07A---ArdhadhAtuka-kRut-pratyayAH/01---Nvul-tRuc-lyuT

Revision as of 02:34, 10 May 2021 by Mythili (talk | contribs) (Removed Underline for some text)

07A---ArdhadhAtuka-kRut-pratyayAH/01---Nvul-tRuc-lyuT

ण्वुल्‌, तृच्‌, ल्युट्‌ एते त्रयः प्रत्ययाः धातुभ्यः विहिताः अपि च तिङ्‌-भिन्नाः, अतः कृत्‌-प्रत्ययाः इत्युच्यन्ते | तिङ्‌शित्सार्वधातुकम्‌ (३.४.११३) इत्यनेन यः प्रत्ययः धातुतः विहितः अपि च तिङ्‌ शित्‌ वा, सः सार्वधातुकम् | आर्धधातुकं शेषः (३.४.११४) इत्यनेन अवशिष्टाः प्रत्ययाः ये धातुभ्यः विहिताः, तिङ्‌-शित्‌-भिन्नाः, ते सर्वे आर्धधातुकाः | ण्वुल्‌, तृच्‌, ल्युट्‌ एते त्रयः प्रत्ययाः धातुभ्यः विहिताः, न तिङ्‌ न वा शित्, अतः त्रयोऽपि आर्धधातुकप्रत्ययाः |



ण्वुल्‌, तृच्‌, ल्युट्‌ यतः आर्धधातुकप्रत्ययाः, अतः गणीया चर्चा नितरां नापेक्षिता | धातुः कस्मिन्‌ अपि गणे भवतु नाम, तस्य अत्र कृदन्तस्य गणेन सह न कोऽपि सम्बन्धः | धातुः “कस्मिन्‌ गणे" इति प्रश्नस्तु नैव उदेति | अपि तु आर्धधातुकप्रत्यये सति अयमेव प्रश्नः— इडागमः भवति न वा इति |


इड्‌व्यवस्था


इट्‌— नाम "इ" इति आगमः — कुत्रचित्‌ धातु-प्रत्यययोः मध्ये आयाति | सामान्यनियमः अयं यत्‌ धातुः अपि सेट्‌ (स-इट्‌), प्रत्ययः अपि सेट्‌ चेदेव इडागमो भवति | द्वयोर्मध्ये एकोऽपि अनिट्‌ (अन्‌-इट्‌), तर्हि इडागमो नैव विहितः | द्वयमपि सेट्‌ चेदपि कुत्रचित्‌ अपवादत्वेन न भवति; परन्तु द्वयोर्मध्ये एकः अनिट्‌ चेत्‌ इडागमो नैव भवति | ण्वुल्‌ ल्युट्‌ च अनिटौ; तृच्‌ सेट्‌ | अतः ण्वुल्‌ ल्युट्‌ वा धातुतः परे चेत्‌, नैव इडागमः | तृच्‌ सेट्‌ अस्ति, अतः धातुः अपि सेट्‌ चेत्‌, इडागमः सम्भवति (भवति इति सामान्यनियमः, परन्तु अपवादाः सन्ति) |



A. ण्वुल्‌


ण्वुल्‌-प्रत्ययः सर्वेभ्यः धातुभ्यः विहितः | अनेन प्रत्ययेन यः शब्दः निष्पन्नः, सः कर्त्रर्थकः, त्रिषु लिङ्गेषु च भवति | ण्वुल्‌ अनिट्‌, अतः अत्र इडागमो नैव भवति | "कर्त्रर्थे भवति" इत्युक्ते यः तत्‌ कार्यं करोति, सः— यः नयति सः नायकः, यः गायति सः गायकः, इत्यादिकम्‌ |


अयं प्रत्ययः णित्‌ (ण्‌ इत्‌ यस्य सः) अतः यत्‌ कर्यं भवति णित्सु, तत्‌ अत्रापि भवेत्‌ | यथा णिच्‌ प्रत्यये यत्‌ अङ्गकार्यं भवति, तदत्रापि | नाम ण्वुल्‌ णित्‌, अतः अचो ञ्णितिअत उपधायाः चेत्याभ्याम्‌ अङ्गकार्यं ण्वुल्‌-प्रत्यये परे भवति | ण्वुल्‌-प्रत्ययः आर्धधातुकः अपि अस्ति, अतः यत्‌ सामान्यम्‌ अङ्गकार्यं भवति आर्धधातुक-प्रत्ययानाम्‌, तत्‌ कार्यम्‌ अपि भवति अत्र | नाम धातौ लघु-इकः गुणः भवति पुगन्तलघूपधस्य च इति सूत्रेण |



ण्वुल्तृचौ (३.१.१३३, लघु० ७८४) = धातुतः ण्वुल्‌ तृच्‌ च विहितौ | कर्तरि कृत्‌ (३.४.६७) इत्यनेन कर्त्रर्थे एतौ प्रत्ययौ भवतः | ण्वुल्‌ च तृच्‌ च तयोरितरेतरद्वन्द्वः ण्वुल्तृचौ | ण्वुल्तृचौ प्रथमान्तम्‌ एकं पदमिदं सूत्रम्‌ | धातोः, प्रत्ययः, परश्च इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहित-सूत्रम्— धातोः ण्वुल्तृचौ प्रत्ययौ परौ |


युवोरनाकौ (७.१.१, लघु० ७८५) = अङ्गात्‌ परं यु, वु इत्यनयोः स्थाने क्रमशः अन च अक च आदेशौ भवतः | युश्च वुश्च तयोः समाहारद्वन्द्वः युवुः, तस्य युवोः युवोः षष्ठ्यन्तं, अनाकौ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अङ्गस्य इत्यस्य अधिकारः, अत्र पञ्चमीविभक्तौ | अनुवृत्ति-सहित-सूत्रम्— अङ्गात्‌ युवोः अनाकौ |


ण्वुल्‌ → चुटू इत्यनेन णकारस्य इत्‌-संज्ञा, हलन्त्यम्‌ इत्यनेन लकारस्य इत्‌-संज्ञा, तस्य लोपः इत्यनेन णकारलकारयोः लोपः → वु अवशिष्यते | वु-स्थाने अक आदेशो भवति |


1. अजन्तधातुः अस्ति चेत्‌, एकं कार्यम्—



a. अचो ञ्णिति (७.२.११५, लघु० १८२) = अङ्गम्‌ अजन्तं चेत्‌, अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | ञ्‌ च ण्‌ च ञ्णौ, ञ्णौ इतौ यस्य तत्‌ ञ्णित्‌, तस्मिन्‌ ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | मृजेर्वृद्धिः (७.२.११४) इत्यस्मात्‌ वृद्धिः इत्यस अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— अङ्गस्य अचः वृद्धिः ञ्णिति | अलोऽन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः |


कृ + ण्वुल्‌ → अनुबन्धलोपे → कृ + वु → युवोरनाकौ इत्यनेन अकादेशः → कृ + अक → अचो ञ्णिति इत्यनेन अजन्ताङ्गस्य अन्तिमस्य अचः वृद्धिः → कार्‍ + अक → वर्णमेलने → कारक | पुंसि कारकः, स्त्रियां कारिका, नपुंसके कारकम्‌ |


तथैव—

तॄ + ण्वुल्‌ → तारक

नी + ण्वुल्‌ → धात्वन्ते अचः वृद्धिः, वु-स्थाने अक-आदेशः → नै + अक → एचोऽयवायावः इत्यनेन आय्‌-आदेशः → नाय्‌ + अक → नायक |


धेयं यत्‌ यद्यपि अत्र अजन्तधातूनां प्रसङ्गे सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिरस्ति (गुणकार्यम्‌), परन्तु तत्‌ सूत्रं प्रबाध्य अचो ञ्णिति इत्यनेन वृद्धिः भवति | अचो ञ्णिति, सार्वधातुकार्धधातुकयोः इत्यस्य अपवादभूतसूत्रं यतः अत्र सार्वधातुकार्धधातुकयोः कार्यं करोति चेत्‌, अचो ञ्णिति निरवकाशं भविष्यति |


2. हलन्तधातुः अस्ति चेत्‌, मार्गद्वयं वर्तते | उपधायां ह्रस्व-अकारः चेत्‌, अत उपधायाः | उपधायां लघुः इक्‌ चेत्‌, पुगन्तलघूपधस्य च |



a. अत उपधायाः (७.२.११६, लघु० ४५५) = उपधायां अतः वृद्धिः ञिति णिति प्रत्यये परे | अतः षष्ठ्यन्तं, उपधायाः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | उपधायां ह्रस्व-अकारस्य वृद्धिः भवति (ञिति णिति च प्रत्यये परे); नाम ह्रस्व-अकारस्य स्थाने आकारादेशः | मृजेर्वृद्धिः (७.२.११४) इत्यस्मात्‌ वृद्धिः इत्यस अनुवृत्तिः; अचो ञ्णिति (७.२.११५) इत्यस्मात्‌ ञ्णिति इत्यस अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति | उपधा नाम अन्तिमवर्णात्‌ पूर्वं यः वर्णः, सः |


वद्‌ + ण्वुल्‌ → अनुबन्धलोपे → वद्‌ + वु → युवोरनाकौ इत्यनेन अकादेशः → वद्‌ + अक → अत उपधायाः इत्यनेन उपधायां ह्रस्व-अकारस्य वृद्धिः → वाद्‌ + अक → वादक | पुंसि वादकः, स्त्रियां वादिका, नपुंसके वादिकम्‌ |


b. पुगन्तलघूपधस्य च (७.३.८६, लघु० ४५१) = सार्वधातुकप्रत्यये परे, आर्धधतुकप्रत्यये परे च अङ्गस्य उपधायां लघु-इकः गुणः (अपि च पुगन्ताङ्गस्य इकः गुणः) | णिच्‌ आर्धधातुकप्रत्ययः अतः प्रसक्तिरस्ति | पुक्‌ अन्ते यस्य तत्‌ पुगन्त्म्‌, लघ्वी उपधा यस्य तत्‌ लघूपधम्‌, पुगन्तञ्च लघूपधञ्च तयोः समाहारद्वन्द्वःः पुगन्तल्घूपधम्‌, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णतया अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | यत्र गुणादेशः वा वृद्ध्यादेशः वा भवति अपि च कस्य स्थाने नोक्तं, तत्र नियमः अस्ति यत्‌ इकः स्थाने इति भवति | अनुवृत्ति-सहित-सूत्रम्— पुगन्तस्य लघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |


लिख्‌ + ण्वुल्‌ → अनुबन्धलोपे → लिख्‌ + वु → युवोरनाकौ इत्यनेन अकादेशः → लिख्‌ + अक → पुगन्तलघूपधस्य च इत्यनेन उपधायां लघु-इकः गुणः → लेख्‌ + अक → वर्णमेलने → लेखक | पुंसि लेखकः, स्त्रियां लेखिका, नपुंसके लेखकम्‌ |


विशिष्टं कार्यम्‌



१. आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | उपदेशे इत्यनेन औपदेशिकधातूनामेव प्रसक्तिः, न तु आतिदेशिकधातूनाम्‌ | उपदेशावस्थायाम्‌, अशिति प्रत्यये परे, एजन्तधातूनाम्‌ अन्त्यस्य एचः स्थाने आत्वादेशः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच्‌ इत्यनेन 'ए, ऐ, ओ, औ' | श्‌ इत्‌ यस्य स शित्‌, न शित्‌ अशित्‌, तस्मिन्‌ (विषये) अशिति, नञ्तत्पुरुषः | आत्‌ प्रथमान्तम्‌, एचः षष्ठ्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अशिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— एचः धातोः आत्‌ उपदेशे अशिति |


आतो युक्‌ चिण्कृतोः (७.३.३३, लघु ७५७) = आदन्तानां युगागमः स्यात्‌ चिणि ञ्णिति कृति च | चिण्‌ वा ञित्‌-णित्‌ कृत्‌ प्रत्ययेषु परेषु, आकारान्तानां धातूनां युक्‌-आगमो भवति | चिण्‌ च कृत्‌ च तयोरितरेतरद्वन्द्वः चिण्कृतौ, तयोः चिण्कृतोः | आतः षष्ठ्यन्तं, युक्‌ प्रथमान्तं, चिण्कृतोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | अचो ञ्णिति इत्यस्मात्‌ ञ्णिति इत्यस्य अनुवृत्तिः | अङ्गस्य इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— अङ्गस्य आतः युक्‌ चिण्कृतोः ञ्णिति |


गै + ण्वुल्‌ → अनुबन्धलोपे → गै + वु → युवोरनाकौ इत्यनेन अकादेशः → गै + अक → आदेच उपदेशेऽशिति इत्यनेन एजन्तस्य आत्त्वम्‌ → गा + अक → आतो युक्‌ चिण्कृतोः इत्यनेन णिति परे युगागमः → गा + य्‌ + अक → गायक


एवमेव—

ध्यै → ध्या → ध्यायकः

पै पाने → पा → पायकः


२. पाठकः इत्युक्ते यः पठति, अथवा यः पाठयति ?


उत्तरं-- द्वयमपि | किमर्थम्‌ ?


पठ्‌ + ण्वुल्‌ = पाठकः

पठ्‌ + णिच्‌ + ण्वुल्‌ = पाठकः


अत उपधायाः (७.२.११६) इत्यनेन सूत्रेण हलन्ताङ्गस्य उपधायाः अकारस्य स्थाने ञिति णिति च प्रत्यये वृद्धिः भवति | नाम अङ्गं हलन्तम्‌ अस्ति चेत्‌, तस्य अङ्गस्य उपधायाम्‌ अकारः अस्ति चेत्‌, परस्य प्रत्ययस्य इतसंज्ञकः ञकारः णकारः वा, तर्हि अङ्गस्य उपधायां स्थितस्य अकारस्य स्थाने आकारः भवति |


पठ्‌ धातुः हलन्तधातुः | उपधायाम्‌ अकारः अस्ति | ण्वुल्‌ प्रत्ययः णित्‌ (णकारः इत्‌ यस्य सः) अस्ति | तस्यां दशायां पठ्‌-धातौ स्थितस्य अकारस्य स्थाने आकरः भवति |



पठ्‌ + ण्वुल्‌ → पठ्‌ + वु → पठ्‌ + अक (वु स्थाने अक, युवोरनाकौ इत्यनेन सूत्रेण) → पाठ्‍ + अक (अत उपधायाः इत्यनेन सूत्रेण) → पाठकः



पठ्‌ + णिच्‌ → पाठ्‌ + णिच्‌ (अत उपधायाः इत्यनेन सूत्रेण) → पाठ्‌ + इ (अनुबन्धलोपः) → पाठि + ण्वुल्‌ → पाठ्‌ + ण्वुल्‌ (णिच्‌ सम्बद्धस्य इकारस्य लोपः णेरनिटि इत्यनेन सूत्रेण (६.४.५१, लघु० ५२९)) → पाठ्‌ + वु → पाठ्‌ + अक (वु स्थाने अक, युवोरनाकौ इत्यनेन सूत्रेण) → पाठकः



णेरनिटि (६.४.५१, लघु० ५२९) = अनिडादौ आर्धधातुके परे णेर्लोपः स्यात्‌ | इत्युक्तौ आर्धधातुकप्रत्ययः, यस्य आदौ इडागमः नास्ति, परे अस्ति चेत्‌, तर्हि पूर्वं स्थितस्य णेः (णिच्‌-प्रत्ययस्य) लोपो भवति | णेः षष्ठ्यन्तम्‌, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अतो लोपः इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | आर्धधातुके इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमिदम्‌— अनिटि आर्धधातुके णेः लोपः |


B. तृच्



तृच्‌-प्रत्ययः सर्वेभ्यः धातुभ्यः विहितः | अनेन प्रत्ययेन यः शब्दः निष्पन्नः, सः कर्त्रर्थकः, त्रिषु लिङ्गेषु च भवति | तृच्‌ सेट्‌, अतः धातुः अपि सेट्‌ चेत्‌ इडागमो भवति इति सामान्यनियमः; कुत्रचित्‌ अपवादाः सन्ति |



तृच्‌-प्रत्ययः न णित्‌ न वा ञित्‌ | अतः अचो ञ्णिति इत्यस्यापि प्रसक्तिर्नास्ति, अत उपधायाः इत्यस्यापि प्रसक्तिर्नास्ति | परन्तु तृच्‌-प्रत्ययः धातुभ्यः विहिताः, न तिङ्‌ न वा शित्, अतः आर्धधातुकः | तर्हि अत्र सार्वधातुकार्धधातुकयोःपुगन्तलघूपधस्य च चेत्यनयोः प्रसक्तिः |


ण्वुल्तृचौ (३.१.१३३, लघु० ७८४) = धातुतः ण्वुल्‌ तृच्‌ च विहितौ | कर्तरि कृत्‌ (३.४.६७) इत्यनेन कर्त्रर्थे एतौ प्रत्ययौ भवतः | ण्वुल्‌ च तृच्‌ च तयोरितरेतरद्वन्द्वः ण्वुल्तृचौ | ण्वुल्तृचौ प्रथमान्तम्‌ एकं पदमिदं सूत्रम्‌ | धातोः, प्रत्ययः, परश्च इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहित-सूत्रम्— धातोः ण्वुल्तृचौ प्रत्ययौ परौ |


तृच्‌ → हलन्त्यम्‌ इत्यनेन चकारस्य इत्‌-संज्ञा, तस्य लोपः इत्यनेन तस्य लोपः → तृ अवशिष्यते |


1. अजन्तधातुः अस्ति चेत्‌, एकं कार्यम्—



a. सार्वधातुकार्धधातुकयोः (७.३.८४, लघु० ३८८) = सार्वधातुके आर्धधातुके च प्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्‌, एकपदमिदं सूत्रम्‌ | मिदेर्गुणः इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य इत्यस्य अधिकारः | इको गुणवृद्धी इत्यस्मात्‌ परिभाषा-सूत्रात्‌ इकः आयाति यत्र स्थानी नोक्तम्‌ | अलोऽन्त्यस्य इत्यनेन अन्तिमस्य इक्‌-वर्णस्य गुणः | अनुवृत्ति-सहित-सूत्रमिदम्‌— अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |


कृ‌ + तृच्‌ → अनुबन्धलोपे → कृ + तृ → सार्वधातुकार्धधातुकयोः इत्यनेन इगन्ताङ्गस्य इकः गुणः → कर्‍ + तृ → वर्णमेलने → कर्तृ (प्रथमाविभक्तौ पुंसि कर्ता, स्त्रियां कर्त्री, नपुंसके कर्तृ)


एवमेव—

नी + तृच्‌ → नी + तृ‌ → ने + तृ → नेतृ (नेता)

हृ (हरति) + तृच्‌ → हर्तृ (हर्ता)

गम्‌ + तृच्‌ → गन्ता

हन्‌ + तृच्‌ → हन्ता

दा + तृच्‌ → दाता

ज्ञा + तृच्‌ → ज्ञाता

क्री + तृच्‌ → क्रेता


अत्र कुत्रचित्‌ इडागमो भवति—

शी (शेते) → शयिता

डी (डयते) → डयिता

वृ (वृणोति) → वरिता


2. हलन्तधातुः चेत्‌, उपधायां लघु-इक्‌ अस्ति चेदव कार्यं भवति—



a. पुगन्तलघूपधस्य च (७.३.८६, लघु० ४५१) = सार्वधातुकप्रत्यये परे, आर्धधतुकप्रत्यये परे च अङ्गस्य उपधायां लघु-इकः गुणः |


भुज्‌ + तृच्‌ → अनुबन्धलोपे → भुज्‌ + तृ → पुगन्तलघूपधस्य च इत्यनेन अङ्गस्य उपधायां लघु-इकः गुणः → भोज्‌ + तृ → सन्धिकार्यम्‌ → भोक्तृ (भोका)


अत्र कुत्रचित्‌ इडागमो भवति—

लिख्‌ + तृच्‌ → लिख्‌ + तृ → पुगन्तलघूपधस्य च → लेख्‌ + तृ → इडागमः → लेखितृ (लेखिता)


लघु-इक्‌ नास्ति चेत्‌ गुणकार्यं नास्ति—

पठ्‌ + तृच्‌ → पठिता

रच्‌ + तृच्‌ → रचयितृ (रचयिता)


C. ल्युट्‌



ल्युट्‌-प्रत्ययः सर्वेभ्यः धातुभ्यः विहितः | अनेन प्रत्ययेन यः शब्दः निष्पन्नः, सः नित्यं नपुंसकलिङ्गकः | ल्युट्‌ अनिट्‌, अतः अत्र इडागमो नैव भवति |



ल्युट्‌-प्रत्ययः न णित्‌ न वा ञित्‌ | अतः अचो ञ्णिति इत्यस्यापि प्रसक्तिर्नास्ति, अत उपधायाः इत्यस्यापि प्रसक्तिर्नास्ति | परन्तु ल्युट्‌-प्रत्ययः धातुभ्यः विहिताः, न तिङ्‌ न वा शित्, अतः आर्धधातुकः | तर्हि अत्र सार्वधातुकार्धधातुकयोःपुगन्तलघूपधस्य च चेत्यनयोः प्रसक्तिः |


युवोरनाकौ (७.१.१, लघु० ७८५) = अङ्गात्‌ परं यु, वु इत्यनयोः स्थाने क्रमशः अन च अक च आदेशौ भवतः | अनुवृत्ति-सहित-सूत्रम्— अङ्गात्‌ युवोः अनाकौ |


ल्युट्‌ → लशक्वतद्धिते इत्यनेन लकारस्य इत्‌-संज्ञा, हलन्त्यम्‌ इत्यनेन टकारस्य इत्‌-संज्ञा, तस्य लोपः इत्यनेन लकारटकारयोः लोपः → यु अवशिष्यते | यु-स्थाने अन आदेशो भवति |


1. अजन्तधातुः अस्ति चेत्‌, एकं कार्यम्—



a. सार्वधातुकार्धधातुकयोः (७.३.८४, लघु० ३८८) = सार्वधातुके आर्धधातुके च प्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्‌, एकपदमिदं सूत्रम्‌ | मिदेर्गुणः इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य इत्यस्य अधिकारः | इको गुणवृद्धी इत्यस्मात्‌ परिभाषा-सूत्रात्‌ इकः आयाति यत्र स्थानी नोक्तम्‌ | अलोऽन्त्यस्य इत्यनेन अन्तिमस्य इक्‌-वर्णस्य गुणः | अनुवृत्ति-सहित-सूत्रमिदम्‌—अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |


कृ + ल्युट्‌ → अनुबन्धलोपे → कृ + यु → युवोरनाकौ इत्यनेन यु-स्थाने अन आदेशः → कृ + अन → सार्वधातुकार्धधातुकयोः इत्यनेन इगन्ताङ्गस्य इकः गुणः → कर्‍ + अन → वर्णमेलने + णत्वम्‌ → करण (करणम्‌)


एवमेव—

नी + ल्युट्‌ → नी + अन → सार्वधातुकार्धधातुकयोः → ने + अन → एचोऽयवायावः → नय्‌ + अन → नयन (नयनम्‌)


भू + ल्युट्‌ → भू + अन → सार्वधातुकार्धधातुकयोः → भो + अन → एचोऽयवायावः → भव् + अन → भवन (भवनम्‌)


2. हलन्तधातुः चेत्‌, उपधायां लघु-इक्‌ अस्ति चेदव कार्यं भवति—



a. पुगन्तलघूपधस्य च (७.३.८६, लघु० ४५१) = सार्वधातुकप्रत्यये परे, आर्धधतुकप्रत्यये परे च अङ्गस्य उपधायां लघु-इकः गुणः |


लिख्‌ + ल्युट्‌ → लिख्‌ + अन → पुगन्तलघूपधस्य च इत्यनेन उपधायां लघु-इकः गुणः → लेख्‌ + अन → लेखन (लेखनम्‌)


एवमेव—

बुध्‌ + ल्युट्‌ → बोधन (बोधनम्‌)

कृष्‌ + ल्युट्‌ → कर्षण (कर्षणम्‌)

पठ्‌ + ल्युट्‌ → पठन (पठनम्‌)


Swarup – August 2014



---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup [<dinbandhu@sprynet.com>].