04---aShTAdhyAyI-paricayaH/04---sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca---adhikacintanam

Revision as of 16:12, 8 May 2021 by VNatarajan (talk | contribs) (Copied text and links from Google Sites)

04---aShTAdhyAyI-paricayaH/04---sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca---adhikacintanam

ध्वनिमुद्रणानि -


१) sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca--1_2016-06-29

२) sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca--2_2016-07-06


१. 'सार्वधातुकम्‌' 'आर्धधातुकम्‌' इति नामद्वयं कुतः आगतम्‌ ? अष्टाध्याय्यां च द्वयोः नाम्नोः कीदृशव्यवहारः ?

'सार्वधातुकम्‌' 'आर्धधातुकम्‌' इति नामद्वयं वस्तुतः पाणिनिना एव दत्तं; नामकरणं भवति द्वाभ्यां संज्ञासूत्राभ्याम्—


तिङ्‌शित्सार्वधातुकम्‌ (३.४.११३)

आर्धधातुकं शेषः (३.४.११४)


इमे द्वे नामनी केषाम्‌ भवतः ?


यत्‌ तिङ्‍ च शित्‌ च भवति, तस्य नाम सार्वधातुकम्‌ | अपि च यत्‌ तिङ्‌ शित्‌ च नास्ति, तस्य नाम आर्धधातुकम्‌ | अस्तु, किन्तु 'यत्‌' नाम किम्‌ ? कस्य नाम भवति सार्वधातुकं, पुनः कस्य आर्धधातुकम्‌ ? अस्य प्रश्नस्य उत्तरार्थम्‌ उपरितनसूत्रद्वयं कस्मिन्‌ अध्याये इति द्रष्टव्यम्‌ | द्वेऽपि सूत्रे तृतीयाध्याये | अस्मिन्‌ अध्याये केषां सूत्राणाम्‌ अधिकारः ?


१. प्रत्ययः (३.१.१) = [अधिकारः ३.१.१ - ५.४.१६०]

२. परश्च (३.१.२) = [अधिकारः ३.१.१ – ५.४.१६०]

३. धातोः (३.१.९१) = [अधिकारः ३.१.९१ – ३.४.११७]


एभिः अधिकारसूत्रैः अवगच्छामः यत्‌ तृतीयाध्याये यस्य कस्यापि विधानं भवति, सः धातुभ्यः विधीयते, अपि च तस्य नाम प्रत्ययः | अतः सार्वधातुकं च आर्धधातुकं च इति प्रत्ययस्य नाम, तादृशः च प्रत्ययः यः धातुभ्यः विधीयते | अनेन उत्तरं प्राप्तम्‌ | अष्टाध्याय्यां सार्वधातुकं च आर्धधातुकं च प्रत्ययानाम्‌ एव नाम |


२. सार्वधातुकधातुः नाम कः ? आर्धधातुकधातुः नाम कः ?


धातूनाम्‌ एतादृशनामकरणं किमपि नास्ति एव | धातोः विभजनं सार्वधातुकत्वेन आर्धधातुकत्वेन च न क्रियते |


३. सार्वधातुकप्रत्ययः नाम कः ? आर्धधातुकप्रत्ययः नाम कः ?


यः प्रत्ययः धातुभ्यः विधीयते अपि च तिङ्‌ अथवा शित्‌ अस्ति, स च सार्वधातुकप्रत्ययः | तिङ्‌शित्सार्वधातुकम्‌ (३.४.११३) इति सूत्रम्‌ |

यः प्रत्ययः धातुभ्यः विधीयते अपि च न तिङ्‌ न वा शित्‌ अस्ति, स च आर्धधातुकप्रत्ययः | आर्धधातुकं शेषः (३.४.११४) इति सूत्रम्‌ |


४. सार्वधातुकलकारः इत्युक्ते किम्‌ ?


यस्मिन्‌ लकारे धातोः अनन्तरं कर्त्रर्थकः सार्वधातुकप्रत्ययः साक्षात्‌ दृश्यते, तस्मिन्‌ लकारे कर्तरि शप्‌ (३.१.६८) इत्यनेन शप्‌ विधीयते अपि च तदर्थमेव स च सार्वधातुकलकारः | 'तदर्थं' किम्‌ इति चेत्‌, शपः विधानमेव 'सार्वधातुकलकारः' इति नामकरणस्य निमित्तम्‌ |


कर्तरि शप्‌ (३.१.६८) = कर्त्रर्थे सार्वधातुकप्रत्ययः परे अस्ति चेत्‌, धातुतः शप्‌-प्रत्ययः भवति | अत्र कर्त्रर्थे कर्तरिप्रयोगः इति बोध्यं; भावे कर्मणि च शप्‌-प्रत्ययः न विधीयते | अनुवृति-सहितसूत्रम्‌— कर्तरि सार्वधातुके धातोः परश्च शप्‌ प्रत्ययः |

भू + लट्‌ → भू + ल्‌ → भू + तिप्‌ → तिप्‌ कर्त्रर्थकः, सार्वधातुकप्रत्ययः च, अतः कर्तरि शप्‌ (३.१.६८) इत्यनेन शप्‌ → भू + शप्‌ + तिप्‌


अस्मिन्‌ क्रमे तिप्‌ इति सार्वधातुकप्रत्ययः साक्षात्‌ दृश्यते धातोः परतः अतः कर्तरि शप्‌ (३.१.६८) इत्यस्य अवसरः अस्ति | चतुर्षु लकारेषु एतादृशी स्थितिः अस्ति— लटि, लोटि, लङि, विधिलिङि च | 'एतादृशी स्थितिः' नाम का ? 'धातुना सार्वधातुकप्रत्ययः साक्षात्‌ दृश्यते' | यथा भू + तिप्‌ | भू, तिप्‌ इत्यनयोः मध्ये किमपि व्यवधानं नास्ति अतः तिप्‌ 'साक्षात्‌ दृश्यते' |


धेयं यत्‌ एषु सर्वेषु चतुर्षु सार्वधातुकलकारेषु धातुगणम्‌ अनुसृत्य शपं प्रबाध्य अन्ये धातुगणनिमित्तकविकरणप्रत्ययाः विधीयन्ते यथा श्यन्‌, श्नु इत्यादयः | प्रथमं शप्‌ आयाति, तदा भ्वादिः, अदादिः, जुहोत्यादिः, चुरादिः इत्येतान्‌ गणान्‌ विहाय, अपरेषु षट्सु गणेषु शपं प्रबाध्य तत्तद्‌गणस्य विकरणप्रत्ययः आयाति | एतदर्थं सार्वधातुकलकारेषु कस्यापि धातोः तिङन्तरूपस्य निर्माणात्‌ प्राक्‌ स च धातुः कस्मिन्‌ गणे अस्ति इति अवश्यं ज्ञातव्यम्‌ |

यथा—


भ्वादिगणे पा + लट्‌ → पा + ल्‌ → पा + तिप्‌ → कर्तरि शप्‌ (३.१.६८) इत्यनेन शप्‌ → पा + शप्‌ + तिप्‌ → शिति परे पा-धातोः पिब-आदेशः → पिब* + अ + ति → पिबति

जुहोत्यादिगणे दा + लट्‌ → दा + ल्‌ → दा + तिप्‌ → कर्तरि शप्‌ (३.१.६८) इत्यनेन शप्‌ → जुहोत्यादिभ्यः श्लुः (२.४.७५) इत्यनेन विहितस्य शप्‌-प्रत्ययस्य श्लु (लोपः) भवति → श्लौ (६.१.१०) इत्यनेन श्लौ परे धातोः द्वित्वम्‌ → → ददाति

स्वादिगणे आप्‌ + लट्‌ → आप्‌ + ल्‌ → आप्‌ + तिप्‌ → कर्तरि शप्‌ (३.१.६८) इत्यनेन शप्‌ → स्वादिभ्यः श्नुः (३.१.७३) इत्यनेन स्वादिगणे स्थितेभ्यः धातुभ्यः शपं प्रबाध्य श्नु-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे → आप्‌ + श्नु + तिप्‌ → → आप्नोति


*अत्र बकारे अकारः अस्ति; दण्डः नास्ति | अतो गुणे (६.१.९७) इत्यनेन अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः | भ्वादिगणस्य पाठे द्रक्ष्यामः |


अत्र धेयं यत्‌ त्रयाणां लट्‌-लकाररूपे धातु-तिङ्प्रत्यययोः मध्ये यः स्वरः अस्ति सः भिन्नः— पिति, ददाति, आप्नोति | अपि च ददाति इत्यस्मिन्‌ धातोः द्वित्वम्‌ | अनेन कारणेन वदामः यत्‌ धातुगणभेदात्‌ रूपभेदः | इति इदमेव सार्वधातुकलकारस्य लक्षणम्‌ |


पाणिनिना साक्षात्‌ 'सार्वधातुकलकारः', 'आर्धधातुकलकारः' च संज्ञाद्वयं कुत्रापि न दत्तं, किन्तु अष्टाध्याय्याः आकृतिः स्वयं पूर्णतया एतादृशं नामकरणं पोषयति | अतः अतीव योग्यम्‌, अभूतपूर्वनामकरणम्‌ इदं मातृभिः कृतम्‌ | अनेन नामकरणेन किं भवति ? ज्ञानं सुदृढं भवति, आयोजितं भवति मनसि | ज्ञानस्य सम्यक्‌ आयोजनं न भवति चेत्‌ अस्तव्यस्तता इति फलम्‌ | अपि च शास्त्रीयव्याकरणविषये, गुरुकुलीयेषु बहूनां मनसि इयमेव अस्तव्यस्तता वर्तते | तस्य निवारणार्थं मातुः शिक्षापद्धतिः अत्यावश्यकी |


५. आर्धधातुकलकारः इत्युक्ते किम्‌ ?


यस्मिन्‌ लकारे धातोः अनन्तरं कर्त्रर्थकः सार्वधातुकप्रत्ययः साक्षात्‌ न दृश्यते, तस्मिन्‌ लकारे कर्तरि शप्‌ (३.१.६८) इत्यस्य प्रसक्तिः नास्ति अतः शप्‌ न भवति; अनेन सः आर्धधातुकलकारः  | तादृशे लकारे तिङन्तरूपस्य निर्माणार्थां धातुः कस्मिन्‌ गणे अस्ति इति विषये किमपि अवधानं नास्ति | धातुगणस्य न को‍ऽपि प्रसङ्गः |


यथा—

भ्वादिगणे पा + लृट्‌ → पास्यति

जुहोत्यादिगणे दा + लृट्‌ → दास्यति

स्वादिगणे आप्‌ + लृट्‌ → आप्स्यति


अत्र स्पष्टतया दृश्यते यत्‌ धातुगणभेदात्‌ रूपभेदः इति किमपि नास्ति | किमर्थम्‌ ? धातुगणनिमित्तकविकरणाभावात्‌ |


एतदर्थं दशधातुगणाः प्रयोजनीयाः केवलं सार्वधातुकलकारेषु लटि, लोटि, लङि, विधिलिङि च | आर्धधातुकलकारेषु— लिटि, लुटि, लृटि, लृङि, लुङि, आशीर्लिङि च— धातुगणानां किमपि प्रयोजनं नास्ति | आर्धधातुकलकाराणां पाठनावसरे सर्वे धातवः एकस्मिन्‌ एव गणे एकत्र स्थाप्यन्ते |


वृत्तान्ते, लिट्‌-लकारे, सर्वेषां द्विसहस्रस्य धातूनां तिङन्तरूपाणि एकत्र प्रदर्शनीयानि; तत्र कोऽपि धातुगणभेदो नास्ति | तथैव लुटि, लृटि, आशीर्लिङि, लुङि‌, लृङि च | तत्र धातोः अन्तिमवर्णम्‌ अनुसृत्य चतुर्दश वर्गाः निष्पादनीयाः | एतादृशं वर्गीकरणम्‌ अतीव लाभदायकं, यतः पाणिनेः सूत्राणि तथैव कार्यं विदधति; अनेन महत्‌ सौकर्यम्‌ | चतुर्दश वर्गाः एते—


१) अकारान्ताः— यथा कथ, गण, रच इत्यादयः |

२) आकारान्ताः— यथा पा, ला, वा, दा, धा इत्यादयः |

३) इकारान्ताः— यथा जि, श्वि, चि, कि, रि इत्यादयः |

४) ईकारान्ताः— यथा नी, शी, डी, क्री, वी इत्यादयः |

५) उकारान्ताः— यथा द्रु, नु, कु, गु, क्षु इत्यादयः |

६) ऊकारान्ताः— यथा भू, लू, पू, नू, मू इत्यादयः |

७) ऋकारान्ताः— यथा हृ, भृ, धृ, मृ, कृ, स्वृ, स्मृ इत्यादयः |

८) ॠकारान्ताः— यथा जॄ, झॄ, शॄ, गॄ, वॄ इत्यादयः |

९) एजन्ताः— यथा ग्लै, म्लै, धे, ध्यै, पै, शो, छो इत्यादयः |

१०) अदुपधाः— यथा पठ्‌, चल्‌, वद्‌, स्खल्‌, कक्‌, पच्‌, चट्‌ इत्यादयः |

११) इदुपधाः— यथा चित्‌, मिद्‌, छिद्‌, भिद्‌, निद्‌, मिल्‌ इत्यादयः |

१२) उदुपधाः— यथा बुध्‌, शुध्‌, मुद्‌, कुक्‌, उख्‌ इत्यादयः |

१३) ऋदुपधाः— यथा कृष्‌, वृष्‌, नृत्‌, छृद्‌, वृत्‌, वृध्‌ इत्यादयः |

१४) अवशिष्टाः— ये न सन्ति एषु वर्गेषु यथा मील्‌, शीक्‌, बुक्क्‌, अञ्च्‌ इत्यादयः |


अतः यथा पा-धातुः, दा-धातुः च आर्धधातुकलकारस्य आयोजने एकस्मिनेव अन्तर्गणे एकत्र भवतः— आकारान्तेषु | किन्तु सार्वधातुकलकारस्य आयोजने इमौ द्वौ धातू पृथक्‌-पृथक्‌ गणे स्तः |


एवमेव संस्कृतभाषायां यावन्तः आकारन्तः धातवः सन्ति, ते सर्वे आर्धधातुकलकारस्य आयोजने एकत्र भवन्ति |


६. विकरणं नाम किम्‌ ?


विकरणं नाम तादृशप्रत्ययः यः धातुभ्यः विधीयते, किन्तु साक्षात्‌ न विधीयते; प्रथमतया लकारः विधीयते, तदा सार्वधातुकलकारस्य विकरणं चेत्‌ लकारस्य स्थाने तिङ्‌प्रत्ययः, तदा धातुतिङ्‌प्रत्यययोः मध्ये विकरणम्‌ आगच्छति | आर्धधातुकलकारस्य विकरणं चेत्‌ धातुलकारप्रत्यययोः मध्ये एव आगच्छति |


७. विकरणं द्विविधम्‌ | तत्‌ किम्‌ ?


सार्वधातुकनिमित्तकविकरणं लकारनिमित्तकविकरणम्‌ च | साधारणतया यदा 'विकरणप्रत्ययः' इति वदामः, तदा शप्‌, श्यन्‌, श्नु इत्यादयः विवक्षिताः | एते 'सार्वधातुकनिमित्तकविकरणप्रत्ययाः' | शप्‌, श्यन्‌, श्नु इत्यादीनां निमित्तम्‌ अस्ति सार्वधातुकप्रत्ययः | कर्तरि शप्‌ (३.१.६८) तदेव सूचयति यत्‌ धातोः उत्तरः यः प्रत्ययः सः कर्त्रर्थकः, सार्वधातुकं च इति चेत्‌, धातुतः शप्‌-प्रत्ययः भवति | अतः निमित्तम्‌ अस्ति सार्वधातुकप्रत्ययः | स च प्रत्ययः तिङ्‌ स्यात् वा कृत्‌ स्यात्, किन्तु सार्वधातुकं भवेत्‌ एव | अपि च श्यन्‌, श्नु, श, श्ना, श्नम्‌, उ— एतानि सर्वाणि सार्वधातुकनिमित्तकविकरणानि |


अन्यप्रकारकविकरणप्रत्ययः अपि अस्ति, लकारनिमित्तकविकरणम्‌ इति नाम्ना | आर्धधातुकलकारेषु अपि विकरणप्रत्ययाः भवन्ति, किन्तु ते च लकारनिमित्तकाः | तेषां निमित्तं लकारः एव इति कारणेन सर्वेषां धातूनां कृते स च विकरणप्रत्ययः समानः | यथा लृट्‌-लकारं पश्यामः—


भ्वादिगणे पा + लृट्‌ → स्यतासी लृलुटोः (३.१.३३) इत्यनेन लृटि परे धातुतः 'स्य' → पा + स्य + लृट्‌ → पास्यति


अत्र 'स्य' इति विकरणप्रत्ययस्य आनयनस्य कारणं लृट्‌-प्रत्ययः एव | यस्मिन्‌ कस्मिनपि धातुगणे भवतु नाम, धातुभ्यः लृट्‌ भवति—


जुहोत्यादिगणे दा + लृट्‌ → स्यतासी लृलुटोः (३.१.३३) इत्यनेन लृटि परे धातुतः 'स्य' → दा + स्य + लृट्‌ → दास्यति

स्वादिगणे आप्‌ + लृट्‌ → स्यतासी लृलुटोः (३.१.३३) इत्यनेन लृटि परे धातुतः 'स्य' → आप्‌ + स्य + लृट्‌ → आप्स्यति


सर्वेभ्यः धातुभ्यः लृट्‌ भवति इति कृत्वा धातुगणचर्चा मास्तु | 'स्य' सर्वेषां धातूनां भवति |


८. लृट्‌-लकारे लृटः स्थाने कर्त्रर्थक-सार्वधातुकतिङ्‌, तर्हि किमर्थं शप्‌ न भवति अत्रापि ?


सर्वे लकाराः अनुबन्धलोपानन्तरं ल्‌ इत्येव भवन्ति, अपि च ल्‌ इत्यस्य स्थाने तिप्‌ तस्‌ झि इत्यादयः तिङ्‌ प्रत्ययाः आयान्ति | लृट्‌ अपि तथा; तर्हि किमर्थं न अर्त्रापि इमं तिङ्‌-प्रत्ययं निमित्तीकृत्य कर्तरि शप्‌ (३.१.६८) इत्यनेन शपः आनयनम्‌ ? अत्र वास्तविकक्रमः अवलोकनीयः—


पा + लृट्‌ → स्यतासी लृलुटोः (३.१.३३) इत्यनेन लृटि परे धातुतः 'स्य' → पा + स्य + लृट्‌ → पा + स्य + ल्‌ → पा + स्य + तिप्‌ → पा + स्य + ति → पास्यति


अधुना पश्यतु एकं वैशिष्ट्यं, यद्यपि तिप्‌ अस्ति, किन्तु पा-तिप्‌ इत्यनयोः मध्ये स्य इति व्यवधानम्‌ | स च स्य आर्धधातुकम् अतः कर्तरि शप्‌ इत्यस्य अवसरः न भवति | अत्र मुख्यम्‌ इदं यत्‌ स्य इत्यस्य निमित्तं लृट्‌ एव किन्तु शप्‌ इत्यस्य निमित्तं तिप्‌ आदयः | लृट्‌-प्रत्ययः प्रथमतया आयाति, तदा एव लृटः स्थाने तिबादयः; अतः स्य अपि प्रथमम्‌ आयाति, यदा लृट्‌-प्रत्ययः विद्यमानः | अनन्तरमेव लृटः स्थाने तिप्‌; तावता स्य तु आगतः एव अतः धातुना तिप्‌ न दृश्यते | सारांशः एवं यत्‌ स्य प्रथमम्‌ आगच्छति, तदनन्तरम्‌ एव तिप्‌ अतः धातुः स्य पश्यति न तु तिप्‌; अस्मात्‌ कारणात्‌ कर्तरि शप्‌ न भवति |


९. तनादिगणे उः इति विकरणप्रत्ययस्य आर्धधातुकत्वात्‌ किं भवति ?


उ-प्रत्ययस्य आर्धधातुकत्वात्‌ विद्यमाने धातुरुपि-अङ्गे गुणः भवति यथासङ्गम्‌ | तनादिगणे विकरणप्रत्ययस्य प्रभावेन कुत्रचित्‌ गुणः अपेक्षितः | यथा क्षिण्‌ + उ → क्षेण्‌ + उ → क्षेणु इति अङ्गम्‌ | तच्च गुणकार्यं सार्वधातुकप्रत्ययेन भवितुम्‌ अर्हति, आर्धधातुकप्रत्ययेन अपि भवितुम्‌ अर्हति |


पुगन्तलघूपधस्य च (७.३.८६) = सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति | अनुवृत्ति-सहितसूत्रम्‌— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |


सार्वधातुकप्रत्ययः चेत्‌, गुणस्य कृते इत्संज्ञकशकारपकारयोः आवश्यकता, नो चेत्‌ अपित्वात्‌ गुणनिषेधः | आर्धधातुकप्रत्ययः चेत्‌, गुणस्य कृते इत्संज्ञकशकारपकारयोः आवश्यकता नास्येव, यतोहि 'अपित्वात्‌ गुणनिषेधः' इति आर्धधातुकक्षेत्रे किमपि नास्ति | सार्वधातुकमपित्‌ (१.२.४), अनुवृत्ति-सहितसूत्रम्‌— सार्वधातुकम्‌ अपित्‌ ङित् | सार्वधातुकप्रत्ययः चेदेव अपित्वात्‌ ङित्‌, ङित्वात्‌ गुणनिषेधः | किन्तु आर्धधातुकप्रत्ययः चेत्‌, पित्वम्‌ अपित्वम्‌ इति किमपि नास्ति; आर्धधातुकप्रत्ययः कित, ङित्‌, गित्‌ नास्ति चेत्‌, तस्मिन्‌ गुणसाधकसामर्थ्यं वर्तते | उ-प्रत्ययः तादृशः |


इत्संज्ञकशकारपकारयोः वास्तविकी आवश्यकता यत्र अस्ति तत्र इत्संज्ञकशकारपकारौ भवेतां; यथा शप्‌-प्रत्यये आवश्यकता अस्ति शकारपकारयोः अतः तत्र सार्वधातुकप्रत्ययः उपयुक्तः |


शपि इत्संज्ञकशकारपकारयोः आवश्यकता कथम्‌ ? श्यन्‌, श्नु, श्नम्‌, श्ना एषां प्रत्ययानाम्‌ अपित्वात्‌ गुणनिषेधः | 'अपित्वात्‌ गुणनिषधः' इति तदा अर्थपूर्णः यदा कस्यचित्‌ प्रत्ययस्य पित्वात्‌ गुणसाधकसामर्थ्यम्‌ | यदि अष्ठाध्याय्यां न कोऽपि प्रत्ययः स्यात्‌ यस्य पित्वात्‌ गुणसाधकसामर्थ्यं, तर्हि 'अपित्वात्‌ गुणनिषधः' इत्यस्य कः अर्थः अभविष्यत्‌ ? तस्य निरर्थकस्य निवारणार्थम्‌ एकः प्रत्ययः प्रदर्शनीयः आसीत्‌ यस्मिन्‌ पित्वं तदधिकृत्य गुणसाधकसामर्थ्यमं; स च प्रत्ययः शप्‌ |


किन्तु अनावश्यकतायां गौरवं— यथा यदि उ-प्रत्ययः सार्वधातुकप्रत्ययः अभविष्यत्, तर्हि येन गुणकार्यस्य सामर्थ्यमं स्यात्‌ इत्संज्ञकशकारपकारयोः आवश्यकता इति कृत्वा शुप्‌; किन्तु तत्र गौरवं; गौरवं नाम मार्गः दीर्घः यतोहि द्वयोः वर्णयोः इत्संज्ञा करणीया, लोपश्च करणीयः | गुणसाधनार्थं तस्मिन्‌ दीर्घमार्गे न कोऽपि लाभः न वा आवश्यकता | उ-प्रत्यये इत्संज्ञकशकारपकारयोः आवश्यकता नास्ति अतः आर्धधातुकत्वात्‌ लाघवम्‌ |


१०. लृट्‌-लकारे 'स्य' इति आर्धधातुकविकरणप्रत्ययः अपि च तनादिगणे 'उ' इति आर्धधातुकविकरणप्रत्ययः— द्वयोः मध्ये कः भेदः ?


'स्य'-प्रत्ययस्य निमित्तं लकारः एव; उ-प्रत्ययस्य निमित्तं कर्त्रर्थक-सार्वधातुकप्रत्ययः यदा धातुः तनादिगणे अस्ति | अतः 'स्य'-प्रत्ययस्य निमित्तं सार्वत्रिकं; नाम सर्वेषां धातूनां कृते | किन्तु उ-प्रत्ययः केवलं तनादिगणीयधातूनां कृते |


तनादिकृञ्भ्यः उः (३.१.७९) = तनादिगणे स्थितेभ्यः धातुभ्यः, कृ-धातुतश्च उ-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे |


लकारनिमित्तकविकरणप्रत्ययाः सार्वत्रिकाः इति कारणेन सर्वेषां धातूनां कृते भवन्ति— तस्मात्‌ तिङ्‌-प्रत्ययेन सह सर्वदा तिष्ठति | नाम स्य + ति इति कृत्वा 'स्यति' लृट-लकारे नित्यः प्रत्ययः | स्यति, स्यतः, स्यन्ति इति एवं प्रत्ययाः भवन्ति सर्वेषां धातूनां कृते अतः सिद्धतिङ्‌प्रत्ययाः ते एव भवन्तु 'स्यति' इत्यादयः | तदर्थम्‌ अस्माकं पाठे 'स्य' इति पृथक्तया विकरणप्रत्ययरूपेण न उपयुज्यते, अपि तु तिङ्‌-प्रत्ययेन सह स्थित्वा तस्य एकः भागः एव भवति इति चिन्तयतु |


स्यति   स्यतः   स्यन्ति

स्यसि   स्यथः   स्यथ

स्यामि  स्यावः  स्यामः


सारांशः एवं यत्‌ व्यवहारे प्रक्रियासु सार्वधातुकनिमित्तकविकरणप्रत्ययान्‌ एव 'विकरण' नाम्ना प्रयुज्महे | लकारनिमित्तकविकरणप्रत्ययः तिङ्‌-प्रत्ययस्य एकः भागः एव भवति इति कारणेन तस्य पृथक्तया न उपयोगः न वा नाम्ना सम्बोधनं भवति |


सूचनार्थम्‌ उच्यते यत्‌ अष्टाध्याय्यां लकारनिमित्तकविकरणप्रत्ययाः ३.१.३३ - ३.१.६६ विधीयन्ते; सार्वधातुकनिमित्तकविकरणप्रत्ययाः ३.१.६७ - ३.१.९० विधीयन्ते | तत्र पश्यतु यत्‌ लकारनिमित्तकविकरणप्रत्ययाः लकारस्तरे एव विधीयन्ते— क्रमेण लृट्‌, लृङ्‌, लुट्‌, लेट्‌, लिट्‌, लुङ्‌ | सार्वधातुकनिमित्तकविकरणप्रत्ययाः धातुगणस्तरे विधीयन्ते— क्रमेण शप्‌ (भ्वादौ, अदादौ, जुहोत्यादौ, चुरादौ), श्यन्‌ (दिवादौ), श्नु (स्वादौ), श (तुदादौ), श्नम्‌ (रुधादौ), उ (तनादौ), श्ना (क्र्यादौ) च |


इति सार्वधातुकलकाराणाम्‌ आर्धधातुकलकाराणां च चिन्तनं सम्पूर्णाम्‌ |


Swarup – June 2016


परिशिष्टम्‌


प्रक्रियाक्रमप्रसङ्गे किञ्चित्‌ मूल्यवत्‌ चिन्तनम्‌ | प्रश्नः उदेति यत्‌ लस्य स्थाने तिङ्‌-प्रत्ययाः प्रथमम्‌ आयान्ति अथवा प्रथमं विकरणप्रत्ययः विधीयते ? अस्य बोधार्थं सर्वप्रथमं‌ ज्ञातव्यं प्रक्रिया का— सार्वधातुकप्रक्रिया वा, आर्धधातुकप्रक्रिया वा इति |


सार्वधातुकप्रक्रिया इति चेत्‌—


विवक्षाम्‌ अनुसृत्य धातुः (यथा भू) + लकारः (यथा लट्‌) → लट्‌-लकारः धातुभ्यः विधीयते अपि च तिङ्‌-शित्‌-भिन्नः अतः आर्धधातुकं शेषः (३.४.११४) इत्यनेन आर्धधातुकसंज्ञकः → धातुभ्यः विधीयमानः लकारः तु प्रत्ययः, तिङ्‌-भिन्नश्च अतः लकार इति प्रत्ययः कृदतिङ्‌ (३.१.९३) इत्यनेन कृत्‌-संज्ञकः → असार्वधातुकसंज्ञकः इत्यतः कर्तरि शप्‌ (३.१.६८) इत्यस्य प्रसक्तिर्नास्ति → लस्य (३.४.७७), तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ (३.४.७८) इत्याभ्यां तिङ्‌-विधानम्‌ → भू + तिप्‌ → तिङ्‌शित्सार्वधातुकम्‌ (३.४.११३) → तिबादयः सार्वधातुकसंज्ञकाः, कर्त्रथकाश्च → कर्तरि शप्‌ (३.१.६८) इत्यनेन धातोः शप्‌ प्रत्ययः परश्च कर्तरि सार्वधातुके → भू + शप्‌ + तिप्‌ → → भवति


आहत्य लकारस्य स्थाने तिङ्‌, तदा तिङः सार्वधातुकत्वात्‌ शप्‌-विधानम्‌ | यावत्‌ सार्वधातुकसंज्ञकः प्रत्ययः नागच्छेत्‌, तावत्‌ कर्तरि शप्‌ (३.१.६८) इत्यस्य प्रसक्तिर्न स्यात्‌ | शप्‌ च, शपं प्रबाध्य अन्ये विकरणप्रत्ययाः च, तदा विधीयन्ते यदा धातोः परः सार्वधातुकसंज्ञकः प्रत्ययः विद्यते | एवं भवति लटि, लोटि, लङि, विधिलिङि, अपि च शतृशानचोः |


शतृशानचोः लस्य (३.४.७७) इति सूत्रं विना सार्वधातुकसंज्ञा साक्षात्‌ भवति शित्त्वात्‌ | शतृ‌-प्रत्ययः च शानच्‌-प्रत्ययः च लट्‌-लकारस्य स्थाने भवतः लटः शतृशानचावप्रथमासमानाधिकरणे (३.२.१२४) इत्यनेन | अत्र अपि शतृशानचोः सार्वधातुकत्वात्‌ कर्तरि शप्‌ (३.१.६८) इत्यनेन शप्‌ विधीयते |


अधुना आर्धधातुकचिन्तनम्‌ | लृट्‌-लकारः स्वीक्रियताम्‌ | सिद्धान्तकौमुद्यां प्रक्रिया एतादृशी प्रदर्शिता भवति—


आप्‌ + लृट्‌ → आप्‌ + ल्‌ → लस्य (३.४.७७), तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ (३.४.७८) इत्याभ्यां तिङ्‌-विधानम्‌ → आप्‌ +तिप्‌ → तिङ्‌शित्सार्वधातुकम्‌ (३.४.११३) → तिप्‌ सार्वधातुकसंज्ञकः, कर्त्रथकश्च → कर्तरि शप्‌ (३.१.६८) विधीयते → शपं प्रबाध्य स्यतासी लृ-लुटोः (३.१.३३) इत्यनेन स्य-विधानम्‌ → आप्‌ + स्य + ति → आप्स्यति | अतः सिद्धान्तकौमुद्यां स्यतासी लृ-लुटोः (३.१.३३), कर्तरि शप्‌ (३.१.६८) इत्यस्य अपवादः |


माता जी वदति, परन्तु, यत्‌ स्यतासी लृ-लुटोः (३.१.३३) इत्यनेन लृटि लृङि च परे धातुतः स्यः; लुटि परे धातुतः तासि भवति अतः साक्षात्‌ लकारावस्थायामेव स्य-विकरणविधानं भवतु |


आप्‌ + लृट्‌ → स्यतासी लृ-लुटोः (३.१.३३) → आप्‌ + स्य + लृट्‌ → तिङ्‌-विधानम्‌ | अनेन मार्गे लघुत्वम्‌ | कर्तरि शप्‌ (३.१.६८) इत्यस्य अवसरः न भवत्येव |


आप्‌ + लृट्‌ → स्यतासी लृ-लुटोः (३.१.३३) इत्यनेन लृटि परे धातुतः स्यः → आप्‌ + स्य + ल्‌ → धातोः परः स्य-प्रत्ययः आर्धधातुकम् अतः कर्तरि शप्‌, स्वादिभ्यः श्नुः इत्यनयोः प्रसक्तिर्नास्ति → आप्‌ + स्य + ल्‌ → प्रथमपुरुषैकवचने तिबादेशः → आप्‌ + स्य + तिप्‌ → अनुबन्धलोपे → आप्‌ + स्य + ति → वर्णमेलने → आप्स्यति


आहत्य स्यतासी लृ-लुटोः (३.१.३३) इत्यनेन लृटि लृङि च परे धातोः स्यः; लुटि परे धातोः तास्‌; च्लि लुङि (३.१.४३) इत्यनेन लुङि धातोः च्लि प्रत्ययः | लृट्‌, लृङ्‌, लुट्‌, लुङ्‌ इत्येषु चतुर्षु लकारेषु साक्षात्‌ विकरणविधानम्‌ | अनेन एषु च कर्तरि शप्‌ (३.१.६८) इत्यस्य प्रसक्तिर्नभवत्येव |


तर्हि भट्टोजिदीक्षितसिद्धान्तकौमुदीकारेण स्वीकृतमार्गः नितरां दोषाय इति किम्‌ ? भाष्यकारः मार्गद्वयमपि प्रतिपादयति; महाभाष्ये द्वयोरपि मार्गयोः अङ्गीकारः | सिद्धान्तकौमुदीकारः अपि स्वस्य मार्गस्य कारणं प्रदर्शयति— नाम तथा न भवति चेत्‌, परिभाषेन्दुशेखरे प्रस्तुतपरिभाषा (विकरणेभ्यो नियमो बलीयान्, #४१) निष्प्रयोजनं भवति | अस्य सर्वस्य दर्शनेन मातृभिरुच्यते यत्‌ भट्टोजिदीक्षितमार्गः दोषाय न, किन्तु अस्य अनावश्यकता |


अत्र प्रश्नः उदेति यत्‌ प्रथमं स्य-विधानं भवति चेत्‌, अनन्तरं कथं वा लृट्‌-स्थाने तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ (३.४.७८) इत्यनेन तिबादयः आगच्छेयुः ? सूत्रे धातोः (३.१.९१) इत्यस्य अधिकारः; अनेन प्रत्ययः साक्षात्‌ धातोः अनन्तरं स्यात्‌ | स्य-प्रत्ययः किन्तु मध्ये आगतः | उत्तरमस्ति यत्‌ अत्र धातोः प्रत्ययविधानं न जायमानम्‌ | लृट्‌-प्रत्ययः धातोः प्रत्ययविधानम्‌ आसीत्‌‍ | अधुना लृट्‌-प्रत्ययः वर्तते एव | अत्र लस्य (३.४.७७) इत्यस्य सामर्थ्यात्‌ धातोः (३.१.९१) इत्यस्य अधिकारः नास्ति— नावश्यकमेव | क्रमः अस्ति धातोः परः लृट्‌, तदा मध्ये स्य, तदा लृट्‌-स्थाने तिबादयः | अत्र स्थाने इति कार्यं, न तु धातोः | (धातोः परः यत्‌ कार्यम्‌ अपेक्षितम्‌ आसीत्‌, तत्तु सञ्जातम्‌; अधुना लस्य (३.४.७७) इति षष्ठीविभक्तौ, तस्य च प्राधान्यम्‌ | साधारणटीकाग्रन्थेषु तिबादीनां विधाने धातोः (३.१.९१) इत्यस्य अधिकारः प्रदर्श्यते यतोहि तत्र प्रथमं तिबादयः, तदा शपं प्रबाध्य स्य | किन्तु यदा स्य-प्रत्ययः प्रथमम्‌ आयाति, अपि च तस्मात्‌ प्रागेव लृट्‌ जातः धातोः, तदा लस्य (३.४.७७) इत्यनेन एव कार्यं भवति; धातोः (३.१.९१) इत्यस्य द्विवारम्‌ आनयनं नावश्यकम्‌ |


अन्ते च लिट्‌, आशीर्लिङ्‌ इत्यनयोः का गतिः ? तत्र आर्धधातुकत्वं साक्षात्‌ विधीयते लिट्‌ च (३.४.११५), लिङाशिषि (३.४.११६) इति सूत्राभ्याम्‌ | किमर्थमिति चेत्‌, उभयत्र विकरणप्रत्ययः एव नास्ति | तादृशम्‌ आर्धथातुकविधानं यदि नाभविषत्‌, तर्हि उभयत्र कर्तरि शप्‌ (३.१.६८) भवति स्म | तस्य निवारणार्थम्‌ आर्धधातुकत्वं साक्षात्‌ विहितम्‌ | (आशीर्लिङि सीयुट्‌ विद्यते किञ्च सः तु आगमः न तु प्रत्ययः |)

---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ].


०४ - सार्वधातुकलकाराः आर्धधातुकलकाराः च – अधिकचिन्तनम्‌.pdf (73k) Swarup Bhai, Oct 15, 2020, 8:28 PM v.1