06A---sArvadhAtukaprakaraNaM-kRutsu/01---shatrantarUpANi---prAtipadika-nirmANam: Difference between revisions
06A---sArvadhAtukaprakaraNaM-kRutsu/01---shatrantarUpANi---prAtipadika-nirmANam (view source)
Revision as of 11:08, 21 May 2021
, 3 years agono edit summary
Bina Radia (talk | contribs) No edit summary |
Bina Radia (talk | contribs) No edit summary |
||
Line 137:
<big><u>अजाद्यपित्सु</u>— (लटि) चिनु + अन्ति → अपित्सु गुण-निषेधः; अजाद्यपित्सु यण्-सन्धिः ('''हुश्नुवोः सार्वधातुके''' इत्यनेन यण्-आदेशः) → चिन् + व् + अन्ति → चिन्वन्ति</big>
<big>एवं च सार्वधातुकप्रत्ययेषु कार्यं चतुर्विधम् | तिङन्तप्रसङ्गे सर्वाणि चत्वारि प्राप्यन्ते यथा उपरि प्रदर्शितम् | अधुना शत्रन्तप्रसङ्गे अयं सिद्धान्तः पुनः अन्वितः; किन्तु शत्रन्तप्रसङ्गे चतुर्षु कार्येषु एकविधमेव सञ्जायते— अजाद्यपित्सु यत् क्रियते तत् | अतः अत्र अस्माकं कृते सौलभ्यं विद्यते |</big>
<big>"अन्ति" इति सिद्धतिङ्-प्रत्ययः "अजादि अपित् सार्वधातुकप्रत्ययः" अस्ति | नवसु गणेषु “अन्ति” इत्येव सिद्धतिङ्-प्रत्ययः भवति; जुहोत्यादिगणे "अति" अस्ति, सोऽपि तथा "अजादि अपित् सार्वधातुकप्रत्ययः" | सर्वेषु गणेषु मूलप्रत्ययः "झि" इति स्मर्यताम् | झि अपित् च तिङ् सन् सार्वधातुकश्च, अतः अन्ति अजादि, अपित्, सार्वधातकः | अस्य अभिज्ञानम् अत्यावश्यकम् |</big>
<big>शतृ-प्रत्ययस्य सिद्धप्रत्ययः "अत्"; सोऽपि अजादि, अपित्, सार्वधातुकः | अतः यत् कार्यम् अन्ति/अति-प्रत्यययोः परे भवति, तदेव कार्यं अत्-प्रत्यये परेऽपि भवति— शतं प्रतिशतम् |</big>
<big>आहत्य लट्-लकारस्य प्रथमपुरुषबहुवचने यत् यत् कार्यं भवति, तत् सर्वं समानरीत्या भवति शतृ-प्रत्यये परे | अतः लघुमार्गः यदृच्छया कार्यं करोति इति न; पृष्ठतः शास्त्रीयतर्कस्तु अस्त्येव | “गच्छन्ति" इत्यस्य व्युत्पत्त्यर्थं यत् यत् कार्यं भवति, तदेव समानकार्यं भवति "गच्छत्" इत्यस्य व्युत्पत्त्यर्थम् | अपि च अयम् अन्वयः तिष्ठति सर्वेषां द्विसहस्रस्य धातूनां कृते |</big>
<big>स्वादिगणे "चिन्वन्ति" इति पश्येम | चिनु + अन्ति | अन्ति "अजादि अपित् सार्वधातुकप्रत्ययः" अतः '''हुश्नुवोः सार्वधातुके''' इत्यनेन यण्-आदेशः उ → व् | अधुना शत्रन्ते चिनु + अत् इति स्थितौ अपि तदेव कार्यं यण्-आदेशः | चिनु + अत् → उ-स्थाने व् → चिन्वत् इति शत्रन्तप्रादिपदिकम् |</big>
<big>'''हुश्नुवोः सार्वधातुके''' (६.४.८७) = हु-धातोः अपि च श्नु-प्रत्ययान्तस्य असंयोगपूर्वस्य उकारस्य स्थाने यण्-आदेशः भवति (किति ङिति) अजादि-सार्वधातुकप्रत्यये परे |</big>
<big>तनादिगणे कुरु + अन्ति → कुर्वन्ति | अत्र '''इको यणचि''' इत्यनेन उ → व् | कुरु + अत् → कुर्वत् इति स्थितौ अपि '''इको यणचि''' इत्यनेन उ → व् भवति |</big>
<big>सारांशः एवं यत् सर्वेषु दशसु गणेषु कार्यं समानं भवति लटि शतरि च | लट्-लकारस्य प्रथमपुरुषबहुवचने यत् यत् कार्यं भवति, तत् सर्वं समानरीत्या भवति शतृ-प्रत्यये परे | कारणम् अस्ति उभयत्र प्रत्ययः अजादि अपित् सार्वधातुकः |</big>
<u><big>पुंलिङ्गे नपुंसके च</big></u>
शत्रन्तप्रातिपदिकं तदेव "गच्छत्", “चिन्वत्", “कुर्वत्" इत्यादीनि रूपाणि | एकवारं यदा कृत्-प्रत्ययः धातुतः संयुक्तः, तदा '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण प्रातिपदिक-संज्ञा प्राप्ता |
दशसु गणेषु तथा— गच्छत्, सत्, ददत्, दीव्यत्, चिन्वत्, तुदत्, रुन्धत्, कुर्वत्, क्रीणत्, चोरयत् | प्रातिपदिकस्य निर्माणे धातुगणम् अनुसृत्य कार्यं भिद्यते विकरणप्रत्ययभेदात् परन्तु अस्माकं लघुमार्गः समानः सर्वत्र, उपरि दृष्टं शास्त्रीयचिन्तनञ्च समानम् | अग्रिमे पाठे गणम् अनुसृत्य कार्यम् अवलोकयिष्यते |
|