03---dhaatuvijjaanam/3---dhaatuvijjaanam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 92:
 
<big>धातुः अनुदात्तेत्‌ अस्ति चेत्‌, आत्मनेपदी | धातुः ङित्‌ अस्ति चेदपि तथैव, आत्मनेपदी | शीङ्‌ स्वप्ने इति धातुः ङित्‌, अतः सोऽपि आत्मनेपदी | शेते इति लटि | डीङ्‌ विहायसा (वायौ) गतौ इति धातुः ङित्‌, अतः आत्मनेपदी, डयते इति | तर्हि अनुदात्तस्य स्वरस्य इत्‌-संज्ञा-कारणेन अथवा ङकारस्य इत्‌-संज्ञा-कारणेन धातुः आत्मनेपदी भवति |</big>
 
<big>'''b.''' उभयपदत्वम्‌</big>
 
<big>'''स्वरितञितः कर्त्रभिप्राये क्रियाफले''' (१.३.७२) = यस्य धातोः स्वरितस्वरस्य ञकारस्य च इत्‌-संज्ञा भवति, तस्य क्रियायाः फलं कर्तुः अस्ति चेत्‌ धातुतः आत्मनेपदतिङ्‌प्रत्ययाः विहिताः; क्रियायाः फलं कर्तुः नास्ति चेत् धातुतः परस्मैपदतिङ्‌प्रत्ययाः विहिताः भवन्ति | नाम एतादृशः धातुः उभयपदी, इति सारांशः | स्वरितश्च ञ्‌ च स्वरितञौ, तौ इतौ यस्य स स्वरितञित्‌, द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात्‌ स्वरितञितः | कर्तारम्‌ अभिप्रैति इति कर्त्रभिप्रायम्‌ (फलम्‌) उपपद-तत्पुरुषः (यथा कुम्भकारः), तस्मिन्‌ कर्त्रभिप्रये | क्रियायाः फलं क्रियाफलं षष्ठी-तत्पुरुषः, तस्मिन्‌ क्रियाफले | स्वरितञितः पञ्चम्यन्तम्‌, कर्त्रभिप्राये सप्तम्यन्तम्‌, क्रियाफले सप्तम्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''भूवादयो धातवः''' (१.३.१) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | '''लस्य''' इति पदम्‌ आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः '''आत्मनेपदम्‌''' इत्यस्मिन्‌ | अनुवृत्ति-सहितसूत्रम्— '''स्वरितञितः धातोः कर्त्रभिप्राये क्रियाफले लस्य आत्मनेपदम्‌''' |</big>
 
 
<big>धातुः यदि स्वरितेत्‌ अस्ति (स्वरितः इत्‌ यस्य सः) अथवा ञित्‌ अस्ति, तर्हि धातुः उभयपदी भवति | यथा डुपचँ॑ष्‌ पाके | अत्र चकारोत्तरवर्ती यः अकारः अस्ति, सः स्वरितः अस्ति, इत्‌-संज्ञकश्च | अतः धातुः स्वरितेत्‌ अस्ति, उभयपदी च— लटि पचति, पचते |</big>
 
 
<big>प्राचीनकाले स्वरविज्ञानम्‌ आसीत्‌, अतः तदाधारेण पदव्यवस्था ज्ञायते स्म | इदानींतनकाले डुपचँ॑ष्‌-धातुः उभयपदी अस्ति इति जानीमः; अपि च ञित्‌ नास्ति, अतः स्वरितेत्‌ स्यात्‌ इति अनुमानं कुर्मः | एवम्‌ ऊहां कृत्वा एव अद्यत्वे धातुपाठे एतादृशानि चिह्नानि कैश्चित्‌ योजितानि | यथा अनुनासिकचिह्नानि न वर्तन्ते सामान्यधातुग्रन्थेषु, तथैव अनुदात्तस्वरितचिह्नानि अपि ग्रन्थेषु सामान्यतया न लभ्यन्ते | किन्तु केचन ऊहां कृत्वा स्थापितवन्तः; तेषु दीक्षितपुष्पा माता अस्मिन्‌ क्षेत्रे नायिका |</big>
 
 
<big>अन्यत्‌ उदाहरणं पश्येम, ञितः इति | डुकृञ्‌ धातुः ञित्‌ अस्ति | ञित्‌ अतः अनेन सूत्रेण उभयपदी अस्ति— लटि करोति, कुरुते | वे॒ञ्‌, ह्वे॒ञ्‌, व्ये॒ञ्‌ अपि उभयपदिनः |</big>
 
 
<big>उपर्युक्तयोः सूत्रयोः ज्ञानेन के के परस्मैपदिधातवः सन्ति इति अपि अवगम्यते | यः कोऽपि धातुः ङित्‌ अपि नास्ति, अनुदात्तेत् अपि नास्ति, ञित्‌ अपि नास्ति, स्वरितेत्‌ अपि नास्ति, सः धातुः परस्मैपदी एव | धातुः उदात्तेत्‌ अस्ति चेत्, परस्मैपदी | किन्तु उदात्तेत्‌ नास्ति चेदपि, यदि ङित्‌, अनुदात्तेत्, ञित्‌, स्वरितेत्‌ नास्ति, तर्हि सः धातुः परस्मैपदी एव | यथा रिषँ, गै॒, मुजँ, खुजुँ, णशँ, एते सर्वे धातवः अपि परस्मैपदिनः | परस्मैपदिधातूनां कृते पृथक्‌ सूत्रम्‌ अपि अस्ति | तच्च अग्रे दत्तम्‌ अस्ति—</big>
 
 
<big>'''c.''' परस्मैपदत्वम्‌</big>
 
 
<big>'''शेषात्कर्तरि परस्मैपदम्‌''' (१.३.७८) = यत्र धातोः आत्मनेपदस्य कारणं नास्ति, तत्र कर्त्रर्थे परस्मैपदं भवति | आत्मनेपदनिमित्तहीनात्‌ धातोः कर्तरि परस्मैपदं स्यात्‌ | शेषात्‌ पञ्चम्यन्तम्‌, कर्तरि सप्तम्यन्तम्‌, परस्मैपदं प्रथमान्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''भूवादयो धातवः''' (१.३.१) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | '''लस्य''' इति पदम्‌ आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः '''परस्मैपदम्‌''' इत्यस्मिन्‌ | अनुवृत्ति-सहित-सूत्रम्‌— '''शेषात्‌ धातोः कर्तरि लस्य परस्मैपदम्‌''' |</big>
 
 
<big>अतः अनेन सूत्रेण अवशिष्टाः धातवः सर्वे परस्मैपदिनः | धातुः अनुदात्तेत्‌, ङित्‌, स्वरितेत्‌, ञित्‌ च नास्ति चेत्‌, सः धातुः परस्मैपदिधातुः एव | ङितः अनुदात्तेतः धातवः एव आत्मनेपदिनः | ञितः स्वरितेतः धातवः एव उभयपदिनः | यदि अवशिष्टाः धातवः सर्वे परस्मैपदिनः, तर्हि सूत्रस्य का आवश्यकता ? इति चेत्‌, कर्तरि | कर्त्रर्थे अस्ति चेदेव धातुः परस्मैपदी | कर्मणि भावे परस्मैपदी न भवति इति सूचनार्थं सूत्रं विरचितम्‌ |</big>
 
 
<big>पठँ-धातौ ठकारोत्तरवर्ती यः अकारः अस्ति, सः न अनुदात्तः न वा स्वरितः; चिह्नं नास्ति एव, अतः उदात्तः | उदात्तः अपि अनुनासिकः अपि अतः अयं धातुः उदात्तेत्‌; उदात्तेत्‌ अतः परस्मैपदी | तथैव लिखँ धातुः | धावुँ (गतिशुद्ध्योः) इति उकारस्य उदाहरणम्‌— उकारः उदात्तः अनुनासिकः च, अतः धातुः उदात्तेत्‌; तर्हि परस्मैपदी | लटि धावति |</big>
 
 
<big>इदानीं क्षि॒ क्षये इति धातुः | इकारः अनुदात्तः अस्ति, अतः धातुः अनुदात्तेत्‌, आत्मनेपदी च किल, क्षयते इति रूपम्‌ | इत्यस्मिन् अस्माकं भ्रान्तिः | कारणम्‌, अस्मिन्‌ इकारे अनुनासिकचिह्नं नास्ति, अतः इत्‌-संज्ञकः नास्ति | तर्हि अनुदात्तेत्‌ इति कथं वदेम ? धातौ अनुदात्त-इकारः इत्‌-संज्ञकः चेदेव खलु धातुः अनुदात्तेत्‌ (अनुदात्तः इत्‌ यस्य सः) इति वक्तुं शक्नुमः | तर्हि कः स्वरः अवशिष्यते, कः स्वरः च अपगच्छेत्‌ इति अवधेयम्‌ | स्वरेण पदनिर्णयः अस्माभिः कदा क्रियते ? यदा स्वरः शिष्यते इति न; यदा स्वरः इत्‌-संज्ञकः, नाम अपगच्छति, तदा एव क्रियते | क्षि॒ धातौ इकारः अनुदात्तः तु अस्ति, किन्तु इत्‌-संज्ञकः नास्ति | अतः क्षयति | अस्य धातोः इकारः इड्‌-व्यवस्थां सूचयति, न तु पदव्यवस्थाम्‌ |</big>
 
 
<big>स्मृ॒-धातौ ऋकारः अनुदात्तः किन्तु अनुनासिकः न अतः अनुदात्तेत्‌ न; अयं ऋकारः इड्‌-व्यवस्थां सूचयति, न तु पदव्यवस्थाम्‌ | स्मृ धातुः अनुदात्तेत्‌ अपि नास्ति, ङित्‌ अपि नास्ति, स्वरितेत्‌ अपि नास्ति, ञित्‌ अपि नास्ति; अतः अयं धातुः परस्मैपदी | स्मरति इति लटि |</big>
 
 
<big><u>अभ्यासः</u></big>
 
<big>इमे धातवः सर्वे भ्वादिगणीयाः | सर्वप्रथमं धातुः आत्मनेपदी, उभयपदी, परस्मैपदी वा इति सूच्यताम्‌ | तदा लौकिक-धातुः कः इति वदतु; तदा विकरणसहितम्‌ अङ्गं किम्‌, तदा लट्‌-लकारस्य रूपम्‌ |</big>
 
<big>उदा० वञ्चुँ इति धातुः | उदात्तेत्‌ अतः परस्मैपदी | लौकिकधातुः वञ्च्‌ | विकरणसहितम्‌ अङ्गं वञ्च | लटि वञ्चति | वञ्चुँ → वञ्च्‌ → (वञ्च्‌ + शप्‌) → वञ्च → (वञ्च + ति) → वञ्चति |</big>
 
<big>मलँ॒, बुधिँ॑र्‍ (बुधि॑र्‍), अक्षूँ , टुभ्राशृँ॒ , हृ॒ञ्‌ , तॄ, दे॒ङ्‌, भृ॒ञ्‌ , द्रै॒, इटँ, मिदृँ (दृ॑), जिषुँ, वृकँ॒, अटँ, वृधुँ॒</big>
teachers
810

edits