ सू + न [ स्वादयः ओदितः(वा), ओदितश्च (८.२.४५) - त् → न् ]
→ सून
धातुः - लूञ् (क्र्यादिः, छेदने) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
लूञ् + क्त → लू + त [ हलन्त्यम् (१.३.३), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ लू + त [ श्र्युकः किति (७.२.११) - इड् निषिद्धः ]
→ लू + न [ ल्वादिभ्यः (८.२.४४) - त् → न् ]
→ लून
अन्ये धातवः - धूञ् (क्र्यादिः, कम्पने) [ वेट् - स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४), ल्वादिः ]
षूङ् (अदादिः, प्राणिगर्भविमोचने) x [ वेट् - स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४) ]
दूङ् (दिवादिः, परितापे) [ सेट् , स्वादयः अतः ओदितः च ]
णू (तुदादिः, स्तवने), धू (तुदादिः, विधूनने), षू (तुदादिः, प्रेरणे)
मूङ् (भ्वादिः, बन्धने), भू (भ्वादिः, सत्तायाम्)
द्रूञ् (क्र्यादिः, हिंसायाम्), क्नूञ् (क्र्यादिः, शब्दे)
६. ऋकारान्तधातवः |
धातुः - जागृ (अदादिः, निद्राक्षये) [ सेट् - अनेकाच् ]
जागृ + क्त → जागृ + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ जाग् ऋ + इ त [ आर्धधातुकस्येड्वलादेः (७.२.३५) त → इत,
धातुः अनेकाच्, अतः श्र्युकः किति (७.२.११) - इड् निषिद्धः न ]
→ जाग् अ + इत [ जाग्रोऽविचिण्णल्ङित्सु (७.३.८५) - ऋ → अ ]
→ जाग् अर् + इत [ उरण् रपरः (१.१.५१) अ → अर् ]
→ जागरित
धातुः - ऋ (भ्वादिः, गतिप्रापणयोः) [ अनिट् - अवशिष्टः स्वरः अनुदात्तः ]
ऋ + क्त → ऋ + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ ऋत
→ ऋण [ ऋणमाधमर्ण्ये (८.२.६०) ]
अन्ये धातवः - डुकृञ् (तनादिः,करणे), स्मृ (भ्वादिः, चिन्तायाम्), स्मृ (भ्वादिः, आध्याने), वृ (स्वादिः, वरणे), वृङ् (क्र्यादिः, सम्भक्तौ), डुभृञ् (जुहोत्यादिः, धारणपोषणयोः), भृ (भ्वादिः, भरणे) |
७. ॠकारान्तधातवः |
यद्यपि ॠ-कारान्ताः सर्वे सेटः ते उगन्ताः इत्यतः निष्ठायाम् इड् निषिद्धः - श्र्युकः किति (७.२.११) सूत्रात् | ते भागद्वये विभक्ताः - ओष्ठ्यपूर्वाः, शेषाः च |
ओष्ठ्यपूर्वाः -
धातुः - मॄ (क्र्यादिः, हिंसायाम्) [ ल्वादिः , सेट् - अवशिष्टः स्वरः उदात्तः ]
मॄ + क्त → मॄ + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ म् ॠ + त [ आर्धधातुकस्येड्वलादेः (७.२.३५) त → इत, श्र्युकः किति (७.२.११) - इड् निषिद्धः ]
→ म् उ + त [ ॠत इद्धातोः (७.१.१००) ॠ → इ, उदोष्ठ्यपूर्वस्य (७.१.१०२) ॠ → उ ]
→ म् उर् + त [ उरण् रपरः (१.१.५१) उ → उर् ]
→ म् ऊर् + त [ हलि च (८.२.७७) उ → ऊ ]
→ मूर् + न [ रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) , ल्वादिभ्यः (८.२.४४) त् → न् ]
→ मूर् + ण [ रषाभ्यां नो णः समानपदे (८.४.१) न् → ण् ]
→ मूर्ण
धातुः - पॄ (जुहोत्यादिः, पालनपूरणयोः) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
पॄ + क्त → पॄ + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ प् ॠ + त [ आर्धधातुकस्येड्वलादेः (७.२.३५) त → इत, श्र्युकः किति (७.२.११) - इड् निषिद्धः ]
→ प् उ + त [ ॠत इद्धातोः (७.१.१००) ॠ → इ, उदोष्ठ्यपूर्वस्य (७.१.१०२) ॠ → उ ]
→ प् उर् + त [ उरण् रपरः (१.१.५१) उ → उर् ]
→ प् ऊर् + त [ हलि च (८.२.७७) उ → ऊ ]
→ पूर् + त [ रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) त् → न् ,
न ध्याख्यापॄमूर्च्छिमदाम् (८.२.५७) नकारः निषिद्धः ]
→ पूर्त
अन्ये धातवः - ल्वादयः - पॄ (क्र्यादिः, पालनपूरणयोः), भॄ (क्र्यादिः, भर्त्सने), वॄ (क्र्यादिः, वरणे), वॄञ् (क्र्यादिः, वरणे) |
शेषाः -
धातुः - तॄ (भ्वादिः, प्लवनतरणयोः) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
तॄ + क्त → तॄ + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ त् ॠ + त [ आर्धधातुकस्येड्वलादेः (७.२.३५) त → इत, श्र्युकः किति (७.२.११) - इड् निषिद्धः ]
→ त् इ + त [ ॠत इद्धातोः (७.१.१००) ॠ → इ ]
→ त् इर् + त [ उरण् रपरः (१.१.५१) इ → इर् ]
→ त् ईर् + त [ हलि च (८.२.७७) इ → ई ]
→ तीर् + न [ रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) त् → न् ]
→ तीर् + ण [ रषाभ्यां नो णः समानपदे (८.४.१) न् → ण् ]
→ तीर्ण
अन्ये धातवः ल्वादी - ॠ (क्र्यादिः, गतौ), स्तॄञ् (क्र्यादिः, आच्छादने) |
जॄष् (दिवादिः, वयोहानौ), कॄ (तुदादिः, विक्षेपे), गॄ (तुदादिः, निगरणे), दॄ (भ्वादिः, भये) |
उदा - व्याधेन विकीर्णः जालः |
आ. हलन्तधातवः
धातुः शकँ (दिवादिः, विभाषितः मर्षणे) [ अनिट् - अवशिष्टः स्वरः अनुदात्तः, विभाषितः - अतः उभयपदी ]
शकँ + क्त → शक् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ शक् + (इ) त [ आर्धधातुकस्येड्वलादेः (७.२.३५) , एकाच उपदेशेऽनुदात्तात् (७.२.१०) - इड् निषिद्धः,
सौनागाः कर्मणि निष्ठायां शकेरिटमिच्छन्ति विकल्पेन (वा) - इड् विकल्पः ]
→ शकित / शक्त
धातुः शक्ऌँ (स्वादिः, शक्तौ) [ अनिट् - अवशिष्टः स्वरः अनुदात्तः]
शक्ऌँ + क्त → शक् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ शक् + (इ) त [ आर्धधातुकस्येड्वलादेः (७.२.३५) , एकाच उपदेशेऽनुदात्तात् (७.२.१०) - इड् निषिद्धः,
सौनागाः कर्मणि निष्ठायां शकेरिटमिच्छन्ति विकल्पेन (वा) - इड् विकल्पः ]
→ शकित / शक्त
धातुः शकिँ (भ्वादिः, शङ्कायाम्) [ सेट् - अवशिष्टः स्वरः उदात्तः]
शकिँ → शक् [ उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९) ]
→ श न् क् [ इदितो नुम् धातोः (७.१.५८) , मिदचोऽन्त्यात्परः (१.१.४७) ]
→ श ं क् [ नश्चापदान्तस्य झलि (८.३.२४) न् → ं ]
→ श ङ् क् [ अनुस्वारस्य ययि परसवर्णः (८.४.५८) ं → ङ् ]
→ शङ्क्
शङ्क् + क्त → शङ्क् + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ शङ्क् + इ त [ आर्धधातुकस्येड्वलादेः (७.२.३५) - त → इत ]
→ शङ्कित
धातुः लगिँ (भ्वादिः, गतौ) [ सेट् - अवशिष्टः स्वरः उदात्तः]
लगिँ → लग् [ उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९) ]
→ ल न् ग् [ इदितो नुम् धातोः (७.१.५८) , मिदचोऽन्त्यात्परः (१.१.४७) ]
→ ल ं ग् [ नश्चापदान्तस्य झलि (८.३.२४) न् → ं ]
→ ल ङ् ग् [ अनुस्वारस्य ययि परसवर्णः (८.४.५८) ं → ङ् ]
→ लङ्ग्
लङ्ग् + क्त → लङ्ग् + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ लङ्ग् + इ त [ आर्धधातुकस्येड्वलादेः (७.२.३५) - त → इत ]
→ लङ्गित
लङ्ग् + क्त → लङ्ग् + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ ल ङ् ग् + इ त [ आर्धधातुकस्येड्वलादेः (७.२.३५) - त → इत ]
→ ल ग् + इ त [ अनिदितां नलोपे लङ्गिकम्प्योर्-उपतापशरीरविकारयोरुपसङ्ख्यानं कर्तव्यम् (वा) ]
→ लगित
धातुः लगेँ (भ्वादिः, सङ्गे) [ सेट् - अवशिष्टः स्वरः उदात्तः]
लगेँ + क्त → लग् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ लग् + इ त [ आर्धधातुकस्येड्वलादेः (७.२.३५) - त → इत ]
→ लगित
→ लग् + न → लग्न
[ क्षुब्धस्वान्तध्वान्त-लग्न-म्लिष्ट-विरिब्ध-फाण्ट-बाढानि मन्थमनस्तमः-सक्त-अविस्पष्ट-स्वर-अनायास-भृशेषु (७.२.१८)
निपातनम् - इडागमस्य अभावः, नित्यम् , सक्ते अर्थे ]
धातुः डुपचँष् (भवादिः, पाके) [ अनिट् - अवशिष्टः स्वरः अनुदात्तः]
डुपचँष् + क्त → पच् + त
[ आदिर्ञिटुडवः (१.३.५), हलन्त्यम् (१.३.३), उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ पच् + व [ पचो वः (८.२.५२) - त् → व् ]
→ पक् + व [ पूर्वत्रिपादिसूत्रम् (८.२.१) - कार्यासिद्धम् इत्यनेन चोः कुः (८.२.३०) - च् → क्
पूर्वत्रिपादिसूत्रम् (८.२.१) - शास्त्रासिद्धम् इत्यनेन स्तोः श्चुना श्चुः (८.४.४०) त् → च् न ]
→ पक्व
धातुः ओँव्रस्चूँ (तुदादिः, छेदने) [ वेट् - अयं धातुः ऊदितः - स्वरतिसूतिसूयतिधूञ्-ऊदितो वा (७.२.४४) ]
ओँव्रस्चूँ + क्त → व्रस्च् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ व् र् अ स्च् + त [ धातुः वेट्, प्रत्ययः सेट् , आहत्य इड्विकल्पः,
परन्तु वेटः धातोः निष्ठा प्रत्ययस्य इड् निषिद्धः - यस्य विभाषा (७.२.१५) ]
→ व् ऋ अ स्च् + त [ ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (६.१.१६) ,
न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) र् → ऋ
]
→ व् ऋ स्च् + त [ सम्प्रसारणाच्च (६.१.१०८) ऋ अ → ऋ ]
→ व् ऋ च् + त [ स्कोः संयोगाद्योरन्ते च (८.२.२९) स् च् → च् ]
→ व् ऋ च् + न [ ओदितश्च (८.२.४५) त् → न् ]
→ व् ऋ क् + न [ पूर्वत्रिपादिसूत्रम् (८.२.१) - कार्यासिद्धम् इत्यनेन चोः कुः (८.२.३०) - च् → क्
पूर्वत्रिपादिसूत्रम् (८.२.१) - शास्त्रासिद्धम् इत्यनेन स्तोः श्चुना श्चुः (८.४.४०) त् → च् न ]
→ वृक् + ण [ अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२), ऋवर्णान्नस्य णत्वम् (वा) , न् → ण् ]
→ वृक्णधातुः व्यचँ (तुदादिः, व्यजीकरणे) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
व्यचँ + क्त → व्यच् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ व् य् अ च् + इ त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त ]
→ व् इ अ च् + इ त [ ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (६.१.१६) ,
न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) य् → इ ]
→ व् इ च् + इ त [ सम्प्रसारणाच्च (६.१.१०८) इ अ → इ ]
→ विचित
धातुः वचँ (अदादिः, परिभाषणे) [ अनिट् - अवशिष्टः स्वरः अनुदात्तः ]
वचँ + क्त → वच् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ व् अ च् + त [ एकाच उपदेशेऽनुदात्तात् (७.२.१०) - इड् निषिद्धः ]
→ उ अ च् + त [ वचिस्वपियजादीनां किति (६.१.१५) - व् → उ ]
→ उ च् + त [ सम्प्रसारणाच्च (६.१.१०८) उ अ → उ ]
→ उ क् + त [ चोः कुः (८.२.३०) - च् → क्
पूर्वत्रिपादिसूत्रम् (८.२.१) - शास्त्रासिद्धम् इत्यनेन स्तोः श्चुना श्चुः (८.४.४०) त् → च् न ]
→ उक्त
धातुः शुचँ (भ्वादिः, शोके) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
शुचँ + क्त → शुच् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ श् उ च् + इ त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त ]
→ श ओ च् + इ त [ उदुपधाद्भावादिकर्मणोरन्यतरस्याम् (१.२.२१), शब्विकरणेभ्य एवेष्यते (वा)
पुगन्तलघूपधस्य च (७.३.८६) उ → ओ ]
→ शुचित / शोचित
धातुः ईँशुचिँ।र् (दिवादिः, पूतीभावे) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
ईँशुचिँर् + क्त → शुच् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), इँर इत्संज्ञा वाच्या (वा), लशक्वतद्धिते (१.३.८),
तस्य लोपः (१.३.९) ]
→ शुच् + त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त ,
श्वीदितो निष्ठायाम् (७.२.१४) - इड् निषिद्धः ]
→ शुक् + त [ चोः कुः (८.२.३०) च् → क् , स्तोः श्चुना श्चुः (८.४.४०) इति शास्त्रासिद्धम् त् → च् ]
→ शुक्त
धातुः वञ्चुँ (भ्वादिः, गतौ) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
वञ्चुँ + क्त → वञ्च् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ वञ्च् + त [ उदितो वा (७.२.५६) क्त्वा-प्रत्ययस्य इट् विकल्पः,
यस्य विभाषा (७.२.१५) - निष्ठायाम् इटः निषेधः ]
→ वच् + त [ अनिदितां हल उपधायाः क्ङिति (६.४.२४) - ञ् → लोपः ]
→ वक् + त [ चोः कुः (८.२.३०) च् → क् , स्तोः श्चुना श्चुः (८.४.४०) इति शास्त्रासिद्धम् त् → च् ]
→ वक्त
धातुः क्रुञ्चँ (भ्वादिः, गतिकौटिल्याल्पीभावयोः) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
क्रुञ्चँ + क्त → क्रुञ्च् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ क्रुञ्च् + इ त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त ]
→ क्रुच् + इत [ अनिदितां हल उपधायाः क्ङिति (६.४.२४) - ञ् → लोपः ]
→ क्रुच् + इत [ उदुपधाद्भावादिकर्मणोरन्यतरस्याम् (१.२.२१) उ → ओ, मूले उदुपधः न - गुणः न ]
→ क्रुचित
अन्ये धातवः - षिचँ। (तुदादिः, क्षरणे), रिचिँर् (रुधादिः, विरेचने), विचिँ।र् (रुधादिः, पृथग्भावे), कुचँ (भ्वादिः, शब्दे तारे), कुचँ (तुदादिः, सङ्कोचने), मुच्ऌँ। (तुदादि, मोक्षणे), मुचिँ (भ्वादिः, कल्कने कथने च), लुञ्चँ (भ्वादिः, अपनयने) | लुन्चँ
धातुः प्रछँ (तुदादिः, ज्ञीप्सायाम्) [ अनिट् - अवशिष्टः स्वरः अनुदात्तः ]
प्रछँ + क्त → प्रच्छ् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ,
छे च (६.१.७३) छ् → त्छ्, स्तोः श्चुना श्चुः (८.४.४०) त्छ् → च्छ्]
→ प् र् अ च्छ् + त [ एकाच उपदेशेऽनुदात्तात् (७.२.१०) - इड् निषिद्धः ]
→ प् ऋ अ च्छ् + त [ ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (६.१.१६) र् → ऋ ]
→ प् ऋ च्छ् + त [ सम्प्रसारणाच्च (६.१.१०८) ऋ अ → ऋ ]
→ पृ ष् + त [ च्छ्वोः शूडनुनासिके च (६.४.१९) च्छ् → श् ,
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) - श् → ष् ]
→ पृष् + ट [ ष्टुना ष्टुः (८.४.४१) , त् → ट् ]
→ पृष्ट
धातुः मुर्छाँ (भ्वादिः, मोहनसमुच्छ्राययोः) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
मुर्छाँ → म् उ र् छ् [ उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९) ]
→ म ऊ र् छ् [ उपधायां च (८.२.७८) - उ → ऊ ]
→ मूर्छ्
मूर्छ् + क्त → मूर्छ् + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ म् ऊ र् छ् + त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त , आदितश्च (७.२.१६) - इड् निषिद्धः ]
→ म् ऊ र् + त [ राल्लोपः (६.४.२१) - र् छ् → र् ]
→ मूर् + त [ रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) त् → न् ,
पूर्वत्रासिद्धम् (८.२.१) - आश्रयात् सिद्धत्वम् (???),
न ध्याख्यापॄमूर्च्छिमदाम् (८.२.५७) नत्वं निषिद्धम् ]
→ मूर्त
मूर्छ् + क्त → मूर्छ् + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ म् ऊ र् छ् + इ त [ विभाषा भावादिकर्मणोः (७.२.१७) -
भावे आदिकर्मणि च आदितः धातोः इड् विकल्पः ]
यस्मिन् पक्षे इडागमः -
→ म् ऊ र् छ्छ् / छ् + इत [ अचो रहाभ्यां द्वे (८.४.४६) - छ् → छ्छ् ]
→ म् ऊ र् च्छ् / छ् + इत [ खरि च (८.४.५५) - छ्छ् → च्छ् ]
→ म् ऊ र् च्छ् / छ् / छ् + इत [ झरो झरि सवर्णे (८.४.६५) - च्छ् → छ्, च्छ् → च्छ् ]
→ मूर्च्छित / मूर्छित
यस्मिन् पक्षे इडागमः न -
→ म् ऊ र् छ् + त
→ म् ऊ र् + त [ राल्लोपः (६.४.२१) - र् छ् → र् ]
→ मूर् + त [ रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) त् → न् ,
पूर्वत्रासिद्धम् (८.२.१) - आश्रयात् सिद्धत्वम् ,
न ध्याख्यापॄमूर्च्छिमदाम् (८.२.५७) नत्वं निषिद्धम् ]
→ मूर्त
धातुः यजँ (भ्वादिः, देवपूजासङ्गतिकरणदानेषु) [ अनिट् - अवशिष्टः स्वरः अनुदात्तः ]
यजँ + क्त → यज् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ य् अ ज् + त [ एकाच उपदेशेऽनुदात्तात् (७.२.१०) - इड् निषिद्धः ]
→ इ अ ज् + त [ वचिस्वपियजादीनां किति (६.१.१५) - य् → इ ]
→ इ ज् + त [ सम्प्रसारणाच्च (६.१.१०८) इ अ → इ ]
→ इ ष् + त [ चोः कुः (८.२.३०) ज् → ग्
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) - ज् → ष् ]
→ इ ष् + ट [ ष्टुना ष्टुः (८.४.४१) - त् → ट् ]
→ इष्ट
धातुः भ्रस्जँ। (तुदादिः, पाके) [ अनिट् - अवशिष्टः स्वरः अनुदात्तः ]
भ्रस्जँ + क्त → भ्रस्ज् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ भ् र् अ स्ज् + त [ एकाच उपदेशेऽनुदात्तात् (७.२.१०) - इड् निषिद्धः ]
→ भ् ऋ अ स्ज् + त [ ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (६.१.१६) र् → ऋ ]
→ भ् ऋ स्ज् + त [ सम्प्रसारणाच्च (६.१.१०८) ऋ अ → ऋ ]
→ भृ ज् + त [ स्कोः संयोगाद्योरन्ते च (८.२.२९) स्ज् → ज् ]
→ भृ ष् + त [ चोः कुः (८.२.३०) ज् → ग्
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) - ज् → ष् ]
→ भृष् + ट [ ष्टुना ष्टुः (८.४.४१) , त् → ट् ]
→ भृष्ट
धातुः - ओँलस्जीँ (तुदादिः, व्रीडायाम्) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
ओँलस्जीँ + क्त → लस्ज् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ ल स्ज् + त [ श्वीदितो निष्ठायाम् (७.२.१४) - इड् निषिद्धः ]
→ ल ज् + त [ स्कोः संयोगाद्योरन्ते च (८.२.२९) स्ज् → ज् ]
→ ल ग् + त [ चोः कुः (८.२.३०) ज् → ग् ]
→ लग् + न [ ओदितश्च (८.२.४५) त् → न् ]
→ लग्न
अन्ये धातवः - सृजँ (दिवादिः, विसर्गे), सृजँ (तुदादिः, विसर्गे), रुजोँ (तुदादिः, भङ्गे), भुजोँ (तुदादिः, कौटिल्ये), भजँ (भ्वादिः, सेवायाम्), रञ्जँ। (भ्वादिः, रागे), त्यजँ (भ्वादिः, हानौ), युजँ (दिवादिः, समाधौ), युजिँ।र् (रुधादिः, योगे), भुजँ (रुधादिः, पालनाभ्यवहारयोः), ष्वञ्जँ(भ्वादिः, परिष्वङ्गे) |
धातुः - कटीँ (भ्वादिः, गतौ) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
कटीँ + क्त → कट् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ कट् + त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त ,
श्वीदितो निष्ठायाम् (७.२.१४) - इड् निषिद्धः ]
→ कट् + ट [ ष्टुना ष्टुः (८.४.४१) त् → ट् ]
→ कट्ट
धातुः - कटेँ (भ्वादिः, वर्षावरणयोः) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
कटेँ + क्त → कट् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ कट् + इ त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त ]
→ कटित
धातुः - पणँ (भ्वादिः, व्यवहारे स्तुतौ च) [ सेट् - अवसिष्टः स्वरः उदात्तः ]
पणँ → पण् [ उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९) ]
पण् → पण् + आय [ गुपूधूपविच्छिपणिपनिभ्य आयः (३.१.२८) - स्तुतौ अर्थे एव आय-प्रत्ययः स्यात् ]
→ पणाय [ सनाद्यन्ता धातवः (३.१.३२) ]
पणाय + क्त → पणाय + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ पणाय + इ त [ धातुः अनेकाच्, आर्धधातुकस्येड्वलादेः (७.२.३५) त → इत ]
→ पणाय् + इ त [ अतो लोपः (६.४.४८) अ → लोपः ]
→ पणायित
पण् + क्त [ आयादय आर्धधातुके वा (३.१.३१) - स्तुतौ वैकल्पिकः , व्यवहारार्थे आय-प्रत्ययः न स्यात् ]
→ पण् + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ पण् + इ त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त ]
→ पणित
धातुः क्षिणुँ। (तनादिः, हिंसायाम्) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
क्षिणुँ + क्त → क्षिण् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ क्षिण् + त [ उदितो वा (७.२.५६) क्त्वा-प्रत्ययस्य इट् विकल्पः,
यस्य विभाषा (७.२.१५) - निष्ठायाम् इटः निषेधः ]
→ क्षि + त [ अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इ → ई ,
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) - ण् → लोपः ]
→ क्षित
अन्ये धातवः ऋणुँ। (तनादिः, गतौ), क्षणुँ। (तनादिः, हिंसायाम्), घृणुँ। (तनादिः, दीप्तौ), घृणिँ (भ्वादिः, ग्रहणे), तृणुँ। (तनादिः, अदने) |
धातुः - वृतुँ (भ्वादिः, वर्तने) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
वृतुँ + क्त → वृत् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ वृत् + त [ उदितो वा (७.२.५६) क्त्वा-प्रत्ययस्य इट् विकल्पः,
यस्य विभाषा (७.२.१५) - निष्ठायाम् इटः निषेधः ]
→ वृत्त
अन्ये धातवः नृतीँ (दिवादिः, गात्रविक्षेपे), मथिँ (भ्वादिः, हिंसासङ्क्लेशनयोः), मथेँ (भ्वादिः, विलोडने) मन्थँ (क्र्यादिः, विलोडने), कुथँ (दिवादिः, पूतीभावे), कुथिँ (भ्वादिः, हिंसासङ्क्लेशनयोः) |
धातुः - वदँ (भ्वादिः, व्यक्तायां वाचि) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
वदँ + क्त → वद् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ व् अ द् + इ त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त ]
→ उ अ द् + इत [ वचिस्वपियजादीनां किति (६.१.१५) व् → उ ]
→ उ द् + इत [ सम्प्रसारणाच्च (६.१.१०८) उ अ → उ ]
→ उदित
धातुः - विद्ऌँ। (तुदादिः, लाभे) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
विद्ऌँ + क्त → विद् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ विद् + त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त ,
विभाषा गमहनविदविशाम् (७.२.६८) - इड्विकल्पः
यस्य विभाषा (७.२.१५) - निष्ठायाम् इटः निषेधः ]
→ विन् + न् [ रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) द् → न् त् → न्]
→ विन्न
→ वित्त [ वित्तो भोगप्रत्यययोः (८.२.५८) ]
धातुः - विदँ (अदादिः, ज्ञाने) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
विदँ + क्त → विद् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ विद् + इ त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त ]
→ विदित
→ वित्त [ वित्तो भोगप्रत्यययोः (८.२.५८) ]
धातुः - विदँ (रुधादिः, विचारणे) [ अनिट् - अवशिष्टः स्वरः अनुदात्तः ]
विदँ + क्त → विद् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ विन् + न् [ नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् (८.२.५६) द् → न् त् → न् ]
→ वित् + त [ खरि च (८.४.५५) द् → त् ]
→ विन्न / वित्त
धातुः - मदीँ (दिवादिः, हर्षे) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
मदीँ + क्त → मद् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ मद् + त [ आर्धधातुकस्येड्वलादेः (७.२.३५) त → इत,
श्वीदितो निष्ठायाम् (७.२.१४) - इड् निषिद्धः ]
→ मद् + त [ रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) द् → न् त् → न् ,
न ध्याख्यापॄमूर्च्छिमदाम् (८.२.५७) नत्वं निषिद्धम् ]
→ मत् + त [ खरि च (८.४.५५) द् → त् ]
→ मत्त
धातुः - णुदँ (तुदादिः, प्रेरणे) [ अनिट् - अवशिष्टः स्वरः अनुदात्तः ]
णुदँ → णुद् [ उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९) ]
→ नुद् [ णो नः (६.१.६४) ]
नुद् + क्त → नुद् + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ नुन् + न [ नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् (८.२.५६) द् → न् त् → न् ]
→ नुत् + त [ खरि च (८.४.५५) द् → त् ]
→ नुन्न / नुत्त
धातुः - भिदिँ।र् (रुधादिः, विदारणे) [ अनिट् - अवशिष्टः स्वरः अनुदात्तः ]
भिदिँर् + क्त → भिद् + त [ इर इत्संज्ञा वाच्या (वा), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ भिन् + न् [ रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) द् → न् त् → न् ]
→ भिन्न
→ भित्त [ भित्तं शकलम् (८.२.५९) ]
धातुः - ञिष्विदाँ (भ्वादिः, अव्यक्ते शब्दे) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
ञिष्विदाँ → ष्विद् [ उपदेशेऽजनुनासिक इत् (१.३.२), आदिर्ञिटुडवः (१.३.५), तस्य लोपः (१.३.९) ]
→ स्विद् [ धात्वादेः षः सः (६.१.६३) ]
स्विद् + क्त → स्विद् + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ स्विद् + त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त , आदितश्च (७.२.१६) - इड् निषिद्धः ]
→ स्विन् + न् [ रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) द् → न् त् → न्]
→ स्विन्न
→ स्विद् + इ त [ विभाषा भावादिकर्मणोः (७.२.१७) त → इ त ]
→ स्वेद् + इ त [ निष्ठा शीङ्-स्विदि-मिदि-क्ष्विदि-धृषः(१.२.१९) - अकित्त्वम्,
पुगन्तलघूपधस्य च (७.३.८६) इ → ए ]
→ स्वेदित / स्विन्न
धातुः - क्लिदूँ (दिवादिः, आर्द्रीभावे) [ वेट् - अयं धातुः ऊदितः - स्वरतिसूतिसूयतिधूञ्-ऊदितो वा (७.२.४४) ]
क्लिदूँ + क्त → क्लिद् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ क्लिद् + त [ यस्य विभाषा (७.२.१४) - इड् निषिद्धः ]
→ क्लिन् + न् [ रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) द् → न् त् → न्]
→ क्लिन्न
अन्ये धातवः - ञिष्विदाँ (भ्वादिः, स्नेहमोचनयोः), ष्विदाँ (दिवादिः, गात्रप्रक्षरणे), ञिमिदाँ (भ्वादिः, स्नेहने), ञिमिदाँ (दिवादिः, स्नेहने), ञिक्ष्विदाँ (दिवादिः, स्नेहमोचनयोः), पदँ (दिवादिः, गतौ), छिदिँ।र् (रुधादिः, द्वैधीकरणे), खिदँ (दिवादिः, दैन्ये), खिदँ (तुदादिः, परिधाते), खिदँ (रुधादिः, दैन्ये) |
धातुः व्यधँ (दिवादिः, ताडने) [ अनिट् - अवशिष्टः स्वरः अनुदात्तः ]
व्यध् + क्त → व्यध् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ व् य् अ ध् + त [ धातुः अनिट्, इडागमः न ]
→ व् इ अ ध् + त [ ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (६.१.१६),
न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) य् → इ ]
→ व् इ ध् + त [ सम्प्रसारणाच्च (६.१.१०८) इ अ → इ ]
→ वि ध् + ध [ झषस्तथोर्धोऽधः (८.२.४०) त् → ध् ]
→ वि द् + ध [ झलां जश् झशि (८.४.५३) ध् → द् ]
→ विद्ध
धातुः बुधँ (भ्वादिः, अवगमने) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
बुधँ + क्त → बुध् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ ब् उ ध् + इ त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त ]
→ ब् ओ ध् + इ त [ उदुपधाद्भावादिकर्मणोरन्यतरस्याम् (१.२.२१), शब्विकरणेभ्य एवेष्यते (वा),
पुगन्तलघूपधस्य च (७.३.८६) उ → ओ ]
→ बुधित / बोधित
धातुः - वृधुँ (भ्वादिः, वृद्धौ) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
वृधुँ + क्त → वृध् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ वृध् + त [ उदितो वा (७.२.५६) क्त्वा-प्रत्ययस्य इट् विकल्पः,
यस्य विभाषा (७.२.१५) - निष्ठायाम् इटः निषेधः ]
→ वृ ध् + ध [ झषस्तथोर्धोऽधः (८.२.४०) त् → ध् ]
→ वृ द् + ध [ झलां जश् झशि (८.४.५३) ध् → द् ]
→ वृद्ध
धातुः - क्षुधँ (दिवादिः, बुभुक्षायाम्) [ अनिट् - एकाचः, अवशिष्टः स्वरः अनुदात्तः च ]
क्षुधँ + क्त → क्षुध् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ क्षुध् + इ त [ एकाच उपदेशेऽनुदात्तात् (७.२.१०) - इडागमः न स्यात् ,
वसतिक्षुधोरिट् (७.२.५२) - त → इ त ]
→ क्षुधित
अन्ये धातवः - बन्धँ (क्र्यादिः, बन्धने), क्रुधँ (दिवादिः, क्रोधे), बुधँ (दिवादिः, अवगमने), बुधिँ।र् (भ्वादिः, बोधने) |
धातुः - कनीँ (भ्वादिः, दीप्तिकान्तिगतिषु) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
कनीँ + क्त → कन् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ क् अ न् + त [ आर्धधातुकस्येड्वलादेः (७.२.३५) त → इत,
श्वीदितो निष्ठायाम् (७.२.१४) - इड् निषिद्धः ]
→ क् आ न् + त [ अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) अ → आ ]
→ कान्त
धातुः - हनँ (अदादिः, हिंसागत्योः) [ अनिट् - अवशिष्टः स्वरः अनुदात्तः ]
हनँ + क्त → हन् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ ह + त [ अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) अ → आ ,
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) - नकारलोपः ]
→ हत
धातुः - मनँ (दिवादिः, ज्ञाने) [ अनिट् - अवशिष्टः स्वरः अनुदात्तः ] [ अनिट् - अवशिष्टः स्वरः अनुदात्तः ]
मनँ + क्त → मन् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ म + त [ अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) अ → आ ,
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) - नकारलोपः ]
→ मत
धातुः - तनुँ। (तनादिः, विस्तारे) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
तनुँ + क्त → तन् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ तन् + त [ उदितो वा (७.२.५६) क्त्वा-प्रत्ययस्य इट् विकल्पः,
यस्य विभाषा (७.२.१५) - निष्ठायाम् इटः निषेधः ]
→ त + त [ अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) अ → आ ,
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) - नकारलोपः ] → तत
धातुः - मनुँ (तनादिः, अवबोधने) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
मनुँ + क्त → मन् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ मन् + त [ उदितो वा (७.२.५६) क्त्वा-प्रत्ययस्य इट् विकल्पः,
यस्य विभाषा (७.२.१५) - निष्ठायाम् इटः निषेधः ]
→ म + त [ अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) अ → आ ,
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) - नकारलोपः ] → मत / मनित
धातुः - वनुँ (तनादिः, याचने) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
वनुँ + क्त → वन् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ वन् + त [ उदितो वा (७.२.५६) क्त्वा-प्रत्ययस्य इट् विकल्पः,
यस्य विभाषा (७.२.१५) - निष्ठायाम् इटः निषेधः ]
→ व + त [ अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) अ → आ ,
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) - नकारलोपः ] → वत
धातुः - वनँ (भ्वादिः, सम्भक्तौ) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
वनँ + क्त → वन् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ वन् + इ त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त ]
→ वनित
धातुः - जनीँ (दिवादिः, प्रादुर्भावे) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
जनीँ + क्त → जन् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ ज् अ न् + त [ आर्धधातुकस्येड्वलादेः (७.२.३५) त → इत,
श्वीदितो निष्ठायाम् (७.२.१४) - इड् निषिद्धः ]
→ ज् अ आ + त [ अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) अ → आ ,
जनसनखनां सञ्झलोः (६.४.४२) न् → आ ]
→ ज् आ + त [ अकः सवर्णे दीर्घः (६.१.९९) अ + आ → आ ]
→ जात
धातुः - खनुँ। (भ्वादिः, अवदारणे) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
खनुँ + क्त → खन् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ ख् अ न् + त [ उदितो वा (७.२.५६) क्त्वा-प्रत्ययस्य इट् विकल्पः,
यस्य विभाषा (७.२.१५) - निष्ठायाम् इटः निषेधः ]
→ ख् अ आ + त [ अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) अ → आ ,
जनसनखनां सञ्झलोः (६.४.४२) न् → आ ]
→ ख् आ + त [ अकः सवर्णे दीर्घः (६.१.९९) अ + आ → आ ]
→ खात
धातुः - षणुँ। (तनादिः, दाने) [ सेट् - अवशिष्टः स्वरः उदात्तः ] षनुँ — सन्
षणुँ → षण् [ उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९) ]
→ सन् [ धात्वादेः षः सः (६.१.६३) ]
सन् + क्त → सन् + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ स् अ न् + त [ उदितो वा (७.२.५६) क्त्वा-प्रत्ययस्य इट् विकल्पः,
यस्य विभाषा (७.२.१५) - निष्ठायाम् इटः निषेधः ]
→ स् अ आ + त [ अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) अ → आ ,
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) - नकारलोपः
जनसनखनां सञ्झलोः (६.४.४२) न् → आ ]
→ स् आ + त [ अकः सवर्णे दीर्घः (६.१.९९) अ + आ → आ ]
→ सात
धातुः - पनँ (भ्वादिः, स्तुतौ) [ सेट् - अवसिष्टः स्वरः उदात्तः ]
पनँ → पन् [ उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९) ]
पन् → पन् + आय [ गुपूधूपविच्छिपणिपनिभ्य आयः (३.१.२८) ]
→ पनाय [ सनाद्यन्ता धातवः (३.१.३२) ]
पनाय + क्त → पनाय + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ पनाय + इ त [ धातुः अनेकाच्, आर्धधातुकस्येड्वलादेः (७.२.३५) त → इत ]
→ पनाय् + इ त [ अतो लोपः (६.४.४८) अ → लोपः ]
→ पनायित
पन् + क्त [ आयादय आर्धधातुके वा (३.१.३१) - स्तुतौ , व्यवहारार्थे आय-प्रत्ययः न स्यात् ]
→ पन् + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ पन् + इ त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त ]
→ पनित
धातुः - कपिँ (भ्वादिः, चलने) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
कपिँ → कप् [ उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९) ]
→ क न् प् [ इदितो नुम् धातोः (६.१.६४) , मिदचोऽन्त्यात्परः (१.१.४७) ]
→ क ं प् [ नश्चापदान्तस्य झलि (८.३.२४) न् → ं ]
→ क म् प् [ अनुस्वारस्य ययि परसवर्णः (८.४.५८) ं → म् ]
→ कम्प्
कम्प् + क्त → कम्प् + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ कम्प् + इ त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त ]
→ कम्पित
→ कप् + इ त
[ अनिदितां नलोपे लङ्गिकम्प्योरुपतापशरीरविकारयोरुपसङ्ख्यानं कर्तव्यम् (वा) - न् → लोपः ]
→ कपित
धातुः - ञिष्वपँ (अदादिः, शये) [ अनिट् - अवशिष्टः स्वरः अनुदात्तः ]
ञिष्वपँ → ष्वप् [ आदिर्ञिटुडवः (१.३.५), उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९) ]
→ स्वप् [ धात्वादेः षः सः (६.१.६३) ]
स्वप् + क्त → स् व् अ प् + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ स् उ अ प् + त [ वचिस्वपियजादीनां किति (६.१.१५) व् → उ ]
→ स् उ प् + त [ सम्प्रसारणाच्च (६.१.१०८) उ अ → उ ]
→ सुप्त
धातुः - डुवपँ। (भ्वादिः, बीजसन्ताने) [ अनिट् - अवशिष्टः स्वरः अनुदात्तः ]
डुवपँ + क्त → वप् + त [ आदिर्ञिटुडवः (१.३.५), उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ उ अ प् + त [ वचिस्वपियजादीनां किति (६.१.१५) व् → उ ]
→ उ प् + त [ सम्प्रसारणाच्च (६.१.१०८) उ अ → उ ]
→ उप्त
धातुः - कृपूँ। (भ्वादिः, सामर्थ्ये) [ वेट् - अयं धातुः ऊदित् - स्वरतिसूतिसूयतिधूञ्-ऊदितो वा (७.२.४४) ]
कृपूँ + क्त → कृप् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ क् ऋ प् + त [ धातुः वेट्, प्रत्ययः सेट् , आहत्य इड्विकल्पः,
परन्तु वेटः निष्ठा-प्रत्ययस्य इड् निषिद्धः - यस्य विभाषा (७.२.१५) ]
→ क् ऌ प् + त [ कृपो रो लः (८.२.१८) ऋ → ऌ ]
→ क्ऌप्त
धातुः - गुपूँ (भ्वादिः, रक्षणे) [ वेट् - अयं धातुः ऊदित् - स्वरतिसूतिसूयतिधूञ्-ऊदितो वा (७.२.४४) ]
गुपूँ → गुप् [ उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९) ]
गुप् + आय [ गुपूधूपविच्छिपणिपनिभ्य आयः (३.१.२८) ]
→ गोप् + आय [ पुगन्तलघूपधस्य च (७.३.८६) उ → ओ ]
→ गोपाय [ सनाद्यन्ता धातवः (३.१.३२) ]
गोपाय + क्त → गोपाय + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ गोपाय + इ त [ धातुः अनेकाच्, आर्धधातुकस्येड्वलादेः (७.२.३५) त → इत ]
→ गोपाय् + इ त [ अतो लोपः (६.४.४८) अ → लोपः ]
→ गोपायित
गुप् + क्त [ गुपूधूपविच्छिपणिपनिभ्य आयः (३.१.२८) , आयादय आर्धधातुके वा (३.१.३१) ]
→ गुप् + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ गुप् + त [ धातुः वेट्, प्रत्ययः सेट् , आहत्य इड्विकल्पः,
परन्तु वेटः निष्ठा प्रत्ययस्य इड् निषिद्धः - यस्य विभाषा (७.२.१५) ]
→ गुप्त
अन्ये धातवः - आप्ऌँ (भ्वादिः, व्याप्तौ) , क्षिपँ। (तुदादिः, प्रेरणे), तिपृँ (भ्वादिः, क्षरणे), लिपँ। (तुदादिः, उपदेहे), तुम्पँ (भ्वादिः, हिंसायाम्), तुम्फँ (भ्वादिः, हिंसायाम्), लबिँ (भ्वादिः, अवस्रंसने शब्दे च) |
धातुः लुभँ (दिवादिः, गार्ध्ये) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
लुभँ + क्त → लुभ् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ लुभ् + त [ तीषसहलुभरुषरिषः (७.२.४८) - इड्विकल्पः ,
यस्य विभाषा (७.२.१५) - निष्ठायाम् इटः निषेधः]
→ लु भ् + ध [ झषस्तथोर्धोऽधः (८.२.४०) त् → ध् ]
→ लु ब् + ध [ झलां जश् झशि (८.४.५३) भ् → ब् ]
→ लुब्ध
धातुः लुभँ (तुदादिः, विमोहने) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
लुभँ + क्त → लुभ् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ लुभ् + इ त [ तीषसहलुभरुषरिषः (७.२.४८) - इड्विकल्पः ,
यस्य विभाषा (७.२.१५) - निष्ठायाम् इटः निषेधः
लुभो विमोहने (७.२.५४) - इडागमः ]
→ लुभित [ उदुपधाद्भावादिकर्मणोरन्यतरस्याम् (१.२.२१), शब्विकरणेभ्य एवेष्यते (वा) उ → ओ x]
धातुः क्षुभँ (भ्वादिः, सञ्चलने) [ सेट् - अवशिष्टः स्वरः उदात्तः]
क्षुभँ + क्त → क्षुभ् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ क्षुभ् + इ त [ आर्धधातुकस्येड्वलादेः (७.२.३५) - त → इत ]
→ क्षोभ् / क्षुभ् + इ त [ उदुपधाद्भावादिकर्मणोरन्यतरस्याम् (१.२.२१), शब्विकरणेभ्य एवेष्यते (वा),
पुगन्तलघूपधस्य च (७.३.८६) उ → ओ ]
→ क्षोभित / क्षुभित
→ क्षुभ् + त
[ क्षुब्धस्वान्तध्वान्त-लग्न-म्लिष्ट-विरिब्ध-फाण्ट-बाढानि मन्थमनस्तमः-सक्त-अविस्पष्ट-स्वर-अनायास-भृशेषु (७.२.१८)
निपातनम् - इडागमस्य अभावः, नित्यम् , मन्थे अर्थे ]
→ क्षुब्ध
अन्ये धातवः - शुभँ (भ्वादिः, दीप्तौ), रभँ (भ्वादिः, राभस्ये), डुलभँष् (भ्वादिः, प्राप्तौ), क्षुभँ (दिवादिः, सञ्चलने) |
धातुः - कमुँ (भ्वादिः, कान्तौ) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
कमुँ + क्त → कम् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ क् अ म् + त [ उदितो वा (७.२.५६) क्त्वा-प्रत्ययस्य इट् विकल्पः,
यस्य विभाषा (७.२.१५) - निष्ठायाम् इटः निषेधः ]
→ क् आ म् + त [ अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) अ → आ ]
→ क् आ ं + त [ नश्चापदान्तस्य झलि (८.३.२४) म् → ं ]
→ क् आ न् + त [ अनुस्वारस्य ययि परसवर्णः (८.४.५८) ं → न ]
→ कान्त
धातुः - गम्ऌँ (भ्वादिः, गतौ) [ अनिट् - अवशिष्टः स्वरः अनुदात्तः]
गम्ऌँ + क्त → गम् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ ग + त [ अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) अ → आ ,
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) - म् → लोपः ]
→ गत
अन्ये धातवः - णमँ (भ्वादिः, प्रह्वत्वे शब्दे च), यमँ (भ्वादिः, उपरमे), रमुँ (भ्वादिः, क्रीडायाम्), भ्रमुँ (भ्वादिः, चलने), भ्रमुँ (दिवादिः, अनवस्थाने), क्षमूँ (दिवादिः, सहने), क्रमुँ (भ्वादिः, पादविक्षेपे), शमुँ (दिवादिः, उपशमे) |
धातुः षिवुँ (दिवादिः, तन्तुसन्ताने) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
षिवुँ → षिव् [ उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९) ]
→ सिव् [ धात्वादेः षः सः (६.१.६३) ष् → स् ]
सिव् + क्त → सिव् + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ स् इ व् + त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त ,
उदितो वा (७.२.५६) क्त्वा-प्रत्ययस्य इट् विकल्पः,
यस्य विभाषा (७.२.१५) - निष्ठायाम् इटः निषेधः ]
→ स् इ ऊ + त [ च्छ्वोः शूडनुनासिके च (६.४.१९) व् → ऊ ]
→ स् य् ऊ + त [ इको यणचि (६.१.७६) इ → य् ]
→ स्यूत
धातुः धावुँ (भ्वादिः, गतिशुद्धयोः) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
धावुँ + क्त → धाव् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ ध् आ व् + त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त ,
उदितो वा (७.२.५६) क्त्वा-प्रत्ययस्य इट् विकल्पः,
यस्य विभाषा (७.२.१५) - निष्ठायाम् इटः निषेधः ]
→ ध् आ ऊ + त [ च्छ्वोः शूडनुनासिके च (६.४.१९) व् → ऊ ]
→ ध औ + त [ आद्गुणः (६.१.८६) आ ऊ → ओ , एत्येधत्यूठ्सु (६.१.८८) आ ऊ → औ ]
→ धौत
धातुः ञित्वराँ (भ्वादिः, सम्भ्रमे) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
ञित्वराँ + क्त → त्वर् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), आदिर्ञिटुडवः (१.३.५), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ त् व् अ र् + त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त , आदितश्च (७.२.१६) - इड् निषिद्धः ,
रुष्यमत्वरसंघुषास्वनाम् (७.२.२८) - इड्-निषेधः वैकल्पिकः ]
यस्मिन् पक्षे इड् निषिद्धः -
→ त् ऊ र् + त [ ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) - व् अ → ऊ ]
→ तूर् + न [ रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) त् → न् ]
→ तूर् + ण [ रषाभ्यां नो णः समानपदे (८.४.१) न् → ण् ]
→ तूर्ण
यस्मिन् पक्षे इड् निषिद्धः न -
→ त्वर् + इ त
→ त्वरित
भावे आदिकर्मणि च -
→ त्वर् + इ त [ विभाषा भावादिकर्मणोः (७.२.१७) - भावे आदिकर्मणि च आदितः धातोः इड् विकल्पः ]
→ त्वरित
धातुः स्रिवुँ (दिवादिः, गतिशोषणयोः) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
स्रिवुँ + क्त → स्रिव् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ स् र् इ व् + त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त ,
उदितो वा (७.२.५६) क्त्वा-प्रत्ययस्य इट् विकल्पः,
यस्य विभाषा (७.२.१५) - निष्ठायाम् इटः निषेधः ]
→ स् र् ऊ + त [ च्छ्वोः शूडनुनासिके च (६.४.१९) व् → ऊ,
ज्वरत्वरस्रिवि-अविमवामुपधायाश्च (६.४.२०) - इ व् → ऊ ]
→ स्रूत
धातुः दिवुँ (दिवादिः, विजिगीषायाम्) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
दिवुँ + क्त → दिव् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ द् इ व् + त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त ,
उदितो वा (७.२.५६) क्त्वा-प्रत्ययस्य इट् विकल्पः,
यस्य विभाषा (७.२.१५) - निष्ठायाम् इटः निषेधः ]
→ द् इ ऊ + त [ च्छ्वोः शूडनुनासिके च (६.४.१९) व् → ऊ ]
→ द् य् ऊ + त [ इको यणचि (६.१.७६) इ → य् ]
→ द्यूत
दिवुँ (दिवादिः, क्रीडाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु)
→ द् य् ऊ + न [ दिवोऽविजिगीषायाम् (८.२.४९) त् → न् ]
→ द्यून
अन्ये धातवः ज्वरँ (भ्वादिः, रोगे), मवँ (भ्वादिः, बन्धने), अवँ (भ्वादिः, रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु) |
धातुः गुर्वीँ (भ्वादिः, उद्यमने) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
गुर्वीँ → ग् उ र् व् [ उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९) ]
→ ग् ऊ र् व् [ उपधायां च (८.२.७८) - उ → ऊ ]
→ गूर्व्
गूर्व् + क्त → गूर्व् + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ ग् ऊ र् व् + त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त ,
श्वीदितो निष्ठायाम् (७.२.१४) - इड् निषिद्धः ]
→ ग् ऊ र् + त [ राल्लोपः (६.४.२१) - र् व् → र् ]
→ गूर् + न [ रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) त् → न् ]
→ गूर् + ण [ रषाभ्यां नो णः समानपदे (८.४.१) न् → ण् ]
→ गूर्ण
धातुः वशँ (अदादिः, कान्तौ) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
वशँ + क्त → वश् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ व् अ श् + इ त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त ]
→ उ अ श् + इत [ ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (६.१.१६) व् → उ ]
→ उ श् + इत [ सम्प्रसारणाच्च (६.१.१०८) उ अ → उ ]
→ उशित
धातुः णशँ (दिवादिः, अदर्शने) [ वेट् - रधादिभ्यश्च (७.२.४५) ]
णशँ → णश् [ उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९) ]
→ नश् [ णो नः (६.१.६४) - ण् → न् ]
नश् + क्त → नश् + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ नश् + त [ यस्य विभाषा (७.२.१५) - इड् निषिद्धः ]
→ नष् + त [ व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) - श् → ष्
स्तोः श्चुना श्चुः (८.४.४०) इति असिद्धम् , अतः शात् (८.४.४४) इत्यस्य चिन्तनं न स्यात् ]
→ नष् + ट [ ष्टुना ष्टुः (८.४.४१) , त् → ट् ]
→ नष्ट
धातुः क्लिशूँ (क्र्यादिः, विबाधने) [ वेट् - स्वरतिसूतिसूयतिधूञ्-ऊदितो वा (७.२.४४) ]
क्लिशूँ + क्त → क्लिश् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ क्लिश् + (इ) त [ यस्य विभाषा (७.२.१५) - इड् निषिद्धः ,
क्लिशः क्त्वानिष्ठयोः (७.२.५०) - इड्विकल्पः ]
यस्मिन् पक्षे इडागमः -
→ क्लिश् + इ त
→ क्लिशित
यस्मिन् पक्षे इडागमः न -
→ क्लिश् + त
→ क्लिष् + त [ व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) - श् → ष् ]
→ क्लिष् + ट [ ष्टुना ष्टुः (८.४.४१) , त् → ट् ]
→ क्लिष्ट
अन्ये धातवः क्लिशँ (दिवादिः, उपतापे), दृशिँर् (भ्वादिः, प्रेक्षणे), विशँ (तुदादिः, प्रवेशने), स्पृशँ (तुदादिः, संस्परशने) |
धातुः शुषँ (दिवादिः, शोषणे) [ अनिट् - अवशिष्टः स्वरः अनुदात्तः ]
शुषँ + क्त → शुष् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ शुष् + क [ शुषः कः (८.२.५१) त् → क्
पूर्वत्रासिद्धम् (८.२.१) - शास्त्रासिद्धम् ष्टुना ष्टुः (८.४.४१) , त् → ट् ]
→ शुष्क
धातुः चक्षिँङ् (अदादिः, व्यक्तायां, वाचि) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
चक्षिँङ् + क्त → ख्याञ् + क्त [ चक्षिङः ख्याञ् (२.४.५४), अनिट् - अवशिष्टः स्वरः अनुदात्तः ]
→ ख्या + त [ हलन्त्यम् (१.३.३), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ ख्यात
धातुः त्वक्षूँ (भ्वादिः, तनूकरणे) [ वेट् - अयं धातुः ऊदितः - स्वरतिसूतिसूयतिधूञ्-ऊदितो वा (७.२.४४) ]
त्वक्षूँ + क्त → त्वक्ष् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ त्व क् ष् + त [ धातुः वेट्, प्रत्ययः सेट् , आहत्य इड्विकल्पः,
परन्तु वेटः निष्ठा प्रत्ययस्य इड् निषिद्धः - यस्य विभाषा (७.२.१५) ]
→ त्व ष् + त [ स्कोः संयोगाद्योरन्ते च (८.२.२९) क् ष् → ष् ]
→ त्वष् + ट [ ष्टुना ष्टुः (८.४.४१) , त् → ट् ]
→ त्वष्ट
धातुः कषँ (भ्वादिः, हिंसायाम्) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
कषँ + क्त → कष् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ क ष् + इ त [ आर्धधातुकस्येड्वलादेः (७.२.३५) त → इत ]
→ कषित
→ कष् + त [ कृच्छ्रगहनयोः कषः (७.२.२२) - निष्ठा प्रत्ययः अनिट् , इडागमः न ]
→ कष् + ट [ ष्टुना ष्टुः (८.४.४१) , त् → ट् ]
→ कष्ट
धातुः - ञितृषाँ (दिवादिः, पिपासायाम्) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
ञितृषाँ + क्त → तृष् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), आदिर्ञिटुडवः (१.३.५), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ तृष् + त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त , आदितश्च (७.२.१६) - इड् निषिद्धः ]
→ तृष् + ट [ ष्टुना ष्टुः (८.४.४१) , त् → ट् ]
→ तृष्ट
→ तृष् + इ त [ विभाषा भावादिकर्मणोः (७.२.१७) त → इ त ]
→ तृषित / तृष्ट
धातुः - ञिधृषाँ (स्वादिः, प्रागल्भ्ये) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
ञिधृषाँ + क्त → धृष् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), आदिर्ञिटुडवः (१.३.५), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ धृष् + त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त , आदितश्च (७.२.१६) - इड् निषिद्धः ,
धृषिशसी वैयात्ये (७.२.१९) - अयम् अनिट् ]
→ धृष् + ट [ ष्टुना ष्टुः (८.४.४१) , त् → ट् ]
→ धृष्ट
→ ध् ऋ ष् + इ त [ विभाषा भावादिकर्मणोः (७.२.१७) त → इ त ]
→ ध् अ ष् + इ त [ निष्ठा शीङ्-स्विदि-मिदि-क्ष्विदि-धृषः(१.२.१९) - अकित्त्वम्,
पुगन्तलघूपधस्य च (७.३.८६) ऋ → अ ]
→ ध् अर् ष् + इ त [ उरण् रपरः (१.१.५१) अ → अर् ]
→ धर्षित / धृष्ट
अन्ये धातवः तुषँ (दिवादिः, प्रीतौ) , जुषीँ (तुदादिः, प्रीतिसेवनयोः), दुषँ (दिवादिः, वैकृत्ये), पिष्ऌँ (रुधादिः, सञ्चूर्णने हिंसायाम्), श्लिषँ (दिवादिः, आलिङ्गने) , श्लिषुँ (भ्वादिः, दाहे), पुषँ (भ्वादिः, पुष्टौ), पुषँ (दिवादिः, पुष्टौ), पुषँ (क्र्यादिः, पुष्टौ) |
धातुः - वसँ (भ्वादिः, निवासे) [ अनिट् - एकाचः, अवशिष्टः स्वरः अनुदात्तः च ]
वसँ + क्त → वस् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ व् अ स् + इ त [ एकाच उपदेशेऽनुदात्तात् (७.२.१०) - इडागमः न स्यात् ,
वसतिक्षुधोरिट् (७.२.५२) - त → इ त ]
→ उ अ स् + इ त [ वचिस्वपियजादीनां किति (६.१.१५) - व् → उ ]
→ उ स् + इ त [ सम्प्रसारणाच्च (६.१.१०८) उ अ → उ ]
→ उ ष् + इ त [ शासिवसिघसीनाञ्च (८.३.६०) स् → ष् ]
→ उषित
धातुः - शासुँ (अदादिः, अनुशिष्टौ) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
शासुँ + क्त → शास् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ श आ स् + त [ उदितो वा (७.२.५६) क्त्वा-प्रत्ययस्य इट् विकल्पः,
यस्य विभाषा (७.२.१५) - निष्ठायाम् इटः निषेधः ]
→ श् इ स् + त [ शास इदङ्हलोः (६.४.३४) आ → इ ]
→ शि ष् + त [ शासिवसिघसीनाञ्च (८.३.६०) स् → ष् ]
→ शि ष् + ट [ ष्टुना ष्टुः (८.४.४१) त् → ट् ]
→ शिष्ट
धातुः - असँ (अदादिः, भुवि) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
असँ + क्त → अस् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ भू + त [ अस्तेर्भूः (२.४.५२) अस् → भू ]
→ भू + त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त ,
श्र्युकः किति (७.२.११) - निष्ठायाम् इटः निषेधः ]
→ भूत
धातुः - असुँ (दिवादिः, क्षेपणे) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
असुँ + क्त → अस् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ अस् + (इ) त [ उदितो वा (७.२.५६) क्त्वा-प्रत्ययस्य इट् विकल्पः,
यस्य विभाषा (७.२.१५) - निष्ठायाम् इटः निषेधः
सौनागाः अस्यतेर्भावे निष्ठायां विकल्पेन इटमिच्छन्ति (वा) ]
→ असित / अस्त
धातुः - शसुँ (भ्वादिः, हिंसायाम्) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
शसुँ + क्त → शस् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ शस् + त [ उदितो वा (७.२.५६) क्त्वा-प्रत्ययस्य इट् विकल्पः,
यस्य विभाषा (७.२.१५) - निष्ठायाम् इटः निषेधः
धृषिशसी वैयात्ये (७.२.१९) - अयम् अनिट् वैयात्ये एव , अन्यथा इट् ]
→ शसित / शस्त
धातुः - ग्रहँ। (क्र्यादिः, उपादाने) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
ग्रहँ + क्त → ग्रह् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ ग् र् अ ह् + इ त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त ]
→ ग् र् अ ह् + ई त [ ग्रहोऽलिटि दीर्घः (७.२.३७) - इ → ई ]
→ ग् ऋ अ ह् + ई त [ ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (६.१.१६) र् → ऋ ]
→ ग् ऋ ह् + ई त [ सम्प्रसारणाच्च (६.१.१०८) ऋ अ → ऋ ]
→ गृहीत
धातुः - वहँ। (भ्वादिः, प्रापणे) [ अनिट् - अवशिष्टः स्वरः अनुदात्तः ]
वहँ + क्त → व् अ ह् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ उ अ ह् + त [ वचिस्वपियजादीनां किति (६.१.१५) व् → उ ]
→ उ ह् + त [ सम्प्रसारणाच्च (६.१.१०८) उ अ → उ ]
→ उढ् + त [ पूर्वत्रासिद्धम् (८.२.१) - शास्त्रासिद्धम् - झलां जश् झशि (८.४.५३) ढ् → ड् ,
हो ढः (८.२.३१) ह् → ढ् ]
→ उढ् + ध [ झषस्तथोर्धोऽधः (८.२.४०) त् → ध् ]
→ उढ् + ढ [ पूर्वत्रासिद्धम् (८.२.१) - शास्त्रासिद्धम् - झलां जश् झशि (८.४.५३) ढ् → ड् ,
ष्टुना ष्टुः (८.४.४१) ध् → ढ् ]
→ उ + ढ [ पूर्वत्रासिद्धम् (८.२.१) - आश्रयात्सिद्धत्वम् - ढो ढे लोपः (८.३.१३) ढ् ढ् → ढ् ]
→ ऊ + ढ [ पूर्वत्रासिद्धम् (८.२.१) - आश्रयात्सिद्धत्वम् - ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) उ → ऊ ]
→ ऊढ
धातुः - षहँ (भ्वादिः, मर्षणे) [ सेट् - अवशिष्टः स्वरः उदात्तः ]
षहँ → षह् [ उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९) ]
→ सह् [ धात्वादेः षः सः (६.१.६३) ष् → स् ]
सह् + क्त → सह् + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ सह् + त [ तीषसहलुभरुषरिषः (७.२.४८) - इड्विकल्पः, यस्य विभाषा (७.२.१५) - इड् निषिद्धः ]
→ सढ् + त [ पूर्वत्रासिद्धम् (८.२.१) - शास्त्रासिद्धम् - झलां जश् झशि (८.४.५३) ढ् → ड् ,
हो ढः (८.२.३१) ह् → ढ् ]
→ सढ् + ध [ झषस्तथोर्धोऽधः (८.२.४०) त् → ध् ]
→ सढ् + ढ [ पूर्वत्रासिद्धम् (८.२.१) - शास्त्रासिद्धम् - झलां जश् झशि (८.४.५३) ढ् → ड् ,
ष्टुना ष्टुः (८.४.४१) ध् → ढ् ]
→ स + ढ [ पूर्वत्रासिद्धम् (८.२.१) - आश्रयात्सिद्धत्वम् - ढो ढे लोपः (८.३.१३) ढ् ढ् → ढ् ]
→ स् ओ + ढ [ ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) अ →आ, सहिवहोरोदवर्णस्य (६.३.११२) अ → ओ ]
→ सोढ
धातुः - णहँ। (दिवादिः, बन्धने) [ अनिट् - अवशिष्टः स्वरः अनुदात्तः ]
णहँ → णह् [ उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९) ]
→ नह् [ णो नः (६.१.६४) ण् → न् ]
नह् + क्त → नह् + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ नध् + त [ हो ढः (८.२.३१) ह् → ढ् , नहो धः (८.२.३४) ह् → ध् ]
→ नध् + ध [ झषस्तथोर्धोऽधः (८.२.४०) त् → ध् ]
→ नद् + ध [ झलां जश् झशि (८.४.५३) ध् → द् ]
→ नद्ध
धातुः - दहँ (भ्वादिः, भस्मीकरणे) [ अनिट् - अवशिष्टः स्वरः अनुदात्तः ]
दहँ + क्त → दह् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ दघ् + त [ हो ढः (८.२.३१) ह् → ढ् , दादेर्धातोर्घः (८.२.३२) ह् → घ् ]
→ दघ् + ध [ झषस्तथोर्धोऽधः (८.२.४०) त् → ध् ]
→ दग् + ध [ झलां जश् झशि (८.४.५३) घ् → ग् ]
→ दग्ध
धातुः - द्रुहँ (दिवादिः, जिघांसायाम्) [ वेट् - रधादिभ्यश्च (७.२.४५) ]
द्रुहँ + क्त → द्रुह् + त [ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ द्रुह् + त [ धातुः वेट्, प्रत्ययः सेट् , आहत्य इड्विकल्पः,
परन्तु वेटः निष्ठा प्रत्ययस्य इड् निषिद्धः - यस्य विभाषा (७.२.१५) ]
यस्मिन् पक्षे हकारस्य स्थाने घत्वम्
→ द्रुघ् + त [ दादेर्धातोर्घः (८.२.३२) ह् → घ् , वा द्रुहमुहष्णुहष्णिहाम् (८.२.३३) ह् → घ् ]
→ द्रुघ् + ध [ झषस्तथोर्धोऽधः (८.२.४०) त् → ध् ]
→ द्रुग् + ध [ झलां जश् झशि (८.४.५३) घ् → ग् ]
→ द्रुग्ध
यस्मिन् पक्षे हकारस्य स्थाने घत्वं न
→ द्रुढ् + त [ हो ढः (८.२.३१) ह् → ढ् ]
→ द्रुढ् + ध [ झषस्तथोर्धोऽधः (८.२.४०) त् → ध् ]
→ द्रुढ् + ढ [ पूर्वत्रासिद्धम् (८.२.१) - शास्त्रासिद्धम् - झलां जश् झशि (८.४.५३) ढ् → ड् ,
ष्टुना ष्टुः (८.४.४१) ध् → ढ् ]
→ द्र् उ + ढ [ पूर्वत्रासिद्धम् (८.२.१) - आश्रयात्सिद्धत्वम् - ढो ढे लोपः (८.३.१३) ढ् ढ् → ढ् ]
→ द्र् ऊ + ढ [ पूर्वत्रासिद्धम् (८.२.१) - आश्रयात्सिद्धत्वम् - ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) उ → ऊ ]
→ द्रूढ
अन्ये धातवः - रुहँ (भ्वादिः, बीजजन्मनि प्रादुर्भावे च), लिहँ। (अदादिः, आस्वादने), गुह्ऊँ (भ्वादिः, संवरणे = आवृणोति), दिहँ। (अदादिः, उपचये), दुहँ। (अदादिः, प्रपूरणे), दुहिँर् (भ्वादिः, अर्दने) |
रधाद्यन्तर्गण-धातवः - मुहँ (दिवादिः, वैचित्ये), ष्णिहँ (दिवादिः, प्रीतौ), ष्णुहँ (दिवादिः, उद्गिरणे) |
इ. चुरादिगण-धातवः
गण (चुरादिः, सङ्ख्याने)
→ गण + णिच् [ सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (३.१.२५) ]
→ गण + इ [ चुटू (१.३.७), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९) ]
→ गण् + इ [ अतो लोपः (६.४.४८) अ → लोपः ]
→ गण् + इ [ अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन अत उपधायाः (७.२.११६) इत्यस्य कार्यं न स्यात् ]
→ गणि [ सनाद्यन्ता धातवः (३.१.३२) ]
गणि + क्त [ अनेकाच्, अतः धातुः सेट् ]
→ गणि + त [ लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) ]
→ गण् इ + इ त [ आर्धधातुकस्येड् वलादेः (७.२.३५) - त → इ त ]
→ गण् + इ त [ निष्ठायां सेटि (६.४.५२) इ (णि) → लोपः ]
→ गणित
अचः परस्मिन् पूर्वविधौ (१.१.५७) = परनिमित्तकः अजादेशः स्थानिवत् भवति, पूर्वविधौ कर्तव्ये | अचः स्थाने यः आदेशः सः अजादेशः | यस्य स्थाने आदेशः विधीयते सः स्थानी | 'अजादेशः स्थानिवत्' नाम यः आदेशः अचः स्थाने विहितः, सः पुनः मूलः अच् इव— 'स्थानिवत्' भवति | पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते | परस्मिन् इति निमित्तसप्तमी | पूर्वविधौ इति विषयसप्तमी | पूर्वस्य विधिः पूर्वविधिः षष्ठीतत्पुरुषः, तस्मिन् पूर्वविधौ | अचः षष्ठ्यन्तं, परस्मिन् सप्तम्यन्तं, पूर्वविधौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यस्मात् स्थानिवत्, आदेशः इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रम्— अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ |
निष्ठायां सेटि (६.४.५२) = निष्ठायां सेटि परे णेः लोपः भवति | इटा सह वर्तते सेट्, तस्मिन् सेटि | निष्ठायां सप्तम्यन्तं , सेटि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | णेरनिटि (६.४.५१) इत्यस्मात् णेः इत्यस्य अनुवृत्तिः , अतो लोपः (६.४.४८) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य णेः लोपः निष्ठायां सेटि |
निष्ठायां सेटि (६.४.५२) = निष्ठायां सेटि परे णेः लोपः भवति | इटा सह वर्तते सेट्, तस्मिन् सेटि | निष्ठायां सप्तम्यन्तं , सेटि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | णेरनिटि (६.४.५१) इत्यस्मात् णेः इत्यस्य अनुवृत्तिः , अतो लोपः (६.४.४८) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य णेः लोपः निष्ठायां सेटि |
अन्ये धातवः रच (चुरादिः, प्रतियत्ने), कथ (चुरादिः, वाक्यप्रबन्धे), चुरँ (चुरादिः, स्तेये), बधँ (चुरादिः, संयमने), वर (चुरादिः, ईप्सायाम्), गृ (चुरादिः, विज्ञाने) |
---------------------------------------------------------------------------------------------------------------------------------
१६. अन्यानि आवश्यकानि सूत्राणि
अनेकाल्शित् सर्वस्य (१.१.५५) = आदेशः अनेकाल् (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः) अथवा शित् चेत्, सर्वस्थानिनः स्थाने भवति, न तु अन्त्यवर्णस्य | यस्य स्थाने आदेशः आदिष्टः, सः स्थानी | इदं सूत्रम् अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः; अनेकः अल् यस्य सः अनेकाल् बहुब्रीहिः; शकारः इत् यस्य सः शित् बहुब्रीहिः; अनेकाल् च शित् च अनेकाल्शित् समाहारद्वन्द्वः | अनेकाल् प्रथमान्तं, शित् प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अनेकाल्शित् सर्वस्य स्थाने |
दाधा घ्वदाप् (१.१.२०) = पदविच्छेदः - दाधाः घु अदाप् | दा-रूप-धातोः, धा-रूप-धातोः च घु-संज्ञा भवति, दाप् दैप् च विहाय | यस्य धातोः स्वरूपं दा धा च, अथवा आदेशेन यस्य धातोः रूपं दा धा च भवति, तस्य धातोः घु-संज्ञा भवति | आहत्य षट् धातवः गृहीताः— डुदाञ्, दाण्, दो, देङ्, डुधाञ्, धेट् च | अनुबन्धलोपानन्तरं चत्वारः दा-धातवः सन्ति, द्वौ धा-धातू स्तः च | दाश्च दाश्च दाश्च दाश्च तेषामेकशेषो दाः, धाश्च धाश्च तयोरितरेतरद्वन्द्वः धौ, दाश्च धौ च तेषामितरेतरद्वन्द्वः दाधाः | न दाप्, अदाप् | दाधाः प्रथमान्तं, घु लुप्तप्रथमाकम्, अदाप् प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— दाधाः घुः अदाप् |
शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् (३.४.६५) = शक्-धृष्-ज्ञा-ग्लै-घट्-रभ्-लभ्-क्रम्-सह्-अह्-अस्त्यर्थकधातुषु उपपदेषु धातुमात्रात् तुमुन्प्रत्ययः स्यात् | अस्तीति अर्थः येषां ते अस्त्यर्थाः, बहुव्रीहिः | शकश्च धृषश्च ज्ञाश्च ग्लाश्च घटश्च रभश्च लभश्च क्रमश्च सहश्च अर्हश्च, अस्त्यर्थाश्च तेषाम् इतरेतरयोगद्वन्द्वः शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थाः , तेषु शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु सप्तम्यन्तम् | सूत्रे कृतस्य अर्थग्रहणस्य सम्बन्धः अस्तिना सह | अतः आदौ बहुव्रीहिसमासः ततः द्वन्द्वसमासः | तुमुन् प्रथमान्तम् | द्विपदमिदं सूत्रम् | प्रत्ययः (३.१.१), परश्च (३.१.२), धातोः (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् प्रत्ययः धातोः परः |
एत्येधत्यूठ्सु (६.१.८८) = पदविच्छेदः - एति-एधति-ऊठ्सु | अवर्णात् एच्-आदि इण्-धातौ, एध्-धातौ, ऊठि च परे पूर्वपरयोः स्थाने वृद्धिसंज्ञकः एकादेशः स्यात् | अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात् | अत्र एच् इति इण्, एध् इत्यनयोः विशेषणम् | एति, एधति सुबन्तरूपाणि इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम् (३.३.१०८ अन्तर्गते) इति वार्त्तिकेन, धातु-निर्देशे श्तिप्-प्रत्ययो भवति | अनेन इ + श्तिप् → एति, एध् + श्तिप् → एधति | एतिश्च, एधतिश्च, ऊठ् च तेषाम् इतरेतरद्वन्द्वः, एत्येधत्यूठः, तेषु एत्येधत्यूठ्सु | एत्येधत्यूठ्सु सप्तम्यन्तम्, एकपदमिदं सूत्रम् | आद्गुणः (६.१.८६) इत्यस्मात् आत् इत्यस्य अनुवृत्तिः | वृद्धिरेचि (६.१.८७) इत्यस्मात् वृद्धिः, एचि इत्यनयोः अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८३), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— आत् एचि एत्येधत्यूठ्सु एकः पूर्वपरयोः वृद्धिः संहितायाम् |
ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) = पदविच्छेदः - ढ्रलोपे पूर्वस्य दीर्घः अणः | ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ् च र् च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन् ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्, अणः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूरणम्— ढ्रलोपे पूर्वस्य अणः दीर्घः |
सहिवहोरोदवर्णस्य (६.३.११२) = पदविच्छेदः - सहिवहोः ओत् अवर्णस्य | ढकारस्य लोपश्चेत्, सह् वह् इति धात्वोः अकारस्य स्थाने ओकारादेशो भवति | सहिश्च वह् च तयोरितरेतरद्वन्द्वः सहिवहौ, तयोः सहिवहोः | सहिवहोः षष्ठ्यन्तम्, ओत् प्रथमान्तम्, अवर्णस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात् ढलोपे इत्यस्य अनुवृत्तिः (रेफस्य कार्यं अत्र न भवति एव अतः रेफः नानीतः) | अनुवृत्ति-सहितसूत्रम्—सहिवहोः अवर्णस्य ओत् ढलोपे |
च्छ्वोः शूडनुनासिके च (६.४.१९) = तुक्-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ् च व् च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श् च ऊठ् च तयोः समाहारद्वन्द्वः शूड् | झलां जशोऽन्ते (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड् प्रथमान्तम्, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात् क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— च्छ्वोः अङ्गस्य शूड् क्विझलोः अनुनासिके च |
ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) = ज्वर्, त्वर्, स्रिव्, अव्, मव् इत्येषां धातूनाम् उपधा च वकारः चेत्यनयोः मिलित्वा स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | ज्वरश्च त्वरश्च स्रिविश्च अविश्च मव् च तेषामितरेतरद्वन्द्वः ज्वरत्वरस्रिव्यविमवः, तेषां ज्वरत्वरस्रिव्यविमवाम् | ज्वरत्वरस्रिव्यविमवाम् षष्ठ्यन्तम्, उपधायाः षष्ठ्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्मात् वः, ऊठ्, अनुनासिके इत्येषाम् अनुवृत्तिः | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात् क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ज्वरत्वरस्रिव्यविमवाम् अङ्गस्य उपधायाः वः च ऊठ् क्विझलोः अनुनासिके च |
राल्लोपः (६.४.२१) = पदविच्छेदः - रात् लोपः | रेफात् परस्य छकारस्य वकारस्य च लोपो भवति क्वि, झलादि-प्रत्ययः, अनुनासिकः च परः अस्ति चेत् | रात् पञ्चम्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्मात् च्छ्वोः इत्यस्य अनुवृत्तिः | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात् अनुनासिकस्य, क्विझलोः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य रात् च्छ्वोः लोपः अनुनासिके क्विझलोः |
शास इदङ्हलोः (६.४.३४) = शास्-धातोः उपधायाः ह्रस्व-इकारादेशो भवति अङ्-प्रत्यये, हलादि किति ङिति च प्रत्यये परे | अङ्-प्रत्ययः लुङ्-लकारे भवति | यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन हलि इत्युक्तौ हलादि-प्रत्यये (तादृशप्रत्ययः यस्य आदौ हल् स्यात्) | क्ङिति विशेषणं, हलि इत्यस्य | अङ् च हल् च अङ्हलौ इतरेतरद्वन्द्वः, तयोः अङ्हलोः | शासः षष्ठ्यन्तम्, इत् प्रथमान्तम्, अङ्हलोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यस्मात् उपधायाः, क्ङिति इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकाराः | अनुवृत्ति-सहितसूत्रम्— शासः अङ्गस्य उपधायाः इत् क्ङिति अङ्हलोः |
शास इदङ्हलोः (६.४.३४) = शास्-धातोः उपधायाः ह्रस्व-इकारादेशो भवति अङ्-प्रत्यये, हलादि किति ङिति च प्रत्यये परे | अङ्-प्रत्ययः लुङ्-लकारे भवति | यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन हलि इत्युक्तौ हलादि-प्रत्यये (तादृशप्रत्ययः यस्य आदौ हल् स्यात्) | क्ङिति विशेषणं, हलि इत्यस्य | अङ् च हल् च अङ्हलौ इतरेतरद्वन्द्वः, तयोः अङ्हलोः | शासः षष्ठ्यन्तम्, इत् प्रथमान्तम्, अङ्हलोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यस्मात् उपधायाः, क्ङिति इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकाराः | अनुवृत्ति-सहितसूत्रम्— शासः अङ्गस्य उपधायाः इत् क्ङिति अङ्हलोः |
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात् इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्, भ्रू प्रातिपदिकम् च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात् इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम् | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्, इयङुवङौ प्रथमान्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— य्वोः श्नुधातुभ्रुवाम् अङ्गानां इयङुवङौ अचि | रुष्यमत्वरसंघुषास्वनाम् (७.२.२८) = रुषि अम त्वर सङ्घुष आस्वन इत्येतेषां निष्ठायाम् इडागमः वा (वैकल्पिकः) स्यात् |
रुष्यमत्वरसंघुषास्वनाम् (७.२.२८) = रुषि अम त्वर सङ्घुष आस्वन इत्येतेषां निष्ठायाम् इडागमः वा (वैकल्पिकः) स्यात् |
ग्रहोऽलिटि दीर्घः (७.२.३७) = पदविच्छेदः - ग्रहः अलिटि दीर्घः | एकाच् ग्रह-धातोः इडागमस्य दीर्घादेशो भवति अलिटि | 'विहितस्य' इत्यस्य अध्याहारः येन णिजन्त ग्राहि-धातोः इडागमस्य दीर्घो न स्यात् | ग्रहः पञ्चम्यन्तम्, अलिटि सप्तम्यन्तं, दीर्घः प्रथमान्तं, त्रिपदमिदं सूत्रम् | आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यस्मात् इट् इत्यस्य अनुवृत्तिः (विभक्तिपरिणामं कृत्वा 'इटः') | एकाच उपदेशेऽनुदात्तात् (७.२.१०) इत्यस्मात् एकाचः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— एकाचः ग्रहः अङ्गात् इटः दीर्घः अलिटि |
जाग्रोऽविचिण्णल्ङित्सु (७.३.८५) = जागृ-धातोः गुणो भवति वि, चिण्, णल्, ङित् इत्येषां प्रत्ययाणां पर्युदासे | वि इति प्रत्ययविशेषः, चिण् इति लुङ्-लकारस्य, णल् इति लिट्-लकारस्य, ङित् इत्यनेन इत्-संज्ञकः ङकारः यस्य | वि, ङित् इत्यनयोः विषये गुणनिषेधः इदानीमपि भवति | चिण्, णल् इत्यनयोः विषये वृद्धिः इदानीमपि भवति | अन्यत्र सर्वत्र गुणः भवति एव | अचो ञ्णिति (७.२.११५), क्क्ङिति च (१.१.५) इत्यनयोः अपवादः | विश्च चिण् च णल् च ङित् च, तेषामितरेतरद्वन्द्वः विचिण्णल्ङितः, न विचिण्णल्ङितः अविचिण्णल्ङितः, तेषु अविचिण्णल्ङित्सु | जाग्रः षष्ठ्यन्तम्, अविचिण्णल्ङित्सु सप्तम्यन्तम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— जाग्रः गुणः अविचिण्णल्ङित्सु |
कृपो रो लः (८.२.१८) = कृप्-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम् | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम् | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने ल-सदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे कृपो → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तं, अनेकपदमिदं सूत्रम् | कृपः इत्यस्य द्विवारम् आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्— कृपः उः कृपः रः लः |
स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदिः संयोगादिः, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |
चोः कुः (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चोः कुः झलि पदस्य अन्ते च |
हो ढः (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हः ढः झलि पदस्य अन्ते च |
हो ढः (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हः ढः झलि पदस्य अन्ते च |
दादेर्धातोर्घः (८.२.३२) = पदविच्छेदः - दादेः धातोः घः | दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम् | हो ढः (८.२.३१) इत्यस्मात् हः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— दादेः धातोः हः घः झलि पदस्य अन्ते च |
वा द्रुहमुहष्णुहष्णिहाम् (८.२.३३) = द्रुह्, मुह्, ष्णुह्, ष्णिह् एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशो भवति झलि पदान्ते च; घ्-अभावे हो ढः (८.२.३१) इत्यनेन ढकारादेशो भवति | द्रुहश्च मुहश्च ष्णुहश्च ष्णिहश्च तेषाम इतरेतर्तद्वान्द्वः, द्रुहमुहष्णुहष्णिहः, तेषां द्रुहमुहष्णुहष्णिहाम् | वा अव्ययपदं, द्रुहमुहष्णुहष्णिहां षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | हो ढः (८.२.३१) इत्यस्मात् हः, दादेर्धातोर्घः (८.२.३२) इत्यस्मात् घः, झलो झलि (८.२.२६) इत्यस्मात् झलि, स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्येषाम् अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— द्रुह-मुह-ष्णुह-ष्णिहाम् वा हः घः झलि पदस्य अन्ते च |
नहो धः (८.२.३४) = नह्-धातोः हकारस्य धकारादेशो भवति झलि पदान्ते च | नहः षष्ठ्यन्तं, धः प्रथमान्तं, द्विपदमिदं सूत्रम् | हो ढः (८.२.३१) इत्यस्मात् हः इत्यस्य अनुवृत्तिः | दादेर्धातोर्घः (८.२.३२) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— नहः धातोः हः धः झलि पदस्य अन्ते च |
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श् च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |
झषस्तथोर्धोऽधः (८.२.४०) = पदविच्छेदः - झषः तथोः धः अधः | झष्-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ् च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम् अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथा | न धा, अधा नञ्तत्पुरुषः, तस्मात् अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्, अधः पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |
उपधायां च (८.२.७८) = धातोः उपधाभूतयोः रेफवकारयोः हल्परयोः इकः दीर्घः स्यात् | हलन्तधातूनाम् उपधायां रेफः वा वकारः वा अस्ति चेत्, तयोः वर्णयोः पूर्वम् इकः दीर्घः भवति | इक् = इ, उ, ऋ, ऌ | उपधायां सप्तम्यन्तं, चाव्ययम् | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः, र्वोरुपधाया दीर्घः इकः (८.२.७६) इत्यस्मात् र्वोः, इकः, दीर्घः इत्येषाम् अनुवृत्तिः, हलि च (८.२.७७) इत्यस्मात् हलि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— धातोः र्वोः उपधायां च इकः दीर्घः हलि |
ढो ढे लोपः (८.३.१३) = ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति | ढः षष्ठ्यन्तं, ढे सप्तम्यन्तं, लोपः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— ढः ढे लोपः |
शासिवसिघसीनाञ्च (८.३.६०) = शास्, वस्, घस् इत्येषां धातूनाम् इण्-प्रत्याहारस्थवर्णोत्तरस्य कवर्गीयवर्णोत्तरस्य च सकारस्य षत्वादेशो भवति | सकारः आदेशस्य प्रत्ययस्य च अवयवः नास्ति इति कारणेन आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वं न सम्भवति; तस्माच्च अस्य सूत्रस्य आवश्यकता | शासिश्च वसिश्च घसिश्च तेषामितरेतरद्वन्द्वः, शासिवसिघसयः, तेषां शासिवसिघसीनाम् | शासिवसिघसीनां षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | सहेः साडः सः (८.३.५६) इत्यस्मात् सः इत्यस्य अनुवृत्तिः | अपदान्तस्य मूर्धन्यः (८.३.५५) इत्यस्मात् मूर्धन्यः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अनुवृत्तिः | इण्कोः (८.३.५७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— शासिवसिघसीनां च इण्कोः सः मूर्धन्यः संहितायाम् |
अचो रहाभ्यां द्वे (८.४.४६) = अचः पराभ्यां रेफहकाराभ्यां परस्य यरः द्वे वा स्तः | रश्च हश्च रहौ, इतरेतरयोगद्वन्द्वः, ताभ्यां रहाभ्याम् | अचः पञ्चम्यन्तं, रहाभ्यां पञ्चम्यन्तं, द्वे प्रथमान्तं, त्रिपदमिदं सूत्रम् | यरोऽनुवासिकेऽनुनासिको वा (८.४.४५) इत्यस्मात् यरः, वा इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अचः रहाभ्याम् यरः द्वे वा |
झलां जश् झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— झलां जश् झशि संहितायाम् |
झलां जश् झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— झलां जश् झशि संहितायाम् |
झरो झरि सवर्णे (८.४.६५) = हल्-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | हलो यमां यमि लोपः (८.४.६४) इत्यस्मात् हलः, लोपः चेत्यनयोः अनुवृत्तिः | झयो होऽन्यतरस्याम् (८.४.६२) इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम् |
१७. अन्तर्गणाः
स्वादिः - दिवादिगणे कश्चन अन्तर्गणः यस्मिन् नव धातवः सन्ति | एते - षूङ्(प्राणिस्रवे), दूङ्(परितापे), दीङ्(क्षये), डीङ्(विहायसा गतौ), धीङ्(आधारे), मीङ्(हिंसायाम्), रिङ्(स्रवणे), लीङ्(श्लेषणे), व्रीङ्(वृणोत्यर्थे) च |
ल्वादिः - क्र्यादिगणे कश्चन अन्तर्गणः यस्मिन् एकविंशतिः धातवः सन्ति | एते - ज्या(वयोहानौ), री(गतिरेषयोः), ली(श्लेषणे), व्ली(वरणे), प्ली(गतौ), धुञ्(कम्पने), लूञ्(छेदने), ॠ(गतौ), कॄ(हिंसायाम्), कॄञ्(हिंसायाम्), गॄ(शब्दे), जॄ(वयोहानौ), दॄ(विदारणे), शॄ(हिंसायाम्), नॄ(नये), स्तॄञ्(आच्छादने), पॄ(पालनपूरणयोः), भॄ(भर्त्सने), मॄ(हिंसायाम्), वॄ(वरणे), वॄञ्(वरणे) |
क्त-प्रत्ययः pdf, श्रीमद्भगवद्गीतायाः श्लोकेषु क्तान्तरूपाणि pdf