9---anye-vyAkaraNa-sambaddha-viShayAH/16---kta-pratyayaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 169:
|हरिः ''वैकुण्ठम्''<nowiki> अध्यास्ते |</nowiki>
|}
'''७.'''  '''नपुंसके भावे कालसामान्ये क्त प्रत्ययः |'''
 
'''नपुंसके भावे क्तः''' (३.३.११४) = क्लीबत्वविशिष्टे भावे कालसामान्ये क्तः प्रत्ययः स्यात् | अस्य वर्तमानाद्यधिकारानन्तर्भावादिति (वर्तमानादि-अधिकार-अन्-अन्तर्भावाद्-इति) भावः | कर्मणः अनुपस्थितौ सर्वेभ्यः धातुभ्यः कालसामान्ये क्रियायाः भावस्य निर्देशार्थं क्तः प्रत्ययः विहितः स्यात् | नपुंसके सप्तम्यन्तम् , भावे सप्तम्यन्तम् , क्तः प्रथमान्तम् , त्रिपदम् इदं सूत्रम् | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२), '''धातोः''' (३.१.९१) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''धातोः परः नपुंसके भावे क्तः प्रत्ययः |'''
 
'''यथा''' -
 
१. '''जल्पँ''' (भ्वादिः, व्यक्तायां वाचि) - महिलायाः ''जल्पितम्'' | महिलायाः ''जल्पनम्'' |
 
२. '''हृञ्''' (भ्वादिः, हरणे) - राज्ञः ''व्याहृतम्'' | राज्ञः ''व्याहरणम्'' |
 
'''८.   क्त  प्रत्ययः आर्धधातुकप्रत्ययः |'''
 
'''आर्धधातुकं शेषः''' (३.४.११४) = धातोः विहितः तिङ्‌-शित्‌-भिन्नः प्रत्ययः आर्धधातुकसंज्ञको भवति | आर्धधातुकं प्रथमान्तं, शेषः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२), '''धातो''': (३.१.९१) इत्येषाम्‌ अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''धातोः परश्च शेषः प्रत्ययः आर्धधातुकम्‌''' |
 
'''आर्धधातुकं शेषः''' (३.४.११४) = इति सूत्रे '''धातोः''' इत्यस्य अधिकारः द्वयोः सूत्रयोः, अनेन च द्विवारं सूत्रे आयाति | फलम्‌ एवम्‌ अस्ति— यः प्रत्ययः धातोः विधीयते अपि च विधायकसूत्रे साक्षात्‌ ''''धातोः'''<nowiki/>' इति उच्यते, स एव आर्धधातुकसंज्ञकः | अनेन '''गुप्तिज्किद्भ्यः सन्‌''' (३.१.५) इत्यस्मिन्‌ यद्यपि सन्‌-प्रत्ययः धातोः विधीयते, तथापि सूत्रे साक्षात्‌ '''धातोः''' इति पदं न आयाति इत्यस्मात्‌ सन्‌-प्रत्ययः आर्धधातुकः नास्ति | तदर्थम्‌ '''आर्धधातुकस्येड्‌ वलादेः''' (७.२.३५) इत्यस्य प्रसक्तिर्नास्ति, यस्मात्‌ सन्‌-प्रत्ययः यद्यपि वलादिः तथापि तस्य इडागमो न भवति |
 
'''९.   क्त प्रत्ययः इडनुकूलः अतः सेट् |'''
 
धातुभ्यः वलादि-आर्धधातुकप्रत्ययः विधीयते चेत्‌, तस्य प्रत्ययस्य इडागमः भवति |  ककारस्य लोपानन्तरम् अवशिष्टः त प्रत्ययः वलादिः अतः इडनुकूलः  ( सेट् ) | क्त प्रत्ययः कृत् संज्ञकः | निरनुबन्धप्रत्ययः वशादिः न अतः इडागमः न निषिध्यते | तदर्थम् इमे द्वे सूत्रे -
 
'''आर्धधातुकस्येड्वलादेः''' (७.२.३५) = पदविच्छेदः - '''आर्धधातुकस्य इट् वलादेः''' | आर्धधातुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो भवति | वलादेः आर्धधातुकस्य इडागमः स्यात्‌ | इट्‌-आगमः टित्‌ अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्‌-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल्‌ आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्‌, इट्‌ प्रथमान्तम्‌, वलादेः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गात् वलादेः आर्धधातुकस्य इट्‌''' | '''इदं इडागमस्य विधायकसूत्रम्''' |
 
'''नेड्‌ वशि कृति''' (७.२.८) = कृत्‌-प्रत्ययस्य आदौ वश्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो न भवति | '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन '''वशि कृति''' इत्युक्तौ वशादौ कृति (तादृशप्रत्ययः यस्य आदौ वश्‌ स्यात्‌) | वश्‌-प्रत्याहारे वर्गीयव्यञ्जनानां तृतीयः, चतुर्थः, पञ्चमश्च सदस्याः, वकाररेफलकाराः च | नाम कृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः, द्वितीयः अथवा श्‌, ष्‌, स्‌, ह्‌ चेत्‌, इडनुकूलः | न अव्ययपदम्‌, इट्‌ प्रथमान्तं, वशि सप्तम्यन्तं, कृति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गात् न इट्‌ वशि कृति''' |
teachers
426

edits