15 - वेड्‌-धातवः

From Samskrita Vyakaranam
7---ArdhadhAtukaprakaraNam/15---veD-dhAtavah
Jump to navigation Jump to search
ध्वनिमुद्रणानि -
2022 वर्गः
१) iD-vyavasthA---ajanta-halanta-ca-dhAtUnAm-iDvyavasthA-abhyAsaH_+_veD-dhAtavaH_2022-07-05
२) iD-vyavasthA---veD-dhAtUnAm-abhyAsaH_2022-07-12
३) iD-vyavasthA---veD-dhAtUnAm-abhyAsaH-2_2022-07-19
2019 वर्गः
१) ajantadhAtUnAM-ca-halantadhAtUnAm-iDvyavasthA---abhyAsaH-4_+_veT-dhAtavaH_2019-08-18
२) abhyAsaH-5_+_veT-dhAtavaH_2019-08-25    


येभ्यः वा भवति इडागमः, ते धातवः वेटः— वा इट्‌ वेट्‌ | ३७ धातवः वेटः; तेभ्यः वलादि-आर्धधातुकप्रत्ययस्य विकल्पेन इडागमो भवति | यदा अजन्तसेड्धातवः च हलन्त-अनिड्धातवः च ज्ञाताः, तदा एषां वेड्धातूनां कण्ठस्थीकरणेन सम्पूर्णरीत्या इड्व्यवस्था सिद्धा |


स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४) इति सूत्रेण 'स्वृ शब्दोपतापयोः', 'षूङ्‌ प्राणिगर्भविमोचने' अदादिगणे, ‘षूङ्‌ प्राणिप्रसवे' दिवादिगणे, ‘धूञ्‌ कम्पने' (स्वादौ क्र्यादौ च), अपि च येषाम्‌ ऊकारस्य इत्संज्ञा, एभ्यः सर्वेभ्यः धातुभ्यः परस्य वलादेरार्धधातुकस्येड्‌ वा स्यात्‌ | (धेयं यत्‌ तुदादिगणस्य धू विधूनने, चुरादिगणस्य च धूञ्‌ कम्पने एतौ द्वौ सेटौ |)


धातुः तास् (लुट्‌) तुमुन्‌ तव्यत्‌ स्य (लृट्‌) स्य (लृङ्‌)
स्वृ स्वर्ता स्वर्तुम्‌ स्वर्तव्यम्‌ स्वर्ष्यति अस्वर्ष्यत्
स्वरिता स्वरितुम्‌ स्वरितव्यम्‌ स्वरिष्यति अस्वरिष्यत्
सू सोता सोतुम्‌ सोतव्यम्‌ सोष्यते असोष्यत
सविता सवितुम्‌ सविव्यम्‌ सविष्यते असविष्यत
सू सोता सोतुम्‌ सोतव्यम्‌ सोष्यते असोष्यत
सविता सवितुम्‌ सविव्यम्‌ सविष्यते असविष्यत
धू धोता धोतुम्‌ धोतव्यम्‌ धोष्यति / ते अधोष्यत्‌ / अधोष्यत
धविता धवितुम्‌ धविव्यम्‌ धविष्यति / ते अधविष्यत्‌ / अधविष्यत


धातुपाठे पठिताः ऊदिद्धातवः (२४ धातवः)

तञ्चू तङ्क्ता तङ्क्तुम्‌ तङ्क्तव्यम्‌ तङ्क्ष्यति अतङ्क्ष्यत्‌
त‌ञ्चि‌ता तञ्चितुम्‌ तञ्चितव्यम्‌ तञ्चिष्यति अतञ्चिष्यत्‌
ओव्रश्चू व्रष्टा व्रष्टुम्‌ व्रष्टव्यम्‌ व्रक्ष्यति अव्रक्ष्यत्‌
व्रश्चिता व्रश्चितुम्‌ व्रश्चितव्यम्‌ व्रश्चिष्यति अव्रश्चिष्यत्‌
अञ्जू अङ्क्ता अङ्क्तुम्‌ अङ्क्तव्यम्‌ अङ्क्ष्यति आङ्क्ष्यत्‌
अञ्जिता अञ्जितुम्‌ अञ्जितव्यम्‌ अञ्जिष्यति आञ्जिष्यत्‌
मृजू मार्ष्टा मार्ष्टुम्‌ मार्ष्टव्यम्‌ मार्क्ष्यति अमार्क्ष्यत्
मार्जिता मार्जितुम्‌ मार्जितव्यम्‌ मार्जिष्यति अमार्जिष्यत्
क्लिदू क्लेत्ता क्लेत्तुम्‌ क्लेत्तव्यम्‌ क्लेत्स्यति अक्लेत्स्यत्‌
क्लेदिता क्लेदितुम्‌ क्लेदितव्यम्‌ क्लेदिष्यति अक्लेदिष्यत्‌
स्यन्दू स्यन्त्ता स्यन्त्तुम्‌ स्यन्त्तव्यम्‌ स्यन्त्स्यते अस्यन्त्स्यत
स्यन्दिता स्यन्दितुम्‌ स्यन्दितव्यम्‌ स्यन्दिष्यते अस्यन्दिष्यत
षिधू सेद्धा सेद्धुम्‌ सेद्धव्यम्‌ सेत्स्यति असेत्स्यत्‌
सेधिता सेधितुम्‌ सेधितव्यम्‌ सेधिष्यति असेधिष्यत्‌
गुपू गोप्ता गोप्तुम्‌ गोप्तव्यम्‌ गोप्स्यति अगोप्स्यत्‌
गोपिता गोपितुम्‌ गोपितव्यम्‌ गोपिष्यति अगोपिष्यत्‌
गोपायिता गोपायितुम् गोपायितव्यम् गोपायिष्यति अगोपायिष्यत्
त्रपूष्‌ त्रप्ता त्रप्तुम्‌ त्रप्तव्यम्‌ त्रप्स्यते अत्रप्स्यत
त्रपिता त्रपितुम्‌ त्रपितव्यम्‌ त्रपिष्यते अत्रपिष्यत
कृपू कल्प्ता कल्प्तुम्‌ कल्प्तव्यम्‌ कल्प्स्यते अकल्प्स्यत
कल्पिता कल्पितुम्‌ कल्पितव्यम्‌ कल्पिष्यते अकल्पिष्यत
क्षमू क्षन्ता‌ क्षन्तुम्‌ क्षन्तव्यम्‌ क्षंस्यति अक्षंस्यत्‌
क्षमिता क्षमितुम्‌ क्षमितव्यम्‌ क्षमिष्यति अक्षमिष्यत्‌
क्षमूष् क्षन्ता‌ क्षन्तुम्‌ क्षन्तव्यम्‌ क्षंस्यते अक्षंस्यत
क्षमिता क्षमितुम्‌ क्षमितव्यम्‌ क्षमिष्यते अक्षमिष्यत
अशू अष्टा अष्टुम्‌ अष्टव्यम्‌ अक्ष्यते आक्ष्यत
अशिता अशितुम्‌ अशितव्यम्‌ अशिष्यते आशिष्यत
क्लिशू क्लेष्टा क्लेष्टुम्‌ क्लेष्टव्यम्‌ क्लेक्षयति अक्लेक्षयत्‌
क्लेशिता क्लेशितुम्‌ क्लेशितव्यम्‌ क्लेशिष्यति अक्लेशिष्यत्‌
अक्षू अष्टा अष्टुम्‌ अष्टव्यम्‌ अक्ष्यति आक्ष्यत्‌
अक्षिता अक्षितुम्‌ अक्षितव्यम्‌ अक्षिष्यते आक्षिष्यत
तक्षू तष्टा तष्टुम्‌ तष्टव्यम्‌ तक्ष्यति अतक्ष्यत्‌
तक्षिता तक्षितुम्‌ तक्षितव्यम्‌ तक्षिष्यते अतक्षिष्यत
त्वक्षू त्वष्टा त्वष्टुम्‌ त्वष्टव्यम्‌ त्वक्ष्यति अत्वक्ष्यत्‌
त्वक्षिता त्वक्षितुम्‌ त्वक्षितव्यम्‌ त्वक्षिष्यते अत्वक्षिष्यत
गाहू गाढा गाढुम्‌ गाढव्यम्‌ घाक्ष्यते अघाक्ष्यत
‌गाहिता गाहितुम्‌ गाहितव्यम्‌ गाहिष्यते अगाहिष्यत
गुहू गोढा गोढुम्‌ गोढव्यम्‌ घोक्ष्यति/ते अघोक्ष्यत्/अघोक्ष्यत
गूहिता गूहितुम्‌ गूहितव्यम्‌ गूहिष्यति/ते अगूहिष्यत्‌/अगूहिष्यत
गृहू गर्ढा गर्ढु‌म्‌ गर्ढव्यम्‌ घर्क्ष्यते अघर्क्ष्यत
गर्हिता गर्हितुम्‌ गर्हितव्यम्‌ गर्हिष्यते अगर्हिष्यत
तृन्हू तृण्ढा तृण्ढुम्‌ तृण्ढव्यम्‌ तृंक्ष्यति अतृंक्ष्यत्
‌तृंहिता तृंहितुम्‌ तृंहितव्यम्‌ तृंहिष्यति अतृंहिष्यत्‌
तृहू तर्ढा तर्ढुम्‌ तर्ढव्यम्‌ तर्क्ष्यति अतर्क्ष्यत्‌
तर्हिता तर्हितुम्‌ तर्हितव्यम्‌ तर्हिष्यति अतर्हिष्यत्‌
स्तृहू स्तर्ढा स्तर्ढुम्‌ स्तर्ढव्यम्‌ स्तर्क्ष्यति अस्तर्क्ष्यत्‌
स्तर्हिता स्तर्हितुम्‌ स्तर्हितव्यम्‌ स्तर्हिष्यति अस्तर्हिष्यत्‌
वृहू वर्ढा वर्ढुम्‌ वर्ढव्यम्‌ वर्क्ष्यति अवर्क्ष्यत्‌
वर्हिता वर्हितुम्‌ वर्हितव्यम्‌ वर्हिष्यति अवर्हिष्यत्‌


१) मृजेर्वृद्धिः (७.२.११४) = मृजेरिको वृद्धिः सार्वधातुकार्धधातुकयोः |


२) गुपू-धातोः आय-प्रत्ययः गुपूधूपविच्छिपणिपनिभ्य आयः (३.१.२८) इति सामान्यसूत्रेण नित्यः, तदा आर्धधातुके आयादय आर्धधातुके वा (३.१.३१) इत्येनन विकल्पेन |


गुपूधूपविच्छिपणिपनिभ्य आयः (३.१.२८) = गुपू, धूप, विच्छ, पण, पन, एतेभ्यः धातुभ्यः आय-प्रत्ययो भवति स्वार्थे |


आयादय आर्धधातुके वा (३.१.३१) = आर्धधातुक-प्रत्ययस्य विवक्षायाम्‌ आय-आदयः प्रत्ययाः विकल्पेन भवन्ति | आयादौ त्रयः प्रत्ययाः अन्तर्भूताः— आय, इयङ्‌, णिङ्‌ |


३) कृपो रो लः (८.२.१८) = कृप्‌-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम्‌ | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम्‌ | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्‌-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्‌-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे कृपो → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्‌, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तं, अनेकपदमिदं सूत्रम्‌ | कृपः इत्यस्य द्विवारम्‌ आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्‌— कृपः उः कृपः रः लः |


४) ऊदुपधाया गोहः (६.४.८९) = गुहू (संवरणे) इति गुह्-धातोः उपधा-गुणादेशं प्रबाध्य ऊत्‌-आदेशो भवति अजादि-प्रत्यये परे | गुह उपधाया ऊत्स्यात्‌ गुणहेतौ अजादौ प्रत्यये | ऊत्‌ प्रथमान्तम्‌, उपधायाः षष्ठ्यन्तं, गोहः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रम्‌— गोहः अङ्गस्य उपधायाः ऊत्‌ अचि |


रधादिभ्यश्च


रधादिभ्यश्च (७.२.४५) = रध्‌, नश्‌, तृप्‌, दृप्, द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ इत्येभ्यः धातुभ्यः वलादेरार्धधातुकस्येड्‌ वा स्यात्‌ |


रध्‌ रद्धा रद्धुम्‌ रद्धव्यम्‌ रत्स्यति अरत्स्यत्‌
रधिता रधितुम्‌ रधितव्यम्‌ रधिष्यति अरधिष्यत्‌
नश् नंष्टा नंष्टुम्‌ नंष्टव्यम्‌ नंक्ष्यति अनंक्ष्यत्‌
नशिता नशितुम्‌ नशितव्यम्‌ नशिष्यति अनशिष्यत्‌
तृप्‌ तर्प्ता तर्प्तुम्‌ तर्प्तव्यम्‌ तर्प्स्यति अतर्प्स्यत्‌
त्रप्ता त्रप्तुम्‌ त्रप्तव्यम्‌ त्रप्स्यति‌ अत्रप्स्यत्‌
तर्पिता तर्पितुम्‌ तर्पितव्यम्‌ तर्पिष्यति अतर्पिष्यत्‌
दृप्‌ दर्प्ता दर्प्तुम्‌ दर्प्तव्यम्‌ दर्प्स्यति अदर्प्स्यत्‌
द्रप्ता द्रप्तुम्‌ द्रप्तव्यम्‌ द्रप्स्यति‌ अद्रप्स्यत्‌
दर्पिता दर्पितुम्‌ दर्पितव्यम्‌ दर्पिष्यति अदर्पिष्यत्‌
द्रुह् द्रोग्धा द्रोग्धुम्‌ द्रोग्धव्यम्‌ ध्रोक्ष्यति अध्रोक्ष्य्त्‌
द्रोढा द्रोढुम्‌ द्रोढव्यम्‌ ध्रोक्ष्यति अध्रोक्ष्य्त्‌
द्रोहिता द्रोहितुम्‌ द्रोहितव्यम्‌ द्रोहिष्यति अद्रोहिष्यत्‌
मुह् मोग्धा मोग्धुम्‌ मोग्धव्यम्‌ मोक्ष्यति अमोक्ष्य्त्‌
मोढा मोढुम्‌ मोढव्यम्‌ मोक्ष्यति अमोक्ष्य्त्‌
मोहिता मोहितुम्‌ मोहितव्यम्‌ मोहिष्यति अमोहिष्यत्‌
स्नुह् स्नोग्धा स्नोग्धुम्‌ स्नोग्धव्यम्‌ स्नोक्ष्यति अस्नोक्ष्य्त्‌
स्नोढा स्नोढुम्‌ स्नोढव्यम्‌ स्नोक्ष्यति अस्नोक्ष्य्त्‌
स्नोहिता स्नोहितुम्‌ स्नोहितव्यम्‌ स्नोहिष्यति अस्नोहिष्यत्‌
स्निह् स्नेग्धा स्नेग्धुम्‌ स्नेग्धव्यम्‌ स्नेक्ष्यति अस्नेक्ष्य्त्‌
स्नेढा स्नेढुम्‌ स्नेढव्यम्‌ स्नेक्ष्यति अस्नेक्ष्य्त्‌
स्नेहिता स्नेहितुम्‌ स्नेहितव्यम्‌ स्नेहिष्यति अस्नेहिष्यत्‌



१) मस्जिनशोर्झलि (७.१.६०) = मस्ज्‌-धातोः च नश्‌-धातोः च नुम्‌‍-आगमो भवति झालादि-प्रत्यये परे | मस्जिश्च नश्‌ च तयोरितरेतरद्वन्द्वः मस्जिनशौ, तयोर्मस्जिनशोः | मस्जिनशोः षष्ठ्यन्तं, झलि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | इदितो नुम्‌ धातोः (७.१.५८) इत्यस्मात्‌ नुम्‌ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः, येन 'प्रत्यय'-पदस्यापि सूत्रार्थे आक्षेपः | अनुवृत्ति-सहितसूत्रम्‌— मस्जिनशोः अङ्गस्य नुम्‌ झलि प्रत्यये |


२) तृप्‌, दृप्‌ इत्येतौ द्वौ धातू तौ एव यौ अनिट्‌-हलन्तधातुपाठे उक्तौ— तृपँ प्रीणने दि प० (तृप्यति), दृपँ हर्षमोहनयोः दि प० (दृप्यति) | तर्हि कथम्‌ अत्र वेट्‌-धातुषु अपि पठितौ ? एतौ द्वौ अनिट्‌ अपि वेट्‌ अपि | अनुदात्तौ अतः स्वभावतः अनिटौ; अयं स्वभावः आवश्यकः आसीत्‌ येन अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इत्यनेन अम्‌-आगमः विधीयेत | तदा रधादिभ्यश्च (७.२.४५) इति सूत्रेण तयोः इट्‌ 'वा' (विकल्पेन) भवति | अतः अनयोः धात्वोः अनिट्ट्वमपि अस्ति, वेट्ट्वम्‌ अपि अस्ति | (अस्य सर्वस्य दर्शनेन प्रकटमस्ति किमर्थम्‌ अम्‌-आगमपक्षे इडागमसहितरूपं न भवति— अधस्थसूत्रेण धातुः अनिट्‌ (अनुदात्तः) चेदेव अमागमो भवति; तदर्थम्‌ अनिट्‌-धातुषु इमौ द्वौ धातू पठितौ | अपि च झलादौ प्रत्यये परे एव अमागमः विधीयते |)


अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) = उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्‌-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे |


३) वा द्रुहमुहष्णुहष्णिहाम् (८.२.३३) = द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशो भवति झलि पदान्ते च; घ्‌-अभावे हो ढः (८.२.३१) इत्यनेन ढकारादेशो भवति | द्रुहश्च मुहश्च ष्णुहश्च ष्णिहश्च तेषाम इतरेतर्तद्वान्द्वः, द्रुहमुहष्णुहष्णिहः, तेषां द्रुहमुहष्णुहष्णिहाम् | वा अव्ययपदं, द्रुहमुहष्णुहष्णिहां षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | हो ढः (८.२.३१) इत्यस्मात्‌ हः, दादेर्धातोर्घः (८.२.३२) इत्यस्मात्‌ घः, झलो झलि (८.२.२६) इत्यस्मात्‌ झलि, स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, इत्येषाम्‌ अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— द्रुह-मुह-ष्णुह-ष्णिहाम् वा हः घः झलि पदस्य अन्ते च |


निरः कुषः (७.२.४६) = निरः परात्‌ कुषो वलादेरार्धधातुकस्येड्‌ वा स्यात्‌ |

निर्‌ + कुष्‌ निष्कोष्टा निष्कोष्टुम्‌ निष्कोष्टव्यम्‌ निष्कोक्ष्यति निरकोक्ष्यत्‌
निष्कोषिता निष्कोषितुम्‌ निष्कोषितव्यम्‌ निष्कोषिष्यति निरकोषिष्यत्‌


एते ३७ धातवः वेटः |


सेड्‌-धातवः


अनिड्धातून्‌‍ च वेड्धातून्‌‍ च विहाय अन्ये सर्वे धातवः सेटः |


सेट्‌-हलन्तधातूनां रूपाणि एतादृशानि—


उपधायां लघु-इक्‌-वर्णः अस्ति चेत्‌ तस्य गुणो भवति—

लिख्‌ लेखिता लेखितुम्‌ लेखितव्यम्‌ लेखिष्यति अलेखिष्यत्
कुप्‌ कोपिता कोपितुम्‌ कोपितव्यम्‌ कोपिष्यते अकोपिष्यत
वृष्‌ वर्षिता वर्षितुम्‌ वर्षितव्यम्‌ वर्षिष्यते अवर्षिष्यत


उपधायां लघु-इक्‌-वर्णः नास्ति चेत्‌ केवलं वर्णमेलनं भवति—

वद्‌ वदिता वदितुम्‌ वदितव्यम्‌ वदिष्यति अवदिष्यत्
मील्‌ मीलिता मीलितुम्‌ मीलितव्यम्‌ मीलिष्यति अमीलिष्यत्‌


Swarup – July 2019

वेड्‌-धातवः---समग्रं चिन्तनम्‌

इड्व्यवस्था-अभ्यासः

१५_-_वेड्-धातवः.pdf ‎(file size: 32 KB)