04---aShTAdhyAyI-paricayaH/05---aShTAdhyAyyAM-pratyayaH-prakriyA-ca---samagradRuShTiH: Difference between revisions

Copied text and links from Google Sites
(Copied text and links from Google Sites)
(Copied text and links from Google Sites)
Line 10:
 
प्रत्ययानां स्वभावः कः, अपि च प्रक्रिया कीदृशी इत्यनयोः ज्ञानेन यौ कावपि प्रकृतिप्रत्ययौ अस्माकं पुरतः स्यातां, द्वयोः संयोजनेन किम्‌ उत्पद्यते इति सौकर्येण नैपुण्येन च जानीयाम | अधस्तने चित्रे च समग्रसंस्कृतभाषायां प्रक्रियाः काः अपि च प्रत्ययाः के इति निरूपितं भवति | अनेन चित्रेण, पाणिनेः लघुत्वसिद्धान्तेन अस्माकं कः लाभः अपि च दीक्षितपुष्पामात्रा कथम्‌ इदं विज्ञानं प्रक्रिया नाम्ना व्यवहारे आनीतम्‌, इति अस्माभिः स्पष्टतया बुध्यते | तर्हि अग्रे, अत्र किं किम्‌ अस्तीति परिशीलयाम |
 
[[File:०५ - अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः.png|center|1100x1100px]]
 
एतदाधारेण च कीदृशकार्याणि सम्भवन्ति इत्यस्य चिन्तनार्थम्‌ अस्माकं वर्गस्य नूतन-सदस्यः शुकवनम्-महोदयः सुन्दररीत्या चित्रं निर्मितवान्‌—
 
[[File:०५ - धातुभ्यः प्रत्ययसम्बद्ध-कार्याणि.png|center|1100x1100px]]
 
2016
 
 
'''अचो ञ्णिति''' (७.२.११५) = अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '''अचः अङ्गस्य''' नाम न केवलम्‌ अच्‌ इत्यङ्गस्य, अपि तु अजन्तस्य अङ्गस्य | '''अलोऽन्तस्य''' इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः | ञ्‌ च ण्‌ च ञ्णौ, ञ्णौ इतौ यस्य तत्‌ ञ्णित्‌, तस्मिन्‌ ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''मृजेर्वृद्धिः''' (७.२.११४) इत्यस्मात्‌ '''वृद्धिः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अचः अङ्गस्य वृद्धिः ञ्णिति''' |
 
 
'''अत उपधायाः''' (७.२.११६) = उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे | अतः षष्ठ्यन्तम्‌, उपधायाः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''मृजेर्वृद्धिः''' (७.२.११४) इत्यस्मात्‌ '''वृद्धिः''' इत्यस्य अनुवृत्तिः; '''अचो ञ्णिति''' (७.२.११५) इत्यस्मात्‌ '''ञ्णिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति''' |
 
 
'''सार्वधातुकार्धधातुकयोः''' (७.३.८४) = सार्वधातुकार्धधातुकयोः परयोः इगन्तस्य अङ्गस्य इकः गुणः स्यात्‌ |
 
'''पुगन्तलघूपधस्य च''' (७.३.८६) = सार्वधातुकार्धधातुकयोः परयोः पुगन्तस्य लघूपधस्य च अङ्गस्य इकः गुणः स्यात्‌ |
 
'''सार्वधातुकमपित्‌''' (१.२.४) = सार्वधातुकं यदपित्‌ तद्‌ ङिद्वत्‌ भवति |
 
 
'''क्क्ङिति च''' (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः (गुणः वृद्धिः) न भवति |
 
 
अभ्यासः—
 
 
१. प्रत्येकं धातुम्‌ आदाय इमानि रूपाणि परिशील्य निष्पादयतु— लट्‌-लकारस्य प्रथमपुरुषैकवचनान्तरूपं, क्त्वा-प्रत्ययान्तं रूपं, णिच्‌-प्रत्ययान्तधातोः लट्‌-लकारस्य प्रथमपुरुषैकवचनान्तरूपं, तुमुन्-प्रत्ययान्तं रूपम्‌ | प्रत्येकस्यां स्थितौ धातुः कीदृशः (इगन्तधातुः, इगन्तभिन्न-अजन्तधातुः, लघु-इगुपधधतुः, अदुपधधातुः) अपि च प्रत्ययः कीदृशः (सार्वधातुकं पित्‌, सार्वधातुमपित्‌, आर्धधातुकं कित्‌-ङित्‌, आर्धधातुकं ञित्‌-णित्‌, आर्धधातुकं कित्‌-ङित्‌ ञित्‌-णित्‌-भिन्नः) इति वक्तव्यम्‌ |
 
- भ्वादिगणे नी-धातुः
 
- स्वादिगणे चि-धातुः [एकवचने, द्विवचने च]
 
- जुहोत्यादिगणे दा-धातुः
 
- भ्वादिगणे गै-धातुः
 
- दिवादिगणे माङ्‌ माने इति धातुः
 
- भ्वादिगणे बुध्-धातुः
 
- तुदादिगणे लिख्‌-धातुः
 
- भ्वादिगणे पठ्‌-धातुः
 
- तुदादिगणे चल्‌-धातुः
 
 
२. एतान्‌ एव धातून्‌ (नी, चि, दा, गै, मा, बुध्‌, लिख्‌, पठ्‌) आदाय, एतेषां प्रत्ययानां संयोजनेन कथम् अपि च किं रूपम्‌ उत्पद्यते इति चिन्तयतु | प्रत्येकस्यां स्थितौ धातुः कीदृशः (इगन्तधातुः, इगन्तभिन्न-अजन्तधातुः, लघु-इगुपधधतुः, अदुपधधातुः) अपि च प्रत्ययः कीदृशः (सार्वधातुकं पित्‌, सार्वधातुमपित्‌, आर्धधातुकं कित्‌-ङित्‌, आर्धधातुकं ञित्‌-णित्‌, आर्धधातुकं कित्‌-ङित्‌ ञित्‌-णित्‌-भिन्नः) इति वक्तव्यम्‌—
 
ण्वुल्‌ [अक]
 
तृच्‌
 
क्त
 
क्तवतु
 
तव्यत्‌
 
अनीयर्‍
 
क्तिन्‌
 
ल्युट्‌ [अन]
 
 
Swarup - July 2016
 
 
<u>परिशिष्टाम्‌</u>
 
 
उपर्युक्तं यत्‌ आर्धधातुकप्रत्ययाः त्रिविधाः— कित्‌-ङित्‌, ञित्‌-णित्‌, कित्‌-ङित्‌ ञित्‌-णित्‌-भिन्नः | एतावता अस्माभिः दृष्टं यत्‌ तुदादिगणे इकः गुणः न भवति; तत्र एकं सूत्रम्‌ उक्तम्‌ आसीत्‌ '''क्क्ङिति च''' (१.१.५) | अत्र अस्य सूत्रस्य अर्थः स्थापितः—
 
 
'''क्क्ङिति च''' (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्मा‌त्‌ प्रत्ययात्‌ पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति |
 
 
अस्मिन्‌ सूत्रे च कित्‌-ङित्‌ इत्युक्तं; किन्तु न केवलं कित्‌-ङित्‌ अपि तु गित्‌ इत्यपि उक्तम्‌ | तर्हि अत्र एकः प्रश्नः उदेति, अत्र उपरितने पाठे 'अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः', 'समग्रदृष्टिः' इत्युक्तम्‌ | समग्रदृष्टिः इति चेत्‌, गित्‌-प्रत्ययस्य का गतिः ?प्रक्रियाचिन्तने अस्य किं स्थानम्‌ ?किमर्थं नोक्तम्‌ ?
 
 
उत्तरमस्ति यत्‌ सम्पूर्णसंस्कृतभाषायां यानि प्रमुखकार्याणि सन्ति, तेषां सर्वेषां साधनार्थम् उपरि यत्‌ प्रदर्शितं तावदेव आवश्यकम्‌ | गित्‌ नाम्ना कश्चन प्रत्ययः अस्ति, स च एकः एव | सम्पूर्णसंस्कृतभाषायाम्‌ एक एव प्रत्ययः गित्— ग्स्नु | तस्य कृते च एकमेव सूत्रम्‌ | अपि च अनेन ग्स्नु-प्रत्ययेन केवलम्‌ एकः शब्दः निष्पन्नः यस्य साधनार्थं ग्स्नु-प्रत्ययस्य गित्त्वम्‌ आवश्यकम्‌ | तदपि किञ्चित्‌ विवादास्पदं, नाम अन्येन उपायेन, इत्संज्ञकगकारं विनापि, साधयितुं शक्यते | अतः आहत्य अस्माकं यः उपरितनमूलविषयः अस्ति, तस्मिन्‌ गित्‌-प्रत्ययस्य किमपि स्थानं नास्ति |
 
 
अत्र जिज्ञासूनां कृते गित्‌-प्रत्ययस्य कार्यम्‌ उपस्थाप्यते | परन्तु अस्य बोधः नितराम्‌ अनवश्यकः अस्माकम्‌ उपर्युक्तप्रक्रियायाः समग्रदृष्ट्यर्थम्‌ |
 
 
एकं सूत्रम्‌ अस्ति '''ग्लाजिस्थश्च क्स्नुः''' (३.२.१३९) | अत्र मूलप्रत्ययः अस्ति 'ग्स्नु’, तदा '''खरि च''' (८.४.५५) इत्यनेन चर्त्वं कृत्वा 'क्स्नु' भवति | अनेन ग्ला, जि, स्था, भू इत्येभ्यः चतुर्भ्यः धातुभ्यः ग्स्नु-प्रत्ययः विधीयते | ग्ला + ग्स्नु → ग्ला + स्नु → ग्लास्नु (प्रथमाविभक्तौ एकवचने ग्लास्नुः) | एवमेव जि + स्नु → जिष्णुः, स्था + स्नु → स्थास्नुः, भू + स्नु → भूष्णुः | एषु चतुर्षु जि-धातौ च भू-धातौ च गुणनिषेधः आवश्यकः | ग्ला-धातौ च स्था-धातौ च किमपि कार्यं नावश्यकं, केवलं वर्णमेलनम्‌ | अतः चिन्तयितुं शक्नुमः यत्‌ अत्र प्रत्ययः 'क्स्नु' इत्येव भवति चेत्‌, '''क्क्ङिति च''' (१.१.५) इति सूत्रद्वारा गुणनिषेधः सेत्स्यति, अतः किमर्थं न 'क्स्नु' इत्येव भवतु, ‘ग्स्नु' इत्यस्य का आवश्यकता | ग्स्नु-प्रत्ययं त्यजाम, क्स्नु इत्येव भवतु, अस्मिन्‌ सारल्यम्‌ अस्ति | 'गित्‌' इति संस्कृतभाषायां मास्तु | किन्तु— अत्र समस्या अस्ति यत्‌ एकं सूत्रं विद्यते '''घुमास्थागापाजहातिसां हलि''' (६.४.६६) | अनेन घु, मा, स्था, गा, पा, हा (ओहाक्‌), सा (षो) एषां धातूनाम्‌ आकारस्य स्थाने ईकारादेशो भवति हलादि-कि‌त्‌ङित्‌-आर्धधातुकप्रत्यये परे | तर्हि प्रत्ययः क्स्नु अस्ति चेत्‌, '''घुमास्थागापाजहातिसां हलि''' (६.४.६६) इत्यनेन स्था + क्स्नु → स्थी + स्नु → 'स्थीष्णु' इति अनिष्टं रूपं सेत्स्यति | तस्य निवारणार्थं मूलप्रत्ययः 'ग्स्नु' इति कृतमस्ति | अपि च यदा ग्स्नु इति प्रत्ययः जातः, तस्य गित्त्वे गुणनिषेधक्षमता अपि आवश्यकी जिष्णु, भूष्णु इति द्वयोः साधनार्थम्‌ | एतदर्थम्‌ एव '''क्क्ङिति च''' (१.१.५) इति सूत्रे गकारस्य प्रश्लेषः कृतः; नो चेत्‌ अस्मिन्‌ सूत्रे गकारस्य आवश्यकता एव नासीत्‌ | केवलं द्वयोः शब्दयोः कृते (जिष्णु, भूष्णु) '''क्क्ङिति च''' (१.१.५) इति सूत्रे गकारः संयोजितः |
 
 
आहत्य स्था + स्नु → स्थास्नु इत्यस्य साधनार्थम्‌ एव संस्कृतव्याकरणे गित्त्वं विद्यते | किमपि अन्यत्‌ कारणं नास्ति | एतत्‌ सर्वं दृष्ट्वा मातृभिः निश्चितं यत्‌ प्रक्रियायाः समग्रदृष्ट्यां गित्‌-प्रत्ययस्य समावेशः मास्तु | तासाञ्च चिन्तनं साधु एव |
 
 
काषिकायामपि उक्तं यत्‌ '''ग्लाजिस्थश्च क्स्नुः''' (३.२.१३९) इति सूत्रे 'स्था' इत्यनेन 'स्था आ' इति स्वीक्रियते चेत्‌, नाम तादृशः स्था-धातुः यस्य अन्ते आकारः वर्तते, तदा सवर्णदीर्घसन्धिं कृत्वा 'स्था' इत्येव सूत्रे जायते इति मन्यामहे चेत्‌, 'स्थीस्नु' इति अनिष्टं रूपम्‌ अनेन एव निवार्येत येन गित्त्वस्य आवश्यकता न स्यात्‌ | नाम प्रत्ययः 'क्स्नु' इत्येव भवतु, गित्त्वं नाम विचारः संस्कृतभाषायां मास्तु इत्यपि कश्चन विचारः वर्तते | अनया दृष्ट्यापि अस्माकं समग्रचिन्तनचित्रे गित्‌-प्रत्ययस्य औचित्यं सुतरां नास्ति |
 
<nowiki>---------------------------------</nowiki>
 
धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.
 
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.
 
To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].
 
 
[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjRmY2UyNzg5N2M1MTUxYTI ०५ - अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः.pdf] (246k) Swarup Bhai, Sep 18, 2019, 11:14 PM v.1
teachers
279

edits