9---anye-vyAkaraNa-sambaddha-viShayAH/13---iiyasun-ishthan: Difference between revisions
9---anye-vyAkaraNa-sambaddha-viShayAH/13---iiyasun-ishthan (view source)
Revision as of 08:34, 10 May 2021
, 3 years agoAgain paragraph format
(Paragraph formatting) |
(Again paragraph format) |
||
Line 12:
<u>ईयसुन्, इष्ठन् इति तुलनात्मकप्रत्ययौ</u>
अतिशयार्थे चत्वारः प्रसिद्धप्रत्ययाः— तरप्, तमप्, ईयसुन्, इष्ठन् च | यत्र द्वयोः समूहयोः अन्यतमः स्वीक्रियते, तत्र तरप् च ईयसुन् च उपयुज्येते; यत्र तदधिकेषु समूहेषु अन्यतमः स्वीक्रियते, तत्र तमप् इष्ठन् च उपयुज्येते | प्रश्नः उदेति यत् तरप्, ईयसुन् च अनयोर्मध्ये किमपि पार्थक्यं वर्तते किम् ? तथैव तमप् इष्ठन् चेत्यनयोर्मध्ये किमपि पार्थक्यमस्ति वा ? अत्र वक्तव्यं यत् अर्थदृष्ट्या यद्यपि भेदो नास्ति, तथापि प्रयोगक्षेत्रे भेदस्त्वस्ति | प्रथमतया अर्थः— तमप्, इष्ठन् इत्यनयोर्विधायकसूत्रमस्ति '''अतिशायने तमबिष्ठनौ''' (५.३.५५) | एवमेव तरप्, ईयसुन् इत्यनयोर्विधायकसूत्रमस्ति '''द्विवचनविभज्योपपदे तरबीयसुनौ''' (५.३.५७) | अनेन चतुर्णामपि प्रत्ययानाम् अतिशयार्थो भवति | अतिशय-शब्दस्य 'अधिकं, पुनः 'इतोऽपि सम्यक्' इति अर्थद्वयं बोधयति, अतः सन्दर्भम् अनुसृत्य आशयः बोध्यः | (यथा 'त्वचिष्ठ'-शब्दस्य अर्थः 'यस्य अधिका त्वक् वर्तते’, अथवा 'यस्य त्वक् इतोऽपि सम्यक्' इत्येतादृशभेदः सन्दर्भानुगुणं परिशीलनीयः |)
Line 27 ⟶ 28:
प्रकृतिः अनेकाच् चेत्—
लघु + ईयसुन् → '''टेः''' (६.४.१५५) इत्यनेन टि-भागलोपः → लघ् + ईयसुन् → लघीयस् → लघीयान् |
Line 35 ⟶ 37:
एवमेव 'पटु', 'मधु', 'बल' च इव यत्र शब्दः अनेकाच्, तत्र टि-भागस्य लोपः | पटीयान्, मधीयान्, बलीयान् |
प्रकृतिः एकाच् चेत्—
श्र + ईयसुन् → '''प्रकृत्यैकाच्''' (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → श्र + ईयसुन् → श्रेयस् → श्रेयान्
श्र + इष्ठन् → '''प्रकृत्यैकाच्''' (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → श्र + इष्ठन् → गुणसन्धिः → श्रेष्ठः
Line 52 ⟶ 55:
<u>प्रकृत्यादेशः</u>
Line 73 ⟶ 77:
<u>सामान्यम्</u>
|