05---sArvadhAtukaprakaraNam-adantam-aGgam/10---curAdigaNaH

ध्वनिमुद्रणानि
2017 वर्गः
१) curAdigaNaH---paricayaH_+_sAmAnya-dhAtavaH_2017-03-01
२) curAdigaNaH---sAmAnya-halanta-dhAtavaH_2017-03-08
2015 वर्गः
१) curAdigaNaH--1_paricayaH_+_AkArAntadhAtavaH_2015-08-25
२) curAdigaNaH--2_sAmAnya-dhAtavaH_2015-09-01


एतावता सार्वधातुकलकाराणां (लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ इत्येषां) तिङन्तरूपाणि साधितानि अस्माभिः भ्वादिगणे, दिवादिगणे, तुदादिगणे च | अनेन क्रमेण पाठः प्रवर्तते यतः एषु गणेषु अङ्गम्‌ अदन्तं भवति, अतः प्रक्रियायां साम्यं वर्तते | आहत्य एतादृशाः चत्वारः गणाः सन्ति | चतुर्थः गणः यस्मिन्‌ अङ्गम् अदन्तं भवति— चुरादिगणः | केचन चिन्तयन्ति यत्‌ चुरादिगणः कष्टकरः, किन्तु एवं किमपि नास्ति | वस्तुतः अत्र आधिक्येन सामान्यमेव; नियमितरूपेण सूत्राणि उपयुज्य तर्कम्‌ अनुसृत्य तिङन्तरूपाणि साध्यन्ते | प्रक्रिया का इति एकवारं ज्ञायेत; तदा सर्वं सुलभम्‌ | केचन विशेषधातवः अपि सन्ति; तेषां प्रसङ्गे अग्रिमे करपत्रे चर्चयाम |



चुरादिगणे तिङन्तरूपस्य साधनार्थं सोपानत्रयम्‌—



१. धातुः + णिच्‌-प्रत्ययः → णिजन्तधातुः

. णिजन्तधातुः + शप्‌-विकरणप्रत्यः → अङ्गम्‌ (तिङ्‌-प्रत्ययं निमित्तं मत्वा)

. अङ्गम्‌ + तिङ्‌-प्रत्ययः → तिङन्तरूपम्‌



यथा उक्तं, चुरादिगणे अङ्गम्‌ अदन्तम्‌ | अतः अङ्गे सिद्धे अस्माकं नूतनकार्यं समाप्तम्‌ | तिङ्‌-प्रत्ययस्य योजनविधिः यथा भ्वादिगणे प्रदर्शितः, तथैव भवति दिवादिगणे, तुदादिगणे, चुरादिगणे च—न कोऽपि भेदः | दृष्टान्ते चुर् धातोः अङ्गं चोरय | लटि चोरय + ति → चोरयति, चोरय + तः → चोरयतः, चोरय + अन्ति → अतो गुणे → चोरयन्ति | यथा भ्वादिगणे, तथैव चुरादिगणेऽपि | अतः अस्मिन्‌ पाठे अस्माकम्‌ अवधानं प्रथमे सोपानद्वये एव |



सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच् (..२५) = एभ्यः द्वादशभ्यः प्रातिपदिकेभ्यः, सर्वेभ्यः चुरादिगणीयधातुभ्यः च णिच्‌-प्रत्ययः विधीयते | एभ्यः प्रातिपदिकेभ्यः णिच्‌-प्रत्ययस्य संयोजनेन नामधातवः भवन्ति | चुर्‍ आदिर्येषां ते चुरादयः | सत्यापश्च, पाशश्च, रूपञ्च, वीणा च, तूलञ्च, श्लोकश्च, सेना च, लोम च, त्वचश्च, वर्म च, वर्णञ्च, चूर्णञ्च, चुरादयश्च तेषामितरेतरद्वन्द्वः, सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादयः तेभ्यः, बहुव्रीहिगर्भो द्वन्द्वः | सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यः पञ्चम्यन्तं, णिच्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | प्रत्ययः (..) परश्च (..) इत्यनयोः अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (..२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ धातुभ्यः | अनुवृत्ति-सहितसूत्रम्— सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यः धातुभ्यः णिच्‌ प्रत्ययः परश्च |



सनाद्यन्ता धातवः (..३२) = द्वादश प्रत्ययाः सन्ति येषां संयोजनेन नूतनाः धातवः सृष्टाः भवन्ति— सन्‌, क्यच्‌, काम्यच्‌, क्यष्‌, क्यङ्‌, क्विप्‌, णिङ्‌, ईयङ्‌, णिच्‌, यक्‌, आय, यङ्‌ इति | एषां प्रकृतिः (अङ्गम्‌) क्वचित्‌ धातुः, क्वचित्‌ प्रातिपदिकम्‌ | सन्‌ आदौ येषां ते सनादयः, सनादयः अन्ते येषां ते सनाद्यन्ताः | सनाद्यन्ताः प्रथमान्तं, धातवः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— सनाद्यन्ता धातवः |



एषु द्वादशसु प्रत्ययेषु अन्यतमः णिच्‌ एव, अतः णिच्‌-प्रत्ययस्य संयोजनेन चोरि, पाठि, लेखि इत्यादयः यावन्तः धातवः सृष्टाः, ते सर्वे सनाद्यन्ता धातवः (..३२) इति सूत्रेण धातुसंज्ञकाः | एते च आतिदेशिकधातवः | औपदेशिकधातवः उपद्विसहस्रं, ते भूवादयो धातवः इति सूत्रेण धातुसंज्ञकाः भवन्ति |



औपदेशिकधातवः— पाणिनीयधातुपाठे १९४३ धातवः उपदिष्टाः सन्ति | उपदिष्टाः धातवः, अतः एते औपदेशिकधातवः | एषां धातूनां धातु-संज्ञा भवति भूवादयो धातवः (..) इति सूत्रेण |



आतिदेशिकधातवः— उपरितनान्‌ पाणिनीयधातुपाठे पठितान्‌ धातून्‌ वर्जयित्वा इतोऽपि, असङ्ख्याः धातवः सन्ति | एते धातवः धातुपाठे न सन्ति, अपि तु अस्माभिः निर्मिताः | यथा गन्तुम्‌ इच्छति 'जिगमिषति' इति सनन्तरूपं प्रायः श्रुतम्‌ | अत्र 'जिगमिष' इति धातुः अस्ति; स च जिगमिष-धातुः पाणिनीयधातुपाठे नास्ति | गम्‌-धातुः धातुपाठे अस्ति | अयं गम्‌-धातुः भूवादयो धातवः (..) इति सूत्रेण धातुसंज्ञकः | तदा सन्‌-प्रत्ययं योजयामः चेत्‌, नूतनधातुः 'जिगमिष' सृष्टः अस्माभिः | अयं धातुः सनाद्यन्ता धातवः (..३२) इति सूत्रेण धातुसंज्ञकः | एवमेव द्वादश प्रत्ययाः सन्ति येषां योजनेन नूतनाः धातवः सृष्टाः भवन्ति |



चुरादिगणे णिच्‌-प्रत्ययः स्वार्थे अस्ति, इत्युक्ते धातोः एव अर्थपोषणं करोति | अत्र णिच्‌-प्रत्ययस्य पृथक्तया कोऽपि अर्थः नास्ति | प्रेरणार्थे णिच्‌‍ इति भिन्नविषयः, चुरादिगणे तादृशार्थः नास्त्येव | चुरादिगणे, धातुतः यं कमपि प्रत्ययं संयोजयितुम्‌ इच्छति विकरणं भवतु वा आर्धधातुककृत्‌ भवतु, तस्मात्‌ पूर्वं णिच्‌ विधीयते एव | णिच्‌-प्रत्यये चुटू इत्यनेन णकारस्य इत्‌-संज्ञा, हलन्त्यम्‌ इत्यनेन चकारस्य इत्‌-संज्ञा, तस्य लोपः इत्यनेन तयोः लोपश्च | इ इति अवशिष्यते | णिच्‌-प्रत्ययः धातुभ्यः विहितः, अपि च तिङ्‌-शित्‌-भिन्नः, अतः आर्धधातुकं शेषः (..११४) इत्यनेन अयं णिच्‌-प्रत्ययः आर्धधातुकम् (न तु सार्वधातुकम्) | इत्थं च णिच्‌-प्रत्ययः कीदृशः इति चेत्‌, णित्‌ च आर्धधातुकं च | यत्‌ किमपि कार्यं क्रियते णिच्‌-प्रत्ययं निमित्तीकृत्य, अस्य एव लक्षणस्य बलात्‌ क्रियते— णित्‌ आर्धधातुकम्‌ |



णिच्‌-प्रत्ययस्य कारणतः धातुरूपि-अङ्गे प्रमुखकार्यत्रयं सम्भवति‌—


. 'अचो ञ्णिति (..११५) = ' अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | येन विधिस्तदन्तस्य (..७२) इत्यनेन अचः अङ्गस्य नाम न केवलम्‌ अच्‌ इत्यङ्गस्य, अपि तु अजन्तस्य अङ्गस्य | अलोऽन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः | ञ्‌ च ण्‌ च ञ्णौ, ञ्णौ इतौ यस्य तत्‌ ञ्णित्‌, तस्मिन्‌ ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | मृजेर्वृद्धिः (..११४) इत्यस्मात्‌ वृद्धिः इत्यस्य अनुवृत्तिः | अङ्गस्य (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अचः अङ्गस्य वृद्धिः ञ्णिति |



चि + इ → चै + इ → → चायि → → चाययति


अत्र प्रश्नः उदेति यत्‌ 'चि + ' इत्येतादृशेषु प्रसङ्गेषु सार्वधातुकार्धधातुकयोः (..८४) इत्यस्य प्रसक्तिः नास्ति किम्‌ ? अस्त्येव, किन्तु अचो ञ्णिति (..११५) तु तस्य बाधकसूत्रं यतोहि सार्वधातुकार्धधातुकयोः (..८४) अत्र कार्यं करोति चेत्‌, अचो ञ्णिति (..११५) इत्यस्य अन्यत्र लब्धावकाशो न स्यात्‌ | धेयं यत्‌ यत्र यत्र अकारान्तधातुतः आर्धधातुकप्रत्ययः भवति, यथा 'कथ + णिच्‌', तत्र तत्र अतो लोपः (..४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति, येन अचो ञ्णिति (..११५) इत्यस्य प्रसक्तिर्नास्ति | अतः अचो ञ्णिति (..११५) इति अत्र अपवादभूतसूत्रम्‌ |



. ' 'अत उपधायाः (..११६) = उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे | अतः षष्ठ्यन्तम्‌, उपधायाः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | मृजेर्वृद्धिः (..११४) इत्यस्मात्‌ वृद्धिः इत्यस्य अनुवृत्तिः; अचो ञ्णिति (..११५) इत्यस्मात्‌ ञ्णिति इत्यस्य अनुवृत्तिः | अङ्गस्य (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति |



चल् + इ → चालि → → चालयति



. 'पुगन्तलघूपधस्य च (..८६) = सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति | पुक्‌ अन्ते यस्य तत्‌ पुगन्तम्‌, लघ्वी उपधा यस्य तत्‌ लघूपधम्‌ | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य ' पुगन्तलघूपधस्य '| पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्‌, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | मिदेर्गुणः (..८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (..८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (..) इत्यस्य अधिकारः | इको गुणवृद्धी (..) इत्यस्मात्‌ परिभाषा-सूत्रात्‌ इकः आयाति यत्र स्थानी नोक्तम्‌ | अनुवृत्ति-सहितसूत्रम्‌— पुगन्तलघूपधस्यच अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः | '



चुर्‍ + इ → चोरि → → चोरयति



यथा—

चुर्              भूवादयो धातवः'(..१) ' इत्यनेन चुर्‍ इत्यस्य धातु-संज्ञा

चुर्‍ + णिच्‌      चुटू, 'हलन्त्यम्‌, ' तस्य लोपः (अनुबन्धलोपः)

चुर्‍ +         पुगन्तलघूपधस्य च (..८६) = उपधायां लघु-इकः गुणः आर्धधातुकप्रत्यये परे

चोरि             सनाद्यन्ता धातवः इति सूत्रेण चोरि इत्यस्य धातु-संज्ञा




एकवारं णिच्‌-सहितधातुः निष्पन्नः, तदा कर्त्रर्थक-सार्वधातुकप्रत्यये परे कर्तरि शप्‌ इत्यनेन शप्‌-विकरणप्रत्ययः विधीयते |




चोरि + शप्‌ → चोरि + अ → सार्वधातुकार्धधातुकयोः इत्यनेन इकः गुणः → चोरे + अ → एचोऽयवायावः इत्यनेन अचि परे ए-स्थाने अय्‌-आदेशः → चोर्‍ + अय्‌ + अ → 'चोरय' इति अदन्तम्‌ अङ्गम निष्पन्नम्‌ |




कर्तरि शप्‌ (..६८) = धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | कर्तरि सप्तम्यन्तं, शप्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सार्वधातुके यक्‌ (..६७) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (..), परश्च (..) इत्यनयोः अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (..२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— धातोः शप्‌ प्रत्ययः परश्च कर्तरि सार्वधातुके |



इतः अग्रे सिद्धतिङ्‌प्रत्ययानां संयोजनं भवति यथा भ्वादिगणे, दिवादिगणे, तुदादिगणे च |



चोरय + ति → चोरयति इत्यादिकम्‌ |



पदव्यवस्था | णिचश्च इति सूत्रं वक्ति यत्‌ क्रियाफलं कर्तृगामि चेत्‌, णिजन्तधातुभ्यः आत्मनेपदिनः तिङ्‌-प्रत्ययाः विहिताः | क्रियाफलं परगामि चेत्‌, णिजन्तधातुभ्यः परस्मैपदिनः तिङ्‌-प्रत्ययाः विहिताः | अतः सामान्यतया णिजन्तधातवः उभयपदिनः | चोरयति, चोरयते |



णिचश्च (..७४) = क्रियाफलं कर्तारम्‌ अभिप्रैति चेत्‌ णिजन्तेभ्यः धातुभ्यः आत्मनेपदं भवति | अत्र प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति; अनेन यस्य धातोः अन्ते णिच्‌-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः निष्पन्नः | णिचः पञ्चम्यन्तं‌, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | अनुदात्तङित आत्मनेपदम्‌ (..१२) इत्यस्मात्‌ आत्मनेपदम्‌ इत्यस्य अनुवृत्तिः | स्वरितञितः कर्त्रभिप्राये क्रियाफले (..७२) इत्यस्मात्‌ कर्त्रभिप्राये क्रियाफले इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— णिचः च आत्मनेपदम्‌ कर्त्रभिप्राये क्रियाफले |



क्रियाफलं कर्तारं न अभिप्रैति चेत्‌, परस्मैपदं भवति | शेषात्कर्तरि परस्मैपदम्‌ (..७८) इत्यनेन यत्र धातोः आत्मनेपदस्य कारणं नास्ति, तत्र कर्त्रर्थे परस्मैपदं भवति |



यथासामान्यं धातुविधिः धातोः अन्तिमवर्णस्य आधारेण अस्माभिः विभाजितः भवति | अजन्तः धातवः सन्ति अपि च हलन्तधातवः सन्ति | प्रथमम्‌ अजन्तधातून्‌ अवलोकयाम, तदा हलन्तधातून्‌ |



चुरादिगणे 410 धातवः सन्ति | एषु केचन धातवः नित्यणिजन्ताः, केचन च अनित्यणिजन्ताः | पुनः सामान्यतया उभयपदिनः, किन्तु केचन केवलम्‌ आत्मनेपदिनः | ये धातवः नित्यणिजन्ताः उभयपदिनः च सन्ति, ते अस्मिन्‌ पाठे उपस्थाप्यन्ते सामान्यधातु-रूपेण | तदा ये अनित्यणिजन्ताः अथवा आत्मनेपदिनः, ते अग्रिमे पाठे दीयन्ते |



A. अजन्तधातवः



. आकारान्तधातवः (1 धातुः)



णिच्‌-प्रत्यये परे आकारान्तधातूनां पुगागमो भवति | चुरादिगणे एक एव आकारान्तधातुः अस्ति, ज्ञा नियोगे | आज्ञां ददाति इत्यर्थः | अयं ज्ञा-धातुः क्र्यादिगणस्य अवबोधने ज्ञा-धातुतः भिन्नः |



अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (..३६) = , ह्री, व्ली, री, क्नूयी, क्ष्मायी, एभ्यः धातुभ्यः अपि च आकारान्तधातुभ्यः पुक्‌-आगमः भवति, णिच्‌-प्रत्यये परे | एषां धातूनां पुक्‌-आगमः णौ (णि इत्यस्य सप्तम्यन्तम्‌), णि इत्युक्ते णिच्‌ इत्यतः णिच्‌-प्रत्यये परे इत्यर्थः | आद्यन्तौ टकितौ (१.१.४६) इत्यनेन धातोः परम्‌ आयाति अयं पुगागमः | पुक्‌ इत्यस्मिन क्‌, उ इत्यनयोः इत्‌-संज्ञा लोपश्च; प्‌ अवशिष्यते | अर्तिश्च ह्रीश्च व्लीश्च रीश्च क्नूयीश्च क्ष्मायीश्च आच्च तेषामितरेतर्द्वन्द्वः, अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातः तेषाम्‌ | ' अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां षष्ठ्यन्तं, पुक्‌ प्रथमान्तं, णौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अर्तिह्रीव्लीरीक्नूयीक्ष्माय्याताम्‌ अङ्गानां पुक्‌ णौ ' |



अस्मिन्‌ सूत्रे ये धातवः सूचिताः, ते (आकारान्त-ज्ञा-धातुं वर्जयित्वा) चुरादिगणे न सन्ति | धातुभ्यः णिच्‌-प्रत्ययः द्वयोः अर्थयोः भवति— स्वार्थे (चुरादिगणे), प्रेरणार्थे च | चुरादिगणीयं ज्ञा-धातुं विहाय, अनेन सूत्रेण सूचितेभ्यः सर्वेभ्यः धातुभ्यः णिच्‌-प्रत्ययः प्रेरणार्थे एव | यथा व्ली-धातुः क्र्यादिगणे व्लिनाति (नोदयति), प्रेरणार्थे णिचि पुगागमो भवति व्लेपयति, पातयति इत्यर्थः | एते अवशिष्टाः सर्वे धातवः परिशीलयिष्यन्ते आर्धधातुकप्रकरणे यत्र णिच्‌-प्रत्ययः प्रेरणार्थे अस्ति | सम्प्रति चुरादौ ज्ञा-धातोः प्रक्रिया कथम्‌ इति पश्येम


ज्ञा + णिच्‌                      अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ इत्यनेन पुगागमः

ज्ञा + पुक्‌ + णिच्‌              अनुबन्धलोपे ('हलन्त्यम्‌, उपदेशेऽजनुनासिक इत्, ' चुटू)

ज्ञा + प्‌ +                   वर्णमेलने

ज्ञापि                            सनाद्यन्ता धातवः इत्यनेन धातु-संज्ञा | अतः ज्ञापि इति धातुः (ज्ञा अपि धातुः, ज्ञापि अपि पृथक्तया धातुः) |

ज्ञापि                          कर्तरि शप् (कर्त्रर्थे सार्वधातुक-तिङ्-प्रत्यये‌ च शित्‌-कृत्-प्रत्यये च शप्‌ विहितः भवति)

ज्ञापि + शप्‌                    अनुबन्धलोपे ('लशक्वतद्धिते, ' हलन्त्यम्‌)

ज्ञापि +                     सार्वधातुकार्धधातुकयोः (शप्‌ शित्‌‍ अस्ति, पित्‌ अपि अस्ति अतः धातोः अन्त्यस्य इकः गुणः)

ज्ञापे +                      एचोऽयवायावः इत्यनेन अचि परे ए-स्थाने अय्‌ आदेशः

ज्ञाप्‌ + अय्‌ + अ → ज्ञापय इति अङ्गम्‌

ज्ञापय + ति → ज्ञापयति/ते  लट्‌-विवक्षायां, प्रथमपुरुषैकवचने तिप्‌-प्रत्ययः विहितः



अत्र ज्ञापय इति अङ्गम्‌ | ज्ञापय इति अङ्गम्‌ अदन्तम्‌ इति अवधेयम्‌ | अतः पञ्चमे करपत्रे यः विधिः प्रदर्शितः ("अङ्गस्य सिद्ध-तिङ्‌प्रत्ययानां च संयोजनविधिः" इत्यस्मिन्‌), स एव विधिः अत्रापि प्रयुक्तः भवति अस्माभिः | नाम अस्मात्‌ ज्ञापय इति अदन्ताङ्गात्‌ लट्‌, लोट्‌, लङ्, विधिलिङ्‌ इत्येषां सिद्धतिङ्‌-प्रत्ययाः विहिताः भवन्ति | ज्ञापयति, ज्ञापयतु, अज्ञापयत्‌, ज्ञापयेत्‌ इत्यादीनि रूपाणि निष्पन्नानि | चुरादिगणे एक एव आकारान्तधातुः अस्ति, ज्ञा | किन्तु प्रेरणार्थकणिचि बहवः एवं सन्ति; तेभ्योऽपि प्रक्रिया तथा |



. इगन्तधातवः (4 धातवः)



चत्वारः धातवः सन्ति— चिञ्‌ चयने, च्यु सहने हसने च, भू अवकल्कने (मिश्रीकरणे) चिन्तने च, घृ प्रस्रवणे |



धातुः इकारान्तः, उकारान्तः, ऋकारान्तः इति चेत्‌, अचो ञ्णिति इति सूत्रस्य प्रसक्तिः |



'अचो ञ्णिति(..११५) = ' अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे |



यथा—

चि + णिच्‌                      अचो ञ्णिति इत्यनेन अङ्गान्तस्य अचः वृद्धिः

चै +                             एचोऽयवायावः इत्यनेन अचि परे ऐ-स्थाने आय्‌ आदेशः

चाय्‌ +                          वर्णमेलनं, सनाद्यन्ता धातवः इत्यनेन धातु-संज्ञा

चायि                               कर्तरि शप् (कर्त्रर्थे सार्वधातुक-तिङ्-प्रत्यये‌ च शित्‌-कृत्-प्रत्यये च शप्‌ विहितः भवति)

चायि + शप्‌                       अनुबन्धलोपे ('लशक्वतद्धिते, ' हलन्त्यम्‌)

चायि +                        सार्वधातुकार्धधातुकयोः (शप्‌ शित्‌‍ अस्ति, पित्‌ अपि अस्ति अतः धातोः अन्त्यस्य इकः गुणः)

चाये +                         एचोऽयवायावः इत्यनेन अचि परे ए-स्थाने अय्‌ आदेशः

चाय्‌ + अय्‌ + अ → चायय इति अङ्गम्‌

चायय + ति → चाययति/ते      लट्‌-विवक्षायां, प्रथमपुरुषैकवचने तिप्‌-प्रत्ययः विहितः



तथैव—

च्यु + णिच्‌ → च्यु+ इ → च्यौ + इ → च्याव्‌ + इ → च्यावि इति धातुः → च्यावि + शप्‌ → च्यावि + अ → च्यावे + अ → च्यावय इति अङ्गम्‌ → च्यावय + ति → च्यावयति/ते

भू + णिच्‌ → भू + इ → भौ + इ → भाव्‌ + इ → भावि इति धातुः → भावि + शप्‌ → भावि + अ → भावे + अ → भावय इति अङ्गम्‌ → भावय + ति → भावयति/ते

घृ + णिच्‌ → घृ + इ → घार्‍ + इ → घारि → घारि इति धातुः → घारि + अ → घारे + अ → घारय इति अङ्गम्‌ → घारय + ति → घारयति/ते



B. हलन्तधातवः



. अदुपधधातवः (31 धातवः)



अत उपधायाः (..११६) = उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे |



यथा—

चल्‌ + णिच्‌                          अनुबन्धलोपे

चल् +                          अत उपधायाः (अदुपधधातूनां ह्रस्व-अकारस्य वृद्धिः ञिति णिति प्रत्यये परे |)

चाल्‌ +                            वर्णमेलनं, सनाद्यन्ता धातवः इत्यनेन धातु-संज्ञा

चालि                              कर्तरि शप् (कर्त्रर्थे सार्वधातुक-तिङ्-प्रत्यये‌ च शित्‌-कृत्-प्रत्यये च शप्‌ विहितः भवति)

चालि + शप्‌                         अनुबन्धलोपे ('लशक्वतद्धिते, ' हलन्त्यम्‌)

चालि +                          सार्वधातुकार्धधातुकयोः (शप्‌ शित्‌‍ अस्ति, पित्‌ अपि अस्ति अतः धातोः अन्त्यस्य इकः गुणः)

चाले +                           एचोऽयवायावः इत्यनेन अचि परे ए-स्थाने अय्‌ आदेशः

चाल्‌ + अय्‌ + चालय इति अङ्गम्‌

चालय + ति → चालयति/ते       लट्‌-विवक्षायां, प्रथमपुरुषैकवचने तिप्‌-प्रत्ययः विहितः



लड्‌ + णिच्‌ → लाड्‌ + इ → लाडि → लाडयति/ते

बध्‌ + णिच्‌ → बाध्‌ + इ → बाधि → बाधयति/ते

नट्‌ + णिच्‌ → नाट्‌ + इ → नाटि → नाटयति/ते



. लघु-इगुपधधातवः (26 धातवः)



येषाम्‌ उपधायां ह्रस्व-इकारः, ह्रस्व-उकारः, ह्रस्व-ऋकारः च | इदुपधधातवः दश (10), उदुपधधातवः पञ्चदश (15), ऋदुपधधातवः एकः (1) | अत्र पुगन्तलघूपधस्य च इत्यनेन गुणकार्यम्‌ | एते सप्तविंशतिः सामान्य-चुरादिगणीयाः धातवः, नाम नित्यणिजन्ताः उभयपदिनः च | अग्रिमे पाठे इतोऽपि लघु-इगुपधधातवः सन्ति ये अनित्यणिजन्ताः अथवा आत्मनेपदिनः |



पुगन्तलघूपधस्य च (..८६) = सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति |



यथा—



मुच्‌ + णिच्‌                             अनुबन्धलोपे

मुच् +                                'पुगन्तलघूपधस्य च इत्यनेन ' उपधायां लघु-इकः गुणः

मोच् +                               वर्णमेलनं, सनाद्यन्ता धातवः इत्यनेन धातु-संज्ञा

मोचि                                    कर्तरि शप् (कर्त्रर्थे सार्वधातुक-तिङ्-प्रत्यये‌ च शित्‌-कृत्-प्रत्यये च शप्‌ विहितः भवति)

मोचि + शप्‌                            अनुबन्धलोपे ('लशक्वतद्धिते, ' हलन्त्यम्‌)

मोचि +                              सार्वधातुकार्धधातुकयोः (शप्‌ शित्‌‍ अस्ति, पित्‌ अपि अस्ति अतः धातोः अन्त्यस्य इकः गुणः)

मोचे +                              एचोऽयवायावः इत्यनेन अचि परे ए-स्थाने अय्‌ आदेशः

मोच्‌ + अय्‌ + अ → मोचय इति अङ्गम्‌

मोचय + ति → मोचयति/ते           लट्‌-विवक्षायां, प्रथमपुरुषैकवचने तिप्‌-प्रत्ययः विहितः



तिज्‌ → तिज्‌ + इ → तेज्‌ + इ → तेजि इति धातुः → तेजि + अ → तेजय इति अङ्गम् → तेजय + ति → तेजयति/ते

पृथ्‌ → पृथ्‌ + इ → पर्थ्‌ + इ → पर्थि इति धातुः → पर्थि + अ → पर्थय इति अङ्गम् → पर्थय + ति → पर्थयति/ते



. शेषधातवः (65 धातवः)



चुरादिगणे तिङन्तरूपस्य साधनार्थं सोपानत्रयम् अस्तीत्युक्तम्‌ आरम्भे | अस्माकं प्रमुखकार्यं प्रथमे सोपाने एव, णिजन्तधातोः व्युत्पत्तौ | शेषधातुषु अस्मिन्‌ किमपि कार्यं न भवति | धातोः अन्तिमवर्णः अच्‌ नास्ति अतः वृद्धिः नार्हः; उपधायां अत्‌ (ह्रस्व-अकारः) नास्ति अतः तत्रापि वृद्धिः नार्हः; उपधायां लघु-इक्‌ नास्ति अतः गुणः नार्हः—एभिः कारणैः न किमपि कार्यम्‌ अर्हम्‌ |



यथा पाल इति धातुः | पाल → पाल्‌ + णिच्‌ → पाल्‌ + इ → "पालि" इति णिजन्तधातुः



द्वितीयसोपाने णिजन्तधातुः + शप्‌-विकरणप्रत्यः → अङ्गम्‌ इत्युक्तम्‌ | शेषधातुषु पालि इव णिजन्तधातुः निष्पन्नः, तदा यथासामान्यं शप्‌ (पालि + शप्‌), सार्वधातुकार्धधातुकयोः इत्यनेन गुणः (पाले + ), एचोऽयवायावः इत्यनेन अचि परे ए-स्थाने अय्‌ आदेशः (पालय्‌ + ), वर्णमेलने अङ्गं निष्पन्नं (पालय) | तृतीयसोपाने अङ्गम्‌ + तिङ्‌-प्रत्ययः → तिङन्तरूपम्‌ इत्युक्तम्‌ | पालय + ति/ते → वर्णमेलने तिङन्तरूपं निष्पन्नम्‌ (पालयति/ते) |



अर्क → अर्क्‌ + णिच्‌ → अर्क्‌ + इ → अर्कि → अर्कयति/ते

अर्ज → अर्ज्‌ + णिच्‌ → अर्ज्‌ + इ → अर्जि → अर्जयति/ते

पीड → पीड्‌ + णिच्‌ → पीड्‌ + इ → पीडि → पीडयति/ते

पाल → पाल्‌ + णिच्‌ → पाल्‌ + इ → पालि → पालयति/ते



इति चुरादिगणे सामान्यं तिङ्‌-सम्बद्धं सार्वधातुकप्रकरण-चिन्तनं समाप्तम्‌ |



Swarup – May 2013 (Updated August 2015)






धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.


Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.


To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.