04---aShTAdhyAyI-paricayaH/05---aShTAdhyAyyAM-pratyayaH-prakriyA-ca---samagradRuShTiH

Revision as of 16:22, 8 May 2021 by VNatarajan (talk | contribs) (Copied text and links from Google Sites)

04---aShTAdhyAyI-paricayaH/05---aShTAdhyAyyAM-pratyayaH-prakriyA-ca---samagradRuShTiH

ध्वनिमुद्रणानि -


१) अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः_2016-07-13

२) प्रत्ययः प्रक्रिया च – समग्रदृष्टिः_+_कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च_2016-07-20

३) प्रत्ययः प्रक्रिया च--yojanAbhyAsaH--नी-चि-दा-गै-लिख्‌_+_क्त्वा-णिच्‌-तुमुन्-ण्वुल्‌-तृच्‌_2016-07-27


प्रत्ययानां स्वभावः कः, अपि च प्रक्रिया कीदृशी इत्यनयोः ज्ञानेन यौ कावपि प्रकृतिप्रत्ययौ अस्माकं पुरतः स्यातां, द्वयोः संयोजनेन किम्‌ उत्पद्यते इति सौकर्येण नैपुण्येन च जानीयाम | अधस्तने चित्रे च समग्रसंस्कृतभाषायां प्रक्रियाः काः अपि च प्रत्ययाः के इति निरूपितं भवति | अनेन चित्रेण, पाणिनेः लघुत्वसिद्धान्तेन अस्माकं कः लाभः अपि च दीक्षितपुष्पामात्रा कथम्‌ इदं विज्ञानं प्रक्रिया नाम्ना व्यवहारे आनीतम्‌, इति अस्माभिः स्पष्टतया बुध्यते | तर्हि अग्रे, अत्र किं किम्‌ अस्तीति परिशीलयाम |