04---aShTAdhyAyI-paricayaH/08---mAtuH-pAThasya-vailakShaNyam

Revision as of 13:23, 10 May 2021 by Bina Radia (talk | contribs) (line spacing and hyperlinks in dheyam)

04---aShTAdhyAyI-paricayaH/08---mAtuH-pAThasya-vailakShaNyam

किमर्थं पाणिनीयव्याकरणस्य अध्ययनार्थं नूतना पद्धतिः ?


मातुः धातुपाठे किं नूतनम्‌ अस्ति अपि च किमर्थम्‌ अस्माभिः सर्वैः अयं धातुपाठः अपेक्षितः इत्यत्र उच्यते | अस्मिन्‌ परिचये बहवः पारिभाषिकशब्दाः सन्ति, अतः अवगमनं न भवति चेत्‌ इमं पाठं त्यक्त्वा अग्रे पठतु; अनन्तरं यदा मातुः पाठस्य कश्चन आधारः मनसि स्थापितः, तदा पुनः अत्र आगत्य पठतु | तस्मिन्‌ समये अवगमनम्‌ अवश्यं स्यात्‌ |


मातुः धातुपाठः पाणिनेः धातुपाठः एव; वैयाकरणसिद्धान्तकौमुदी अपि तथा—पाणिनेः धातुपाठः | तर्हि मातुः पाणिनीयधातुपाठः, वैयाकरणसिद्धान्तकौमुदी चेत्यनयोः को भेदः ? यथा उक्तं द्वयोः विवरणं तदेव, पाणिनेः धातुपाठः—अतः विवरणदृष्ट्या भेदो नास्ति | उत्तरं प्रापय्ते पाठ्यक्रमे—येन क्रमेण सर्वं विवरणं दत्तं, तत्र महान्‌ भेदः | कस्मिंश्चित्‌ ज्ञानक्षेत्रे बह्वी सूचना अस्ति चेत्‌, तर्हि तस्मिन्‌ क्षेत्रे पाठनस्य पद्धतिः अत्यन्तं महत्त्वपूर्णा | यतः सूचना तु अस्ति, परन्तु विद्यार्थिनः आत्मसात्‌ न कर्तुं पारयन्ति चेत्‌, सूचनायाः किं मूल्यम्‌ ?


प्रत्येकस्मिन्‌ स्तरे मातुः पाठ्यक्रमः पाणिनेः सूत्राणि अवलम्ब्य समायोजितः |

१) द्विसहस्रस्य धातूनां क्रमस्य स्तरे

२) लकारक्रमस्य स्तरे

३) प्रक्रियास्तरे

एवं च सर्वत्र सूत्राधारीकृत्य पाठ्यक्रमः व्यवस्थापितः | पाणिनीयसूत्राणां शक्तिः एतादृशी यत्‌ लघुस्थाने सूचना अधिका—लघ्वीकरणम्‌ इति | मातुः पाठनमार्गः अपि तथा | धातुपाठं सम्यक्तया बोधितुं कियान्‌ समयः अपेक्षितः इति किञ्चन महत्‌ तत्त्वम्‌ | सिद्धान्तकौमुद्याः मार्गः दीर्घः, मातुः धातुपाठस्य मार्गः ह्रस्वः | कारणं किम्‌ ? मातुः क्रमे तर्कः विद्यते, सर्वम्‌ आयोजितं सूत्राणुगुणं; सिद्धान्तकौमुदी न तथा | कथमिति अग्रे पश्येम |


१-अ) धातुक्रमः

वयं जानीमः यत्‌ पाणिनेः सूत्राणि आधारीकृत्य प्रातिपदिकानि तदन्तपदम्‌ अनुसृत्य आयोजितानि—पुंसि अकारान्तशब्दाः, देव इव; इकारान्तशब्दाः, मुनि इव; उकारान्तशब्दाः, गुरु इव; ऋकारान्तशब्दाः, कर्तृ इव | स्त्रियां लता, नदी, मति, धेनु, मातृ; क्लीबे वन, मधु, वारि अपि तथा | नाम देवशब्दः बहूनां शब्दानां प्रतिनिधिः, अतः देवशब्दं जानीमश्चेत्‌, बहून्‌ शब्दान्‌ जानीमः एव | अपि च प्रक्रियादृष्ट्या, सिद्धान्तकौमुद्यां प्रातिपदिकानां कृते तादृशी व्यवस्था अस्ति एव | रामशब्दस्य व्युत्पत्तिः प्रदर्शिता; इयं च व्युत्पत्तिः सर्वेषाम्‌ अकारान्त-पुंलिङ्गशब्दानां कृते प्रतिनिधिः | तथैव अग्रेऽपि सर्वेषां प्रातिपदिकानां कृते इति |


परन्तु यद्यपि धातूनां कृते अपि पाणिनीयसूत्राणि तथैव व्यवस्थापितानि, तथापि एतावता केनापि तादृशम्‌ आयोजनं न कृतम्‌ | न सिद्धान्तकौमुद्यां, न वा अन्यत्र | अधुनैव प्रथमवारम्‌ ऐतिहासिकी पद्धतिः अक्रियत मात्रा पुष्पदीक्षितया | तया सर्वे द्विसहस्रं धातवः चतुर्दशसु विभागेषु विभक्ताः | अजन्तधातवः अन्त्यक्रमेण आयोजिताः; हलन्तधातवः उपधा-क्रमेण विभक्ताः | किमर्थं तथा ? पाणिनेः सूत्राणि तथा सन्ति | अजन्तधातूनां कृते सूत्राणां कार्यम्‌ अन्तिमस्वरम्‌ अनुसृत्य भवति | अतः मात्रा एवमेव रीत्या अजन्तधातवः विभक्ताः—अकारान्ताः, आकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ॠकारान्ताः, एजन्ताः च | हलन्तधातूनां कृते पाणिनेः सूत्राणां कार्यं उपधाम्‌ अनुसृत्य भवति | नाम अन्तिमवर्णात्‌ प्राक्‌ यः वर्णः, तम्‌ अनुसृत्य इति | अतः तत्र हलन्तधातूनां कृते अदुपधाः, इदुपधाः, उदुपधाः, ऋदुपधाः, शेषधातवः चेति |


अनेन क्रमेण सर्वे धातवः पाणिनिसूत्रानुसारेण समायोजिताः | अत्र कानिचन सूत्राणि प्रदर्शितानि यत्र तदन्तानुगुणं कार्यं साधितम्‌—


अजन्तधातवः

आकारान्तधातूनां कृते—

अङ्गकार्यम्‌ = आटो लोप इटि च, श्नाभ्यस्तयोरातः, आतो युक्‌ चिण्कृतोः|

प्रत्ययाः विहिताः = आतोऽनपुसर्गे कः, आतो मनिन्‌-क्वनिब्‌-वनिपश्च, आतो युच् |


इगन्तधातूनां कृते (इकारान्तानां, उकारान्तानां, ऋकारान्तानां च कृते) —

अङ्गकार्यम् = सार्वधातुकार्धधातुकयोः, अचि श्नुधातुभ्रुवां य्वोरियङुवङौ, एरनेकाचोऽसंयोगपूर्वस्य |


प्रत्ययाः विहिताः

इकारान्तधातूनां कृते— एरच्‌

उकारान्तधातूनां कृते— ओरावश्यके

ऋकारान्तधातूनां कृते— ऋहलोर्ण्यत्‌

ॠकारान्तधातूनां कृते— ॠदोरप्‌

अतः सूत्राणि दृष्ट्वा अजन्तधातूनाम्‌ अन्तिमस्वरम्‌ अनुसृत्य क्रमः स्वाभाविकः |


हलन्तधातवः


हलन्तधातूनाम्‌ उपधाम्‌ अनुसृत्य सूत्राणि विरचितानि पाणिनिना—


अदुपधाधातूनां कृते = अत उपधायाः, अतो हलादेर्लघोः, पोरदुपधात्, अतो ल्रान्तस्य, अत एकहल्मध्येऽनादेशादेलिटि |

इगुपधधातूनां कृते = पुगन्तलघूपधस्य च, इगुपधज्ञाप्रीकिरः कः |

ऋदुपधधातूनां कृते = ऋदुपधाच्चाक्लृपिचृतेः, रीगृदुपधस्य च, उरृत्‌ |


अतः सूत्राणि दृष्ट्वा हलन्तधातूनाम्‌ उपधाम्‌ अनुसृत्य क्रमः स्वाभाविकः |


१-आ) प्रतिनिधि-सिद्धान्तः


एवं च मातुः पाठे एकः धातुः बहूनां धातूनां प्रतिनिधिः भवति | यथा बुध्‌ धातुः; बुध्‌ उदुपधधातुः | उपधायां ह्रस्वः उकारः यस्य धातोः, सः उदुपधधातुः | भ्वादिगणे ६४ उदुपधदातवः सन्ति अपि च मातुः धातुपाठे सर्वे भ्वादिगणीयाः उदुपधधातवः एकत्र तया सङ्गृहीताः | एषाम्‌ उदुपधधातूनां सार्वधातुकलकाराणां तिङन्तरूपाणां कृते कानि कानि सूत्राणि अपेक्षितानि, तानि अपि सर्वाणि दत्तानि तत्त्रैव | अतः अनेन एका एव उदुपधधातोः प्रक्रिया ज्ञायते चेत्‌, ६४ धातूनां प्रक्रिया ज्ञाता | अयं प्रतिनिधि-सिद्धान्तः सर्वत्र विहितः मात्रा, यतः पाणिनीयसूत्राणि तथैव सन्ति |


भ्वादिगणे उदुपधधातवः सामान्यधातवः | अन्यत्‌ उदाहरणं दृश्यतां, यत्र इतो‍ऽपि कार्यं वर्तते | तुदादिगणे इगन्तधातवः विशेषधातवः सन्ति | तत्र तुदादिगणे षोडश इगन्तधातवः सन्ति, अपि च तेषां कार्यम् असामान्यम्‌ | तत्रैव मातुः सार्वधातुकलकाराणां पाठस्य तुदादिगणस्य विभागे सर्वे षोडश धातवः दत्ताः—रि, पि, धि, क्षि; गु, ध्रु, कुङ्‌, णू, धू, षू, मृङ्‌, पृङ्‌, दृङ्‌, धृङ्‌, कॄ, गॄ | अपि च सम्बद्धानि सूत्राणि प्रदत्तानि—तिङ्‌-शित्सार्वधातुकम्, क्ङिति च, अचि श्नुधातुभ्रुवां य्वोरियङुवङौ, अनेकाल्‌ शित्सर्वस्य, ङिच्च, रिङ्शयग्लिङ्क्षु, ॠत इद्धातोः | तत्र यथा अधः उच्यते, एषां धातूनाम्‌ अङ्गकार्यं क्रियते | परन्तु अवगम्यतां यत्‌, यद्यपि धातवः षोडश, तत्र कार्यं चतुर्विधा एव—रि, पि, धि, क्षि इत्येषां कृते एकं कार्यं; गु, ध्रु, कुङ्‌, णू, धू, षू इत्येषां कृते एकं कार्यं; मृङ्‌, पृङ्‌, दृङ्‌, धृङ् इत्येषां कृते एकं कार्यं; कॄ, गॄ इत्यनयोः कृते एकं कार्यम्‌ इति | अतः अत्र प्रतिनिधि-रूपेण रि, गु, मृङ्, कॄ च स्वीक्रियन्ते चेत्‌, सर्वेषां षोडशानां कृते प्रक्रिया ज्ञाता | अपि च यथा अग्रे उक्तम्‌, एकस्मिन्‌ प्रकोष्ठे अङ्गकार्यं, अपरस्मिन्‌ प्रकोष्ठे तिङ्प्रत्ययाः सिद्धाः, तृतीये प्रकोष्ठे अङ्ग-तिङ्प्रत्यययोः मेलनम्‌ | अनेन अत्यन्तं सुलभतया लटि, लोटि, लङि, विधिलिङि च एषां षोडशानां धातूनां तिङन्तरूपाणि साधितानि ज्ञातानि च |


२) लकारक्रमः


लकाराणां क्रमः मात्रा व्यवस्थापितः | दशानां लकाराणां द्वौ विभागौ कृतौ—आर्धधातुकलकाराः, सार्वधातुकलकाराः च |


वैयाकरणसिद्धान्तकौमुद्याम्‌ एकैकधातोः दश दश लकाराः क्रमेण साध्यन्ते | प्रथमधातुः दशापि लकारेषु प्रदिशति; पुनः द्वितीयधातुः पुनः दशापि लकारेषु प्रदिशति | अयं क्रमः वैज्ञानिको न | अनेन कस्यापि लकारस्य सम्यक्‌ बोधो न जायते | अनेन विद्यार्थिनां प्रचुरः सङ्घर्षः अपेक्षितः | तावता कष्टेनापि नैपुण्यं न भवति | यत्र यत्र संस्कृतस्य व्याकरणपाठः क्रियते, तत्र तत्र एतादृशी गतिः | अत्यन्तं सङ्घर्षः, समयः अधिकः, फलं न्यूनम्‌ | फलम्‌ इत्युक्ते प्रक्रियाः ज्ञातव्याः अपि च साधितानि रूपाणि व्यवहरणीयानि | फलाभावः किमर्थमिति चेत्‌, अत्यन्तं दीर्घकालात्‌ इदानीं यावत्‌ यः परम्परागतः पाठ्यक्रमः अनुक्रियते, सः नैव तर्कपूर्णः | एकस्य धातोः कृते साक्षात्‌ लट्‌, लिट्‌, लुट्‌, लृट्‌, लोट्‌, लङ्‌‍ इत्यादि क्रमः, सः केवलं वर्णमालानुसारेण प्रवर्तते; अत्र प्रक्रियायाः न कोऽपि सम्बन्धः; दूरात्‌ अपि सम्बन्धः न |


अतः मात्रा "एकः एव धातुः, सर्वेषु अपि लकारेषु" इति क्रमं त्यक्त्वा, सार्वधातुकलकाराणं कृते गणम्‌ अनुसृत्य सर्वेषाम्‌ अपि धातूनां लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ मिलित्वा क्रियन्ते; आर्धधातुकलकाराणां कृते सर्वेषाम्‌ अपि धातूनाम्‌ एक एव लकारः इति क्रमः परिगृहीतः | अयमेव पाणिनेः क्रमः, यतः तदनुसारेण पाणिनिना प्रकरणानि कृतानि | पाणिनीयक्रमः एवं यत्‌ सर्वेषां धातूनां कृते एकस्मिन्‌ समये एक एव लकारः साध्यः—न तु एकस्य धातोः दश लकाराः |


मातुः क्रमः आहत्य—


a) सार्वधातुकलकाराणां कृते लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ संङ्गृहीताः | दशसु गणेषु पृथक्तया एते चत्वारः लकाराः साध्यन्ते ‌| | एकैकस्य गणे यावन्तः धातवः सन्ति, सर्वे मातृपाठे अन्तर्भूताः | सर्वे धातवः पूर्वोक्त-पद्धत्या आयोजिताः—अजन्तधातवः अन्तिमस्वरम्‌ अनुसृत्य अकारान्ताः, आकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ॠकारान्ताः, एजन्ताः च | हलन्तधातवः उपधाम्‌ अनुसृत्य अदुपधाः, इदुपधाः, उदुपधाः, ऋदुपधाः, शेषधातवः चेति |


b) आर्धधातुकलकाराणां कृते लिट्‌, लुट्‌, लृट्‌‌, आशीर्लिङ्‌, लुङ्‌, लृङ्‌ एकैकः पृथक्तया क्रियते | अत्र सर्वे गणाः सम्मिलिताः | गणस्य चर्चा नैव क्रियते, गणाः नैव प्रयुजुयन्ते | यतोहि एषु लकारेषु गणभेदः नास्त्येव; सर्वे गणाः समानाः | अतः अत्र केवलम्‌ एकः लकारः, द्विसहस्रं धातवः | धातवः च पूर्वोक्त-पद्धत्या आयोजिताः—अजन्तधातवः अन्तिमस्वरम्‌ अनुसृत्य अकारान्ताः, आकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ॠकारान्ताः, एजन्ताः च | हलन्तधातवः उपधाम्‌ अनुसृत्य अदुपधाः, इदुपधाः, उदुपधाः, ऋदुपधाः, शेषधातवः चेति |


तर्हि, यथा उक्तम्‌ मातुः पद्धतिम्‌ अधिकृत्य आर्धधातुकलकाराणां कृते सर्वे धातवः‌ क्रियन्ते एकस्मिन्‌ एव लकारे | प्रत्येकं लकारस्य सर्वं कार्यं एकस्मिन्‌ स्थाने सङ्गृहीतम्‌ | वृतान्ते लिट्लकारः | लिट्‌लकारस्य सर्वाणि सम्बद्ध-सूत्राणि, सर्वं लिट्‌-सम्बद्धं कार्यम्‌ मात्रा एकस्मिन्‌ अध्याये स्थापितम्‌ | लिट्‌-लकारः आर्धधातुकः अतः धातुगण-सम्बद्धं किमपि कार्यं नास्ति | तथापि सिद्धान्तकौमुद्यां दशगणेषु पृथक्तया, एकैकस्मिन्‌ गणे विभागेन लिट्‌लकारः क्रियते | परन्तु मातुः पाठे यतः लिट्‌लकारः आर्धधातुकः, अतः सर्वेषां धातूनां लिट्‌-सम्बद्धकार्यं एकत्र भवति एकस्मिन्‌ एव अध्याये | धातवः कस्मिनपि गणे भवन्तु नाम, लिटः कृते सर्वे धातवः एकत्र एव भवन्ति |


सार्वधातुकलकारः आर्धधातुकलकारः चेति पारिभाषिकशब्दौ सिद्धान्तकौमुद्यां नैव स्तः | अपि च अस्मिन्‌ विभागद्वये यादृशं प्राधान्यं मात्रा दत्तं स्वस्य पाठे, तादृशं न कुत्रापि लभ्यते |


३) प्रक्रिया


प्रक्रिया सूत्राधारीकृत्य मात्रा आयोजिता | सा च प्रकिया विभक्ता प्रकोष्ठेषु |


प्रकोष्ठम्‌ अवलम्ब्य कार्यवितरणं विलक्षणम्‌ | यथा यन्त्रागारे कार्यं विभाजितं भिन्न-भिन्नेषु प्रकोष्ठेषु येन कर्मकराणाम्‌ एकस्मिन्‌ कार्ये नैपुण्यं भवेत्‌, तथैव मात्रा भिन्ने प्रकोष्ठे भिन्नं कार्यं स्थापितम्‌ | एवं रीत्या अस्माकं नैपुण्यं शीघ्रमेव विकसति |


a) एकस्मिन्‌ प्रकोष्ठे अङ्गकार्यम्‌ |


यथा सार्वधातुकलकारेषु विकरणप्रत्ययं निमित्तीकृत्य धातुः इति अङ्गे अङ्गकार्यं निष्पादितम्‌ |


उदाहरणार्थम्‌—

भू + शप्‌ → भू + अ → भो + अ → भ्‌ + अव्‌ + अ → भव इति अङ्गं निष्पन्नम्‌ | अनेन शपं निमित्तीकृत्य अङ्गकार्यं साधितम्‌ | तथा सर्वेऽपि उकारान्ताः ऊकारान्ताः च भ्वादिगणीयधातवः सम्मिलिताः |

अन्यच्च तुदादिगणे कुङ् इति आत्मनेपदिधातुः | कुङ् + श → कु + अ → क्‌ + उव्‌ + अ → कुव इति अङ्गं निष्पन्नम्‌ | [लङि अकुव, लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१) इत्यनेन]


मात्रा सर्वं अङ्गकार्यं समाहृत्य उच्यते, नाम तस्याः समग्रं चिन्तनम्‌ | तया द्विसहस्रस्य धातूनां क्रमः व्यवस्थापितः सूत्राणाम्‌ अनुसारम्‌ | इदम्‌ आयोजनम्‌ अङ्गकार्यानुसारेण एव कृतम्‌ | यथा अत‌ उपधायाः इत्यादीनि सूत्रणि सन्ति, अतः अदुपधधातवः सङ्गृहीताः | पुगन्तलघूपधस्य च इत्यस्ति, अतः इगुपधधातवः सम्मिलिताः | अतो लोपः, अतो गुणे, अतो दीर्घो यञि, तदनुसारं सर्वेषाम्‌ अदन्तानाम्‌ अङ्गानां सङ्ग्रहणम् अक्रियत ‌| यथा पाणिनेः सूत्राणि कार्यं विदधति, तेन एव क्रमेण मात्रा धातवः व्यवस्थापिताः | एतावता कदापि केनापि न कृतम्‌ |


b) अपरस्मिन्‌ प्रकोष्ठे तिङ्प्रत्ययानां सिद्धिः |


वृत्तान्ते, आत्मनेपदे—

अदन्ताङ्गानां कृते लङि‌ सिद्ध-प्रत्ययाः—

त इताम्‌ अन्त

थाः इथाम्‌ ध्वम्‌

इ वहि महि


अनदन्ताङ्गानां कृते लङि‌ सिद्ध-प्रत्ययाः—

आताम्‌ अत

थाः आथाम्‌ ध्वम्‌

इ वहि महि


एवं रीत्या सर्वेषां लकाराणां कृते सिद्ध-तिङ्प्रत्ययाः निष्पन्नाः | अपि च यया रीत्या प्रयुक्ताः, दृष्टिः पूर्णतया नूतना |


c) तृतीये प्रकोष्ठे अङ्ग-तिङ्प्रत्ययानां संयोजनकार्यम्‌ |


लङि अकुव इति अङ्गम्‌ | अदन्ताङ्गानां कृते उपरि प्रदर्शिताः सिद्ध-तिङ्प्रत्ययाः |

अकुव + त → अकुवत

अकुव + इताम्‌ → अकुवेताम्‌ आद्गुणः (६.१.८७)

अकुव + अन्त → अकुवन्त अतो गुणे (६.१.९७)

अकुव + थाः → अकुवथाः

अकुव + इथाम्‌ → अकुवेथाम्‌ आद्गुणः (६.१.८७)

अकुव + ध्वम्‌ → अकुवध्वम्‌

अकुव + इ → अकुवे आद्गुणः (६.१.८७)

अकुव + वहि → अकुवावहि अतो दीर्घो यञि (७.३.१०१)

अकुव + महि → अकुवामहि अतो दीर्घो यञि (७.३.१०१)


अनेन तिङन्तस्य सिद्ध्यर्थं कार्यं प्रकोष्ठत्रये विभक्तम्‌ | अस्मिन्‌ सौकर्यम्‌ अस्ति, तर्कोऽपि अस्ति | स्वस्य वर्गेऽपि मया दृष्टं यत्‌ अनेन पद्धत्या विद्यार्थिनः शीघ्रमेव अवगच्छन्ति, स्वयमेव रूपाणि साधयन्ति च | पूर्वं, सर्वत्र लोके सिद्धान्तकौमुद्या लघुसिद्धान्तकौमुद्या च छात्राणां बहु कष्टं भवति स्म | अद्यापि भवति यत्र तया पद्धत्या अधीयते | अधुना कष्टं समाप्तम्‌ ! छात्राः मातुः पद्धतिम्‌ अवलम्ब्य पठन्ति चेत्‌, न कोऽपि क्लेशः अपि तु आनन्दैव | पाणिनेः व्यवस्थायां विशिष्टा शक्तिः वर्तते, अद्भुतं लाघवं—यया रीत्या तस्य एकेन एव सूत्रेण महत्‌ कार्यं सिध्यति, तया | मातुः पाठे यतोहि सर्वम्‌ आयोजितं पाणिनेः सूत्रानुसृत्य, अतः तस्याः पद्धतौ सा एव शक्तिः, अपि च तदेव लाघवम्‌ |


अन्ते इदमपि वक्तव्यम्‌ अस्ति यत्‌ मातुः चिन्तनं सर्वत्र समग्रं चिन्तनं भवति | न केवलं धातुपाठे, अपितु कृदन्तप्रकरणेऽपि तद्धितप्रकरणेऽपि तदेव समग्रं चिन्तनम्‌ | यथा कृदन्तप्रकरणे यः कोऽपि प्रत्ययः भवतु नाम, यदा तस्य पाठः क्रियते मात्रा, तदा सर्वेषां धातूनां कृते भवति | कृदन्तप्रकरणेऽपि स एव धातुक्रमः, ते एव चतुर्दश धातुवर्गाः अजन्तधातूनां हलन्तधातूनां च | वृत्तान्ते क्तिन्‌ प्रत्ययः; यदा क्तिन्‌ पाठ्यते मात्रा, तदा सर्वेषां धातूनां कृते यत्र यत्र क्तिन्‌ विहितः, तत्र तत्र मातुः चिन्तनम्‌ | आहत्य, न कोऽपि रूपं त्यक्तं; सर्वव्यापकं चिन्तनम्‌ इदम्‌ |

Swarup – July 2013

---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.


Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ].


०९ - मातुः पाठस्य वैलक्षण्यम्‌.pdf (54k) Swarup Bhai, Aug 6, 2016, 9:39 PM v.1