10---nyAyashAstram/05---visheShaNaM-visheShyam: Difference between revisions

Fixed spacing
(Added audio and line spacing)
(Fixed spacing)
Line 28:
 
<big><u>पाठः</u></big>
 
 
<big>"सुन्दरः बालकः गच्छति" इति वाक्ये किं पदं विशेषणं, किञ्च विशेष्यम्‌ ?</big>
 
<big>इति चेत्‌, 'सुन्दरः' विशेषणं, 'बालकः' विशेष्यम्‌ इति सामान्यतया वदामः |</big>
 
 
<big>अधुना, कश्चन घटः भूतले अस्ति; तदर्थं "भूतलं घटवत्‌" इति उच्यते | अत्र किं पदं विशेषणम्‌ ? सामान्यतया घटवत्‌ विशेषणम्‌ इति वदामः | तत्र विद्याधरी इति ग्रन्थे लिखितम्‌ अस्ति यत्‌ "भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणम्‌" (p. 34) | तर्हि किं "भूतलं घटवत्‌" इति वाक्ये घटवत्‌ अपि विशेषणं, घटः अपि विशेषणम्‌ ?</big>
 
<big>अस्य समाधानार्थं वत्त्वम्‌ इति विषये चर्चा अपेक्षिता |</big>
 
 
<big>भूतलं, घटः, घटत्वम्‌ | भूतले कश्चन घटः अस्ति; घटे घटत्वम्‌ अस्ति | एवञ्च स्तरत्रयं वर्तते—</big>
Line 50 ⟶ 53:
 
<big>उपरिस्तरे—                    घटत्वम्</big>
 
 
<big>मध्यमस्तरे—     घटत्ववान्‌      घटः      घटवत्त्वम्‌</big>
Line 57 ⟶ 61:
<u><br />
<big>विशेषणस्य कार्यं किम्‌ ?</big></u>
 
 
<big>विशेषणं विशेष्यम्‌ अन्येभ्यः वस्तुभ्यः पृथक्‌ करोति |</big>
 
<big>उन्नतः वृक्षः |</big>
 
 
<big>उन्नत-शब्दः विशेषणं विचिन्त्य विवक्षितं वृक्षम्‌ अन्येभ्यः वृक्षेभ्यः पृथक्‌ करोति, इति सामान्यम्‌ अवगमनम्‌ |</big>
Line 66 ⟶ 72:
<u><br />
<big>विशेषण-विशेष्ययोः अर्थः</big></u>
 
 
<big>विशेषण-विशेष्यम्‌ इति शब्दद्वयम्‌ अपि अर्थ-सम्बद्धं, न तु शब्द-सम्बद्धम्‌ | अयं सिद्धान्तः मुख्यः |</big>
 
 
<big>विशेष्यः पदार्थः न तु पदम् | तर्हि पदं किम्‌ ? विशेष्यवाचकम्‌ | यथा वृक्षः इति विशेष्यं कदापि पदं न भवति | वृक्षः ''विशेष्यः'' | वृक्षः लोके जीवित-वस्तु यत्‌, सः पदार्थः वृक्षः | सः लोके यः प्राणी वृक्षः, स एव विशेष्यः | अतः '''<nowiki/>'वृक्ष'-शब्दः ''विशेष्य-वाचकः''''' | न तु स्वयं विशेष्यम्‌ |</big>
 
 
 
Line 79 ⟶ 88:
 
<big>'''ऋहलोर्ण्यत्‌''' (३.१.१२४) = ऋवर्णान्तेभ्यः हलन्तेभ्यः च धातुभ्यः कर्मण्यर्थे ण्यत्‌-प्रत्ययो भवति | णकारतकारयोः इत्‌-संज्ञा, 'य' अवशिष्यते |</big>
 
 
<big>ण्यत्‌ णित्‌ | णित्त्वात्‌ द्वे कार्ये—</big>
 
 
 
<big>'''अचो ञ्णिति''' (७.२.११५) इत्यनेन अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः ञिति णिति प्रत्यये परे | कृ + य → कार्यम्‌ | हृ‍ + य → हार्यम्‌ | धृ + य → धार्यम्‌ |</big>
 
 
<big>'''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे | वच्‌ + य → वाक्यम्‌ | पच्‌ + य → पाक्यम्‌ |</big>
 
<big>ण्यत्‌ आर्धधातुक-प्रत्ययः | आर्धधातुकत्वात्‌ एकं कार्यम्‌—</big>
 
 
<big>'''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन लघूपधस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | छिद्‌ + य → छेद्यम्‌ | शिष्‌ + य → शेष्यम्‌ |</big>
Line 107 ⟶ 120:
 
<big><u>गुण-वाचक-शब्दाः त्रिविधाः</u> (ये गुण-विषये वदन्ति)</big>
 
 
<big>१) केवलं गुण-वाचकाः | शक्तिः, श्रद्धा, बलं, धैर्यं, श्रमः, भयम्‌ | गुणम्‌ एव वदन्ति |</big>
Line 113 ⟶ 127:
 
<big>३) गुणवाचकाः अपि भवन्ति, गुणिवाचकाः अपि भवन्ति | शुक्लः, नीलः, रक्तः, मधुरः, आम्लः, कटुः |</big>
 
 
<big>१) केवलं गुण-वाचकशब्दाः | एभिः शब्दैः गुण-विषये एव सूचना प्राप्यते | गुणस्य आश्रयस्य विषये न काऽपि सूचना | 'शक्तिः'— अनेन शब्देन केवलं शक्तिः इति गुणः उच्यते | इयं शक्तिः कुत्र अस्ति, कस्य अस्ति, कस्मिन्‌ अस्ति— शक्ति-शब्देन एतादृशी न काऽपि सूचना लभ्यते |</big>
 
<big>२) केवलं गुणि-वाचकशब्दाः | एषां विषये बहूनां भ्रमो भवति यतोहि एकदृष्ट्या गुणिवाचकाः एव; अपरया दृष्ट्या 'केवलं गुणिवाचकाः' इति वक्तुं न शक्नुमः |</big>
 
 
<big>यथा उन्नत-शब्दः | उन्नतः इत्युक्तौ औन्नत्य-गुण-विशिष्टः | औन्नत्य-गुणः यस्मिन्‌ अस्ति, तादृशः कश्चन | सुन्दरः इत्युक्तौ सौन्दर्यं यस्मिन्‌ अस्ति, तादृशः कश्चन |</big>
Line 127 ⟶ 143:
 
<big>प्रश्नः— द्विवारं वदनस्य का आवश्यकता ? "'''गुण'''-विशिष्ट-'''गुणि'''वाचकः" | गुणी इत्युक्ते यस्मिन्‌ सः गुणः अस्ति एव; तर्हि पुनः 'गुण-विशिष्ट' इत्यनेन को लाभः ?</big>
 
 
<big>उत्तरम्‌— वस्तुतः न अपेक्षितम्‌ | किन्तु स्पष्टतार्थम्‌ उच्यते, तावदेव | “गुणी" इत्यनेन 'गुण-विशिष्ट' इत्येव अर्थः; “गुणः अस्मिन्‌ अस्ति" इत्येव गुणी | कश्चन गुणः अस्ति; तादृशगुणेन विशिष्टम्‌ एकं पदार्थं बोधयति | तथापि भ्रमस्य दूरीकरणे महान्‌ लाभः | कथम्‌ इति अग्रे वक्ष्यते |</big>
 
 
 
<big>३) गुणवाचकाः अपि, गुणिवाचकाः अपि | एते शब्दाः गुणवाचकत्वेन अपि प्रयुज्यन्ते, गुणिवाचकत्वेन अपि प्रयुज्यन्ते | यथा शुक्लः, कृष्णः, नीलः इति शब्दाः |</big>
 
 
<big>शुक्लः गुणवाचकः इत्युक्ते "white color” इति वक्तव्यं चेत्‌, 'शुक्लः' | अस्मिन्‌ अर्थे पुंलिङ्गे एव प्रयोक्तव्यम्‌ |</big>
 
<big>शुक्लवर्णेन युक्तः कश्चन इति चेत्‌ गुणिवाचकः | अस्मिन्‌ अर्थे त्रिषु लिङ्गेषु | श्क्लः घटः, शुक्ला शाटिका, श्क्लं पुष्पम्‌ |</big>
 
 
<big>रसवाचकशब्दाः अपि तथा | लवणः, आम्लः, मधुरः, कटुः, तिक्तः, कषायः |</big>
Line 147 ⟶ 167:
<u><br />
<big>अर्थस्य परिवर्तनार्थम्‌</big></u>
 
 
<big>१) केवलं गुणवाचक-शब्दः → मतुबर्थक-प्रत्ययस्य संयोजनेन → गुणिवाचक-शब्दः निष्पन्नः |</big>
Line 192 ⟶ 213:
 
 
<big>अनेन पीतः, पीतत्वं च इत्येतौ द्वौ गुणवाचकशब्दौ समानौ</big>
 
<big>तथैव पीतं वस्त्रं, पीतवत्‌ वस्त्रं | पीतं, पीतवत्‌ च इत्येतौ द्वौ गुणिवाचकशब्दौ समानौ |</big>
Line 267 ⟶ 289:
 
<big><u>विशेषणानां विशेषणवाचकपदानि</u></big>
 
 
<big>बालके विद्यमान-औन्नत्यस्य विशेषणवाचकपदं उन्नतः | बालके विद्यमान-धनस्य विशेषणवाचकपदं धनवान्‌ | बालके विद्यमान-लेखन-क्रियायाः विशेषणवाचकपदं लेखनक्रियावान्‌ | बालके विद्यमान-घटाभावस्य विशेषणवाचकपदं घटाभाववान्‌ | बालके विद्यमान-बालकत्वस्य विशेषणवाचकपदं बालकः एव |</big>
 
 
 
Line 319 ⟶ 343:
<u><br />
<big>लोके प्रयोगः भिन्नः</big></u>
 
 
<big>लोके प्रयोगः भिन्नः किमर्थम्‌ इति चेत्‌, तत्र उन्नत-शब्देन, कस्य बोधः इत्युक्ते औन्नत्यरूपगुणस्य बोधः भवति इत्यतः लोके उन्नत-शब्दः विशेषणम्‌ इति एव तत्र प्रयोगः भवति | किन्तु प्रयोगसमये वस्तुस्थितिः बुद्धिमता अवगम्येत यत्‌ उन्नतशब्दः विशेषणवाचकः न तु विशेषणम्‌ |</big>
Line 327 ⟶ 352:
 
<big>वृक्षः = विशेष्यवाचकः</big>
 
 
<big>यल्लिङ्गं यद्वचनं या च विभक्तिर्विशेष्यस्य</big>
 
<big>तल्लिङ्गं तद्वचनं सा च विभक्तिर्विशेषणस्यापि |</big>
 
 
<big>अनेन 'विशेष्यवाचकस्य' ... 'विशेषणवाचकस्यापि' इति येषां भाषा किञ्चित्‌ प्रगता, तैः अवगम्येत | सौकर्यार्थं प्रारम्भिकस्तरीयवर्गेषु अस्य श्लोकस्य पाठनेन न दोषः | किन्तु ये इतो‍ऽपि अधीतवन्तः, तैरपि तथा बुध्यते चेत्‌‍, दोष एव | श्लोकस्य उच्चारणसमये, जवनिकायाः पृष्ठतः वस्तुस्थितिः का इति अस्माभिः अवश्यं ज्ञेयम्‌ |</big>
 
 
 
 
<big><u>तद्वाचकः शब्दः</u></big>
 
 
<big>"उन्नतः वृक्षः" इति वाक्ये वृक्षस्य विशेषणद्वयम्‌ इत्युक्तम्‌ | औन्नत्यम्‌ इति एकं विशेषणं, वृक्षत्वम्‌ इति अपरं विशेषणम्‌ | औन्नत्यम्‌ इति विशेषणं केन पदेन बोध्यते ? तद्वाचकः शब्दः कः ? तद्वाचकः शब्दः उन्नतः इति एव | उन्नत-पदेन एव औन्नत्यं बोध्यते | तर्हि वृक्षत्वम्‌ इति यत्‌ विशेषणं, तद्वाचकः शब्दः कः ? तद्वाचकः शब्दः वृक्षः इति शब्दः एव | तत्‌ कथम्‌ इति चेत्‌, वृक्षः इति शब्देन पदार्थत्रयं बोध्यते | प्रथमः वृक्षः इति जीवः | द्वितीयः वृक्षत्वम्‌ इति वृक्षे विद्यमाना जातिः | (कुत्रचित् 'धर्मः' इति एव वक्तव्यं भवति; अत्र स च धर्मः जातिः एव |) तृतीयः वृक्ष-वृक्षत्वयोः मध्ये विद्यमानः सम्बन्धः | अत्र समवायसम्बन्धः | इति एते त्रयः अंशाः वृक्षशब्देन बोध्यन्ते |</big>
 
<big>एवं सर्वैः अपि पदैः एते त्रयः अर्थाः बोध्यन्ते | यथा अत्र वृक्ष-शब्देन "वृक्षत्व-विशिष्ट-वृक्षः" इति अर्थः | नाम वृक्षत्व-सम्बन्धः यत्र अस्ति, तादृशः पदार्थः | इत्युक्तौ वृक्षत्वं, वृक्षः, तयोर्मध्ये विद्यमानः सम्बन्धः | एते त्रयः पदार्थाः ज्ञायन्ते |</big>
 
 
<big>अतः उन्नतवृक्षः इति कथनेन वृक्षस्य इदानीं विशेषणद्वयं भवति— उन्नतत्वं, वृक्षत्वं च | उन्नतत्ववाचकशब्दः उन्नतः इति शब्दः | वृक्षत्ववाचकशब्दः वृक्षः इत्येव शब्दः | एषा व्यवस्था भवति |</big>
 
 
 
 
<big><u>धनं, धनवत्त्वं च</u></big>
 
 
<big>अधुना धनवत्त्वं, धनम्‌ | धनवान्‌ इति शब्दः अस्ति | यथा वृक्ष-शब्दस्य विशेषणं किम्‌ ? वृक्षत्वम्‌ | वृक्ष-शब्दस्य वदनेन वृक्षपदार्थः, वृक्षत्वं, तयोः सम्बन्धः च एतत्‌ सर्वं पदार्थत्रयं ज्ञायते | अधुना धनवान्‌ इति शब्दः अस्ति इति चिन्तयतु | धनम्‌ इति शब्देन धनवान्‌ इति शब्दः निष्पन्नः; धनम्‌ अस्मिन्‌ अस्ति धनवान्‌ इति | धनवान्‌ कः ? कश्चन पुरुषः | धनवान्‌ इति शब्देन अपि पदार्थत्रयं बोध्यते | किम्‌ इति चेत्‌, प्रथमः पदार्थः धनवान्‌ एव, नाम धनं यस्य/यस्मिन्‌ अस्ति सः | तस्मिन्‌ पुरुषे विशेषणत्वेन यत् अस्ति, सोऽपि पदार्थः बोध्यते; सः पदार्थः कः ? धनम्‌ एव | वृक्षविषये अस्माभिः विशेषणं वृक्षत्वम्‌ इति स्वीकृतम्‌ | अत्र धनवान्‌ यः अस्ति, तस्मिन्‌ विद्यमानः धर्मः कः इत्युक्ते, अन्यत्‌ किमपि अस्माभिः स्वीकरणीयं नास्ति | धनवान्‌ यः अस्ति, तस्मिन्‌ विद्यमानं विशेषणं धनम्‌ एव | धनवति विद्यमानः धर्मः इत्युक्तौ धनम्‌ एव | कथनस्य आशयः एवं यत्‌ धनम्‌ अपि कश्चन 'धर्मः' भवति | तर्हि धनवान्‌ इति शब्देन के त्रयः पदार्थाः बोध्यन्ते इत्युक्ते धनं, धनं यस्मिन्‌ अस्ति तादृशपुरुषः, तयोर्मध्ये विद्यमानः संयोगसम्बन्धः | एते त्रयः अंशाः ज्ञायन्ते |</big>
 
<big>एतदपि वक्तव्यम्‌ अस्ति, धनवान्‌ इति शब्दः गुणिवाचकः उन्नत-शब्दः इव | अतः यथा उन्नतः इत्यस्य कथनेन वृक्षः इत्यस्य साक्षात्‌ बोधः न भवति | नाम कस्मिन्‌ उन्नतत्वम्‌ अस्ति इति न ज्ञायते यावत्‌ वृक्षः इति शब्दः न उच्येत; तावत्‌ एव ज्ञायते यत्‌ कश्चन अस्ति यस्मिन्‌ उन्नतत्वम्‌ इति गुणः विद्यमानः | धनवान्‌ अपि तथा— धनं कस्मिन्‌ अस्ति, पुरुषे, बालके, राष्ट्रपतौ, अभियन्तरि, तन्न ज्ञायते | केवलं धनयुक्तः कश्चन अस्ति, इत्येतावदेव ज्ञायते | सः कः इति वक्तव्यं चेत्‌, अग्रे अन्यत्‌ पदं प्रयोक्तव्यम्‌ | “धनवान्‌ बालकः" इति वक्तव्यम्‌ |</big>
 
 
<big>किन्तु धनवान्‌ इति शब्देन धनम्‌ अस्ति इति ज्ञायते, धनयुक्तः कश्चन अस्ति इत्यपि ज्ञायते, तयोर्मध्ये संयोगसम्बन्धः अस्ति इत्यपि ज्ञायते | धनवान्‌ इति शब्देन एते त्रयः पदार्थाः ज्ञायन्ते |</big>
 
<big>धनवत्त्वम्‌ | अत्र कथं व्यवस्था इति उच्यते | धनवान्‌ इति शब्दात्‌ त्व-प्रत्ययः संयोजितः, तेन धनवत्त्वम्‌ इति पदं सञ्जातम्‌ | त्व-प्रत्ययः भावप्रत्ययः; भावार्थे विद्यमानः प्रत्ययः | वस्तुतः भावः इत्यस्य अर्थः कः इति चेत्‌, “तस्मिन्‌ विद्यमानः धर्मः" | इदानीं वृक्षः इति शब्दः अस्ति | वृक्षस्य भावः वृक्षत्वम्‌ | 'वृक्षस्य भावः' इत्यस्य अर्थः कः ? इति चेत्‌, "वृक्षे विद्यमानः कश्चन धर्मः" | अतः त्वप्रत्ययं योजयामश्चेत्‌ वृक्ष-शब्दात्‌, तेन किं भवति ? वृक्षे विद्यमानः धर्मः बोध्यते | तत्र एक एव धर्मः, वृक्षत्वम्‌ | एवमेव, यः कोऽपि शब्दः भवतु— शुक्लः इति अस्ति | शुक्लः इति गुणवाचकशब्दः इति स्वीक्रियताम्‌ | तत्र शुक्लत्वम्‌ इति धर्मः अस्ति, आङ्ग्लाभाषायां 'whiteness' | तर्हि शुक्ल-शब्दात्‌ भावार्थे त्व-प्रत्ययं योजयामः चेत्‌, तस्य अर्थः कः भवति ? “शुक्लः इति गुणः, तस्मिन्‌ विद्यमानः धर्मः" इति | तर्हि शुक्लत्वम्‌ इत्युक्ते “शुक्ले विद्यमानः धर्मः" | मनुष्ये विद्यमानः धर्मः मनुष्यत्वम्‌ |</big>
 
 
<big>इदानीं धनवत्त्वम्‌ | धनवान्‌ इति शब्दात्‌ त्व-प्रत्ययं संयोजयामः | पूर्वं यत्र यत्र उदाहरणं दर्शितं, तत्र यथा नियमः, तथैव नियमः अत्रापि स्वीकर्तव्यः | धनवान्‌ + त्व → धनवत्त्वम्‌ | अनेन धनवत्त्वम्‌ इत्यस्य कः अर्थः ? धनवान्‌ यः अस्ति, तस्मिन्‌ विद्यमानः धर्मः | सः धर्मः कः इत्युक्ते धनम्‌ एव | तदेव अस्माभिः पूर्वं स्वीकृतम्‌ | धनवति विशेषणरूपेण विद्यमानः धर्मः, अत्र धनमेव | अतः अत्र निष्कर्षः कः इति चेत्‌, धनवत्त्वम्‌ इत्युक्तौ धनम्‌ इति सिद्धम्‌ |</big>
 
<big>अत्र धने धनवत्त्वस्य पर्यवसानं कृतम्‌ | नाम धनवत्त्व-शब्दस्य उच्चारणेन तर्कस्य पङ्क्तिः धनम्‌ एव अधिगच्छति | पर्यवसानं नाम तत्स्वरूपम्‌ | धनं पार्थिवद्रव्यं यस्य स्पर्शो भवति; धनवत्त्वम्‌ अपि तथा | धने धनवत्त्वस्य पर्यवसानं, तत्स्वरूपं कृतम्‌ इत्युक्तौ धनवत्त्वम्‌ अन्यत्र कुत्रापि न भवितुम्‌ अर्हति; धनवत्त्वम्‌ इति धनम्‌ एव |</big>
 
 
<big>अधुना एतत्‌ सर्वम्‌ उक्तं; वस्तुतः न्यायशास्त्रे अत्र पक्षद्वयम्‌ अस्ति | द्वाभ्याम्‌ अपि पक्षाभ्याम्‌ अस्माकं लक्षणकार्यं सिध्यति | एकस्मिन्‌ पक्षे धनवत्त्वम्‌ इत्युक्तौ धनमेव | अपरस्मिन्‌ पक्षे धनवत्त्वम्‌ इत्युक्ते धनाधिकरणत्वम्‌ | धनस्य अधिकरणं, तस्मिन्‌ अधिकरणे विद्यमानः धर्मः धनाधिकरणत्वम्‌ | धनवत्त्वं धनमेव इति चेत्‌, धनवत्त्वं संयोगसम्बन्धेन धनवति अस्ति | धनवत्त्वं धनाधिकरणत्वम्‌ इति चेत्‌, स्वरूपसम्बन्धेन धनवति अस्ति |</big>
Line 369 ⟶ 404:
 
- - - - - - -
 
 
<big><u>परिशिष्टम्‌</u></big>
Line 409 ⟶ 445:
 
<big>किन्तु अग्रे, गन्धः समवायसम्बन्धेन पृथिव्यां, शैत्यं समवायसम्बन्धेन जले | उभयत्र समवायसम्बन्धः; अपि च तर्कसङ्ग्रहग्रन्थे उच्यते यत्‌ समवायः इति पदार्थः एक एव | एक एव इति चेत्‌, गन्धः शैत्यं च यद्यपि भिन्नं, किन्तु गन्धः च शैत्यं च समानसमवायसम्बन्धेन स्वस्य आधारे युक्तम्‌ | अत्र समस्या व्युत्पन्ना | समवायसम्बन्धः सर्वत्र समानः इति चेत्‌, यत्र द्वे वस्तू समवायसम्बन्धेन युक्ते, कथं वा सम्बन्धभेदात्‌ भिद्येत ? अत्र प्राचीननैयायिकैः उच्यते यत्‌ यथा अकाशः एक एव, तथापि उपाधिभेदात्‌ नाम देशभेदात्‌ भिन्नः (उत्तरस्यां दिशि, दक्षिणस्यां दिशि), तथैव अत्र गन्धयुक्तसमवायः, शैत्ययुक्तसमवायः इत्यनेन भेदः साध्यते | किन्तु अन्ते तावत्‌ सन्तोषजनकं नासीत्‌ इति भाति यतोहि नव्यनैयायिकैः समवायः एक एव इति सिद्धान्तः त्यक्तः |</big>
 
 
<big>अग्रे विशेषः | विशेषः विशेषणं भवति वा ? भवति आं, किन्तु केवलं परमाणोः, अपि च केवलं ज्ञानसन्दर्भे | को‍पि न जानाति चेत्‌ विशेषणत्वं नास्ति, अपि च परमाणुः इति विषयो नासित चेत्, विशेषस्य प्रसङ्गः नास्ति |</big>
 
 
 
Line 421 ⟶ 459:
 
<nowiki>---------------------------------</nowiki>
 
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
teachers
746

edits