06A---sArvadhAtukaprakaraNaM-kRutsu/01---shatrantarUpANi---prAtipadika-nirmANam: Difference between revisions
06A---sArvadhAtukaprakaraNaM-kRutsu/01---shatrantarUpANi---prAtipadika-nirmANam (view source)
Revision as of 20:02, 12 July 2021
, 2 years agoProtected "01 - शत्रन्तरूपाणि - प्रातिपदिक-निर्माणम्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
Bina Radia (talk | contribs) No edit summary |
m (Protected "01 - शत्रन्तरूपाणि - प्रातिपदिक-निर्माणम्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))) |
||
(11 intermediate revisions by 3 users not shown) | |||
Line 1:
{{DISPLAYTITLE:01 - शत्रन्तरूपाणि - प्रातिपदिक-निर्माणम्}}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>'''ध्वनिमुद्रणानि'''</big>
|-
|<big>'''2019-वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/179_shatrantarUpANi---prAtipadika-nirmANam--puMlinge_%2B_napuMsake_%2B_striilinge_2019-11-05.mp3 shatrantarUpANi---prAtipadika-nirmANam--puMlinge_+_napuMsake_+_striilinge]</big><big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/179_shatrantarUpANi---prAtipadika-nirmANam--puMlinge_%2B_napuMsake_%2B_striilinge_2019-11-05.mp3 _2019-11-05]</big>
|-
|<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/180_shatrantarUpANi---prAtipadika-nirmANam--striilinge_2019-11-12.mp3 shatrantarUpANi---prAtipadika-nirmANam--striilinge_2019-11-12] </big>
|-
|<big>'''2014-वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/16_shatrantarUpANi_-_prAtipadika-nirmANam_2014-09-17.mp3 shatrantarUpANi_-_prAtipadika-nirmANam_2014-09-17]</big>
|-
|<big>२) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/17_shatrantarUpANi_-_prAtipadika-nirmANam_II_2014-09-24.mp3 shatrantarUpANi_-_prAtipadika-nirmANam_II_2014-09-24]</big>
|}
<big> </big>
Line 166 ⟶ 169:
<big>शत्रन्तप्रातिपदिकं तदेव "गच्छत्", “चिन्वत्", “कुर्वत्" इत्यादीनि रूपाणि | एकवारं यदा कृत्-प्रत्ययः धातुतः संयुक्तः, तदा '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण प्रातिपदिक-संज्ञा प्राप्ता |</big>
<big><br />
दशसु गणेषु तथा— गच्छत्, सत्, ददत्, दीव्यत्, चिन्वत्, तुदत्, रुन्धत्, कुर्वत्, क्रीणत्, चोरयत् | प्रातिपदिकस्य निर्माणे धातुगणम् अनुसृत्य कार्यं भिद्यते विकरणप्रत्ययभेदात् परन्तु अस्माकं लघुमार्गः समानः सर्वत्र, उपरि दृष्टं शास्त्रीयचिन्तनञ्च समानम् | अग्रिमे पाठे गणम् अनुसृत्य कार्यम् अवलोकयिष्यते |</big>
<big>पूर्वमेव अस्माभिः ज्ञातं यत् सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति—</big>
<big>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्</big>
<big>२. तिङ्प्रत्यय-सिद्धिः</big>
<big>३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्</big>
<big>प्रथमसोपाने अङ्गं निष्पन्नम | द्वितीये सोपाने तिङ्प्रत्यय-सिद्धिः | तृतीये सोपाने अङ्ग-तिङ्प्रत्यययोः मेलनम् | शत्रन्तप्रसङ्गे अपि अयमेव क्रमः | परन्तु द्वितीयसोपानम् अत्यन्तं लघु, सर्वत्र समानञ्च | शतृ → अनुबन्धलोपः → अत् |</big>
<big>पुंसि नपुंसके च सुबन्तपदानां कुत्रचित् नकारः (नुमागमः) दृश्यते | गच्छन्, गच्छन्तम् इत्यादीनि रूपाणि; पुनः अन्यत्र नुमागमः नैव दृश्यते गच्छद्भ्याम्, गच्छत्सु इत्यादीनि रूपाणि | तत् चिन्तनम् इतः अग्रे द्वितीये पाठे भविष्यति यदा शत्रन्तानां सुबन्तप्रकरणं परिशील्यते |</big>
<u><big>स्त्रीलिङ्गे</big></u>
<big>स्त्रियां शत्रन्तप्रातिपदिकं नदी शब्दवत् सर्वत्र; नाम ईकारान्तशब्दः | तत्र प्रमुखप्रश्नः भवति नकारः (नुमागमः) कुत्र कुत्र आयाति, अपि च कुत्र न | यथा "बालिका वदन्ती चलति" इत्यस्मिन् वद्-धातोः स्त्रियां नुमागमः भवति | परन्तु "बालिका कार्यं कुर्वती चलति" इत्यस्मिन् कृ-धातोः स्त्रियां नुमागमः न भवति | स्त्रियाम् अयं नुमागमः प्रातिपदिके आयाति |</big>
<big>स्त्रियां नुमागमः भवति प्रातिपदिके एव | अतः प्रातिपदिकनिर्माण-समये नुम्-आगमविचारः करणीयः |</big>
<big>a) <u>स्त्री-प्रातिपदिकं भ्वादिगणे, दिवादिगणे, चुरादिगणे</u></big>
<big>एषु त्रिषु गणेषु शत्रन्तप्रातिपदिके नुमागमः नित्यः |</big>
<big>वद् + अ + अत् → वदत् इति पुंसि नपुंसके च शत्रन्तं प्रादिपदिकम् | प्रक्रिया यथा पूर्वोक्तम् |</big>
<big>वदत् → '''उगितश्च''' इत्यनेन उगित्-प्रातिपदिकेभ्यः स्त्रीत्वविवक्षायां ङीप्-प्रत्ययः भवति → वदती → '''शप्श्यनोर्नित्यम्''' इत्यनेन भ्वादिगणे, दिवादिगणे, चुरादिगणे च नित्यं नुमागमः → वदन्ती इति स्त्रियां शत्रन्तं प्रातिपदिकम् |</big>
<big>भ्वादौ भू-धातुः— भवन्ती, भवन्त्यौ, भवन्त्यः</big>
<big>दिवादौ दिव्-धातुः— दीव्यन्ती, दीव्यन्त्यौ, दीव्यन्त्यः</big>
<big>चुरादिगणे चोरि-धातुः— चोरयन्ती, चोरयन्त्यौ, चोरयन्त्यः</big>
<big>'''उगितश्च''' (४.१.६) = उगित्-प्रातिपदिकेभ्यः स्त्रीत्वविवक्षायां ङीप्-प्रत्ययः भवति | उक् प्रत्याहारे उ, ऋ, लृ एते वर्णाः अन्तर्भूताः | उक् इत् यस्य (प्रातिपदिकस्य) तद् उगित्, तस्मात् उगितः | उगितः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''ऋन्नेभ्यो ङीप्''' (४.१.५) इत्यस्मात् '''ङीप्''' इत्यस्य अनुवृत्तिः | '''स्त्रियाम्''' (४.१.३),'''ङ्याप्प्रातिपदिकात्''' (४.१.१) इत्यस्मात् '''प्रातिपदिकात्''', '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्येषाम् अधिकारः | अनुवृत्ति-सहितं सूत्रम्— '''स्त्रियाम्, उगितः प्रातिपदिकात् च ङीप् प्रत्ययः परः''' |</big>
<big>'''शप्श्यनोर्नित्यम्''' (७.१.८१) = शप्श्यन्-प्रत्यययोः अवर्णात् अङ्गात् शत्रन्ताङ्गस्य नित्यं नुम्-आगमो भवति शी-प्रत्यये च नदी-प्रत्यये परे | नदी एका संज्ञा अस्ति; ङीप्, ङीष्, ङीन् इत्येषां स्त्री-प्रत्ययानां नदी-संज्ञा भवति | शप् च श्यन् च तयोरितरेतरद्वन्द्वः शप्श्यनौ, तयोः शप्शनोः | शप्श्यनोः षष्ठ्यन्तं, नित्यं क्रियाविशेषणं द्वितीयान्तम् | '''आच्छीनद्योर्नुम्''' (७.१.८०) इत्यस्मात् '''आत्''', '''शीनद्योः''', '''नुम्''', अपि च '''नाभ्यस्ताच्छतुः''' (७.१.७८) इत्यस्मात् '''शतुः''' इत्येषाम् अनुवृत्तिः | '''अङ्गस्य''' इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रम्— '''शप्श्यनोः आत् अङ्गात् शतुः नित्यं नुम् शीनद्योः''' |</big>
<big>'''मिदचोऽन्त्यात्परः''' (१.१.४७) = यः मित् अस्ति, सः अच्-वर्णेषु अन्त्यात् परः आयाति, अपि च अयं मित् यस्य वर्ण-समुदायस्य, तस्य अन्तिमावयवो भवति | म् इत् यस्य सः मित्, बहुव्रीहिः | मित् प्रथमान्तम्, अचः षष्ठ्यन्तम्, अन्त्यात् पञ्चम्यन्तम्, परः प्रथमान्तम्, अनेकपदमिदं सूत्रम् | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यस्मात् '''अन्तः''' इत्यस्य अनुवृत्तिः | अस्मिन् सूत्रे 'अचः' षष्ठीविभक्तौ; "अचः अन्त्यात्" इत्यस्य अर्थः निर्धारणम्— नाम "सर्वेषु स्वरेषु अन्तिमः, तस्मात्" | अत्र '''अचः''' एकवचने यतोहि अनेन अच्-जातिः इति इष्टम् | आशयः बहुवचनं, निर्धारण-सप्तमी (बहुषु एकम्) | '''जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्''' (१.२.५८) = जाति-आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् | तर्हि 'अचः' एकवचने चेदपि सार्वत्रिक-बहुवचनार्थकः | इत्थञ्च षष्ठीविभक्तेः अर्थः 'स्थाने' इति न; '''षष्ठी स्थानेयोगा''' (१.१.४९) इति सामान्यम्, इदं सूत्रं विशेषः | अनुवृत्ति-सहितसूत्रम्— '''मित् अचः अन्त्यात् परः अन्तः''' |</big>
<big>'''नश्चापदान्तस्य झलि''' (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | '''मोऽनुस्वारः''' (८.३.२३) इत्यस्मात् '''मः''', '''अनुस्वारः''' इत्यनयोः अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अपदान्तस्य मः नः च अनुस्वारः''' '''झलि संहितायाम्''' |</big>
<big>'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अनुस्वारस्य परसवर्णः '''ययि''' संहितायाम्''' |</big>
<big>अधुना विस्तारेण पुनः वदन्ती इति प्रातिपदिकस्य व्युत्पत्ति-प्रक्रियाम् अवलोकयाम—</big>
{| class="wikitable"
|+
|<big>वदत्</big>
|<big>स्त्रीत्वविवक्षायां '''उगितश्च''' इत्यनेन उगित्-प्रातिपदिकेभ्यः ङीप्-प्रत्ययः भवति</big>
|-
|<big>वदत् + ङीप्</big>
|<big>ङ्-प्-लोपः '''लशक्वतद्धिते''' (१.३.८), '''हलन्त्यम्''' (१.३.३), '''तस्य लोपः''' (१.३.९)</big>
|-
|<big>वदत् + ई ''' '''</big>
|<big>'''शप्श्यनोर्नित्यम्''' इत्यनेन भ्वादिगणे, दिवादिगणे, चुरादिगणे च नित्यं नुमागमः</big>
|}
<big>अत्र अङ्गद्वयं वर्तते इति धेयम्— शतृ (अत्) निमित्तीकृत्य अङ्गं '''वद'''; अपि च ङीप् निमित्तीकृत्य '''वदत्''' | '''वद''' इति शप्श्यन्-प्रत्यययोः (अत्र शप् प्रत्ययस्य) अवर्णान्तम् अङ्गम्— '''वद् + अ = वद''' | '''वदत्''' इति शत्रन्तम् अ`ङ्गम्— '''वद + अत् =''' '''वदत्''' | अधुना नदी-प्रत्ययः (ङीप्) परः अस्ति, अतः शप्श्यन्-प्रत्यययोः अवर्णात् अङ्गात् ('''वद इत्यस्मात्''') शत्रन्ताङ्गस्य ('''वदत् इत्यस्य''') नित्यं नुम् आगमः भवति |</big>
<big>नुम्-आगमः शत्रन्ताङ्गस्य आगमः | यस्य आगमः अस्ति, सः आगमः कदाचित् तस्मात् पूर्वम् आयाति, कदाचित् तस्य अनन्तरम् आयाति, कदचित् तस्य मध्ये एव आयाति | नुम् मित् अस्ति अतः '''मिदचोऽन्त्यात्परः''' (१.१.४७) इत्यनेन शत्रन्ताङ्गस्य मध्ये एव आयाति— तस्य शत्रन्ताङ्गस्य अच्-वर्णेषु अन्त्यात् परम् आयाति | नाम वद इत्यस्य दकारोतरवर्ती-अकारस्य अनन्तरम् |</big>
{| class="wikitable"
|+
|<big>वद + नुम् + त् + ई</big>
|<big>अनुबन्धलोपे '''हलन्त्यम्''' (१.३.३), '''उपदेशेऽजनुनासिक इत्''' (१.३.२)</big>
|-
|<big>वद + न् + त् + ई</big>
|<big>त् झलि अस्ति, अतः '''नश्चापदान्तस्य झलि''' इत्यनेन नकारस्य स्थाने अनुस्वारादेशः</big>
|-
|<big>वद + ं + त् + ई</big>
|<big>त् ययि अस्ति, अतः '''अनुस्वारस्य ययि परसवर्णः''' इत्यनेन अनुस्वार-स्थाने नकारादेशः</big>
|-
|<big>वद + न् + त् + ई</big>
|<big>वर्णमेलने</big>
|-
| colspan="2" |<big>'''वदन्ती'''<nowiki> इति स्त्रियां शत्रन्तं प्रातिपदिकं निष्पन्नम् |</nowiki></big>
|}
b<big>) <u>स्त्री-प्रातिपदिकं तुदादिगणे, अदादिगणस्य १४ आकारान्तधातुषु च</u></big>
<big>तुदादिगणे, अदादिगणस्य १४ आकारान्तधातुषु च शत्रन्तप्रातिपदिके नुमागमः वैकल्पिकः |</big>
<big>तुद् + अ + अत् → तुदत् इति पुंसि नपुंसके च शत्रन्तं प्रादिपदिकम् | प्रक्रिया यथा पूर्वोक्तम् |</big>
<big>तुदत् → '''उगितश्च''' इत्यनेन उगित्-प्रातिपदिकेभ्यः स्त्रीत्वविवक्षायां ङीप्-प्रत्ययः भवति → तुदती → '''आच्छीनद्योर्नुम्''' इत्यनेन तुदादिगणे विकल्पेन नुमागमः → तुदती / तुदन्ती इति स्त्रियां शत्रन्तं प्रातिपदिकम् |</big>
{| class="wikitable"
|+
|तुदादौ तुद्-धातुः—
|<big>तुदती, तुदत्यौ, तुदत्यः</big>
|-
|
|<big>तुदन्ती, तुदन्त्यौ, तुदन्त्यः</big>
|}
<big>अदादिगणे चतुर्दश आकारान्त-धातवः सन्ति | '''आच्छीनद्योर्नुम्''' इत्यस्य सूत्रस्य प्रसक्तिः तेषां कृते अपि अस्ति | नाम तत्रापि शत्रन्त-प्रसङ्गे स्त्रीत्वविवक्षायां नुम्-आगमः विकल्पेन भवति | कारणम् इदं यत् एषां धातूनाम् अवर्णान्तम् अङ्गम् अस्ति, परन्तु इदम् अङ्गं शबन्तम् श्यनन्तं च नास्ति | धातवः एते— या, वा, भा, ष्णा, श्रा, द्रा, प्सा, पा, रा, ला, दा, ख्या, प्रा, मा |</big>
{|
|<big>अदादौ या-धातुः—</big>
|<big>याती, यात्यौ, यात्यः</big>
|-
|
| <big>यान्ती, यान्त्यौ, यान्त्यः</big>
|}
<big>'''आच्छीनद्योर्नुम्''' (७.१.८०) = अवर्णात् अङ्गात् शत्रन्ताङ्गस्य विकल्पेन नुम्-आगमो भवति शी-प्रत्यये च नदी-प्रत्यये परे | शी च नदी च शीनद्यौ, तयोः शीनद्योः | आत् पञ्चम्यन्तं, शीनद्योः सप्तम्यन्तं, नुम् प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''नाभ्यस्ताच्छतुः''' (७.१.७८) इत्यस्मात् '''शतुः''', अपि च '''वा नपुंसकस्य''' (७.१.७१) इत्यस्मात् '''वा''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रम्— '''आत् अङ्गात् शतुः वा नुम् शीनद्योः''' |</big>
<big>धेयं यत् '''आच्छीनद्योर्नुम्''' (७.१.८०) इति सामान्यशास्त्रं, '''शप्श्यनोर्नित्यम्''' (७.१.८१) इति विशेषशास्त्रम् | '''आच्छीनद्योर्नुम्''' इत्यनेन शत्रन्ताङ्गस्य अवर्णात् अङ्गात् विकल्पेन नुम् आगमः भवति | भ्वादिगणे, दिवादिगणे, चुरादिगणे च शत्रन्ताङ्गस्य अवर्णान्तम् अङ्गं भवति (भव, दीव्य, चोरय) | अतः '''आच्छीनद्योर्नुम्''' इत्यनेन एषु त्रिषु गणेषु अपि नुम् आगमः वैकल्पिकः भवति स्म | नाम एषु त्रिषु गणेष्वपि '''आच्छीनद्योर्नुम्''' इत्यस्य प्रसक्तिरस्ति | तदा '''शप्श्यनोर्नित्यम्''' आगत्य वदति यत् "न— एषु गणेषु शप्-श्यन् इति विकरणप्रत्ययौ भवतः, अतः अत्र नुम्-आगमः नित्यः न तु वैकल्पिकः |</big>
<big>c) <u>स्त्री-प्रातिपदिकम् अवशिष्टगणेषु (नुम्-आगमः नैव भवति)</u></big>
<big>षट्सु गणेषु अङ्गम् अदन्तं नास्ति, अतः नुम्-आगमस्य किमपि विधायकं सूत्रम् नास्ति | तदर्थं स्त्रीत्वविवक्षायां केवलं ङीप्-प्रत्ययः संयुज्यते |</big>
<big>यथा— चिनु + अत् + ई | अत्र चिनु इति अङ्गम् उकारान्तं (न तु अकारान्तम्), अतः न '''आच्छीनद्योर्नुम्''' इत्यस्य प्रसक्तिः, न वा '''शप्श्यनोर्नित्यम्''' इत्यस्य |</big>
<big>अदादौ अस्-धातुः— सती, सत्यौ, सत्यः</big>
<big>जुहोत्यादिगणे* दा-धातुः— ददती, ददत्यौ, ददत्यः</big>
<big>स्वादौ चि-धातुः— चिन्वती, चिन्वत्यौ, चिन्वत्यः</big>
<big>तनादौ तन्-धातुः— तन्वती, तन्वत्यौ, तन्वत्यः</big>
<big>क्र्यादौ क्री-धातुः— क्रीणती, क्रीणत्यौ, क्रीणत्यः</big>
<big>रुधादौ रुध्-धातुः— रुन्धती, रुन्धत्यौ, रुन्धत्यः</big>
<big>*जुहोत्यादिगणे '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यनेन आकारस्य लोपः, अतः अङ्गं हलन्तम् अस्ति न तु अदन्तम् | ददा + अत् → दद् + अत् → ददत् | दद् इति अङ्गम्, अतः अत्रापि '''आच्छीनद्योर्नुम्''' इत्यस्य प्रसक्तिः नास्ति | अपि च अन्ततो गत्वा '''नाभ्यस्ताच्छतुः''' (७.१.७८) इत्यनेन अभ्यस्तसंज्ञकात् शतृ-प्रत्ययस्य नुम्-आगमो न भवति | अनुवृत्ति-सहितसूत्रम्— '''न अभ्यस्तात् अङ्गात् शतुः नुम्''' |</big>
<big>सर्वैः चिन्तनं समक्तया कर्तव्यं किमर्थं सूत्रदृष्ट्या स्त्रीत्व-विवक्षायां भ्वादौ, दिवादौ, चुरादौ च नुम्-आगमः नित्यः, तुदादौ, १४ अदादिगणस्थेषु आकारान्तधातुषु नुम्-आगमः वैकल्पिकः, अपि च अवशिष्टेषु षट्सु गणेषु नुम्-आगमस्य प्रसक्तिर्नास्ति |</big>
<big>इति शन्त्रन्तानां प्रातिपदिक-निर्माणम् समाप्तम् |</big>
[https://static.miraheze.org/samskritavyakaranamwiki/c/c9/%E0%A5%A6%E0%A5%A7_-_%E0%A4%B6%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A5%82%E0%A4%AA%E0%A4%BE%E0%A4%A3%E0%A4%BF_-_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%A6%E0%A4%BF%E0%A4%95-%E0%A4%A8%E0%A4%BF%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D%E2%80%8C.pdf ०१ - शत्रन्तरूपाणि - प्रातिपदिक-निर्माणम्.pdf] (67k) Swarup Bhai, Nov 16, 2019, 12:09 AM v.1
<big>Swarup – Sept 2014</big>
|