page_and_link_managers, Administrators
5,256
edits
No edit summary |
No edit summary |
||
Line 19:
<big>'''
Line 170:
<big>'''
<big>चुरादिगणे त्रिनवतिः धातवः अदन्ताः सन्ति | यथा कथ, गृह, गण, क्षिप— एषाम् अन्ते ह्रस्व-अकारः वर्तते | तस्य अकारस्य लोपः तु भवति, परन्तु '''उपदेशेऽजनुनासिक इत्''' इति सूत्रेण इति न | यतोहि एषु धातुषु स च अन्त्यः अकारः अनुनासिकः (अँ) नास्त्येव; अतः इमे अकाराः इत्-संज्ञकवर्णाः न सन्ति | तर्हि एषां धातूनाम् अन्त्यः अकारः कथं लुप्यते ? चुरादिगणे धातुभ्यः णिच्-प्रत्ययः विधीयते, अतः एकं सूत्रम् अस्ति '''अतो लोपः''', यस्य द्वारा अकार-लोपः सिध्यति—</big>
<big>'''अतो लोपः''' (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '''अतः अङ्गस्य''' नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | '''उपदेशे''' अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम्* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात् '''उपदेशे''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१), '''आर्धधातुके''' (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— '''अतः अङ्गस्य लोपः आर्धधातुके उपदेशे''' |</big>
<big>यथा—</big>
<big>कथ + णिच् → कथ्</big>
<big>गृह + णिच् → गृह्</big>
<big>इदानीं कथ् इति धातुः अस्ति, गृह् इति धातुः अस्ति | अस्यां दशायां कथ्-धातोः उपधायाम् अत् (ह्रस्व-अकारः) इत्यस्य वृद्धिः, अपि च गृह्-धातोः उपधायां लघु-इकः गुणः |</big>
<big>'''अत उपधायाः''' (७.२.११६) = उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति''' |</big>
<big>'''पुगन्तलघूपधस्य च''' (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणो भवति सार्वधातुके आर्धधातुके च प्रत्यये परे |</big>
<big>आभ्यां सूत्राभ्यां कार्यम् अभविष्यत् | परन्तु धातुः अदन्तः चेत्, इमे सूत्रे प्रबाध्य अन्यत् सूत्रं कार्यं करोति— '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इति |</big>
Line 269 ⟶ 296:
Swarup – August 2019
|