page_and_link_managers, Administrators
5,256
edits
No edit summary |
No edit summary |
||
Line 1,640:
<big>समाधानमेवं यत् कृदव्ययस्य योगे षष्ठीसमासनिषेधार्थं तोसुन्प्रत्ययान्तं, कोसुन्प्रत्ययान्तं च स्वीकृत्यैव उदाहरणं सम्भवति --</big>
<big>'''१) पुरा सूर्यस्योदेतोराधेयः''' | पुरा सूर्यस्य उदेतोः
<big>२) '''पुरा वत्सानाम् अपाकर्तोः''' | अर्थात् वत्सात् प्रागेव क्षीरस्य दोहनं करणीयम् इति | क्षीरदोहनार्थं वत्सस्य अपाकरणमित्यर्थः | अप् + आङ् इति उपसर्गपूर्वकात् कृ-धातुतः तोसुन्प्रत्यये कृते अपाकर्तोः इति रूपं लभ्यते | इदम् उदाहरणमपि वेदात् एव |</big>
<big>उदेतोः, अपाकर्तोः च इति पदद्वयम् अपि तोसुन् -प्रत्ययान्तम् अस्ति | तोसुनान्तस्य अव्ययस्य च योगे तु '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३. ६९) इति सूत्रेण षष्ठेः यः निषेधः कृतः, तस्य बाधकम् अस्ति इदं वार्तिकम् - '''अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः''' इति | अतः तोसुन् प्रत्ययस्य योगे तु षष्ठी प्राप्ता अस्ति अनेन वार्तिकेन | तर्हि अत्र '''षष्ठी''' ( २.२.) इति सूत्रेण षष्ठीतत्पुरुषसमासः अपि प्राप्तः अस्ति | तादृशकृद्योगस्य षष्ठीसमासस्य निषेधार्थं '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रे अव्ययम् इति पदस्य प्रयोगः कृतः पाणिनिना | अतः तोसुन्प्रत्ययान्तस्य एवं कसुन्प्रत्ययान्तस्य कृदन्तस्य एव अव्ययस्य उदाहरणं स्वीक्रियते प्रकृतसूत्रे |</big>
|