04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam

Revision as of 11:32, 9 May 2021 by Bina Radia (talk | contribs) (uploaded first two images. Text after images added to "तुद्‍ + ति → पुगन्तलघूपधस्य च → तोद्‌ + ति |")

04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam

ध्वनिमुद्रणानि -


2017 वर्गः

१) aShTAdhyAyyAM_sUtrANAM_balAbalam_I_2017-05-24

२) aShTAdhyAyyAM_sUtrANAM_balAbalam_II_2017-05-31

३) aShTAdhyAyyAM_sUtrANAM_balAbalam_III--antarangam-1_2017-06-07

४) aShTAdhyAyyAM_sUtrANAM_balAbalam_IV--antarangam-2---arthanimittakatvam_2017-06-14

५) aShTAdhyAyyAM_sUtrANAM_balAbalam_V--antarangam-3---arthanimittakatvam_+_pUrvopasthitanimittakatvam_2017-06-21

६) aShTAdhyAyyAM_sUtrANAM_balAbalam_VI--antarangam-4---aparanimittakam_+_apavAdaH_+_pUrvatrAsiddham_2017-06-28  

७) aShTAdhyAyyAM_sUtrANAM_balAbalam_VII--pUrvatrAsiddham_+_balAbala-abhyAsaH---shaknu_+_anti_2017-07-05  

८) sUtrANAM_balAbalam_VIII--abhyAsaH---cinu_+_anti_&_kuru_+_anti_2017-07-12


2014 वर्गः

१) aShTAdhyAyyAM_sUtrANAM_balAbalam_I_2014-07-02

२) aShTAdhyAyyAM_sUtrANAM_balAbalam_II_2014-07-09

३)  aShTAdhyAyyAM_sUtrANAM_balAbalam_III_2014-07-16

४) aShTAdhyAyyAM_sUtrANAM_balAbalam_IV_2014-07-23    


अष्टाध्याय्याः सूत्रक्रमायोजनं किम्‌ ?


प्रश्नः समीचीन एव | यथा, किमर्थं समाससम्बद्धानि सूत्राणि ग्रन्थस्य आरम्भे, किञ्च सन्धिसम्बद्धानि सूत्राणि ग्रन्थस्य अन्ते ? किमर्थं प्रत्ययेषु सनादयः प्रत्ययाः प्रथमाः ? यः शिष्यः अस्ति, तस्य कृते पाठ्यक्रमः निर्मितः इति न भाति | नाम अष्टाध्याय्याः बहिः तादृशः बाह्यः तर्कः न दृश्यते यत्‌ अध्येतॄणां कृते लाभदायकः स्यात्‌ |


उत्तरम्‌ अस्ति यत्‌ अष्टाध्याय्याः अन्त एव कश्चन सुन्दरतर्कोऽस्ति | तस्य च तर्कस्य लक्ष्यम्‌ अस्ति ग्रन्थस्य लघुत्वम्‌ | येन सूत्राणि अतिन्यूनानि स्युः, किन्तु विषयः सम्पूर्णस्स्यात्‌ | तदर्थं सर्वं कृतं; तदर्थम्‌ एतादृशः क्रमः विरचितः | लघुत्वस्य सिद्ध्यर्थम्‌ (१) अनुवृत्तिः सर्वत्र अनुस्यूता भवेत्‌, (२) सूत्राणां बलाबलम्‌ समन्वितं स्यात्‌ |


अनुवृत्ति-विषये अस्माकं परिचयस्तु जातः; अधुना सूत्राणां बलाबल-प्रसङ्गे वक्तव्यम्‌ | यदा किञ्चनपदं निर्मीयते, तदा निर्माणार्थं सोपानानि सन्ति | एकैकस्मिन्‌ सोपाने कार्यं वर्तते | केन क्रमेण इदं सर्वं स्यात्‌ अपि च कस्मिंश्चित्‌ अवसरे किं सूत्रम्‌ आगत्य कार्यं कुर्यात्‌ इति निर्णेतुं सूत्राणां बलाबलं भवति | एकस्मिन्‌ समये द्वयोः सूत्रयोः प्रसक्तिः; अथवा बहूनां सूत्राणां प्रसक्तिः | तर्हि तत्र कस्य सूत्रस्य अधिकारो भवेत्‌ ? अत्र एकः सिद्धान्तो वर्तते बलाबलं नाम्ना | बलाबलस्य निर्णयार्थं प्रमुखसूत्रद्वयं विद्यते, अपि च परिभाषाद्वयम्‌ | इमे द्वे सूत्रे द्वे परिभाषे च, अनुवृत्त्या सह सर्वक्रमं संवाहयन्ति |


१. महाभाष्यवाक्यम्‌ - अन्यत्रान्यत्रलब्धावकाशयोरेकत्रप्राप्तिस्तुल्यबलविरोधः | लब्धः अवकाशः यस्य तत्‌, लब्धावकाशं सूत्रम्‌ | यदि द्वे सूत्रे स्तः ययोः द्वयोरपि अन्यत्र क्वचित्‌ कार्यं कर्तुम्‌ अवकाशोऽस्ति, अपि च यदि इमे द्वे सूत्रे युगपत्‌ एकस्मिन्‌ स्थले कार्यं कर्तुम्‌ आगच्छतः, तर्हि इमे द्वे सूत्रे तुल्यबले इत्युच्यते | अपि च समानस्थले समानकाले कार्यं कर्तुं तयोः द्वयोः यः परस्परः सङ्घर्षः, सः तुल्यबलविरोधः इत्युच्यते |


यथा—


सुपि च (७.३.१०२) = अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशो भवति यञादि-सुप्‌-प्रत्यये परे | अनुवृत्ति-सहितसूत्रं— यञि सुपि च अङ्गस्य अतः दीर्घः | वृक्ष + भ्याम्‌ → वृक्ष्‌ + आ + भ्याम्‌ → वृक्षाभ्याम्‌ |


बहुवचने झल्येत्‌ (७.३.१०३) = अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य एकारादेशो भवति झलादि-बहुवचनार्थ-सुप्‌-प्रत्यये परे | अनुवृत्ति-सहितसूत्रं— बहुवचने झलि सुपि अङ्गस्य अतः एत्‌ | वृक्ष + सुप्‌ → वृक्ष्‌ + ए + सु → वृक्षेषु |


वृक्ष + भ्याम्‌ इति स्थितौ सुपि च इत्यस्य प्रसक्तिरस्ति, बहुवचने झल्येत्‌ इत्यस्य प्रसक्तिर्नास्ति (यतः भ्याम्‌ बहुवचनार्थे नास्ति) | वृक्ष + सु इति स्थितौ बहुवचने झल्येत्‌ इत्यस्य प्रसक्तिरस्ति, सुपि च इत्यस्य प्रसक्तिर्नास्ति (यतः सुप्‌ यञादिः नास्ति) | अतः उभयत्र एकत्र प्राप्तिः नास्ति— सूत्रविरोधः नास्ति; उभयत्र एकस्य एव सूत्रस्य प्रसक्तिः |


वृक्ष + भ्यस् = अत्र किं भवति इति पश्याम | भ्यस् यञादि-सुप्‌-प्रत्ययः अतः सुपि च इत्यस्य प्रसक्तिरस्ति | भ्यस् झलादि-बहुवचनार्थ-सुप्‌-प्रत्ययः अतः बहुवचने झल्येत्‌ इत्यस्य प्रसक्तिरस्ति | द्वेऽपि सूत्रे अन्यत्रलब्धावकाशे अपि च तयोः अधुना एकत्रप्राप्तिः वृक्ष + भ्यस् इत्यस्यां स्थितौ— अतः अत्र तुल्यबलविरोधः वर्तते | द्वयोः सूत्रयोः कस्य अत्र अवकाशः भवेत्‌ इति निर्णेतुं अग्रे पठेम |


प्रथमम्‌ एकम्‌ उदाहरणं द्रष्टव्यं यत्र द्वयोः सूत्रयोः एकत्र प्राप्तिरस्ति, परन्तु तुल्यबलविरोधः नास्ति | अत्र + एव = अस्यां दशायां किं भवति इति प्रायः सर्वे जानीमः, परन्तु शास्त्रीयदृष्ट्या कथं सिध्यति इति पश्येम | अत्र द्वयोः सूत्रयोः प्रसक्तिरस्ति— आद्‌गुणःवृद्धिरेचि च |


आद्‌गुणः (६.१.८७) = अवर्णात्‌ अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात्‌ | अत्र अचि परे इत्यस्य इकि परे इति फलितः अर्थः यतः अकारात्‌ अकारः चेत्‌ कार्यं बाधितम्‌ अकः सवर्णे दीर्घः इत्यनेन; अकारात्‌‍ एच्‌ चेत् कार्यं बाधितं वृद्धिरेचि इत्यनेन सूत्रेण च | आत्‌ पञ्चम्यन्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इको यणचि (६.१.७७) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः; एकः पूर्वपरयोः (६.१.८४), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— आत्‌ अचि पूर्वपरयोः एकः गुणः संहितायाम्‌ |


वृद्धिरेचि (६.१.८८) = अवर्णात्‌ एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञक-एकादेशः स्यात्‌ | वृद्धिः प्रथमान्तम्‌, एचि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | आद्‌गुणः (६.१.८७) इत्यस्मात्‌ आत्‌ इत्यस्य अनुवृत्तिः; एकः पूर्वपरयोः (६.१.८४), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— आत्‌ एचि पूर्वपरयोः एकः वृद्धिः संहितायाम्‌ |

 

इदानीम्‌ अस्माकम्‌ उदाहरणम्‌— अत्र + एव | पूर्वम्‌ अकारः अस्ति, पश्चात्‌ एकारः | एकारः अचि अपि अस्ति, एचि अपि अस्ति | अतः द्वयोः सूत्रयोः प्रसक्तिः— एकत्र प्राप्तिः अस्ति | अत्र किं भवति, गुणसन्धिः वा वृद्धिसन्धिः वा ? अधुना द्रष्टव्यं यत्‌ तुल्यबलविरोधः अस्ति न वा | तुल्यबलविरोधार्थं द्वयोः सूत्रयोः अन्यत्रलब्धावकाशः भवेत्‌ | अत्र + एव इत्यस्यां दशायां आद्‌गुणः कार्यं करोति चेत्‌, वृद्धिरेचि इत्यस्य अन्यत्रावकाशः भविष्यति वा ? नैव | एचि यदि गुणसन्धिः भवति, तर्हि वृद्धिरेचि इति सूत्रं निर्व्यापारं नाम सुतरां व्यर्थं भविष्यति | तस्य कार्यं कर्तुं कुत्रापि अवकाशः न भविष्यति | अस्यां दशायां द्वेऽपि सूत्रे अन्यत्रान्यत्रलब्धावकाशे न स्तः अतः तुल्यबलविरोधः नास्ति | आद्‌गुणः इति सामान्यं; वृद्धिरेचि इति विशेषः | यस्य सूत्रस्य कार्यक्षेत्रं लघु अस्ति अन्यस्य अपेक्षया यस्मात्‌ कारणात्‌ अत्र लब्धावकाशे सति कार्यं न करोति चेत्‌ अन्यत्र अवकाशो नैव प्राप्स्यते, तत्‌ सूत्रम्‌ अपवाद इत्युच्यते | वृद्धिरेचि, आद्‌गुणः इति सूत्रस्य अपवादः | अतः आद्‌गुणः इति सूत्रं बाधितं भवति वृद्धिरेचि इति सूत्रेण |


आद्‌गुणः इति सूत्रे अचि परे इत्यस्य इकि परे इति फलितः अर्थः यतः अकारात्‌ अकारः परश्चेत्‌ कार्यं बाधितम्‌ अकः सवर्णे दीर्घः इत्यनेन; अकारात्‌‍ एच्‌ परश्चेत् कार्यं बाधितं वृद्धिरेचि इत्यनेन सूत्रेण च | वृद्धिशास्त्रस्य अवकाशं कल्पयित्वा तद्भिन्नस्थलेषु गुणशास्त्र-प्रवृत्तिः कर्तव्या |


तर्हि अत्र तुल्यबलविरोधः नास्ति अतः किं सूत्रं कार्यं करोति इति निर्णेतुं समस्या नास्ति | अधुना अस्माकं पूर्वतनम्‌ उदाहरणं प्रत्यागच्छाम | वृक्ष + भ्यस् | अत्र द्वयोः सूत्रयोः एकत्रप्राप्तिः— सुपि च, बहुवचने झल्येत्‌ च | द्वयोरपि अन्यत्र लब्धावकाशः अतः तुल्यबलविरोधः अस्ति | तुल्यबलविरोधः इत्यस्य समानार्थी शब्दः विप्रतिषेधः | अत्र कस्य सूत्रस्य प्राप्तिः भवेत्‌ इति निर्णेतुम्‌ एकं सूत्रं साहाय्यं करोति |


२. विप्रतिषेधे परं कार्यम्‌ (१.४.२) = समानकाले तुल्यबले सूत्रे कार्यं कर्तुम्‌ आयातश्चेत्‌, परसूत्रस्य कार्यं पूर्वं भवति | विप्रतिषेधे सप्तम्यन्तं, परं प्रथमान्तं, कार्यं प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | विप्रतिषेध इत्युक्ते समानबलयोः सूत्रयोः सङ्घर्षः |


वृक्ष + भ्यस्‌ → विप्रतिषेधे परं कार्यम्‌सुपि च (७.३.१०२) इत्यस्य अपेक्षया बहुवचने झल्येत्‌ (७.३.१०३) परम्‌ अस्ति अतः तद्‌ बलवत्‌ → एकारादेशः → वृक्ष्‌ + ए + भ्यस्‌ → वृक्षेभ्यः |


अष्टाध्याय्यां यत्र यत्र तुल्यबलविरोधः तत्र तत्र विप्रतिषेधे परं कार्यम्‌ आगत्य सूचयति यत्‌ परसूत्रस्य कार्यं पूर्वं भवति (धेयं यत्‌ अस्य सूत्रस्य प्रसक्तिर्नास्ति त्रिपाद्याम्‌; अग्रे [#४] इयं सूचना प्राप्यते) | अध्याय-दृष्ट्या, पाद-दृष्ट्या, सूत्रसङ्ख्या-दृष्ट्या एकं सूत्रं परम्‌ अस्ति चेत्‌, तत्‌ सूत्रं परसूत्रम्‌ इत्युच्यते |


इदानीम्‌ आद्‌गुणः (६.१.८७), वृद्धिरेचि (६.१.८८) इति पश्येम | अस्माभिः दृष्टं यत्‌ अत्र + एव इति स्थितौ वृद्धिरेचि इत्यस्य प्राबल्यम्‌ अस्ति अपवादत्वात्‌ | वृद्धिरेचि इत्यस्य अन्यत्रलब्धावकाशो नास्ति; अतः अत्रैव [अत्र + एव] कार्यं साधनीयम्‌ |


वृद्धिरेचि परसूत्रम्‌ अस्ति; तथापि अत्र विप्रतिषेधे परं कार्यम्‌ इत्यनेन स्वस्य कार्यं न सिध्यति यतः अत्र तुल्यबलविरोधः नास्ति | विप्रतिषेधः इत्युक्तौ तुल्यबलविरोधः; परसूत्रस्य कार्यं भवति यदा विप्रतिषेधः विद्यते | अत्र + एव इति स्थितौ विप्रतिषेधः नास्ति (वृद्धिरेचि अत्र कार्यं न करोति चेत्‌, कुत्रापि कर्तुं न शक्ष्यति—अन्यत्रलब्धावकाशो नास्ति) अतः अत्र विप्रतिषेधे परं कार्यम्‌ इति सूत्रेस्य प्रसक्तिर्नास्त्येव |


सुपि च - बहुवचने झल्येत्‌ इति एका स्थितिः; आद्‌गुणः - वृद्धिरेचि इति अन्या स्थितिः | पूर्वस्यां स्थित्यां विप्रतिषेधे परं कार्यम्‌ इत्यनेन बलाबलस्य निर्णयः क्रियते; उत्तरस्यां स्थित्यां सामान्यविशेषत्वम्‌ (अपवादभूतत्वम्‌) इत्यनेन बलाबलस्य निर्णयः क्रियते | अधः चित्रद्वयम्‌ अस्ति, येन अस्माकं चित्रा-भगिन्या विप्रतिषेधः अपवादः चेत्यनयोर्भेदः सुन्दररीत्या निरूप्यते | अवश्यं दृश्यताम्‌ ! अधोभागे तयोः pdf अपि प्राप्यते, download इत्यर्थम्‌ | चित्रा-भगिनि, धन्यवादाः !


अधः एका परिभाषा अस्ति यया बुद्धं यत्‌ अपवादः बलीयान्‌ सामान्यसूत्रस्य अपेक्षया | यत्र अपवादः अस्ति, तत्र सूत्रसङ्ख्यायाः किमपि महत्वं नास्ति | अपवादभूतसूत्रस्य सूत्रसङ्ख्या या काऽपि भवतु नाम, तस्य बलं भवति एव | यत्र अपवादत्वेन बलाबलस्य निर्णयः क्रियते, तत्र इयं परिभाषा कार्यं करोति | परिभाषाः अत्यन्तं पुरातनाः; तेषां लेखकाः अस्माभिर्न ज्ञायन्ते परन्तु व्याकरणलोके तासां दृढा मान्यता अस्ति | तर्हि अत्रास्ति एका परिभाषा—


३. पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः | [परिभाषा ३८] अनेन पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत्‌ भवति; परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत्‌ भवति; नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत्‌ भवति; अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत्‌ भवति |


अस्याः परिभाषायाः प्रथमतत्त्वद्वयं विप्रतिषेधे परं कार्यम्‌ इत्यस्यैव अभिव्यक्तिः— पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत्‌ | तत्पश्चात्‌ तत्त्वत्रयं वर्तते—नित्य, अन्तरङ्ग, अपवाद—येषां उपस्थितौ विप्रतिषेधे परं कार्यम्‌ इति सूत्रं कार्यं न करोति |


एतावता पूर्व-पर इत्यनयोः प्रसङ्गे ज्ञातवन्तः वयम्‌ | अधुना नित्य, अन्तरङ्ग, अपवाद इति प्रसङ्गेषु परिशीलयाम |


a) नित्यम्‌ | कृताकृतप्रसङ्गी यः विधिः भवति, सः नित्यः इत्युच्यते | समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्तिरस्ति इति चिन्तयतु | द्वयोर्मध्ये एकस्य सूत्रस्य प्रवृत्तिः कारिता; तदनन्तरमपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति चेत्‌, तस्यां दशायां यत्‌ अपरं सूत्रम्‌ अस्ति, तत्‌ नित्यसूत्रम्‌ इत्युच्यते | नित्यं नाम तस्य प्रसक्तिः पूर्वमपि आसीत्‌, अनन्तरमपि अस्ति | यदा किञ्चन सूत्रं नित्यम्‌ अस्ति, तदा तत्‌ सूत्रं प्रथममेव प्रवर्तनीयम्‌ | नित्यम्‌ इत्यस्मात् कारणात्‌ बलवत्‌ | अतः पूर्वसूत्रं नित्यम्‌ अस्ति चेत्‌ पूर्वसूत्रं सत्यपि पूर्वम्‌ आयाति |


तुदति इति वृत्तान्तः |

तुद्‌ + लट्‌        वर्तमाने लट्‌ (३.२.१२३)

तुद्‌ + ति         

तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८)


तुद्‌ + श + ति   तुदादिभ्यः शः (३.१.७७),

अनुबन्धलोपे तुद्‌ + अ + ति → तुदति


अत्र तुद्‌-धातोः वर्तमाने लट्‌ (३.२.१२३) इत्यनेन लट्‌ कर्तव्यः | तदा लटः स्थाने तिबादयः भवन्ति | एकवचनविवक्षायां तिप्‌-प्रत्ययः | तुद्‌ + ति | इदानीं ति-प्रत्ययः तिङ्‌शित्‌ सार्वधातुकम्‌ (३.४.११३) इत्यनेन सार्वधातुकप्रत्ययः | अतः सार्वधातुकार्धधातुकयोः (७.३.८४) इति अनुवर्तमाने पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणः प्राप्यते | तुद्‍ + ति → पुगन्तलघूपधस्य च → तोद्‌ + ति |