05---sArvadhAtukaprakaraNam-adantam-aGgam/08---tudAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary

(3 intermediate revisions by the same user not shown)
Line 25:

'''तुदादिभ्यः शः ('''३'''.'''१'''.'''७७''')''' = तुदादिगणे स्थितेभ्यः धातुभ्यः श-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | तुद्‌ आदिर्येषां ते, तुदादयः बहुव्रीहिसमासः, तेभ्यः तुदादिभ्यः | तुदादिभ्यः पञ्चम्यन्तम्‌, शः प्रथमान्तम्‌, द्विपदमिदं सूत्रम् | '''कर्तरि शप्‌''' (३.१.६८) इत्यस्मात्‌ '''कर्तरि''' इत्यस्य अनुवृत्तिः; '''सार्वधातुके यक्‌''' (३.१.६७) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१),  '''परश्च''' (३.१.२) इत्यनयोः अधिकारः; '''धातोरनेकाचोधातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''तुदादिभ्यः धातुभ्यः श प्रत्ययः परश्च कर्तरि सार्वधातुके'''  |

Line 172:
त्वच संवरणे (आच्छादनं करोति) → त्वच्‌ + श → त्वच इति अङ्गम्‌ → त्वच + ति → त्वचति

ओलजी वीडायाम्‌व्रीडायाम्‌ (लज्जितः भवति) → लज्‌ + श → लज इति अङ्गम्‌ → लज + ति → लजति

कड मदे (अहङ्ग्कारयुक्तः भवति) → कड्‌ + श → कड इति अङ्गम्‌ → कड + ति → कडति
Line 272:

एतावता अस्माभिः दृष्टं यत्‌ इगन्तधातवः नियमानुसारं प्रवर्तन्ते | भ्वादिगणे दिवादिगणे च गणनियमम्‌ अनुसृत्य यथा विकरणप्रत्ययस्य स्वभावः, तथा एव इगन्तधातूनाम्‌ अङ्गकार्यम्‌ | भ्वादिगणे शप्‌ पित्‌ अतः सर्वत्र इगन्तधातौ गुणः— नी → ने, भू → भो, कृधृकर्‍धर् इति | दिवादिगणे श्यन्‌ अपित्‌ अतः सर्वत्र इगन्तधातुः यथावत्‌ तिष्ठति— प्री → प्रीय → प्रीयते, सू → सूय → सूयते इति | अतः भ्वादिगणे दिवादिगणे च इगन्तधातवः सामान्याः इति उच्यते | परन्तु तुदादिगणे इगन्तधातवः विशेषधातवः सन्ति | किमर्थमिति अत्र दृश्यताम्‌ |

Line 280:
एतावता वयं दृष्टवन्तः यत्‌ व्याकरणशास्त्रे इ, उ, ऋ इत्येषां कार्यद्वयं सम्भवति—

१. गुणादेशः | नाम इ → ए, उ → ओ, ऋ → अर्‍अर् |

२. यण्‌ आदेशः ('''इको यणचि''') | नाम इ → य्‌, उ → व्‌, ऋ → र्‍र् |

Line 303:

२. तुदादिगणे सामान्यचिन्तनम्‌ अकरिष्याम, तर्हि रि-धातोः लटि किं रूपम्‌ अभविष्यत्‌ इति चिन्तयेम | रि + लट्‌ → रि + ति → रि + श‌ + ति → रि + अ + ति → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणप्राप्तिः → '''सार्वधातुकम्‌ अपित्‌''' इत्यनेन श ङिद्वत्‌, '''क्ङिति च''' इत्यनेन गुणनिषेधः → रि + अ + ति → '''इको यणचि''' इत्यनेन यण्‌-सन्धेः प्राप्तिः → र्‍यतिर्यति | इदं केवलं चिन्तनार्थम्‌; अयं रि-धातुः तुदादिगणे सामान्यधातुः नास्ति अतः इदं रूपं न सम्भवति |

Line 324:

रि गतौ → रि + श → रि + अ → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन अचि परे इयङ्‌-आदेशः → र्‍र् + इय्‌ + अ → रिय इति अङ्गम्‌ → रिय + ति → रियति

Line 379:

मृ + शप्‌ → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → मर्‍मर् + अ → मर इति अङ्गम्‌ → मर + ते = मरते | इदं केवलं चिन्तनार्थम्; अयं मृङ्‌-धातुः भ्वादौ नास्ति अतः इदं रूपं न सम्भवति |

Line 397:

आदेशस्य योजनेन आगमस्य योजनेन च धातुः धातुरेव तिष्ठति; स्वस्य धातुसंज्ञा तिष्ठति | '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रेण आदेशः स्थानिवद्भवति | आगमाः तु यस्य आगमः तस्य अवयवः भवति '''यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते''' इति परिभाषया | मृ → म्रि इत्यस्य विकारेण म्रि तदानीं धातुः; तस्य धातुसंज्ञा तदानीम्‌ अस्ति | यतः रि इति आदेशः | अनन्तरम्‌ इयङ्‌ इति आदेशस्य संयोजनेन अपि धातुसंज्ञा वर्तते | म्रि → म्रिय्‌ अयमपि धातुः | परन्तु एकवारं यदा विकरणप्रत्ययः संयोजितः, तदा धातुसंज्ञा न तिष्ठति | म्रिय्‌ + अ → म्रिय | श इति विकरणप्रत्ययः; तस्य पृथक्‌ प्रत्ययसंज्ञा अस्ति अतः तस्य संयोजनेन म्रिय इति अधुना धातुः नास्ति | अस्यां दशायां धातुसंज्ञा न तिष्ठति, अधुना अङ्गसंज्ञा एव वर्तते |

Line 440:

कॄ + श‌ →  कॄ + अ → '''इको यणचि''' (६.१.७७) इत्यनेन यण्‌-सन्धेः प्राप्तिः → तं प्रबाध्य '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणप्राप्तिः → '''सार्वधातुकम्‌ अपित्‌''' (१.२.४) इत्यनेन श ङिद्वत्‌, '''क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः → कॄ + अ → '''ॠत इद्धातोः''' (७.१.१००) इत्यनेन ऋदन्तस्य धातोः ह्रस्व-इकारादेशः → कि + अ → '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः → किर्‍किर्किर्‍किर् + अ → किर इति अङ्गम्‌ → किर + ति → किरति

Line 455:

ऋकारस्य स्थाने यदा अण्-प्रत्याहारस्य कश्चन सदस्यः ('अ', 'इ, 'उ' वा) आयाति, तदा तस्मात्‌ रेफः आयाति | अतः अण्‌ "रपरः" भवति— 'अर्', 'इर्‍इर्', 'उर्‍उर्' वा इति | अत्र ॠकारस्य स्थाने इ आगतः, अतः रपरः भवति, इर्‍इर् इति | कि → किर्‍किर् |

Line 463:

जॄ → ('''ॠत इद्धातोः''') जि → ('''उरण्‌ रपरः''') जिर्‍जिर् → ('''हलि च''') जीर्‍जीर् + (श्यन्‌ विकरणप्रत्ययः) य → जीर्य इति अङ्गम्‌ → जीर्य + ते →  जीर्यते

Line 476:
अ/आ + उ/ऊ = ओ

अ/आ + ऋ/ॠ = अर्‍अर्

इति सामान्यनियमः अस्ति | परन्तु गुणसंज्ञा-विधायकसूत्रम्‌ '''अदेङ्ग गुणः''' (१.१.२) इत्यनेन अ, ए, ओ इत्येषाम्‌ एव वर्णानां गुणसंज्ञा भवति | तत्र "अर्‍अर्" किमपि नास्ति | यत्र गुणसन्धिः अपेक्षितः, तत्र '''आद्गुणः''' (६.१.८७) इत्यनेन अवर्णात्‌ अचि परे पूर्वपरयोः एकः गुणादेशः भवति | गुणादेशः नाम पूर्वपरयोः स्थाने 'अ' वा, 'ए' वा 'ओ' वा आगच्छेत्‌ | तत्र "अर्‍अर्" तु नास्त्येव | तर्हि अ + ऋ → अर् कथम्‌ ? वस्तुतः ऋकारस्य गुणसन्धिः एवं भवति— अ + ऋ → "अ, ए, ओ" इत्येषु गुणसंज्ञकवर्णेषु कश्चन स्वीकर्तव्यः | अधुना '''स्थानेऽन्तरतमः''' इति सूत्रेण ध्वनि-दृष्ट्या तेषु त्रिषु, द्वयोः वर्णयोः स्थाने कस्य गुणसंज्ञकवर्णस्य उच्चारणार्थं "स्थान-तौल्यम्‌" अस्ति इति अवलोकनीयं भवति | अकारस्य कण्ठस्थानम्‌, ऋकारस्य मूर्धास्थानम्‌ | अ, ए, ओ इति गुणसंज्ञकवर्णेषु कस्यापि कण्ठमूर्धास्थानं नास्ति | (अ= कण्ठस्थानम्‌, ए= कण्ठतालुस्थानम्‌, ओ= कण्ठोष्ठस्थानम्‌ इति |) तेषु त्रिषु, अ-ऋ इत्यनयोः स्थाने अकारस्य एव अधिकसाम्यं वर्तते | अतः अ-ऋ इत्यनयोः स्थाने "अ" इत्यस्य गुणादेशप्राप्तिः | अधुना ऋ-स्थाने यः अकारः आगतः, सः अण्‌-प्रत्याहारस्य सदस्यः, अतः '''उरण्‌ रपरः''' इत्यनेन रेफः परः भवति | तर्हि आहत्य अ/आ + ऋ/ॠ → '''आद्गुणः''' इत्यनेन पूर्वपरयोः स्थाने 'अ' → '''उरण्‌ रपरः''' → अर्‍अर् | महा + ऋषिः → मह्‌ + अर्‍अर् + षि → महर्षिः |

अवधेयं यत्‌ '''ॠत इद्धातोः''' इति सूत्रं किति ङिति प्रत्यये परे एव कार्यं करोति | अतः सार्वधातुकलकारेषु यत्र विकरणप्रत्ययः अपित्‌ नास्ति, तत्र यद्यपि प्रसक्तिः तु अस्ति, किन्तु प्राप्तिः न भविष्यति | वृत्तान्ते भ्वादिगणे तॄ इति धातुः | यद्यपि ॠकारान्तधातुः अस्ति, तथापि '''ॠत इद्धातोः''' इत्यनेन ॠ-स्थाने इकारादेशः न भवति | भ्वादिगणे शप्‌ पित्‌ अस्ति अतः '''सार्वधातुकार्धधातुकयोः''' इति सूत्रेण गुणः भवति | तॄ + शप्‌ → तॄ + अ → तर्‍तर् + अ → तर इति अङ्गम्‌ → तर + ति → तरति |

Line 504:

[https://static.miraheze.org/samskritavyakaranamwiki/f4/f948/05_08_%E0%A5%AE_-_%E0%A4%A4%E0%A5%81%E0%A4%A6%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83.pdf ८ - तुदादिगणः.pdf] (107k) Swarup Bhai, Apr 11, 2019, 12:10 AM

Subpages (1): [https://worldsanskrit.net/wiki/05---sArvadhAtukaprakaraNam-adantam-aGgam/08---tudAdigaNaH/tadAdi-tadanta-grahaNaM-paribhAShA-23 तदादि-तदन्त-ग्रहणाम्‌ - परिभाषा २३]
page_and_link_managers, Administrators
5,097

edits