04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam: Difference between revisions

uploaded first two images. Text after images added to "तुद्‍ + ति → पुगन्तलघूपधस्य च → तोद्‌ + ति |"
(Copied text and links from Google Sites)
(uploaded first two images. Text after images added to "तुद्‍ + ति → पुगन्तलघूपधस्य च → तोद्‌ + ति |")
Line 97:
 
'''सुपि च''' - '''बहुवचने झल्येत्‌''' इति एका स्थितिः; '''आद्‌गुणः''' - '''वृद्धिरेचि''' इति अन्या स्थितिः | पूर्वस्यां स्थित्यां '''विप्रतिषेधे परं कार्यम्‌''' इत्यनेन बलाबलस्य निर्णयः क्रियते; उत्तरस्यां स्थित्यां सामान्यविशेषत्वम्‌ (अपवादभूतत्वम्‌) इत्यनेन बलाबलस्य निर्णयः क्रियते | अधः चित्रद्वयम्‌ अस्ति, येन अस्माकं चित्रा-भगिन्या विप्रतिषेधः अपवादः चेत्यनयोर्भेदः सुन्दररीत्या निरूप्यते | अवश्यं दृश्यताम्‌ ! अधोभागे तयोः pdf अपि प्राप्यते, download इत्यर्थम्‌ | चित्रा-भगिनि, धन्यवादाः !
 
[[File:04-07-अष्टाध्याय्यां सूत्राणां बलाबलम्‌ slide 1.jpg|center|thumb|850x850px|alt=|
 
 
]]
[[File:04-07-अष्टाध्याय्यां सूत्राणां बलाबलम्‌ slide 2.jpg|center|thumb|850x850px]]
 
 
 
अधः एका परिभाषा अस्ति यया बुद्धं यत्‌ अपवादः बलीयान्‌ सामान्यसूत्रस्य अपेक्षया | यत्र अपवादः अस्ति, तत्र सूत्रसङ्ख्यायाः किमपि महत्वं नास्ति | अपवादभूतसूत्रस्य सूत्रसङ्ख्या या काऽपि भवतु नाम, तस्य बलं भवति एव | यत्र अपवादत्वेन बलाबलस्य निर्णयः क्रियते, तत्र इयं परिभाषा कार्यं करोति | परिभाषाः अत्यन्तं पुरातनाः; तेषां लेखकाः अस्माभिर्न ज्ञायन्ते परन्तु व्याकरणलोके तासां दृढा मान्यता अस्ति | तर्हि अत्रास्ति एका परिभाषा—
 
 
'''३. पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः''' | [परिभाषा ३८] अनेन पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत्‌ भवति; परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत्‌ भवति; नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत्‌ भवति; अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत्‌ भवति |
 
 
अस्याः परिभाषायाः प्रथमतत्त्वद्वयं '''विप्रतिषेधे परं कार्यम्‌''' इत्यस्यैव अभिव्यक्तिः— पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत्‌ | तत्पश्चात्‌ तत्त्वत्रयं वर्तते—'''नित्य''', '''अन्तरङ्ग''', '''अपवाद'''—येषां उपस्थितौ '''विप्रतिषेधे परं कार्यम्‌''' इति सूत्रं कार्यं न करोति |
 
 
एतावता पूर्व-पर इत्यनयोः प्रसङ्गे ज्ञातवन्तः वयम्‌ | अधुना '''नित्य''', '''अन्तरङ्ग''', '''अपवाद''' इति प्रसङ्गेषु परिशीलयाम |
 
 
'''a)''' नित्यम्‌ | कृताकृतप्रसङ्गी यः विधिः भवति, सः नित्यः इत्युच्यते | समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्तिरस्ति इति चिन्तयतु | द्वयोर्मध्ये एकस्य सूत्रस्य प्रवृत्तिः कारिता; तदनन्तरमपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति चेत्‌, तस्यां दशायां यत्‌ अपरं सूत्रम्‌ अस्ति, तत्‌ नित्यसूत्रम्‌ इत्युच्यते | नित्यं नाम तस्य प्रसक्तिः पूर्वमपि आसीत्‌, अनन्तरमपि अस्ति | यदा किञ्चन सूत्रं नित्यम्‌ अस्ति, तदा तत्‌ सूत्रं प्रथममेव प्रवर्तनीयम्‌ | नित्यम्‌ इत्यस्मात् कारणात्‌ बलवत्‌ | अतः पूर्वसूत्रं नित्यम्‌ अस्ति चेत्‌ पूर्वसूत्रं सत्यपि पूर्वम्‌ आयाति |
 
 
तुदति इति वृत्तान्तः |
 
तुद्‌ + लट्‌     '''   वर्तमाने लट्‌''' (३.२.१२३)
 
तुद्‌ + ति '''        '''
 
'''तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्''' (३.४.७८)
 
 
तुद्‌ + श + ति '''  तुदादिभ्यः शः''' (३.१.७७),
 
अनुबन्धलोपे
तुद्‌ + अ + ति → तुदति
 
 
अत्र तुद्‌-धातोः '''वर्तमाने लट्‌''' (३.२.१२३) इत्यनेन लट्‌ कर्तव्यः | तदा लटः स्थाने तिबादयः भवन्ति | एकवचनविवक्षायां तिप्‌-प्रत्ययः | तुद्‌ + ति | इदानीं ति-प्रत्ययः '''तिङ्‌शित्‌ सार्वधातुकम्‌''' (३.४.११३) इत्यनेन सार्वधातुकप्रत्ययः | अतः '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति अनुवर्तमाने '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणः प्राप्यते | तुद्‍ + ति → '''पुगन्तलघूपधस्य च''' → तोद्‌ + ति |
653

edits