07A---ArdhadhAtuka-kRut-pratyayAH/01---Nvul-tRuc-lyuT

Revision as of 20:45, 8 May 2021 by NIthya Venkatesh (talk | contribs) (9/5/)

07A---ArdhadhAtuka-kRut-pratyayAH/01---Nvul-tRuc-lyuT

01 - ण्वुल्‌, तृच्‌, ल्युट्‌

ण्वुल्‌, तृच्‌, ल्युट्‌ एते त्रयः प्रत्ययाः धातुभ्यः विहिताः अपि च तिङ्‌-भिन्नाः, अतः कृत्‌-प्रत्ययाः इत्युच्यन्ते | तिङ्‌शित्सार्वधातुकम्‌ (३.४.११३) इत्यनेन यः प्रत्ययः धातुतः विहितः अपि च तिङ्‌ शित्‌ वा, सः सार्वधातुकम् | आर्धधातुकं शेषः (३.४.११४) इत्यनेन अवशिष्टाः प्रत्ययाः ये धातुभ्यः विहिताः, तिङ्‌-शित्‌-भिन्नाः, ते सर्वे आर्धधातुकाः | ण्वुल्‌, तृच्‌, ल्युट्‌ एते त्रयः प्रत्ययाः धातुभ्यः विहिताः, न तिङ्‌ न वा शित्, अतः त्रयोऽपि आर्धधातुकप्रत्ययाः |

ण्वुल्‌, तृच्‌, ल्युट्‌ यतः आर्धधातुकप्रत्ययाः, अतः गणीया चर्चा नितरां नापेक्षिता | धातुः कस्मिन्‌ अपि गणे भवतु नाम, तस्य अत्र कृदन्तस्य गणेन सह न कोऽपि सम्बन्धः | धातुः “कस्मिन्‌ गणे" इति प्रश्नस्तु नैव उदेति | अपि तु आर्धधातुकप्रत्यये सति अयमेव प्रश्नः— इडागमः भवति न वा इति | इड्‌व्यवस्था