03---dhaatuvijjaanam/3---dhaatuvijjaanam

Revision as of 01:04, 10 May 2021 by Sharmila (talk | contribs)

03---dhaatuvijjaanam/3---dhaatuvijjaanam
ध्वनिमुद्रणानि
2016 वर्गः --
१) dhAtu-viJjAnam-3---svara-cihnAni_+_padavyavasthA_2016-04-13  
२) dhAtu-viJjAnam-3---padavyavasthA_+_abhyAsaH_2016-04-20
३) dhAtu-viJjAnam-3---iDvyavasthA_2016-04-27
४) dhAtu-viJjAnam-3---iDvyavasthA-cintanam_2016-05-04   
५) dhAtu-viJjAnam-3---iDvyavasthA-udAharaNAni_+_abhyAsaH_2016-05-08   
६) padavyavasthA-iDvyavasthA---abhyAsaH_2016-05-15
2014 वर्गः --
५) dhAtu-vigyAnam_3_padavyavasthA_2014-11-25
६) dhAtu-vigyAnam_3_padavyavasthA-abhyAsaH + IDvyavasthA_2014-12-02
७) dhAtu-vigyAnam_3_IDvyavasthA_+_abhyAsaH_2014-12-09
८) dhAtu-vigyAnam_3_IDvyavasthA-abhyAsaH_+_sArvadhAtukaprakaraNasya_paricayaH_2014-12-16


पाणिनीयशास्त्रम्‌ अनुबन्धान्‌ आश्रित्य, स्वरांश्च आश्रित्य प्रवर्तते | एतयोः ज्ञानम्‌ अन्तरा पाणिनीयशास्त्रस्य अवगतिः न भवति | धातुषु प्रत्ययेषु च के अनुबन्धाः, अपि च धातुषु स्वरः कीदृशः (उदात्तः, अनुदात्तः, स्वरितो वा)—इदं सर्वम्‌ आश्रित्य एव पाणिनीयशात्रं प्रवर्तते |

एतावता मूलधातौ निबन्धाः के के अपि च कैः कैः सूत्रैः इत्‌-संज्ञकाः वर्णाः विहिताः, इति अस्माभिः अधीतम्‌ | तत्परं सत्वम्‌, नत्वम्‌, नुमागमः, उपधादीर्घः इत्येभिः कार्यैः परिपक्वो लौकिक-धातुः कथं जायते इत्यपि अवलोकितम्‌ |


आहत्य एषु सर्वेषु कार्येषु, स्वराणां कृते एकं विशिष्टं ज्ञानम्‌ अस्माभिः प्राप्तम्‌—अनुनासिकज्ञानम्‌ इति | धातुषु अनुनासिकज्ञानेन एव अचाम्‌ इत्‌-संज्ञा सम्भवति | अधुना तदाधारेण अग्रिमः सिद्धान्तः—स्वरविज्ञानेन पदव्यवस्था अपि च सेट्‌-अनिट्‌-व्यवस्था ज्ञायते | तर्हि धातुपाठे प्रथमप्रमुखविषयः लौकिक-धातुः कथं सञ्जायते इति; स च अस्माभिः परिशीलितः‌ | अधुना द्वितीयप्रमुखविषयः—स्वरविज्ञानम्‌ | तस्मिन्‌ उपविषयद्वयम्‌—पदव्यवस्था इड्‌व्यवस्था च |


स्वरविज्ञानम्‌

इत्‌-संज्ञकेन अच्‌-वर्णेन धातुः किंपदी इति निर्णयः क्रियते, अपि च अनुबन्धलोपानन्तरम्‌ अवशिष्टस्वरेण निर्णयः क्रियते अयं धातुः इट्‌ अनिट्‌ वा इति |

१. स्वरः इत्‌-संज्ञकः चेत्‌, तर्हि तस्य अनुदात्त/उदात्त/स्वरित इत्येभिः वर्गैः पदव्यवस्था ज्ञायते |

२. स्वरः इत्‌-संज्ञकः नास्ति चेत्‌, तर्हि तस्य अनुदात्त/उदात्त/स्वरित इत्येभिः वर्गैः इड्व्यवस्था ज्ञायते |

सम्प्रति अनुदात्त/उदात्त/स्वरित इत्येतानि चिह्नानि कथम्‌ अभिज्ञातुं शक्नुमः इत्यवलोकयाम |


स्वरचिह्नानि

रक्षँ इत्यस्मिन्‌ धातौ ँ इति चिह्नम्‌ अचः अनुनासिकत्वं सूचयति | यथा डुपचँष्‌ पाके, खनुँ अवधारणे, भजँ सेवायाम्‌, वचँ परिभाषणे, आसँ उपवेशने | एवं च ँ इत्यनेन चिह्नेन अङ्कितः अच्‌ वर्णः अनुनासिकः भवति |


धातुषु अचः अधस्तात्‌ या रेखा दृश्यते (यथा "अ॒" इति), सा रेखा अचः अनुदात्तत्वं सूचयति | आसँ॒ उपवेशने इत्यस्मिन्‌ धातौ, सकारोत्तरवर्ती यः अकारः अस्ति, सः अकारः अनुदात्तः इति अधःस्थं चिह्नं सूचयति | धातुषु अचः उपरिष्टात्‌ या रेखा दृश्यते (यथा "अ॑" इति), तया अचः स्वरितत्वं सूच्यते | यथा डुपच॑ष्‌* पाके इत्यस्मिन्‌ धातौ, चकारोत्तरवर्ती यः अकारः अस्ति, सः अकारः स्वरितः इति उपरिस्थं चिह्नं सूचयति |


(*मम सङ्गणके ॑ ँ इत्यनयोः द्वयोः चिह्नयोः स्थलं साक्षात्‌ स्वरस्य उपरि, अतः तयोः सहवासः समीचीनं न दृश्यते (आँ॑) | अतः अत्र यद्यपि उभयम्‌ अपेक्षते, तथापि केवलं ॑ स्थापितम्‌; ँ न स्थापितम्‌ |)


तर्हि उपरि चिह्नम्‌ अस्ति चेत्‌ स्वरः स्वरितः, अधः चिह्नम्‌ अस्ति चेत्‌, अनुदात्तः | उपरि अपि नास्ति, अधः अपि नास्ति, तर्हि सः स्वरः उदात्तः | यथा व॒सँ-धातौ वकारोत्तरवर्ती यः अकारः अस्ति, तस्य अधः चिह्नम्‌ अस्ति अतः सः अकारः अनुदात्तः | परन्तु शिषँ-धातौ शकारोत्तरवर्ती यः इकारः अस्ति, तस्य उपरि अपि अधः अपि चिह्नं नास्ति, अतः सः इकारः उदात्तः |


बहुत्र अनुदात्तः स्वरः अनुनासिकः अपि अस्ति, नाम चिह्नद्वयं अस्ति (अँ॒) | तथैव बहुत्र स्वरितः स्वरः अनुनासिकः अपि अस्ति, चिह्नद्वयसहितः इति (अँ॑) | परन्तु अनुदात्तः सर्वथा अनुनासिकः, अथवा स्वरितः सर्वथा अनुनासिकः, इति नियमः नास्ति एव | कदाचित्‌ भवितुम्‌ अर्हति, कदाचित्‌ नाऽपि भवितुम्‌ अर्हति |


एषां त्रयाणां संज्ञकस्वराणाम्‌ उच्चारणभेदाः | उच्चैरुदात्तः (१.२.२९) इत्यनेन उदात्तः नाम ध्वनिः उपरि दिशि गच्छति | नीचैरनुदात्तः (१.२.३०) इत्यनेन अनुदात्तः नाम ध्वनिः अधो दिशि गच्छति | समाहारः स्वरितः (१.२.३१) इत्यनेन स्वरितः नाम ध्वनिः न उपरि न वा अधः | तर्हि उच्चारणभेदाः सन्ति, परन्तु इदानींतनकाले व्याकरणक्षेत्रे एतादृशः अभ्यासः प्रायः लुप्तः |


अधुना पाणिनीयधातुपाठे पदव्यवस्थाम्‌ अवलोकयाम; अनन्तरम्‌ इड्व्यवस्था दृश्यताम्‌ |


I. पदव्यवस्था

पदव्यवस्था इत्युक्ते धातुः परस्मैपदिधातुः वा, आत्मनेपदिधातुः वा, उभयपदिधातुः वा, इत्यस्य बोधः |

अस्माभिः पूर्वमेव दृष्टं यत्‌ धातुषु अनुनासिकः अच्‌ इत्‌-संज्ञां प्रयोजयति | इत्‌-संज्ञां प्रयोजयति नाम अनुनासिकस्वरेण इत्‌-संज्ञा सूच्यते, इत्यर्थः | अस्य एव इत्‌-संज्ञकस्य स्वरस्य अनुदात्तत्वम्‌, उदात्तत्वं, स्वरितत्वं च पदव्यवस्थां सूचयति | तर्हि इत्‌-संज्ञकेन स्वरेण पदव्यवस्था ज्ञायते—कथम्‌ इति पश्येम | यथा एधँ॒ वृद्धौ | धकारोत्तरवर्ती यः अकारः अस्ति, सः अनुनासिकः अस्ति | अनुनासिकः अतः इत्-संज्ञकः | अधस्थात्‌ चिह्नम्‌ अस्ति अतः अनुदात्तः अपि अस्ति | अनुनासिकः अकारः अनुदात्तः अपि अस्ति, अतः एधँ॒ धातुः आत्मनेपदी | किमर्थम्‌ इति चेत्‌, अग्रे सरेम |


a. आत्मनेपदत्वम्‌


अनुदात्तङित‌ आत्मनेपदम्‌ (१.३.१२) = यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्‌-संज्ञा भवति, सः धातुः आत्मनेपदी | अनुदात्तश्च ङ्‌ च अनुदात्तङौ, तौ इतौ यस्य सः अनुदात्तङित्‌ द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात्‌ अनुदात्तङितः | अनुदात्तङितः पञ्चम्यन्तम्‌, आत्मनेपदं प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | भूवादयो धातवः (१.३.१) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | टीकाकाराः सूचयन्ति यत्‌ लस्य इति पदम्‌ आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः आत्मनेपदम्‌ इत्यस्मिन्‌ | अनुवृत्ति-सहितसूत्रम्— अनुदात्तङितः धातोः लस्य आत्मनेपदम्‌ |


'अनुदात्तेत्‌' नाम अनुदात्तः इत्‌ यस्य सः (धातुः) | अनुदात्तेद्भ्यः धातुभ्यः ङिद्भ्यः धातुभ्यः च आत्मनेपदसंज्ञकाः प्रत्ययाः विधीयन्ते इति सूत्रार्थः | तर्हि यः धातुः अनुदात्तेत्‌ भवति अथवा ङित्‌ भवति, सः आत्मनेपदिधातुः अस्ति |


यथा उपर्युक्ते एधँ॒-धातौ अनुनासिकः (नाम इत्‌‍-संज्ञकः) अकारः अनुदात्तः अपि अस्ति, अतः एधँ॒-धातुः अनुदात्तेत्‌ अस्ति, अतः आत्मनेपदी | तर्हि एधते इति लटि—न तु एधति | कम्पँ॒ धातुः अपि ईदृशः, अनुदात्तेत्‌ | अतः आत्मनेपदी, कम्पते इति लटि |


धातुः अनुदात्तेत्‌ अस्ति चेत्‌, आत्मनेपदी | धातुः ङित्‌ अस्ति चेदपि तथैव, आत्मनेपदी | शीङ्‌ स्वप्ने इति धातुः ङित्‌, अतः सोऽपि आत्मनेपदी | शेते इति लटि | डीङ्‌ विहायसा (वायौ) गतौ इति धातुः ङित्‌, अतः आत्मनेपदी, डयते इति | तर्हि अनुदात्तस्य स्वरस्य इत्‌-संज्ञा-कारणेन अथवा ङकारस्य इत्‌-संज्ञा-कारणेन धातुः आत्मनेपदी भवति |

b. उभयपदत्वम्‌

स्वरितञितः कर्त्रभिप्राये क्रियाफले (१.३.७२) = यस्य धातोः स्वरितस्वरस्य ञकारस्य च इत्‌-संज्ञा भवति, तस्य क्रियायाः फलं कर्तुः अस्ति चेत्‌ धातुतः आत्मनेपदतिङ्‌प्रत्ययाः विहिताः; क्रियायाः फलं कर्तुः नास्ति चेत् धातुतः परस्मैपदतिङ्‌प्रत्ययाः विहिताः भवन्ति | नाम एतादृशः धातुः उभयपदी, इति सारांशः | स्वरितश्च ञ्‌ च स्वरितञौ, तौ इतौ यस्य स स्वरितञित्‌, द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात्‌ स्वरितञितः | कर्तारम्‌ अभिप्रैति इति कर्त्रभिप्रायम्‌ (फलम्‌) उपपद-तत्पुरुषः (यथा कुम्भकारः), तस्मिन्‌ कर्त्रभिप्रये | क्रियायाः फलं क्रियाफलं षष्ठी-तत्पुरुषः, तस्मिन्‌ क्रियाफले | स्वरितञितः पञ्चम्यन्तम्‌, कर्त्रभिप्राये सप्तम्यन्तम्‌, क्रियाफले सप्तम्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | भूवादयो धातवः (१.३.१) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | लस्य इति पदम्‌ आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः आत्मनेपदम्‌ इत्यस्मिन्‌ | अनुवृत्ति-सहितसूत्रम्— स्वरितञितः धातोः कर्त्रभिप्राये क्रियाफले लस्य आत्मनेपदम्‌ |


धातुः यदि स्वरितेत्‌ अस्ति (स्वरितः इत्‌ यस्य सः) अथवा ञित्‌ अस्ति, तर्हि धातुः उभयपदी भवति | यथा डुपचँ॑ष्‌ पाके | अत्र चकारोत्तरवर्ती यः अकारः अस्ति, सः स्वरितः अस्ति, इत्‌-संज्ञकश्च | अतः धातुः स्वरितेत्‌ अस्ति, उभयपदी च— लटि पचति, पचते |


प्राचीनकाले स्वरविज्ञानम्‌ आसीत्‌, अतः तदाधारेण पदव्यवस्था ज्ञायते स्म | इदानींतनकाले डुपचँ॑ष्‌-धातुः उभयपदी अस्ति इति जानीमः; अपि च ञित्‌ नास्ति, अतः स्वरितेत्‌ स्यात्‌ इति अनुमानं कुर्मः | एवम्‌ ऊहां कृत्वा एव अद्यत्वे धातुपाठे एतादृशानि चिह्नानि कैश्चित्‌ योजितानि | यथा अनुनासिकचिह्नानि न वर्तन्ते सामान्यधातुग्रन्थेषु, तथैव अनुदात्तस्वरितचिह्नानि अपि ग्रन्थेषु सामान्यतया न लभ्यन्ते | किन्तु केचन ऊहां कृत्वा स्थापितवन्तः; तेषु दीक्षितपुष्पा माता अस्मिन्‌ क्षेत्रे नायिका |


अन्यत्‌ उदाहरणं पश्येम, ञितः इति | डुकृञ्‌ धातुः ञित्‌ अस्ति | ञित्‌ अतः अनेन सूत्रेण उभयपदी अस्ति— लटि करोति, कुरुते | वे॒ञ्‌, ह्वे॒ञ्‌, व्ये॒ञ्‌ अपि उभयपदिनः |


उपर्युक्तयोः सूत्रयोः ज्ञानेन के के परस्मैपदिधातवः सन्ति इति अपि अवगम्यते | यः कोऽपि धातुः ङित्‌ अपि नास्ति, अनुदात्तेत् अपि नास्ति, ञित्‌ अपि नास्ति, स्वरितेत्‌ अपि नास्ति, सः धातुः परस्मैपदी एव | धातुः उदात्तेत्‌ अस्ति चेत्, परस्मैपदी | किन्तु उदात्तेत्‌ नास्ति चेदपि, यदि ङित्‌, अनुदात्तेत्, ञित्‌, स्वरितेत्‌ नास्ति, तर्हि सः धातुः परस्मैपदी एव | यथा रिषँ, गै॒, मुजँ, खुजुँ, णशँ, एते सर्वे धातवः अपि परस्मैपदिनः | परस्मैपदिधातूनां कृते पृथक्‌ सूत्रम्‌ अपि अस्ति | तच्च अग्रे दत्तम्‌ अस्ति—


c. परस्मैपदत्वम्‌


शेषात्कर्तरि परस्मैपदम्‌ (१.३.७८) = यत्र धातोः आत्मनेपदस्य कारणं नास्ति, तत्र कर्त्रर्थे परस्मैपदं भवति | आत्मनेपदनिमित्तहीनात्‌ धातोः कर्तरि परस्मैपदं स्यात्‌ | शेषात्‌ पञ्चम्यन्तम्‌, कर्तरि सप्तम्यन्तम्‌, परस्मैपदं प्रथमान्तम्‌, त्रिपदमिदं सूत्रम्‌ | भूवादयो धातवः (१.३.१) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | लस्य इति पदम्‌ आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः परस्मैपदम्‌ इत्यस्मिन्‌ | अनुवृत्ति-सहित-सूत्रम्‌— शेषात्‌ धातोः कर्तरि लस्य परस्मैपदम्‌ |


अतः अनेन सूत्रेण अवशिष्टाः धातवः सर्वे परस्मैपदिनः | धातुः अनुदात्तेत्‌, ङित्‌, स्वरितेत्‌, ञित्‌ च नास्ति चेत्‌, सः धातुः परस्मैपदिधातुः एव | ङितः अनुदात्तेतः धातवः एव आत्मनेपदिनः | ञितः स्वरितेतः धातवः एव उभयपदिनः | यदि अवशिष्टाः धातवः सर्वे परस्मैपदिनः, तर्हि सूत्रस्य का आवश्यकता ? इति चेत्‌, कर्तरि | कर्त्रर्थे अस्ति चेदेव धातुः परस्मैपदी | कर्मणि भावे परस्मैपदी न भवति इति सूचनार्थं सूत्रं विरचितम्‌ |


पठँ-धातौ ठकारोत्तरवर्ती यः अकारः अस्ति, सः न अनुदात्तः न वा स्वरितः; चिह्नं नास्ति एव, अतः उदात्तः | उदात्तः अपि अनुनासिकः अपि अतः अयं धातुः उदात्तेत्‌; उदात्तेत्‌ अतः परस्मैपदी | तथैव लिखँ धातुः | धावुँ (गतिशुद्ध्योः) इति उकारस्य उदाहरणम्‌— उकारः उदात्तः अनुनासिकः च, अतः धातुः उदात्तेत्‌; तर्हि परस्मैपदी | लटि धावति |


इदानीं क्षि॒ क्षये इति धातुः | इकारः अनुदात्तः अस्ति, अतः धातुः अनुदात्तेत्‌, आत्मनेपदी च किल, क्षयते इति रूपम्‌ | इत्यस्मिन् अस्माकं भ्रान्तिः | कारणम्‌, अस्मिन्‌ इकारे अनुनासिकचिह्नं नास्ति, अतः इत्‌-संज्ञकः नास्ति | तर्हि अनुदात्तेत्‌ इति कथं वदेम ? धातौ अनुदात्त-इकारः इत्‌-संज्ञकः चेदेव खलु धातुः अनुदात्तेत्‌ (अनुदात्तः इत्‌ यस्य सः) इति वक्तुं शक्नुमः | तर्हि कः स्वरः अवशिष्यते, कः स्वरः च अपगच्छेत्‌ इति अवधेयम्‌ | स्वरेण पदनिर्णयः अस्माभिः कदा क्रियते ? यदा स्वरः शिष्यते इति न; यदा स्वरः इत्‌-संज्ञकः, नाम अपगच्छति, तदा एव क्रियते | क्षि॒ धातौ इकारः अनुदात्तः तु अस्ति, किन्तु इत्‌-संज्ञकः नास्ति | अतः क्षयति | अस्य धातोः इकारः इड्‌-व्यवस्थां सूचयति, न तु पदव्यवस्थाम्‌ |


स्मृ॒-धातौ ऋकारः अनुदात्तः किन्तु अनुनासिकः न अतः अनुदात्तेत्‌ न; अयं ऋकारः इड्‌-व्यवस्थां सूचयति, न तु पदव्यवस्थाम्‌ | स्मृ धातुः अनुदात्तेत्‌ अपि नास्ति, ङित्‌ अपि नास्ति, स्वरितेत्‌ अपि नास्ति, ञित्‌ अपि नास्ति; अतः अयं धातुः परस्मैपदी | स्मरति इति लटि |


अभ्यासः

इमे धातवः सर्वे भ्वादिगणीयाः | सर्वप्रथमं धातुः आत्मनेपदी, उभयपदी, परस्मैपदी वा इति सूच्यताम्‌ | तदा लौकिक-धातुः कः इति वदतु; तदा विकरणसहितम्‌ अङ्गं किम्‌, तदा लट्‌-लकारस्य रूपम्‌ |

उदा० वञ्चुँ इति धातुः | उदात्तेत्‌ अतः परस्मैपदी | लौकिकधातुः वञ्च्‌ | विकरणसहितम्‌ अङ्गं वञ्च | लटि वञ्चति | वञ्चुँ → वञ्च्‌ → (वञ्च्‌ + शप्‌) → वञ्च → (वञ्च + ति) → वञ्चति |

मलँ॒, बुधिँ॑र्‍ (बुधि॑र्‍), अक्षूँ , टुभ्राशृँ॒ , हृ॒ञ्‌ , तॄ, दे॒ङ्‌, भृ॒ञ्‌ , द्रै॒, इटँ, मिदृँ (दृ॑), जिषुँ, वृकँ॒, अटँ, वृधुँ॒