page_and_link_managers, Administrators
5,258
edits
No edit summary |
No edit summary |
||
Line 479:
<big>सामाधानत्वेन उच्यते यत् प्रत्ययलोपे तल्लक्षणं स्थानिवद्भावेन न सिद्ध्यति यतोहि अनल्विधौ इति निषेधात्| यदि
प्रक्रियायां तिङ्प्रत्ययस्य लोपः जायते तर्हि तिङ्प्रत्ययस्य स्थानिवद्भावः तदा एव शक्यते यदा तृतीयकाले विधिसूत्रम् अनल्विधिः अस्ति | अल्विधौ एव प्रत्ययलोपे प्रत्ययलक्षणम् इष्यते तदर्थम् एव '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इति सूत्रम् आवश्यकम् | स्थानिवद्भावादेव सिद्धे अल्विध्यर्थमिदं '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इति सूत्रम् |</big>
Line 484 ⟶ 485:
<big>स्थानिवत्सूत्रेण सिद्धे नियमार्थम् इदं सूत्रम् | यत्र प्रत्ययस्याऽसाधारणं रूपं प्रयोजकं तदेव कार्यं प्रत्ययलोपे सति भवतीति नियमार्थम् इदं सूत्रम् इति भाष्यादिषु स्पष्टतया उक्तम् | प्रत्ययस्याऽसाधरणं रूपं यत्र प्रयोजकं तद् एव कार्यं प्रत्ययलोपे सति भवति, न तु प्रत्ययाऽप्रत्ययसाधरणम् इति | यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यस्य कार्यम् | यत्र प्रत्यये परे अप्रत्यये परे च उभयत्र ग्रहणं भवति, तत्र प्रत्ययलक्षणं न कर्तव्यम् | इतोऽपि स्पष्टीकरणार्थम् उच्यते, '''यत्र हि''' '''प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत्''' | केवलं प्रत्ययस्य असाधारणरूपस्य आश्रयम् अवलम्ब्य कार्यं यत्र स्यात्, तत्रैव प्रत्ययलक्षणं भवति, यथा '''राजा''' इत्यत्र | राजन् + सु → '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६७) इत्यनेन स्-लोपः → '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यनेन सुप्-प्रत्ययात्मक-प्रत्ययधर्ममात्रस्य पुरस्कारं कृत्वा राजन् सुबन्तम् इति मत्वा '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन तस्य पद-संज्ञा-ग्रहणेन '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इत्यनेन प्रातिपदिकान्तस्य पदान्त-नकारस्य लोपो जायते |</big>
|