03---dhaatuvijjaanam/3---dhaatuvijjaanam

Revision as of 01:01, 10 May 2021 by Sharmila (talk | contribs)

03---dhaatuvijjaanam/3---dhaatuvijjaanam
ध्वनिमुद्रणानि
2016 वर्गः --
१) dhAtu-viJjAnam-3---svara-cihnAni_+_padavyavasthA_2016-04-13  
२) dhAtu-viJjAnam-3---padavyavasthA_+_abhyAsaH_2016-04-20
३) dhAtu-viJjAnam-3---iDvyavasthA_2016-04-27
४) dhAtu-viJjAnam-3---iDvyavasthA-cintanam_2016-05-04   
५) dhAtu-viJjAnam-3---iDvyavasthA-udAharaNAni_+_abhyAsaH_2016-05-08   
६) padavyavasthA-iDvyavasthA---abhyAsaH_2016-05-15
2014 वर्गः --
५) dhAtu-vigyAnam_3_padavyavasthA_2014-11-25
६) dhAtu-vigyAnam_3_padavyavasthA-abhyAsaH + IDvyavasthA_2014-12-02
७) dhAtu-vigyAnam_3_IDvyavasthA_+_abhyAsaH_2014-12-09
८) dhAtu-vigyAnam_3_IDvyavasthA-abhyAsaH_+_sArvadhAtukaprakaraNasya_paricayaH_2014-12-16


पाणिनीयशास्त्रम्‌ अनुबन्धान्‌ आश्रित्य, स्वरांश्च आश्रित्य प्रवर्तते | एतयोः ज्ञानम्‌ अन्तरा पाणिनीयशास्त्रस्य अवगतिः न भवति | धातुषु प्रत्ययेषु च के अनुबन्धाः, अपि च धातुषु स्वरः कीदृशः (उदात्तः, अनुदात्तः, स्वरितो वा)—इदं सर्वम्‌ आश्रित्य एव पाणिनीयशात्रं प्रवर्तते |

एतावता मूलधातौ निबन्धाः के के अपि च कैः कैः सूत्रैः इत्‌-संज्ञकाः वर्णाः विहिताः, इति अस्माभिः अधीतम्‌ | तत्परं सत्वम्‌, नत्वम्‌, नुमागमः, उपधादीर्घः इत्येभिः कार्यैः परिपक्वो लौकिक-धातुः कथं जायते इत्यपि अवलोकितम्‌ |


आहत्य एषु सर्वेषु कार्येषु, स्वराणां कृते एकं विशिष्टं ज्ञानम्‌ अस्माभिः प्राप्तम्‌—अनुनासिकज्ञानम्‌ इति | धातुषु अनुनासिकज्ञानेन एव अचाम्‌ इत्‌-संज्ञा सम्भवति | अधुना तदाधारेण अग्रिमः सिद्धान्तः—स्वरविज्ञानेन पदव्यवस्था अपि च सेट्‌-अनिट्‌-व्यवस्था ज्ञायते | तर्हि धातुपाठे प्रथमप्रमुखविषयः लौकिक-धातुः कथं सञ्जायते इति; स च अस्माभिः परिशीलितः‌ | अधुना द्वितीयप्रमुखविषयः—स्वरविज्ञानम्‌ | तस्मिन्‌ उपविषयद्वयम्‌—पदव्यवस्था इड्‌व्यवस्था च |


स्वरविज्ञानम्‌

इत्‌-संज्ञकेन अच्‌-वर्णेन धातुः किंपदी इति निर्णयः क्रियते, अपि च अनुबन्धलोपानन्तरम्‌ अवशिष्टस्वरेण निर्णयः क्रियते अयं धातुः इट्‌ अनिट्‌ वा इति |

१. स्वरः इत्‌-संज्ञकः चेत्‌, तर्हि तस्य अनुदात्त/उदात्त/स्वरित इत्येभिः वर्गैः पदव्यवस्था ज्ञायते |

२. स्वरः इत्‌-संज्ञकः नास्ति चेत्‌, तर्हि तस्य अनुदात्त/उदात्त/स्वरित इत्येभिः वर्गैः इड्व्यवस्था ज्ञायते |

सम्प्रति अनुदात्त/उदात्त/स्वरित इत्येतानि चिह्नानि कथम्‌ अभिज्ञातुं शक्नुमः इत्यवलोकयाम |


स्वरचिह्नानि

रक्षँ इत्यस्मिन्‌ धातौ ँ इति चिह्नम्‌ अचः अनुनासिकत्वं सूचयति | यथा डुपचँष्‌ पाके, खनुँ अवधारणे, भजँ सेवायाम्‌, वचँ परिभाषणे, आसँ उपवेशने | एवं च ँ इत्यनेन चिह्नेन अङ्कितः अच्‌ वर्णः अनुनासिकः भवति |


धातुषु अचः अधस्तात्‌ या रेखा दृश्यते (यथा "अ॒" इति), सा रेखा अचः अनुदात्तत्वं सूचयति | आसँ॒ उपवेशने इत्यस्मिन्‌ धातौ, सकारोत्तरवर्ती यः अकारः अस्ति, सः अकारः अनुदात्तः इति अधःस्थं चिह्नं सूचयति | धातुषु अचः उपरिष्टात्‌ या रेखा दृश्यते (यथा "अ॑" इति), तया अचः स्वरितत्वं सूच्यते | यथा डुपच॑ष्‌* पाके इत्यस्मिन्‌ धातौ, चकारोत्तरवर्ती यः अकारः अस्ति, सः अकारः स्वरितः इति उपरिस्थं चिह्नं सूचयति |


(*मम सङ्गणके ॑ ँ इत्यनयोः द्वयोः चिह्नयोः स्थलं साक्षात्‌ स्वरस्य उपरि, अतः तयोः सहवासः समीचीनं न दृश्यते (आँ॑) | अतः अत्र यद्यपि उभयम्‌ अपेक्षते, तथापि केवलं ॑ स्थापितम्‌; ँ न स्थापितम्‌ |)


तर्हि उपरि चिह्नम्‌ अस्ति चेत्‌ स्वरः स्वरितः, अधः चिह्नम्‌ अस्ति चेत्‌, अनुदात्तः | उपरि अपि नास्ति, अधः अपि नास्ति, तर्हि सः स्वरः उदात्तः | यथा व॒सँ-धातौ वकारोत्तरवर्ती यः अकारः अस्ति, तस्य अधः चिह्नम्‌ अस्ति अतः सः अकारः अनुदात्तः | परन्तु शिषँ-धातौ शकारोत्तरवर्ती यः इकारः अस्ति, तस्य उपरि अपि अधः अपि चिह्नं नास्ति, अतः सः इकारः उदात्तः |


बहुत्र अनुदात्तः स्वरः अनुनासिकः अपि अस्ति, नाम चिह्नद्वयं अस्ति (अँ॒) | तथैव बहुत्र स्वरितः स्वरः अनुनासिकः अपि अस्ति, चिह्नद्वयसहितः इति (अँ॑) | परन्तु अनुदात्तः सर्वथा अनुनासिकः, अथवा स्वरितः सर्वथा अनुनासिकः, इति नियमः नास्ति एव | कदाचित्‌ भवितुम्‌ अर्हति, कदाचित्‌ नाऽपि भवितुम्‌ अर्हति |


एषां त्रयाणां संज्ञकस्वराणाम्‌ उच्चारणभेदाः | उच्चैरुदात्तः (१.२.२९) इत्यनेन उदात्तः नाम ध्वनिः उपरि दिशि गच्छति | नीचैरनुदात्तः (१.२.३०) इत्यनेन अनुदात्तः नाम ध्वनिः अधो दिशि गच्छति | समाहारः स्वरितः (१.२.३१) इत्यनेन स्वरितः नाम ध्वनिः न उपरि न वा अधः | तर्हि उच्चारणभेदाः सन्ति, परन्तु इदानींतनकाले व्याकरणक्षेत्रे एतादृशः अभ्यासः प्रायः लुप्तः |


अधुना पाणिनीयधातुपाठे पदव्यवस्थाम्‌ अवलोकयाम; अनन्तरम्‌ इड्व्यवस्था दृश्यताम्‌ |


I. पदव्यवस्था

पदव्यवस्था इत्युक्ते धातुः परस्मैपदिधातुः वा, आत्मनेपदिधातुः वा, उभयपदिधातुः वा, इत्यस्य बोधः |

अस्माभिः पूर्वमेव दृष्टं यत्‌ धातुषु अनुनासिकः अच्‌ इत्‌-संज्ञां प्रयोजयति | इत्‌-संज्ञां प्रयोजयति नाम अनुनासिकस्वरेण इत्‌-संज्ञा सूच्यते, इत्यर्थः | अस्य एव इत्‌-संज्ञकस्य स्वरस्य अनुदात्तत्वम्‌, उदात्तत्वं, स्वरितत्वं च पदव्यवस्थां सूचयति | तर्हि इत्‌-संज्ञकेन स्वरेण पदव्यवस्था ज्ञायते—कथम्‌ इति पश्येम | यथा एधँ॒ वृद्धौ | धकारोत्तरवर्ती यः अकारः अस्ति, सः अनुनासिकः अस्ति | अनुनासिकः अतः इत्-संज्ञकः | अधस्थात्‌ चिह्नम्‌ अस्ति अतः अनुदात्तः अपि अस्ति | अनुनासिकः अकारः अनुदात्तः अपि अस्ति, अतः एधँ॒ धातुः आत्मनेपदी | किमर्थम्‌ इति चेत्‌, अग्रे सरेम |


a. आत्मनेपदत्वम्‌


अनुदात्तङित‌ आत्मनेपदम्‌ (१.३.१२) = यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्‌-संज्ञा भवति, सः धातुः आत्मनेपदी | अनुदात्तश्च ङ्‌ च अनुदात्तङौ, तौ इतौ यस्य सः अनुदात्तङित्‌ द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात्‌ अनुदात्तङितः | अनुदात्तङितः पञ्चम्यन्तम्‌, आत्मनेपदं प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | भूवादयो धातवः (१.३.१) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | टीकाकाराः सूचयन्ति यत्‌ लस्य इति पदम्‌ आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः आत्मनेपदम्‌ इत्यस्मिन्‌ | अनुवृत्ति-सहितसूत्रम्— अनुदात्तङितः धातोः लस्य आत्मनेपदम्‌ |


'अनुदात्तेत्‌' नाम अनुदात्तः इत्‌ यस्य सः (धातुः) | अनुदात्तेद्भ्यः धातुभ्यः ङिद्भ्यः धातुभ्यः च आत्मनेपदसंज्ञकाः प्रत्ययाः विधीयन्ते इति सूत्रार्थः | तर्हि यः धातुः अनुदात्तेत्‌ भवति अथवा ङित्‌ भवति, सः आत्मनेपदिधातुः अस्ति |


यथा उपर्युक्ते एधँ॒-धातौ अनुनासिकः (नाम इत्‌‍-संज्ञकः) अकारः अनुदात्तः अपि अस्ति, अतः एधँ॒-धातुः अनुदात्तेत्‌ अस्ति, अतः आत्मनेपदी | तर्हि एधते इति लटि—न तु एधति | कम्पँ॒ धातुः अपि ईदृशः, अनुदात्तेत्‌ | अतः आत्मनेपदी, कम्पते इति लटि |


धातुः अनुदात्तेत्‌ अस्ति चेत्‌, आत्मनेपदी | धातुः ङित्‌ अस्ति चेदपि तथैव, आत्मनेपदी | शीङ्‌ स्वप्ने इति धातुः ङित्‌, अतः सोऽपि आत्मनेपदी | शेते इति लटि | डीङ्‌ विहायसा (वायौ) गतौ इति धातुः ङित्‌, अतः आत्मनेपदी, डयते इति | तर्हि अनुदात्तस्य स्वरस्य इत्‌-संज्ञा-कारणेन अथवा ङकारस्य इत्‌-संज्ञा-कारणेन धातुः आत्मनेपदी भवति |