06A---sArvadhAtukaprakaraNaM-kRutsu/01---shatrantarUpANi---prAtipadika-nirmANam

Revision as of 11:08, 21 May 2021 by Bina Radia (talk | contribs)

06A---sArvadhAtukaprakaraNaM-kRutsu/01---shatrantarUpANi---prAtipadika-nirmANam

ध्वनिमुद्रणानि -

2019-वर्गः

१) shatrantarUpANi---prAtipadika-nirmANam--puMlinge_+_napuMsake_+_striilinge_2019-11-05

२) shatrantarUpANi---prAtipadika-nirmANam--striilinge_2019-11-12 


2014-वर्गः

१) shatrantarUpANi_-_prAtipadika-nirmANam_2014-09-17

२) shatrantarUpANi_-_prAtipadika-nirmANam_II_2014-09-24


शतृ‌-शानच्‌ इत्यनयोः अर्थः


शतृ‌-शानच्‌-प्रत्यययोरर्थः समानः— वर्तमानार्थः इति | वर्तमानः नाम प्रारब्धापरिसमाप्तत्वम्‌ | या क्रिया आरब्धा, न समाप्ता च, सा वर्तमाना | आरब्धा क्रिया यावत्‌ न समाप्ता च, तस्य कालः वर्तमानकालः | अस्मिन्‌ वर्तमानकालार्थे लटः स्थाने शतृ‌-शानच्‌-प्रत्ययौ भवतः |


लटः शतृशानचावप्रथमासमानाधिकरणे (३.२.१२४) = धातुतः लटः स्थाने शतृशानचौ आदेशौ वर्तमाने काले भवतः, अप्रथमान्तेन कर्त्रा सह सामानाधिकरण्यम्‌ अस्ति चेत् | शतृ च शानच् च, शतृ-शानचौ, इतरेतरद्वन्द्वः| न प्रथमा अप्रथमा | समानम्‌ अधिकरणं यस्य सः समानाधिकरणः | अप्रथमया समानाधिकरणं, अप्रथमासमानाधिकरणः, तृतीयातत्पुरुषः | तस्मिन्‌ अप्रथमासमानाधिकरणे | लटः षष्ठ्यन्तं, शतृशानचौ प्रथमान्तम्‌, अप्रथमासमानाधिकरणे सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | वर्तमाने लट्‌ (३.२.१२३) इत्यस्मात्‌ वर्तमाने इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), धातोः (३.१.९१), इत्यनयोः अधिकारः | अनुवृत्ति-सहितं सूत्रमेवम्‌— वर्तमाने धातोः लटः शतृशानचौ प्रत्ययौ अप्रथमासमानाधिकरणे |


भविष्यत्कालार्थे अपि शतृशानचोः प्रयोगः अर्हः | वदिष्यन्तं रामं पश्यतु— नाम रामः यः वदिष्यति, तं पश्यतु | पुरस्कारं लप्स्यमानं रामं पश्यतु— नाम रामः यः पुरस्कारं लप्स्यते, तं पश्यतु |


लृटः सद्वा (३.३.१४) = भविष्यत्काले विहितस्य लृटः स्थाने शतृशानचौ भवतः विकल्पेन |


शतृ-प्रत्ययः केवलं परस्मैपदिधातुभ्यः विहितः, अपि च कर्त्रर्थे एव | शानच्‌-प्रत्ययः कर्त्रर्थे केवलम्‌ आत्मनेपदिधातुभ्यः विहितः; कर्मण्यर्थे परस्मैपदिधातुभ्यः च आत्मनेपदिधातुभ्यः च विहितः भवति |


शत्रन्तानां निर्माणप्रक्रिया


शत्रन्तानां निर्माणार्थं समग्रदृष्ट्या कार्यद्वयं भवति (१) प्रातिपदिकनिर्माणम्‌; (२) सुबन्तनिर्माणम् इति | प्रथमतया प्रातिपदिकं निष्पादनीयम्‌, तदा सुबन्तपदम्‌ | प्रथमकार्यं सार्वधातुकप्रकरणे अन्तर्भूतम्‌; द्वितीयकार्यम्‌ अस्माकं कृते नूतनम्— सुबन्तप्रकरणम्‌ इति |


शत्रन्तस्य प्रातिपदिकम्‌


शत्रन्तस्य प्रातिपदिकनिर्माणं लघु-मार्गेण (shortcut पद्धत्या) कर्तुं शक्यते; पुनः शास्त्रीयरीत्या साधयितुं शक्यते | वस्तुतः लघुमार्गस्य आधारः शास्त्रीयरीतिः एव |


लघुमार्गः


कस्यापि परस्मैपदि-धातोः लट्‌-लकारस्य प्रथमपुरुषस्य बहुवचनान्तरूपं स्वीकरोतु | धातुः कस्मिन्‌ अपि धातुगणे भवतु | नवसु गणेषु "वदन्ति" इव भवति; नाम सिद्धः तिङ्‌-प्रत्ययः "अन्ति" | जुहोत्यादिगणे "ददति" इव भवति, नाम सिद्धः तिङ्‌-प्रत्ययः "अति" | अधुना सिद्धति‍ङ्‌-प्रत्ययं निष्कासयतु; तत्स्थाने शतृ-प्रत्ययस्य "अत्‌"‌ इति योजयतु— यत्‌ रूपं निष्पन्नं तदेव शत्रन्तप्रादिपदिकम्‌ |


भ्वादिगणे गच्छन्ति → गच्छत्‌

अदादिगणे सन्ति → सत्‌

जुहोत्यादिगणे ददति → ददत्‌

दिवादिगणे दीव्यन्ति → दीव्यत्‌

स्वादिगणे चिन्वन्ति → चिन्वत्‌

तुदादिगणे तुदन्ति → तुदत्‌

रुधादिगणे रुन्धन्ति → रुन्धत्‌

तनादिगणे कुर्वन्ति → कुर्वत्‌

क्र्यादिगणे क्रीणन्ति → क्रीणत्‌

चुरादिगणे चोरयन्ति → चोरयत्‌


शास्त्रीयरीतिः

गम्‌ऌँ + लट्‌ गतौ विवक्षायां गम्‌ऌँ इति धातुः | वर्तमानविवक्षायां वर्तमाने लट्‌ (३.२.१२३) |
गम्‌ऌँ + लट्‌ लटः शतृशानचावप्रथमासमानाधिकरणे (३.२.१२४) इत्यनेन लटः स्थाने शतृ
गम्‌ऌँ + शतृ‌ उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) इत्येभिः अनुबन्धलोपः
गम्‌ + अत्‌ तिङ्‌शित्सार्वधातुकम्‌ (३.४.११३) इत्यनेन शतृ-प्रत्ययः सार्वधातुकप्रत्ययः

कर्तरि शप्‌ (३.१.६८) इत्यनेन कर्त्रर्थे सार्वधातुकप्रत्यये परे धातोः शप्‌-प्रत्ययः भवति

गम्‌ + शप्‌ + अत्‌ इषुगमियमां छः (७.३.७७) इत्यनेन इष्‌, गम्‌, यम्‌ एषां छकारादेशो भवति शिति परे | हलन्त्यम्‌ (१.३.३) इत्यनेन अनुबन्धलोपः शप्‌ → अ
गछ्‌ + अ + अत्‌ छे च (६.१.७३) इत्यनेन छकारे परे संहितायां विषये ह्रस्वस्य तुगागमो भवति | स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन सकारस्य तवर्गीयस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | गछ्‌ → गत्‌छ्‌ → गच्छ्‌
गच्छ्‌ + अ + अत्‌ अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः
गच्छ्‌ + अत्‌ → गच्छत्‌ इति शत्रन्तप्रादिपदिकम्‌


अतो गुणे (६.१.९७) = अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं वृद्धिरेचि (६.१.८८), अकः सवर्णे दीर्घः (६.१.१०१) इत्यनयोः अपवादः | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | उस्यपदान्तात्‌ (६.१.९६) इत्यस्मात्‌ अपदान्तात्‌ अपि च एङि पररूपम्‌ (६.१.९४) इत्यस्मात्‌ पररूपम्‌ इत्यनयोः अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८४), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितं सूत्रम्‌— अपदान्तात्‌ अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्‌ |


धेयं यत्‌ शतृ-प्रत्यये शकार-ऋकारयोः इत्‌-सज्ञा लोपश्च | शकारः इत्‌ इत्यनेन शित्‌, अतः तिङ्‌-शित्सार्वधातुकम्‌ (३.४.११३) इत्यनेन अयं प्रत्ययः सार्वधातुकः | ऋकारः इत्‌ इत्यनेन उगित्‌ (उक्‌-प्रत्याहारे इत्‌-सज्ञा यस्य सः); अस्मात्‌ उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०) इत्यनेन नुम्‌-आगमः विहितः | अस्माच्च स्त्री-विवक्षायाम्‌ उगितश्च (४.१.६) इत्यनेन स्त्री-प्रत्ययः ङीप्‌ विहितः भवति |


अत्र प्रश्नः उदेति किमर्थं लघुमार्गः सर्वत्र कार्यं करोति; उत्तरं वर्तते यत्‌ तस्य पृष्ठतः शास्त्रीयविधिरस्ति एव |


सार्वधातुकप्रत्ययाः केवलं चतुर्विधाः— अजाद्यपित्‌, हलाद्यपित्‌, अजादि पित्‌, हलादि पित्‌ | तदनुगुणं सार्वधातुकप्रत्ययेषु कार्यं चतुर्विधम्‌ एव भवति | इदं तथ्यं मनसि निधाय यः पाणिनीयव्याकरणक्षेत्रे अग्रे सरति, तस्य कृते मार्गः सरल एव |


तिङन्तप्रसङ्गे एतत्‌ सर्वम्‌ अस्माभिः अवलोकितं प्रागेव | दृष्टान्तरीत्या पुनः स्मार्यते येन सर्वेभ्यः अतिस्पष्टं स्यात्‌—


हलादि पित्सु— (लटि) चिनु + ति → पित्सु गुणः अतः इकः गुणः (सार्वधातुकार्धधातुकयोः) → चिनो + ति → हलादिषु सन्धिकार्यं नास्ति → चिनोति

अजादि पित्सु— (लोटि) चिनु + आनि → पित्सु गुणः अतः इकः गुणः (सार्वधातुकार्धधातुकयोः) → चिनो + आनि → यान्तवान्तसन्धिः अव्‌-आदेशः → चिनवानि

हलाद्यपित्सु— (लटि) चिनु + तः → अपित्सु गुण-निषेधः (सार्वधातुकमपित्‌, क्क्ङिति च); हलादिषु सन्धिकार्यं नास्ति → चिनुतः

अजाद्यपित्सु— (लटि) चिनु + अन्ति → अपित्सु गुण-निषेधः; अजाद्यपित्सु यण्‌-सन्धिः (हुश्नुवोः सार्वधातुके इत्यनेन यण्‌-आदेशः) → चिन्‌ + व्‌ + अन्ति → चिन्वन्ति


एवं च सार्वधातुकप्रत्ययेषु कार्यं चतुर्विधम्‌ | तिङन्तप्रसङ्गे सर्वाणि चत्वारि प्राप्यन्ते यथा उपरि प्रदर्शितम्‌ | अधुना शत्रन्तप्रसङ्गे अयं सिद्धान्तः पुनः अन्वितः; किन्तु शत्रन्तप्रसङ्गे चतुर्षु कार्येषु एकविधमेव सञ्जायते— अजाद्यपित्सु यत्‌ क्रियते तत्‌ | अतः अत्र अस्माकं कृते सौलभ्यं विद्यते |


"अन्ति" इति सिद्धतिङ्‌-प्रत्ययः "अजादि अपित्‌ सार्वधातुकप्रत्ययः" अस्ति | नवसु गणेषु “अन्ति” इत्येव सिद्धतिङ्‌-प्रत्ययः भवति; जुहोत्यादिगणे "अति" अस्ति, सोऽपि तथा "अजादि अपित्‌ सार्वधातुकप्रत्ययः" | सर्वेषु गणेषु मूलप्रत्ययः "झि" इति स्मर्यताम्‌ | झि अपित्‌ च तिङ्‌ सन्‌ सार्वधातुकश्च, अतः अन्ति अजादि, अपित्‌, सार्वधातकः | अस्य अभिज्ञानम्‌ अत्यावश्यकम्‌ |


शतृ-प्रत्ययस्य सिद्धप्रत्ययः "अत्‌"; सोऽपि अजादि, अपित्‌, सार्वधातुकः | अतः यत्‌ कार्यम्‌ अन्ति/अति-प्रत्यययोः परे भवति, तदेव कार्यं अत्‌-प्रत्यये परेऽपि भवति— शतं प्रतिशतम्‌ |


आहत्य लट्‌-लकारस्य प्रथमपुरुषबहुवचने यत्‌ यत्‌ कार्यं भवति, तत्‌ सर्वं समानरीत्या भवति शतृ-प्रत्यये परे | अतः लघुमार्गः यदृच्छया कार्यं करोति इति न; पृष्ठतः शास्त्रीयतर्कस्तु अस्त्येव | “गच्छन्ति" इत्यस्य व्युत्पत्त्यर्थं यत्‌ यत्‌ कार्यं भवति, तदेव समानकार्यं भवति "गच्छत्‌" इत्यस्य व्युत्पत्त्यर्थम्‌ | अपि च अयम्‌ अन्वयः तिष्ठति सर्वेषां द्विसहस्रस्य धातूनां कृते |


स्वादिगणे "चिन्वन्ति" इति पश्येम | चिनु + अन्ति | अन्ति "अजादि अपित्‌ सार्वधातुकप्रत्ययः" अतः हुश्नुवोः सार्वधातुके इत्यनेन यण्‌-आदेशः उ → व्‌ | अधुना शत्रन्ते चिनु + अत्‌ इति स्थितौ अपि तदेव कार्यं यण्‌-आदेशः | चिनु + अत्‌ → उ-स्थाने व्‌ → चिन्वत्‌ इति शत्रन्तप्रादिपदिकम्‌ |


हुश्नुवोः सार्वधातुके (६.४.८७) = हु-धातोः अपि च श्नु-प्रत्ययान्तस्य असंयोगपूर्वस्य उकारस्य स्थाने यण्‌-आदेशः भवति (किति ङिति) अजादि-सार्वधातुकप्रत्यये परे |


तनादिगणे कुरु + अन्ति → कुर्वन्ति | अत्र इको यणचि इत्यनेन उ → व्‌ | कुरु + अत्‌ → कुर्वत्‌ इति स्थितौ अपि इको यणचि इत्यनेन उ → व्‌ भवति |


सारांशः एवं यत्‌ सर्वेषु दशसु गणेषु कार्यं समानं भवति लटि शतरि च | लट्‌-लकारस्य प्रथमपुरुषबहुवचने यत्‌ यत्‌ कार्यं भवति, तत्‌ सर्वं समानरीत्या भवति शतृ-प्रत्यये परे | कारणम्‌ अस्ति उभयत्र प्रत्ययः अजादि अपित्‌ सार्वधातुकः |


पुंलिङ्गे नपुंसके च


शत्रन्तप्रातिपदिकं तदेव "गच्छत्‌", “चिन्वत्‌", “कुर्वत्‌" इत्यादीनि रूपाणि | एकवारं यदा कृत्‌-प्रत्ययः धातुतः संयुक्तः, तदा कृत्तद्धितसमासाश्च (१.२.४६) इति सूत्रेण प्रातिपदिक-संज्ञा प्राप्ता |


दशसु गणेषु तथा— गच्छत्‌, सत्‌, ददत्‌, दीव्यत्‌, चिन्वत्‌, तुदत्‌, रुन्धत्‌, कुर्वत्‌, क्रीणत्‌, चोरयत्‌ | प्रातिपदिकस्य निर्माणे धातुगणम्‌ अनुसृत्य कार्यं भिद्यते विकरणप्रत्ययभेदात्‌ परन्तु अस्माकं लघुमार्गः समानः सर्वत्र, उपरि दृष्टं शास्त्रीयचिन्तनञ्च समानम्‌ | अग्रिमे पाठे गणम्‌ अनुसृत्य कार्यम्‌ अवलोकयिष्यते |